← अध्यायः ४ बृहत्संहिता
अध्यायः ५
वराहमिहिरः
अध्यायः ६ →

५ राहुचाराध्यायः ।।

 अमृतऽस्वादविशेषाच्च्छिन्नं अपि शिरः किलासुरस्यैदम् ।
 प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ।। ५.०१ ।।

 इन्दुअर्कमण्डलऽकृतिरसितत्वात्किल न दृश्यते गगने ।
 अन्यत्र पर्वकालाद्वरप्रदानात्कमलयोनेः ।। ५.०२ ।।

 मुखपुच्छविभक्ताङ्गं भुजङ्गं आकारं उपदिशन्त्यन्ये ।
 कथयन्त्यमूर्तं अपरे तमोमयं सैंहिकेयऽख्याख्यम् ।। ५.०३ ।।

 यदि मूर्तो भविचारी शिरो +अथ वा भवति मण्डली राहुः ।
 भगणार्धेन*अन्तरितौ[क्.अन्तरितो] गृह्णाति कथं नियतचारः ।। ५.०४ ।।

 अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य ।
 पुच्छऽननाभिधानो +अन्तरेण कस्मान्न गृह्णाति ।। ५.०५ ।।

 अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति ।
 मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ।। ५.०६ ।।

 राहुद्वयं यदि स्याद्ग्रस्ते +अस्तमिते +अथ वाउदिते चन्द्रे ।
 तत्समगतिनाअन्येन ग्रस्तः सूर्यो +अपि दृश्यते ।। ५.०७ ।।

 भूच्छायां स्वग्रहणे भास्करं अर्कग्रहे प्रविशतिइन्दुः ।
 प्रग्रहणं अतः पश्चान्नैन्दोर्भानोश्च पूर्वार्धात् ।। ५.०८ ।।

 वृक्षस्य स्वच्छाया यथा*एकपार्श्वे[क्.एकपार्श्वेन] भवति *दीर्घचया[क्.दीर्घा च] ।
 निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ।। ५.०९ ।।

 सूर्यात्सप्तमराशौ यदि चौदग्दक्षिणेन नातिगतः ।
 चन्द्रः पूर्वाभिमुखश्छायां और्वीं तदा विशति ।। ५.१० ।।

 चन्द्रो +अधःस्थः स्थगयति रविं अम्बुदवत्समागतः पश्चात् ।
 प्रतिदेशं अतश्चित्रं दृष्टिवशाद्भास्करग्रहणम् ।। ५.११ ।।

 आवरणं महदिन्दोः कुण्ठविषाणस्ततो +अर्धसंच्छन्नः ।
 स्वल्पं रवेर्यतो +अतस्तीक्ष्णविषाणो रविर्भवति ।। ५.१२ ।।

 एवं उपरागकारणं उक्तं इदं दिव्यदृग्भिराचार्यैः ।
 राहुरकारणं अस्मिन्नित्युक्तः शास्त्रसद्भावः ।। ५.१३ ।।

 यो +असौअसुरो राहुस्तस्य वरो ब्रह्मणा +अयं आज्ञप्तः ।
 आप्यायनं उपरागे दत्तहुतांशेन ते भविता ।। ५.१४ ।।

 तस्मिन्काले सान्निध्यं अस्य तेनौपचर्यते राहुः ।
 याम्योत्तरा शशिगतिर्गणिते +अप्युपचर्यते तेन ।। ५.१५ ।।

 न कथं चिदपि निमित्तैर्ग्रहणं विज्ञायते निमित्तानि ।
 अन्यस्मिन्नपि काले भवन्त्यथौत्पातरूपाणि ।। ५.१६ ।।

 पञ्चग्रहसंयोगान्न किल ग्रहणस्य सम्भवो भवति ।
 तैलं च जले +अष्टम्यां न विचिन्त्यं इदं विपश्चिद्भिः ।। ५.१७ ।।

 अवनत्या +अर्के ग्रासो दिग्ज्ञेया वलनयाअवनत्या च ।
 तिथ्यवसानाद्वेला करणे कथितानि तानि मया ।। ५.१८ ।।

