बृहत्संहिता/अध्यायः १०६
← अध्यायः १०५ | बृहत्संहिता अध्यायः १०६ वराहमिहिरः |
१०६ शास्त्रानुक्रमणी ।।
शास्त्रौपनयः पूर्वं सांवत्सरसूत्रं अर्कचारश्च ।
शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ।। १०६.०१ ।।
चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च ।
नक्षत्राणां व्यूहो ग्रहभक्तिर्ग्रहविमर्दश्च ।। १०६.०२ ।।
ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च ।
शृङ्गाटसंस्थितानां मेघानां गर्भलक्षणं चएव ।। १०६.०३ ।।
धारणवर्षणरोहिणिवायव्यऽषाढभद्रपद[क्.भाद्रपद]योगाः ।
क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ।। १०६.०४ ।।
भूकम्पौल्कापरिवेषलक्षणं शक्रचापखपुरं च ।
प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ।। १०६.०५ ।।
इन्द्रध्वजनीराजनखञ्जनकौत्पातवर्हि[क्.बर्हि]चित्रं च ।
पुष्याभिषेकपट्टप्रमाणं असिलक्षणं वास्तु ।। १०६.०६ ।।
उदक्[क्.उदग्]आर्गलं आरामिकं अमरालयलक्षणं कुलिशलेपः ।
प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ।। १०६.०७ ।।
चिह्नं गवां अथ शुनां कुक्कुटकूर्माजपुरुषचिह्नं च ।
पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ।। १०६.०८ ।।
चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च ।
कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ।। १०६.०९ ।।
वज्रपरीक्षा मौक्तिकलक्षणं अथ पद्मरागमरकतयोः ।
दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ।। १०६.१० ।।
अन्तरचक्रं विरुतं श्वचेष्टितं विरुतं अथ शिवायाश्च ।।
चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ।। १०६.११ ।।
पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः ।
*गोचरं अथ[क्.गोचरस्तथा] ग्रहाणां कथितो नक्षत्रपुरुषश्च ।। १०६.१२ ।।
शतं इदं अध्यायानां अनुपरिपाटिक्रमादनुक्रान्तम् ।
अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि ।। १०६.१३ ।।
अत्रएवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् ।
। बह्वाश्चर्यं जातकं उक्तं करणं च बहुचोद्यम् ।। १०६.१४ ।।