प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः

अथ चतुर्थोऽध्यायः ।

प्रथमं ब्राह्मणम्

(षडाचार्यब्राह्मणं वा उदंकब्राह्मणम् [१])


जनको ह वैदेह आसां चक्रे ।
अथ ह याज्ञवल्क्य आवव्राज ।
तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनण्वन्तानीति ।
उभयमेव संराडिति होवाच ॥ बृह. ४,१.१ ॥


यत्ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेति ।
अवदतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत ।
का प्रज्ञता याज्ञवल्क्य ।
वागेव सम्राडिति होवाच ।
वाचा वै सम्राड्बन्धुः प्रज्ञायते ।
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव संराट्प्रज्ञायन्ते ।
वाग्वै सम्राट्परमं ब्रह्म ।
नैनं वाग्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.२ ॥


यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्म उदङ्कः शौल्बायनः ।
प्राणो वै ब्रह्मेति ।[२]
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति ।
अप्राणतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
प्राण एवायतनमाकाशः प्रतिष्ठा ।
प्रियमित्येनदुपासीत ।
का प्रियता याज्ञवल्क्य ।
प्राण एव सम्राडिति होवाच ।
प्राणस्य वै सम्राट्कामायायाज्यं याजयति ।
अप्रतिगृह्यस्य प्रतिगृह्णाति ।
अपि तत्र वधाशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय ।
प्राणो वै सम्राट्परमं ब्रह्म ।
नैनं प्राणो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.३ ॥


यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे बर्कुर्वार्ष्णः ।
चक्षुर्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति ।
अपश्यतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
चक्षुरेवायतनमाकाशः प्रतिष्ठा ।
सत्यमित्येतदुपासीत ।
का सत्यता याज्ञवल्क्य ।
चक्षुरेव सम्राडिति होवाच ।
चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति ।
स आहाद्राक्षमिति तत्सत्यं भवति ।
चक्षुर्वै सम्राट्परमं ब्रह्म ।
नैनं चक्षुर्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.४ ॥


यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे गर्दभीविपीतो भारद्वाजः ।
श्रोत्रं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति ।
अशृण्वतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत ।
कानन्तता याज्ञवल्क्य ।
दिश एव सम्राडिति होवाच ।
तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति ।
अनन्ता हि दिशः ।
दिशो वै सम्राट्श्रोत्रम् ।
श्रोत्रं वै सम्राट्परमं ब्रह्म ।
नैनं श्रोत्रं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.५ ॥


यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति ।
अमनसो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञावल्क्य ।
मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत ।
कानन्दता याज्ञवल्क्य ।
मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते ।
स आनन्दः ।
मनो वै सम्राट्परमं ब्रह्म ।
नैनं मनो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.६ ॥


यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे विदग्धः शाकल्यः ।
हृदयं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति ।
अहृदयस्य हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
हृदयमेवायतनमाकाशः प्रतिष्ठा ।
स्थितिरित्येनदुपासीत ।
का स्थितिता याज्ञवल्क्य ।
हृदयमेव सम्राडिति होवाच ।
हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् ।
हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा ।
हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति ।
हृदयं वै सम्राट्परमं ब्रह्म ।
नैनं हृदयं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ बृह. ४,१.७ ॥


जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्य ।
अनु मा शाधीति ।
स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि ।
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति ।
नाहं तद्भगवन् वेद यत्र गमिष्यामीति ।
अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवानिति ॥ ४,२.१ ॥


इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः ।
तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव ।
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ बृह. ४,२.२ ॥


अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् ।
तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः ।
अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः ।
अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव ।
अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति ।
यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति ।
एताभिर्वा एतदास्रवदास्रवति ।
तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ बृह. ४,२.३ ॥


