प्रेति पञ्चार्भवं त्रीणि दाधिक्राणि पराण्यतः।
ऋग्द्यावापृथिव्यौ स्तौति दाधिक्राणां मुखे तु या ॥१॥
परोक्षैरमुतो वाग्भिर नामभिश्च स्तुतास्त्रयः।
अग्निर्वायुश्च सूर्यश्च हंसः शुचिषदित्यृचि ॥२॥
नियुक्ता सूर्यदेवत्या हंस इत्यैतरेयके ।
द्वै त्वैन्द्रावरुणे सूक्ते ततस्त्रीण्याश्विनानि कः ॥३॥
अग्रं वायो विहीत्येषु वायव्याः सप्त कीर्तिताः ।
नव चैवेन्द्रवायव्या इन्द्रस्तिस्रः शतेन षट् ॥ ४॥
इदं कथितदेवत्यं यस्तस्तम्भोत्तमो द्वृचः।
स्तुतिरिन्द्राबृहस्पत्योर् अष्टावेता ऋचः स्मृताः॥५॥
सूक्तं तु तद्बार्हस्पत्यम् इदमित्यौषसे परे।
पुरोधातुः कर्मशंसा स इन्द्राजोच्यते तृचे ॥६॥
तत्सावित्रे द्वे तु को वैश्वदेवं मही द्यावापृथिवीयं परं तु यत् ।
[]क्षेत्रस्येति तिस्रस्तु क्षैत्रपत्याः शुनं वाहाः शुनदेवी त्वृगुत्तरा ॥ ७॥
वायुः शुनः सूर्य एवात्र सीरः शुनासीरौ वायुसूर्यौ वदन्ति ।
शुनासीरं यास्क इन्द्रं तु मेने सूर्येन्द्रौ तौ मन्यते शाकपूणिः ॥ ८॥
शुनासीरौ पञ्चम्यां तु स्तुतौ तौ द्वे तु सीतायै षष्ठी सप्तमी च ।
शुनं नः फालाः कृषिं स्तौति पादः शुनं कीनाशाः कृषिजीवान्मनुष्यान् ॥ ९॥
स्तुतः पादेऽत्र पर्जन्यस्तृतीये अन्त्यं त्वृषिर्धनकामो जगाद ।
कृषिं वा स्तौति सर्वं हि सूक्तं समुद्रादित्यग्नेर्मध्यमस्य ॥१०॥
आदित्यं वा ब्राह्मणोक्तं प्रदिष्टम् आग्नेयं वाप्याज्यसूक्तं हि दृष्टम् ।
अपां स्तुतिं वा यदि घृतस्तुतिं गव्यमेके सौर्यमेतद्वदन्ति ॥ ११ ॥
स्वर्भानुदृष्टं सूर्यस्य अपहत्य तमोऽत्रयः।
सप्तविंशतिभिः सूक्तैर् अबोधीत्यग्निमस्तुवन् ॥१२॥
त्रैवृष्णस्त्रसदस्युश्च अश्वमेध ऋणंचयः।
स्तूयमानाः परीक्ष्याः स्युर् अत्रिष्वेते क्वचित्क्वचित् ॥१३॥
ऐक्ष्वाकुस्त्र्यरुणो रात्रा त्रैवृष्णो रथमास्थितः।
संजग्राहाश्वरश्मींश्च वृशो जानः पुरोहितः॥१४॥
स ब्राह्मणकुमारस्य रथो गच्छञ्छिरोऽच्छिनत् ।
एनस्वीत्यब्रवीच्चैव स राजैनं पुरोहितम् ॥ १५॥
सोऽथर्वाङ्गिरसान्मन्त्रान् दृष्ट्वा संजीव्य तं शिशुम् ।
क्रोधात्संत्यज्य राजानम् अन्यदेशं समाश्रितः ॥१६॥
हरोऽव्यग्नेर्ननाशास्य तस्यापक्रमणादृषेः।
अग्नौ प्रास्तानि हव्यानि न ह्यपच्यन्त कानिचित् ॥१७॥
ततः प्रव्यथितो राजा सोऽभिगम्य प्रसाद्य तम् ।
आभीत्वा स वृशं जानं पुनरेव पुरोदधे ॥१८॥
 स प्रसन्नो वृशोऽन्वैच्छद् धरमग्नेर्नृपक्षये ।
अविन्दत पिशाचीं तां जायां तस्य च भूपतेः ॥ १९ ॥
निषणः स तया सार्धम् आसन्द्यां कशिपावपि ।
तामुपामन्त्रयां चक्रे कमेतं त्वमिति त्वृचा ॥ २० ॥
हरः कुमाररूपेण ब्रुवंस्तामभ्यभाषत ।
विज्योतिषेति चोक्तायां सहसाग्निरुदज्वलत् ॥ २१॥
सहमानः समायान्तं प्रकाशं च प्रकाशयन् ।
पिशाचीमदहत्तां स यत्र चोपविवेश सा ॥ २२॥
एव एव परामृष्टो भाल्लविब्राह्मणे द्वृचः।
निदानसंज्ञके ग्रन्थे छन्दोगानामिति श्रुतिः ॥ २३॥
भवेदेव परामर्शः सूक्तस्यास्य व्यपेक्षया।
भवन्ति बाह्या मन्त्रा हि विधिदृष्टेन चोदिताः ॥ २४ ॥
दृश्यन्ते ब्राह्मणे मन्त्रा एकदेशे प्रदर्शिताः।
