← अध्यायः २९ बृहत्संहिता
अध्यायः ३०
वराहमिहिरः
अध्यायः ३१ →

३० सन्ध्यालक्षणाध्यायः ।।

 अर्धास्तमितानुदितात्सूर्यादस्पष्टभं नभो यावत् ।
 तावत्सन्ध्याकालश्चिह्नैरेतैः फलं चास्मिन् ।। ३०.०१ ।।

 मृग*शकुनि[क्.शकुन]पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः ।
 गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च ।। ३०.०२ ।।

 भैरवं उच्चैर्विरुवन्मृगो +असकृद्ग्रामघातं आचष्टे ।
 रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ।। ३०.०३ ।।

 अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते ।
 मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ।। ३०.०४ ।।

 दीप्तमृगाण्डजविरुता प्राक्सन्ध्या देशनाशं आख्याति ।
 दक्षिणदिक्स्थैर्विरुता ग्रहणाय पुरस्य दीप्तास्यैः ।। ३०.०५ ।।

 गृहतरुतोरणमथने सपांशुलोष्टौत्करे +अनिले प्रबले ।
 भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ।। ३०.०६ ।।

 मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा ।
 मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या ।। ३०.०७ ।।

 सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः ।
 सुरपतिचापाइरावतरविकिरणाश्चाशु वृष्टिकरः ।। ३०.०८ ।।

 विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः ।
 तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ।। ३०.०९ ।।

 उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः ।
 किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ।। ३०.१० ।।

 शुक्लाः करा दिनकृतो दिवऽदिमध्यान्तगामिनः स्निग्धाः ।
 अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते *त्व्[क्.ह्य्] अमोघाख्याः ।। ३०.११ ।।

 कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः ।
 त्रिदिवानुबन्धिनो +अवृष्टये +अल्पभयदास्तु सप्ताहात् ।। ३०.१२ ।।

 ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद्व्यसनम् ।
 हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम् ।। ३०.१३ ।।

 माञ्जिष्टाभाः शस्त्राग्निसम्भ्रमं बभ्रवः पवनवृष्टिम् ।
 भस्मसदृशास्त्ववृष्टिं तनुभावं शबलकल्माषाः ।। ३०.१४ ।।

बन्धूकपुष्पाञ्जनचूर्णसन्निभं
सान्ध्यं रजो +अभ्येति यदा दिवाकरम् ।
लोकास्तदा रोगशतैर्निपीड्यते
शुक्लं रजो लोकविवृद्धिशान्तये ।। ३०.१५ ।।

 रविकिरणजलदमरुतां सङ्घातो दण्डवत्स्थितो दण्डः ।
 स विदिक्स्थितो नृपाणां अशुभो दिक्षु *द्विजादीनाम्[क्ऽस्त्र्. द्विजातीनाम्] ।। ३०.१६ ।।

 शस्त्रभयऽतङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य ।
 शुक्लाद्यो विप्रादीन्यदभिमुखस्तां निहन्ति दिशम् ।। ३०.१७ ।।

 दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगो +अभ्रतरुः ।
 पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।। ३०.१८ ।।

 अनुलोमगे +अभ्रवृक्षे शमं गते यायिनो नृपस्य बधः ।
 बालतरुप्रतिरूपिणि युवराजामात्ययोर्मृत्युः ।। ३०.१९ ।।

 कुवलयवैदूर्याम्बुजकिञ्जल्काभा प्रभञ्जनौन्मुक्ता ।
 सन्ध्या करोति वृष्टिं रविकिरणौद्भासिता सद्यः ।। ३०.२० ।।

 अशुभऽकृतिघनगन्धर्वनगरनीहार*धूमपांशुयुता[क्.पांशुधूमयुता] ।
 प्रावृषि करोत्यवग्रहं अन्यर्तौ शस्त्रकोपकरी ।। ३०.२१ ।।

 शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः ।
 प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिरन्या ।। ३०.२२ ।।

 आयुधभृन्नररूपं छिन्नाभ्रं परभयाय रविगामि ।
 सितखपुरे +अर्कऽक्रान्ते पुरलाभो भेदने नाशः ।। ३०.२३ ।।

सितसितान्तघनऽवरणं रवेर्
भवति वृष्टिकरं यदि सव्यतः ।
यदि च वीरणगुल्मनिभैर्घनैर्
दिवसभर्तुरदीप्तदिगुद्भवैः ।। ३०.२४ ।।

 नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकृत् ।
 कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ।। ३०.२५ ।।

उभयपार्श्वगतौ परिधी रवेः
प्रचुरतोय*करौ[क्.कृतौ] वपुषाअन्वितौ ।
अथ समस्तककुप्परिचारिणः
परिधयो +अस्ति कणो +अपि न वारिणः ।। ३०.२६ ।।

 ध्वजऽतपत्रपर्वतद्विपाश्वरूपधारिणः ।
 जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ।। ३०.२७ ।।

 पलालधूमसञ्चयस्थितौपमा बलाहकाः ।
 बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ।। ३०.२८ ।।

 विलम्बिनो द्रुमौपमाः खरारुणप्रकाशिनः ।
 घनाः शिवाय सन्ध्ययोः पुरौपमाः शुभावहाः ।। ३०.२९ ।।

 दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघऽदियुता च ।
 प्रत्यहं अर्कविकारयुता वा देशनरेशसुभिक्षबधाय ।। ३०.३० ।।

प्राची तत्क्षणं एव नक्तं अपरा सन्ध्या त्र्यहाद्वा फलं
सप्ताहात्परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत् ।
तद्वत्सूर्यकरैन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलास्
तस्मिन्नेव दिने +अष्टमे +अथ विहगाः सप्ताहपाका मृगाः ।। ३०.३१ ।।

एकं दीप्त्या योजनं भाति सन्ध्या
विद्युद्भासा षट्प्रकाशीकरोति ।
पञ्चाब्दानां गर्जितं याति शब्दो
नास्तीयत्ता *के चिद्[क्.का चिद्] उल्कानिपाते ।। ३०.३२ ।।

प्रत्यर्कसंज्ञः परिधिस्तु तस्य
त्रियोजनाभः[क्.त्रियोजना भा] परिघस्य पञ्च ।
षट्पञ्चदृश्यं परिवेषचक्रं
दशामरेशस्य धनुर्विभाति ।। ३०.३३ ।।