 षण्मासौत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः ।
 ब्रह्मशशिइन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः ।। ५.१९ ।।

 ब्राह्मे द्विजपशु*वृद्धिः क्षेमऽरोग्याणि[क्.वृद्धिक्षेमारोग्याणि] सस्यसम्पत्च ।
 तद्वत्सौम्ये तस्मिन्पीडा विदुषां अवृष्टिश्च ।। ५.२० ।।

 ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् ।
 कौबेरे +अर्थपतीनां अर्थविनाशः सुभिक्षं च ।। ५.२१ ।।

 वारुणं अवनीशाशुभं अन्येषां क्षेमसस्यवृद्धिकरम् ।
 आग्नेयं मित्रऽख्यं सस्यऽरोग्याभयाम्बुकरम् ।। ५.२२ ।।

 याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम् ।
 यदतः परं तदशुभं क्षुत्मारावृष्टिदं पर्व ।। ५.२३ ।।

 वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।
 अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ।। ५.२४ ।।

 हीनातिरिक्तकाले फलं उक्तं पूर्वशास्त्रदृष्टत्वात् ।
 स्फुटगणितविदः कालः कथञ् चिदपि नान्यथा भवति ।। ५.२५ ।।

 यद्येकस्मिन्मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।
 स्वबलक्षोभैः संक्षयं आयान्त्यतिशस्त्रकोपश्च ।। ५.२६ ।।

 ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।
 सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ।। ५.२७ ।।

 अर्धौदितौपरक्तो नैकृतिकान्हन्ति सर्वयज्ञांश्च ।
 अग्न्युपजीविगुणाधिकविप्रऽश्रमिणो *युगे +अभ्युदितः[क्.अयुगाभ्युदितः] ।। ५.२८ ।।

 कर्षक*पाखण्डि[क्.पाषण्डि]वणिक्क्षत्रियबलनायकान्*द्वितीयांशे[क्.द्वितीये +अंशे] ।
 कारुकशूद्रम्लेच्छान्खतृतीयाम्शे समन्त्रिजनान् ।। ५.२९ ।।

 मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।
 तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे । ५.३० ।।

 स्त्रीशूद्रान्षष्ठे +अंशे दस्युप्रत्यन्तहाअस्तमयकाले ।
 यस्मिन्खांशे मोक्षस्तत्प्रोक्तानां शिवं भवति ।। ५.३१ ।।

 द्विजनृपतीनुदगयने विट्शूद्रान्दक्षिणायने हन्ति ।
 राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रऽदीन् ।। ५.३२ ।।

 म्लेच्छान्विदिक्स्थितो यायिनश्च हन्याद्धुताशसक्तांश्च ।
 सलिलचरदन्तिघाती याम्येनौदग्गवां अशुभः ।। ५.३३ ।।

 पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः ।
 पश्चात्कर्षकसेवकबीजविनाशाय निर्दिष्टः ।। ५.३४ ।।

 पाञ्चालकलिङ्गशूरसेनाः काम्बोजौड्रकिरातशस्त्रवार्त्ताः ।
 जीवन्ति च ये हुताशवृत्त्या ते पीडां उपयान्ति मेषसंस्थे ।। ५.३५ ।।

 गोपाः पशवो +अथ गोमिनो मनुजा ये च महत्त्वं आगताः ।
 पीडां उपयान्ति भास्करे ग्रस्ते शीतकरे +अथ वा वृषे ।। ५.३६ ।।

 मिथुने प्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः ।
 यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ।। ५.३७ ।।

 आभीरान्शबरान्सपह्लवान्मल्लान्मत्स्यकुरूञ् छकानपि ।
 पाञ्चालान्विकलांश्च पीडयत्यन्नं चापि निहन्ति कर्कटे ।। ५.३८ ।।

 सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान्राजौपमान्नरपतीन्वनगोचरांश्च ।
 षष्ठे तु सस्यकविलेखकगेयसक्तान्हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ।। ५.३९ ।।

 तुलाधरे +अवन्त्यपरान्त्यसाधून्वणिग्दशार्णान्*मरुकच्छपांश्[क्.भरुकच्छपांश्] च ।
 अलिन्यथौदुम्बरमद्रचोलान्द्रुमान्सयौधेयविषऽयुधीयान् ।। ५.४० ।।