तस्य प्राची दिक्प्राञ्चः प्राणाः ।
दक्षिणा दिग्दक्षिणे प्राणाः ।
प्रतीची दिक्प्रत्यञ्चः प्राणाः ।
उदीची दिगुदञ्चः प्राणाः ।
ऊर्ध्वा दिगूर्ध्वाः प्राणाः ।
अवाची दिगवाञ्चः प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः ।
स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे ।
नमस्तेऽस्तु ।
इमे विदेहा अयमहमस्मीति ॥ बृह. ४,२.४ ॥

(ज्योतिर्ब्राह्मणम्[३])

जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
समेनेन वदिष्य इति ।
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते ।
तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नमेव वव्रे ।
तं हास्मै ददौ ।
तं ह सम्राडेव पूर्वः पप्रच्छ ॥ ४,३.१ ॥



याज्ञवल्क्य किंज्योतिरयं पुरुष इति ।
आदित्यज्योतिः सम्राडिति होवाच ।
आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ बृह. ४,३.२ ॥


अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति ।
चन्द्रमा एवास्य ज्योतिर्भवतीति ।
चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.३ ॥


अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति ।
अग्निरेवास्य ज्योतिर्भवतीति ।
अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४,३.४ ॥


अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति ।
वागेवास्य ज्योतिर्भवतीति ।
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति ।
तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ बृह. ४,३.५ ॥


अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति ।
आत्मैवास्य ज्योतिर्भवतीति ।
आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ४,३.६ ॥


कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ।
स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ।
स हि स्वप्नो भूत्वेमं लोकमतिक्रामति अद्द्. मृत्यो रूपाणि ॥ बृह. ४,३.७ ॥


स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते ।
स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ४,३.८ ॥


तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः ।
इदं च परलोकस्थानं च ।
सन्ध्यं तृतीयं स्वप्नस्थानम् ।
तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च ।
अथ यथाक्रमोऽयं परलोकस्थाने भवति ।
तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति ।
स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ बृह. ४,३.९ ॥


न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।
अथ रथान् रथयोगान् पथः सृजते ।
न तत्रानन्दा मुदः प्रमुदो भवन्ति ।
अथानन्दान्मुदः प्रमुदः सृजते ।
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति ।
अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते ।
स हि कर्ता ॥ ४,३.१० ॥

तदेते श्लोका भवन्ति
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति ।
शुक्रमादाय पुनरैति स्थानं हिरण्मयःपुरुष एकहंसः ॥ ४,३.११ ॥


प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा ।
स ईयतेऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ बृह. ४,३.१२ ॥


स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि ।
उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ ४,३.१३ ॥


आराममस्य पश्यन्ति न तं पश्यति कश्चनेति ।
तं नायतं बोधयेदित्याहुः ।
दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ।
अथो खल्वाहुर्जागरितदेश एवास्यैस इति ।
यानि ह्येव जाग्रत्पश्यति तानि सुप्त इति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ बृह. ४,३.१४ ॥


स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४,३.१५ ॥


स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ बृह. ४,३.१६ ॥

स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ ४,३.१७ ॥


तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च ।
एवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ ४,३.१८ ॥


तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते ।
एवमेवायं पुरुष एतस्मा अन्ताय धवति ।
यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ बृह. ४,३.१९ ॥


ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति ।
शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ।
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।
अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते ।
सोऽस्य परमो लोकः ॥ ४,३.२० ॥


तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माभयं रूपम् ।
तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ ४,३.२१ ॥


अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः ।
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसः ।
अनन्वागतं पुण्येनानन्वागतं पापेन ।
तीर्णो हि तदा सर्वाञ्शोकान् हृदयस्य भवति ॥ बृह. ४,३.२२ ॥


यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति ।
न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ ४,३.२३ ॥


यद्वै तन्न जिघ्रति जिघ्रन् वै तन्न जिघ्रति ।
न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ ४,३.२४ ॥


यद्वै तन्न रसयति रसयन् वै तन्न रसयति ।
न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ बृह. ४,३.२५ ॥


यद्वै तन्न वदति वदन् वै तन्न वदति ।
न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ ४,३.२६ ॥


