← अध्यायः ४१ बृहत्संहिता
अध्यायः ४२
वराहमिहिरः
अध्यायः ४३ →

४२ इन्द्रध्वजसम्पदध्यायः ।।

 ब्रह्माणं ऊचुरमरा भगवन्शक्ताः स्म नासुरान्समरे ।
 प्रतियोधयितुं अतस्त्वां शरण्यशरणं समुपयाताः ।। ४२.०१ ।।

 देवानुवाच भगवान्क्षीरोदे केशवः स वः केतुम् ।
 यं दास्यति तं दृष्ट्वा नऽजौ स्थास्यन्ति वो दैत्याः ।। ४२.०२ ।।

 लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सैन्द्राः ।
 श्रीवत्साङ्कं कौस्तुभमणिकिरनौद्भासितौरस्कम् ।। ४२.०३ ।।

 श्रीपतिं अचिन्त्यं असमं *समं ततः[क्.समन्ततः] सर्वदेहिनां सूक्ष्मम् ।
 परमात्मानं अनादिं विष्णुं अविज्ञातपर्यन्तम् ।। ४२.०४ ।।

 तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम् ।
 ध्वजं असुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ।। ४२.०५ ।।

 तं विष्णुतेजोभवं अष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे ।
 देदीप्यमानं शरदिइव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ।। ४२.०६ ।।

 स किङ्किणीजाल*परिष्कृतेन[क्.परिस्कृतेन] स्रक्छत्रघण्टापिटकाअन्वितेन ।
 समुच्छ्रितेनामरराड्ध्वजेन निन्ये विनाशं समरे +अरिसैन्यम् ।। ४२.०७ ।।

 उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम् ।
 यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयां आस ।। ४२.०८ ।।

 प्रीतो महेन *मघवा[क्.मघवान्] प्राहएवं ये नृपाः करिष्यन्ति ।
 वसुवद्वसुमन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति ।। ४२.०९ ।।

 मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः ।
 ध्वजएव चाभिधास्यति जगति निमित्तैः फलं सदसत् ।। ४२.१० ।।

 पूजा तस्य नरेन्द्रैर्बलवृद्धिजयार्थिभिर्यथा पूर्वम् ।
 शक्राज्ञया प्रयुक्ता तां आगमतः प्रवक्ष्यामि ।। ४२.११ ।।

 तस्य विधानं शुभकरणदिवसनक्षत्रमङ्गलमुहूर्तैः ।
 प्रास्थानिकैर्वनं इयाद्दैवज्ञः सूत्रधारश्च ।। ४२.१२ ।।

 उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।
 कुब्जऊर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ।। ४२.१३ ।।

 बहुविहगालयकोटरपवनानलपीडिताश्च ये तरवः ।
 ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ।। ४२.१४ ।।

 श्रेष्ठो +अर्जुनो *+अजकर्णः[क्.अश्वकमः] प्रियकधवौदुम्बराश्च पञ्चैते ।
 एतेषां *एकतमं[क्.अन्यतमं] प्रशस्तं अथ वाअपरं वृक्षम् ।। ४२.१५ ।।

 गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम् ।
 विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ।। ४२.१६ ।।

 यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमो +अस्तु वः ।
 उपहारं गृहीत्वाइमं क्रियतां वासपर्ययः ।। ४२.१७ ।।

 पार्थिवस्त्वां वरयते स्वस्ति ते +अस्तु नगोत्तम ।
 ध्वजार्थं देवराजस्य पूजाइयं प्रतिगृह्यताम् ।। ४२.१८ ।।

 छिन्द्यात्प्रभातसमये वृक्षं उदक्प्राङ्मुखो +अपि वा भूत्वा ।
 परशोर्जर्जरशब्दो नैष्टः स्निग्धो घनश्च हितः ।। ४२.१९ ।।

 नृपजयदं अविध्वंस्तं पतनं अनाकुञ्चितं च पूर्वोदक् ।
 अविलग्नं चान्यतरौ विपरीतं अतस्त्यजेत्पतितम् ।। ४२.२० ।।

 छित्त्वाग्रे चतुरङ्गुलं अष्टौ मूले जले क्षिपेद्यष्टिम् ।
 उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा ।। ४२.२१ ।।

 अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः ।
 अर्थक्षयो +अक्षभङ्गे तथाअणिभङ्गे च वर्द्धकिनः ।। ४२.२२ ।।

 भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा ।
 दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः ।। ४२.२३ ।।

 अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः ।
 स्रग्गन्धधूपयुक्तां प्रवेशयेत्शङ्खतूर्यरवैः ।। ४२.२४ ।।

 रुचिरपताकातोरणवनमालाअलङ्कृतं प्रहृष्टजनम् ।
 सम्मार्जितार्चितपथं सुवेषगणिकाजनऽकीर्णम् ।। ४२.२५ ।।

 अभ्यर्चितऽपणगृहं प्रभूतपुण्याहवेदनिर्घोषम् ।
 नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ।। ४२.२६ ।।