 धन्विन्यमात्यवरवाजिविदेहमल्लान्पाञ्चालवैद्यवणिजो विषमऽयुधज्ञान् ।
 हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान्मन्त्राउषधीषु कुशलान्स्थविरऽयुधीयान् ।। ५.४१ ।।

 कुम्भे +अन्तर्गिरिजान्सपश्चिमजनान्भारौद्वहांस्तस्करानाभीरान्दरदऽर्यसिंहपुरकान्हन्यात्तथा बर्बरान् ।(छेच्केद्)
 मीने सागरकूलसागरजलद्रव्याणि *वन्यान्[क्.मान्यान्] जनान्प्राज्ञान्वार्युपजीविनश्च भफलं कूर्मौपदेशाद्वदेत् ।। ५.४२ ।।

 सव्यापसव्यलेहग्रसननिरोधावमर्दनऽरोहाः ।
 आघ्रातं मध्यतमस्तमो +अन्त्य इति ते दश ग्रासाः ।। ५.४३ ।।

 सव्यगते तमसि जगज्जलप्लुतं भवति मुदितं अभयं च ।
 अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ।। ५.४४ ।।

 *जिह्वौपलेढि[क्.जिह्वेवलेढि] परितस्तिमिरनुदो मण्डलं यदि स लेहः ।
 प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही ।। ५.४५ ।।

 ग्रसनं इति यदा त्र्यंशः पादो वा गृह्यते +अथ वाअप्यर्धम् ।
 स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम् ।। ५.४६ ।।

 पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् ।
 स निरोधो विज्ञेयः प्रमोदकृत्सर्वभूतानाम् ।। ५.४७ ।।

 अवमर्दनं इति निःशेषं एव सञ्छाद्य यदि चिरं तिष्ठेत् ।
 हन्यात्प्रधानभूपान्*प्रधानदेशांश्[क्.प्रधानदेशान्प्रधानभूपांश्] च तिमिरमयः ।। ५.४८ ।।

 वृत्ते ग्रहे यदि तमस्तत्क्षणं आवृत्य दृश्यते भूयः ।
 आरोहणं इत्यन्योन्यमर्दनैर्भयकरं राज्ञाम् ।। ५.४९ ।।

 दर्पण इवएकदेशे *सबाष्प[क्.सवाष्प]निःश्वासमारुतौपहतः ।
 दृश्येतऽघ्रातं तत्सुवृष्टिवृद्ध्यावहं जगतः ।। ५.५० ।।

 मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः
 तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ।। ५.५१ ।।

 पर्यन्तेषुअतिबहुलं स्वल्पं मध्ये तमस्तमोन्त्यऽख्ये ।
 सस्यानां ईतिभयं भयं अस्मिंस्तस्कराणां च ।। ५.५२ ।।

 श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ ।
 अग्निभयं अनलवर्णे पीडा च हुताशवृत्तीनाम् ।। ५.५३ ।।

 हरिते रोग*उल्बणता[क्.उल्वणता] सस्यानां ईतिभिश्च विध्वंसः ।
 कपिले शीघ्रगसत्त्वम्लेच्छध्वंसो +अथ दुर्भिक्षम् ।। ५.५४ ।।

 अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा ।
 आधूम्रे क्षेमसुभिक्षं आदिशेत्मन्दवृष्टिं च ।। ५.५५ ।।

 कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।
 कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ।। ५.५६ ।।

 विमलकमणिपीतऽभो वैश्यध्वंसी भवेत्सुभिक्षाय ।
 सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ।। ५.५७ ।।

 दूर्वाकाण्डश्यामे हारिद्रे वाअपि निर्दिशेत्मरकम् ।
 अशनिभयसम्प्रदायी *पाटल[क्.पाटलि]कुसुमौपमो राहुः ।। ५.५८ ।।

 पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च ।
 बालरविकमलसुरचापरूपभृत्शस्त्रकोपाय ।। ५.५९ ।।

