बृहत्संहिता/अध्यायः ७
← अध्यायः ६ | बृहत्संहिता अध्यायः ७ वराहमिहिरः |
अध्यायः ८ → |
७ बुधचाराध्यायः ।।
नौत्पातपरित्यक्तः कदा चिदपि चन्द्रजो व्रजत्युदयम् ।
जलदहनपवनभयकृद्धान्यार्घक्षयविवृद्धौ वा ।। ७.०१ ।।
विचरन्श्रवणधनिष्ठाप्रजापत्य[ऊ.प्राजापत्य]इन्दु*वैश्वदेवानि[क्.विश्वदैवानि] ।
मृद्नन्हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ।। ७.०२ ।।
रौद्रऽदीनि मघाअन्तान्युपाश्रिते चन्द्रजे प्रजापीडा ।
शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ।। ७.०३ ।।
हस्तऽदीनि *चरन्[क्.विचरन्] षडृक्षाण्युपपीडयन्गवां अशुभः ।
स्नेहरसार्घविवृद्धिं करोति चौर्वीं प्रभूतान्नाम् ।। ७.०४ ।।
आर्यम्णं हौतभुजं भद्रपदां उत्त्ररां यमेशं च ।
चन्द्रस्य सुतो निघ्नन्प्राणभृतां धातुसंक्षयकृत् ।। ७.०५ ।।
आश्विनवारुणमूलान्युपमृद्नन्रेवतीं च चन्द्रसुतः ।
पण्यभिषग्नौजीविकसलिलजतुरगौपघातकरः ।। ७.०६ ।।
पूर्वऽद्यृक्षत्रितयादेकं अपिइन्दोः सुतो +अभिमृद्नीयात् ।
क्षुत्शस्त्रतस्करऽमयभयप्रदायी चरन्जगतः ।। ७.०७ ।।
प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापऽख्याः ।
सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ।। ७.०८ ।।
प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
मिश्रा गतिः प्रदिष्टा शशिशिवपितृ*भुजगदेवानि[क्.भुजगदैवानि] । ७.०९ ।।
संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चैति ।
तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक्पौष्णम् ।। ७.१० ।।
योगान्तिकाइति मूलं द्वे चऽषाढे गतिः सुतस्यैन्दोः ।।
घोरा श्रवणस्त्वाष्ट्रं *वसुदैवं[क्.वसुदेवं] वारुणं चएव ।। ७.११ ।।
पापऽख्या सावित्रं मैत्रं शक्राग्निदैवतं चैति ।
उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ।। ७.१२ ।।
चत्वारिंशत्(४०) त्रिंशद्(३०) द्विसमेता विंशतिर्(२२) द्विनवकं(१८) च ।
नव(९) मासार्धं(१५) दश चएकसंयुताः(११) प्राकृताद्यानाम् ।। ७.१३ ।।
प्राकृतगत्यां आरोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।
संक्षिप्तमिश्रयोर्मिश्रं एतदन्यासु विपरीतम् ।। ७.१४ ।।
ऋज्वीअतिवक्रावक्रा विकला च मतेन देवलस्यएताः ।
पञ्चचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ।। ७.१५ ।।
ऋज्वी हिता प्रजानां *अतिवक्रा +अर्घं[क्.अतिवक्रार्थं] गतिर्विनाशयति ।
शस्त्रभयदा च वक्रा विकला भयरोगसंजननी ।। ७.१६ ।।
पौषऽषाढश्रावणवैशाखेष्विन्दुजः समाघेषु ।
वृष्टो भयाय जगतः शुभफलकृत्प्रोषितस्तेषु ।। ७.१७ ।।
*कार्तिके[क्.कार्त्तिके] +अश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः ।
शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ७.१८ ।।
रुद्धानि सौम्ये *+अस्तगते[क्.अस्तमिते] पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् ।
अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ज्ञाः ।। ७.१९ ।।
हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो वा ।
स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः ।। ७.२० ।।