बृहत्संहिता/अध्यायः ९०
← अध्यायः ८९ | बृहत्संहिता अध्यायः ९० वराहमिहिरः |
अध्यायः ९१ → |
९० मृगचेष्टिताध्यायः ।।
सीमागता वन्यमृगा रुवन्तः
स्थिता व्रजन्तो +अथ समापतन्तः ।
सम्प्रत्यतीतएष्यभयानि दीप्ताः
कुर्वन्ति शून्यं परितो भ्रमन्तः ।। ९०.०१ ।।
ते ग्राम्यसत्त्वैरनुवाश्यमाना
भयाय रोधाय भवन्ति वन्यैः ।
द्वाभ्यां अपि प्रत्यनुवाशितास्ते
वन्दि*ग्रहायै च[क्.ग्रहायैव] मृगा रुवन्ति[क्.भवन्ति] ।। ९०.०२ ।।
वन्ये सत्त्वे द्वारसंस्थे पुरस्य
रोधो वाच्यः सम्प्रविष्टे विनाशः ।
सूते मृत्युः स्याद्भयं संस्थिते च
गोहं याते बन्धनं सम्प्रदिष्टम् ।। ९०.०३ ।।