 पश्यन्ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च ।
 भौमः समरविमर्दं शिखिकोपं तस्करभयं च ।। ५.६० ।।

 शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् ।
 रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ।। ५.६१ ।।

 यदशुभं अवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा ।
 सुरपतिगुरुणाअवलोकिते तत्शमं उपयाति जलैरिवाग्निरिद्धः ।। ५.६२ ।।

 ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषट्कपरिवृद्ध्या ।
 पवनौल्कापातरजः क्षितिकम्पतमोअशनिनिपातैः ।। ५.६३ ।।

 आवन्तिका जनपदाः कावेरीनर्मदातटऽश्रयिणः ।
 दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ।। ५.६४ ।।

 अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् ।
 स्त्रीनृपयोधकुमारान्सह विद्वद्भिर्बुधो हन्ति ।। ५.६५ ।।

 ग्रहणौपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः ।
 सिन्धुतटवासिनां अप्युदग्दिशं संश्रितानां च ।। ५.६६ ।।

 भृगुतनये राहुगते *दाशेरक[क्.दसेरकाः]कैकयाः सयौधेयाः ।
 आर्यावर्त्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्ते ।। ५.६७ ।।

 सौरे मरुभवपुष्कर*सौराष्ट्रिक[क्.सौराष्ट्रा]धातवो +अर्बुदान्त्यजनाः ।
 गोमन्तपारियात्रऽश्रिताश्[क्ऽस्त्र्. गोमन्तः पारियात्रा] च नाशं व्रजन्त्याशु ।। ५.६८ ।।

 कार्त्तिक्यां अनलौपजीविमगधान्प्राच्याधिपान्कोशलान्
कल्माषानथ शूरसेनसहितान्काशीश्च सन्तापयेत् ।
हन्याद्[क्.हन्याद्च] आशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो
दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ।। ५.६९ ।।

 काश्मीरकान्कौशलकान्सपुण्ड्रान्मृगांश्च हन्यादपरान्तकांश्च ।
 ये सोमपास्तांश्च निहन्त्य्सौम्ये सुवृष्टिकृत्क्षेमसुभिक्षकृत्च ।। ५.७० ।।

 पौषे द्विजक्षत्रजनौपरोधः ससैन्धवऽख्याः कुकुरा विदेहाः ।
 ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम् ।। ५.७१ ।।

माघे तु मातृपितृभक्तवसिष्ठगोत्रान्
स्वाध्यायधर्मनिरतान्करिणस्तुरङ्गान् ।
वङ्गाङ्गकाशिमनुजांश्च दुनोति राहुर्
वृष्टिं च कर्षकजन*अभिमतां[क्.अनुमतां] करोति ।। ५.७२ ।।

 पीडाकरं फाल्गुनमासि पर्व *वङ्गाश्मकावन्तिक[क्.वन्तक]मेकलानाम् ।
 *नृत्यज्ञ[क्.नृत्तज्ञ]सस्यप्रवराङ्गनानां धनुष्करक्षत्रतपस्विनां च ।। ५.७३ ।।

  • चैत्र्यां[क्.चैत्रे] तु चित्रकरलेखगेयसक्तान्

रूपोपजीविनिगमज्ञहिरण्यपण्यान् ।
पौण्ड्राउड्रकैकयजनानथ चाश्मकांश्च
तापः स्पृशत्यमरपो +अत्र विचित्रवर्षी ।। ५.७४ ।।

 वैशाख*मासे[क्.मासि] ग्रहणे विनाशं आयान्ति कर्पासतिलाः समुद्गाः ।
 इक्ष्वाकुयौधेयशकाः कलिङ्गाः *सोपप्लवाः[क्.सोपद्रवाः] किन्तु सुभिक्षं अस्मिन् ।। ५.७५ ।।

 ज्येष्ठे[क्.ज्यैष्ठे] नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च ।
 प्रध्वंसं आयान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसङ्घाः ।। ५.७६ ।।

 आषाढपर्वण्युदपानवप्रनदीप्रवाहान्फलमूलवार्त्तान् ।
 गान्धारकाश्मीरपुलिन्दचीनान्हतान्वदेद्मण्डलवर्षं अस्मिन् ।। ५.७७ ।।