 तत्र पताकाः श्वेता *भवन्ति विजयाय[क्.विजयाय भवन्ति] रोगदाः पीताः ।
 जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ।। ४२.२७ ।।

 यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः ।
 बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ।। ४२.२८ ।।

 सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे ।
 जागरं एकादश्यां नरेश्वरः कारयेच्चास्याम् ।। ४२.२९ ।।

 सितवस्त्रौष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः ।
 जुहुयादग्निं साम्वत्सरो निमित्तानि गृह्णीयात् ।। ४२.३० ।।

 इष्टद्रव्यऽकारः सुरभिः स्निग्धो घनो +अनलो +अर्चिष्मान् ।
 शुभकृदतो +अन्यो *+अनिष्टो[क्.नेष्टो] यात्रायां विस्तरो +अभिहितः ।। ४२.३१ ।।

स्वाहावसानसमये स्वयं उज्ज्वलार्चिः
स्निग्धः प्रदक्षिणशिखो हुतभुग्नृपस्य ।
गङ्गादिवाकरसुताजलचारुहारां
धात्रीं *समुद्ररशनां[क्.समुद्ररसनां] वशगां करोति ।। ४२.३२ ।।

चामीकराशोककुरण्टकाब्ज
वैदूर्यनीलोत्पलसन्निभे +अग्नौ ।
न ध्वान्तं अन्तर्भवने +अवकाशं
करोति रत्नांशुहतं नृपस्य ।। ४२.३३ ।।

येषां रथौघार्णवमेघदन्तिनां
समस्वनो +अग्निर्यदि वाअपि दुन्दुभेः ।
तेषां मदान्धैभघटावघट्टिता
भवन्ति याने तिमिरौपमा दिशः ।। ४२.३४ ।।

 ध्वजकुम्भहयैभभूभृतां अनुरूपे वशं एति भूभृताम् ।
 उदयास्तधराधरा +अधरा हिमवद्विन्ध्यपयोधरा धरा ।। ४२.३५ ।।

 द्विरदमदमहीसरोजलाजा[क्.लाजैः]घृतमधुना च हुताशने सगन्धे ।
 प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य ।। ४२.३६ ।।

 उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः ।
 तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ।। ४२.३७ ।।

 गुडपूपपायसऽद्यैर्विप्रानभ्यर्च्य दक्षिणाभिश्च ।
 श्रवणेन द्वादश्यां उत्थाप्यो +अन्यत्र वा श्रवणात् ।। ४२.३८ ।।

 शक्रकुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तज्ज्ञैः ।
 नन्दौपनन्दसंज्ञे *पादऊनार्धे ध्वजौच्छ्रायात्[क्.पादेनार्धेन चोच्छ्रायात्] ।। ४२.३९ ।।

 षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये ।
 अधिका शक्रजनित्री मध्ये +अष्टांशेन चएतासाम् ।। ४२.४० ।।

 प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः ।
 तानि क्रमेण दद्यात्पिटकानि विचित्ररूपाणि ।। ४२.४१ ।।

 रक्ताशोकनिकाशं *चतुरस्रं[क्.चतुरश्रम्] विश्वकर्मणा प्रथमम् ।
 *रशना[क्.रसना] स्वयम्भुवा शङ्करेण *चानेकवर्णगा दत्ता[क्.चानेकवर्णधरी] ।। ४२.४२ ।।

 अष्टाश्रि नीलरक्तं तृतीयं इन्द्रेण भूषणं दत्तम् ।
 असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ।। ४२.४३ ।।

 मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम् ।
 मयूरं केयूरं षष्ठं वायुर्जलदनीलम् ।। ४२.४४ ।।

 स्कन्धः स्वं केयूरं सप्तमं अददद्ध्वजाय बहुचित्रम् ।
 अष्टमं अनलज्वालासङ्काशं हव्यभुग्*वृत्तम्[क्.दत्तम्] ।। ४२.४५ ।।

 वैदूर्यसदृशं *इन्द्रो[क्.इन्दुर्] नवमं ग्रैवेयकं ददावन्यत् ।
 रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभायुक्तम् ।। ४२.४६ ।।

 एकादशं उद्वंशं विश्वेदेवाः सरोजसङ्काशम् ।
 द्वादशं अपि च *निवेशं ऋषयो[क्.निवंशं मुनयो] नीलोत्पलाभासम् ।। ४२.४७ ।।

 किञ् चिदधऊर्ध्व*निर्मितम्[क्.निर्नतम्] उपरि विशालं त्रयोदशं केतोः ।
 शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः ।। ४२.४८ ।।

 यद्य्यद्येन *विभूषणम्[क्.विनिर्मितम्] अमरेण विनिर्मितं[क्.विभूषणम्] ध्वजस्यार्थे ।
 तत्तत्तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः ।। ४२.४९ ।।

 ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य ।
 परतः प्रथमात्प्रथमादष्टांशाष्टांशहीनानि ।। ४२.५० ।।