यद्वै तन्न शृणोति शृण्वन् वै तन्न शृणोति ।
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ ४,३.२७ ॥


यद्वै तन्न मनुते मन्वानो वै तन्न मनुते ।
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ बृह. ४,३.२८ ॥


यद्वै तन्न स्पृशति स्पृशन् वै तन्न स्पृशति ।
न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ ४,३.२९ ॥


यद्वै तन्न विजानाति विजानन् वै तन्न विजानाति ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ४,३.३० ॥


यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ४,३.३१ ॥


सलिल एको द्रष्टाद्वैतो भवति ।
एष ब्रह्मलोकः सम्राट् ।
इति हैनमनुशशास याज्ञवल्क्यः ।
एषास्य परमा गतिः ।
एषास्य परमा संपत् ।
एषोऽस्य परमो लोकः ।
एषोऽस्य परम आनन्दः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ बृह. ४,३.३२ ॥


स यो मनूष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः ।
अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः ।
अथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः ।
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ।
अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथैष एव परम आनन्दः ।
एष ब्रह्मलोकः सम्राट् ।
इति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
अत्र ह याज्ञवल्क्यो बिभयां चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ बृह. ४,३.३३ ॥


स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ४,३.३४ ॥


तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४,३.३५ ॥


स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति ।
तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यते ।
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ४,३.३६ ॥

तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति ।
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ४,३.३७ ॥


तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति ।
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ बृह. ४,३.३८ ॥

(शारीरकब्राह्मणम्[४])

स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति ।
अथैनमेते प्राणा अभिसमायन्ति ।
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति ।
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ।
अथारूपज्ञो भवति ॥ ४,४.१ ॥


एकीभवति न पश्यतीत्याहुः ।
एकीभवति न जिघ्रतीत्याहुः ।
एकीभवति न रसयतीत्याहुः ।
एकीभवति न वदतीत्याहुः ।
एकीभवति न शृणोतीत्याहुः ।
एकीभवति न मनुत इत्याहुः ।
एकीभवति न स्पृशतीत्याहुः ।
एकीभवति न विजानातीत्याहुः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति ।
चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति ।
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ।
सविज्ञनो भवति ।
संजानमेवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ बृह. ४,४.२ ॥


तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ४,४.३ ॥

तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते ।
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ बृह. ४,४.४ ॥


स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः ।
तद्यदेतदिदंमयोऽदोमय इति ।
यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति ।
पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा पापः पापेन ।
अथो खल्वाहुः ।
काममय एवायं पुरुष इति ।
स यथाकामो भवति तत्क्रतुर्भवति ।
यत्क्रतुर्भवति तत्कर्म कुरुते ।
यत्कर्म कुरुते तदभिसंपद्यते ॥ ४,४.५ ॥


तदेष श्लोको भवति
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य ।
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ।
इति नु कामयमानः ।
अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ।
ब्रह्मैव सन् ब्रह्माप्येति ॥ बृह. ४,४.६ ॥


तदेष श्लोको भवति
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।
तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत ।
एवमेवेदं शरीरं शेते ।
अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव ।
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ४,४.७ ॥


तदेते श्लोका भवन्ति
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ४,४.८ ॥


तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ बृह. ४,४.९ ॥


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ४,४.१० ॥


अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ ४,४.११ ॥


आत्मानं चेद्विजानीयादयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ ४,४.१२ ॥


यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ ४,४.१३ ॥


इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ।
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ बृह. ४,४.१४ ॥


यदैतमनुपश्यत्यत्मानं देवमङ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ ४,४.१५ ॥


यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।
तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ ४,४.१६ ॥


यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ ४,४.१७ ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ ४,४.१८ ॥


मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। बृह. ४,४.१९ ॥


एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ।
विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ ४,४.२० ॥


तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ ४,४.२१ ॥


स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ।
य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
सर्वस्य वशी ।
सर्वस्येशानः ।
सर्वस्याधिपतिः ।
स न साधुना कर्मणा भूयान् ।
नो एवासाधुना कनीयान् ।
एष सर्वेश्वरः ।
एष भूताधिपतिः ।
एष भूतपालः ।
एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ।
एतमेव विदित्वा मुनिर्भवति ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ बृह. ४,४.२२ ॥


तदेतदृचाभ्युक्तम्
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ।
सर्वमात्मानं पश्यति ।
नैनं पाप्मा तरति ।
सर्वं पाप्मानं तरति ।
नैनं पाप्मा तपति ।
सर्वं पाप्मानं तपति ।
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति ।
एष ब्रह्मलोकः सम्राट् ।
एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ बृह. ४,४.२३ ॥


स वा एष महानज आत्मान्नादो वसुदानः ।
विन्दते वसु य एवं वेद ॥ ४,४.२४ ॥


स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म ।
अभयं वै ब्रह्म ।
अभयं हि वै ब्रह्म भवति य एवं वेद ॥ ४,४.२५ ॥

 (याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम्[५])

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ।
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ ४,५.१ ॥


मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ बृह. ४,५.२ ॥


सा होवाच मैत्रेयी
यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ४,५.३ ॥


सा होवाच मैत्रेयी
येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ४,५.४ ॥


स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती प्रियमवृधत् ।
हन्त तर्हि ।
भवत्येतद्व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ बृह. ४,५.५ ॥


स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ बृह. ४,५.६ ॥


ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ४,५.७ ॥


स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ४,५.८ ॥


स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ४,५.९ ॥


स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ बृह. ४,५.१० ॥


स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि ॥ बृह. ४,५.११ ॥


स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ ४,५.१२ ॥


स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ बृह. ४,५.१३ ॥


सा होवाच मैत्रेयी
अत्रैव मा भगवान्मोहान्तमापीपदत् ।
न वा अहमिमं विजानामीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ ४,५.१४ ॥


यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि ।
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ बृह. ४,५.१५ ॥


अथ वंशः ।
पौतिमाष्यो गौपवनात् ।
गौपवनः पौतिमाष्यात् ।
पौतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ बृह. ४,६.१ ॥


अग्निवेश्यात् ।
अग्निवेश्यो गार्ग्यात् ।
गार्ग्यो गार्ग्यात् ।
गार्ग्यो गौतमात् ।
गौतमः सैतवात् ।
सैतवः पाराशर्यायणात् ।
पाराशर्यायणो गार्ग्यायणात् ।
गार्ग्यायण उद्दालकायनात् ।
उद्दालकायनो जाबालायनात् ।
जाबालायनो माध्यन्दिनायनात् ।
माध्यन्दिनायनः सौकरायणात् ।
सौकरायणः काषायणात् ।
काषायणः सायकायनात् ।
साकायनः कौशिकायनेः
कौशिकायनिः ॥ बृह. ४,६.२ ॥


घृतकौशिकात् ।
घृतकौशिकः पाराशर्यात् ।
पाराशर्यः पाराशर्यात् ।
पाराशर्यो जातुकर्ण्यात् ।
जातुकर्ण्य आसुरायणाच्च यस्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहरितात् ।
कुमारहरितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादङ्गिरसात् ।
अयास्य आङ्गिरस आभुतेस्त्वाष्ट्रात् ।
आभुतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् ।
अश्विनौ दधिच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्राध्वंसनात् ।
प्राध्वंसनः एकर्षेः ।
एकर्षिर्विप्रजित्तेः ।
विप्रजित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्टिणः ।
परमेष्टी ब्रह्मणः ।
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः ॥ बृह. ४,६.३ ॥
इति षष्ठं ब्राह्मणम् ॥

॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥

तृतीयोध्यायः (previous chapter)

पञ्चमोऽध्यायः (next chapter)

  1. माश. १४.६.१०
  2. द्र. प्राणापानादि उपरि टिप्पणी
  3. माश १४.७.१
  4. माश १४.७.२
  5. माश १४.७.३
"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_4p&oldid=324841" इत्यस्माद् प्रतिप्राप्तम्