काश्मीरान्सपुलिन्दचीनयवनान्हन्यात्कुरुक्षेत्रजान्
गान्धारानपि मध्यदेशसहितान्वृष्टो ग्रहः श्रावणे ।
काम्बोजएकशफांश्च शारदं अपि त्यक्त्वा यथोक्तानिमान्
नन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम् ।। ५.७८ ।।

कलिङ्गवङ्गान्मगधान्सुराष्ट्रान्
म्लेच्छान्सुवीरान्*दरदाश्मकांश्[क्.दरदाञ् छकांश्] च ।
स्त्रीणां च गर्भानसुरो निहन्ति
सुभिक्षकृद्भाद्रपदे +अभ्युपेतः ।। ५.७९ ।।

काम्बोजचीनयवनान्सह शल्यहृद्भिर्
बाह्लीक[क्.वाल्हीक]सिन्धुतटवासिजनांश्च हन्यात् ।
आनर्त्त[क्.आनर्त]पौण्ड्रभिषजश्च तथा किरातान्
दृष्टो +असुरो +अश्वयुजि भूरिसुभिक्षकृच्च ।। ५.८० ।।

 हनुकुक्षिपायुभेदा द्विर्द्विः सञ्छर्दनं च जरणं च ।
 मध्यान्तयोश्च विदरणं इति दश शशिसूर्ययोर्मोक्षाः ।। ५.८१ ।।

 आग्नेय्यां अपगमनं दक्षिणहनुभेदसंज्ञितं शशिनः ।
 सस्यविमर्दो मुखरुग्नृपपीडा स्यात्सुवृष्टिश्च ।। ५.८२ ।।

 पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी ।
 मुखरोगं शस्त्रभयं तस्मिन्विन्द्यात्सुभिक्षं च ।। ५.८३ ।।

 दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः ।
 पीडा नृपपुत्राणां अभियोज्या दक्षिणा रिपवः ।। ५.८४ ।।

 वामस्तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः ।
 स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ।। ५.८५ ।।

 नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ ।
 गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ।। ५.८६ ।।

 पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत ।
 सञ्छर्दनं इति तत्क्षेमसस्यहार्दिप्रदं जगतः ।। ५.८७ ।।

 प्राक्प्रग्रहणं यस्मिन्पश्चादपसर्पणं तु तज्जरणम् ।
 क्षुत्शस्त्रभय*उद्विग्ना न[क्.उद्विग्नाः क्व] शरणं उपयान्ति तत्र जनाः ।। ५.८८ ।।

 मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम ।
 अन्तःकोपकरं स्यात्सुभिक्षदं नातिवृष्टिकरम् ।। ५.८९ ।।

 पर्यन्तेषु विमलता बहुलं मध्ये तमो *+अन्त्य[क्.अन्त]दरणऽख्यः ।
 मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ।। ५.९० ।।

 एते सर्वे मोक्षा वक्तव्या भास्करे +अपि किन्त्वत्र ।
 पूर्वा दिक्शशिनि यथा तथा रवौ पश्चिमा कल्प्या ।। ५.९१ ।।

 मुक्ते सप्ताहान्तः पांशुनिपातो +अन्नसंक्षयं कुरुते ।
 नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ।। ५.९२ ।।

 उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयं अतुलम् ।
 स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ।। ५.९३ ।।

 परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयं ।
 रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ।। ५.९४ ।।

 निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् ।
 *ग्रहयुद्धे[क्.ग्रहयुद्धं] नृपयुद्धं केतुश्च तदेव सन्दृष्टः ।। ५.९५ ।।

 अविकृतसलिल*निपातैः[क्.निपाते] सप्ताहान्तः सुभिक्षं आदेश्यम् ।
 यच्चाशुभं ग्रहणजं तत्सर्वं नाशनुपयाति ।। ५.९६ ।।

 सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहो +अर्कस्य ।
 तत्रानयः प्रजानां दम्पत्योर्वैरं अन्योन्यम् ।। ५.९७ ।।

 अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः ।
 नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चएव ।। ५.९८ ।।