 कुर्यादहनि चतुर्थे पूरणं इन्द्रध्वजस्य शास्त्रज्ञः ।
 मनुना चऽगमगीतान्मन्त्रानेतान्पठेन्नियतः ।। ४२.५१ ।।

 हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः ।
 महर्षिसंघैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च ।। ४२.५२ ।।

 यथा त्वं ऊर्जस्करणएकरूपैः समर्चितस्त्वाभरणैरुदारैः ।
 तथेह तान्याभरणानि *यागे[क्.देव] शुभानि सम्प्रीतमना गृहाण ।। ४२.५३ ।।

 अजो +अव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ।
 त्वं अन्तकः सर्वहरः कृशानुः *सहस्रशीर्षः[क्.सहस्रशीर्शा] शतमन्युरीड्यः ।। ४२.५४ ।।

 कविं सप्तजिह्वं त्रातारं इन्द्रं *स्ववितारं[क्.अवितारं] सुरेशम् ।
 ह्वयामि शक्रं वृत्रहणं सुषेणं अस्माकं वीरा *उत्तरा[क्.उत्तरे] भवन्तु ।। ४२.५५ ।।

 प्रपूरणे चौच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे ।
 पठेदिमान्नृपतिः सोपवासो मन्त्रान्शुभान्पुरुहूतस्य केतोः ।। ४२.५६ ।।

 क्षत्र[क्.ऊ.छत्र]ध्वजऽदर्शफलार्धचन्द्रैर्विचित्रमालाकदलीइक्षुदण्डैः ।
 सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः ।। ४२.५७ ।।

अच्छिन्नरज्जुं दृढकाष्ठमातृकं
सुश्लिष्टयन्त्रार्गलपादतोरणम् ।
उत्थापयेल्लक्ष्म सहस्रचक्षुषः
सारद्रुमाभग्नकुमारिकान्वितम् ।। ४२.५८ ।।

अविरतजनरावं मङ्गलऽशीःप्रणामैः ।
पटुपटहमृदङ्गैः शङ्खभेर्यादिभिश्च ।
श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैर्
अशुभ*विहत[क्.रहित]शब्दं केतुं *उत्थापयेच्[क्.उत्थापयीत] च ।। ४२.५९ ।।

फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः
प्रणिपतितशिरोभिस्*तुष्टवद्भिश्[क्.तुष्टुवद्भिश्] च पौरैः ।
वृतम्[क्.धृतम्] अनिमिषभर्तुः केतुं ईशः प्रजानाम्
अरिनगरनताग्रं कारयेद्द्विड्*बधाय[क्.वधाय] ।। ४२.६० ।।

नातिद्रुतं न च विलम्बितं अप्रकम्पम्
अध्वस्तमाल्यपिटकऽदिविभूषणं च ।
उत्थानं इष्टं अशुभं यदतो +अन्यथा स्यात्
तच्छान्तिभिर्नरपतेः शमयेत्पुरोधाः ।। ४२.६१ ।।

क्रव्यादकौशिककपोतककाककङ्कैः
केतुस्थितैर्महदुशन्ति भयं नृपस्य ।
चाषेण चापि युवराजभयं वदन्ति
श्येनो विलोचनभयं निपतन्करोति ।। ४२.६२ ।।

छत्रभङ्गपतने नृपमृत्युस्
तस्करान्मधु करोति निलीनम् ।
हन्ति चाप्यथ पुरोहितं उल्का
पार्थिवस्य महिषीं अशनिश्च ।। ४२.६३ ।।

राज्ञीविनाशं पतिता पताका
करोत्यवृष्टिं पिटकस्य पातः ।
मध्याग्रमूलेषु च केतुभङ्गो
निहन्ति मन्त्रिक्षितिपालपौरान् ।। ४२.६४ ।।

धूमऽवृते शिखिभयं तमसा च मोहो
व्यालैश्च भग्नपतितैर्न भवत्यमात्याः ।
ग्लायन्त्युदक्प्रभृति च क्रमशो *द्विजाद्यान्[क्.द्विजाद्या]
भङ्गे तु बन्धकि*बधः[क्.वधः] कथितः कुमार्याः ।। ४२.६५ ।।

रज्जुउत्सङ्गच्छेदने बालपीडा
राज्ञो मातुः पीडनं मातृकायाः ।
यद्यत्कुर्युश्*चारणा बालका[क्.बालकाश्चारणा] वा
तत्तत्तादृग्भावि पापं शुभं वा ।। ४२.६६ ।।

दिनचतुष्टयं उत्थितं अर्चितं
समभिपूज्य नृपो +अहनि पञ्चमे ।
प्रकृतिभिः सह लक्ष्म विसर्जयेद्
बलभिदः स्वबलाभिविवृद्धये ।। ४२.६७ ।।

 उपरिचरवसुप्रवर्तितं नृपतिभिरप्यनुसन्ततं कृतम् ।
 विधिं इमं अनुमन्य पार्थिवो न रिपुकृतं भयं आप्नुयादिति ।। ४२.६८ ।।