जामदग्न्यस्तथैवाप्र्य स्तोकीयाश्चैतरेयके ॥ २५॥
आप्रियः सुसमिद्धाय पञ्चमं सूक्तमत्र तु।
एवमृग्वैश्वदेवी वा अन्त्या चैन्द्राग्न्युपोत्तमे ॥२६
ऐन्द्राणि द्वादश त्रीति उशना त्वत्र संस्तुतः।
उशनेति तु पादेन सं ह यद्वामनेन च ॥ २७ ॥
इन्द्राकुत्सेति चैतस्यां कुत्सेनेन्द्र स्तुतः सह ।
यत्त्वा सूर्येति चात्रीणां पञ्चर्ये कर्म कीर्त्यते ॥ २८॥
अनस्वन्तेति सूक्तेऽस्मिन्न् आग्नेयेऽत्रिर्ऋषिः स्वयम् ।
दानतुष्टः शशंसैतान् राजर्षीनिति केचन ॥ २९ ॥
आशीरध्येषणाच्चैभ्यो अग्निं प्रति च दृश्यते ।
अयुतं च गवां त्रीणि शतान्यथ च विंशतिम् ॥ ३०॥
सौवर्णं शकटं गोभ्यां त्र्यरुणोऽदान्नृपोऽत्रये ।
अश्वमेधः शतं चोक्ष्णां त्रसदस्युर्धनं बहु ॥ ३१ ॥
राज्ञः प्रति च तत्सूक्तं बभाष इति केचन।
आत्मा हि नात्मने दद्याद् अग्रहीन्नृपतेर्ऋषिः ॥ ३२ ॥
अत्रेः सुतमृषिं बभ्रुम् आर्त्विज्याय ऋणंचयः।।
सहस्रदक्षिणे सोमे वव्रे तं सोऽप्ययाजयत् ॥ ३३ ॥
ददौ च रौशमो राजा सहस्राणि शतानि च।
तस्मै चत्वारि चत्वारि महावीरं च काञ्चनम् ॥ ३४ ॥
प्रवर्ग्येषु महावीराः सौवर्णास्तस्य चाभवन् ।
प्रतिगृह्य ऋषिर्गच्छन् मध्यमेनाग्निना पथि ॥ ३५॥
पृष्ट इन्द्रेण चाचख्यौ भद्रं चतसृभिश्च तत् ।
को नु वां वैश्वदेवानि एकादश पराण्यतः ॥ ३६॥
मारुतानि दश प्रेति इळाभीत्यृचि तु स्तुता।
उदित्यृचि तृतीयायां सविता शौनकोऽब्रवीत् ॥ ३७॥
उपेति बार्हस्पत्यस्तु तृचो मारुत्यृगुत्तरा ।
तमु ष्टुहीति रौद्री तु प्र सुष्टुतिरिति त्वृचि ॥ ३८॥
शौनकादिभिराचार्येर् देवता बहुधेरिता ।
इळस्पतिं शाकपूणिः पर्जन्याग्नी तु गालवः ॥ ३९॥
यास्कस्तु पूषणं मेने स्तुतमिन्द्रं तु शौनकः।
वैश्वानरं भागुरिस्तु मारुत्येष समाश्विना ॥ ४० ॥
वायव्याध्वर्यवः सौमी दशेत्यैन्द्री परा तु या।
अग्निं धर्मं पराञ्जन्ति अश्विनौ स्तोत्यृगच्छ च॥४१॥
प्रेति वायुं पूषणं च अर्धर्चेऽग्निरिहोच्यते ।
प्रथमेऽथ द्वितीये च स्तुता एति दिवौकसः॥४२॥
आ वाचं मध्यमां स्तौति ततोऽन्या तु बृहस्पतिम् ।
ज्यायांसमिति चादित्यं प्र वो वायुरिहोच्यते ॥४३॥
[]तं प्रत्नथेति सौमो वा दैव्यैन्द्री वा प्रजापतेः।
परोक्षवैश्वदेवं तद् आह कौषीतकिः स्वयम् ॥४४॥
तेषु तृतीयमित्युक्तं देवान्हुव इदं परम् ।
देवानां पत्नीरिति तु देवपत्न्यो द्वृचे स्तुताः ॥४५॥
अयं चतुर्णामिति चेन्द्रवायू त्रिभि स्तुतौ वायवा याहि वायुम् ।
रथं त्वृचा रोदसी स्तूयतेऽत्र यस्या स्तुता मरुतो रुद्रपत्न्याः ॥४६॥
आ रुद्रास इति त्वस्यां रुद्राणां संस्तुतो गणः ।
मरुतां तु गणस्यैतन् नाम रुद्रा इति स्मृताः ॥४७॥
असावग्निरयं चोभाव् अग्नी पार्थिवमध्यमौ ।
अग्ने मरुद्भिरित्यस्यां मरुद्भिः सह संस्तुतौ ॥४८॥
मध्यमा वाक स्त्रियः सर्वाः पुमान् सर्वश्च मध्यमः।
गणाश्च सर्वे मरुतो गुणभेदात्पृथक् पृथक् ॥४९॥
राजर्षिरभवद्दार्भ्यो रथवीतिरिति श्रुतः ।
स यक्ष्यमाणो राजात्रिम् अभिगम्य प्रसाद्य च ॥५०॥ द्र. ऋ. ५.६१
आत्मानं कार्यमर्थं च ख्यापयन्प्राञ्जलि स्थितः।
अवृणीतर्षिमात्रेयम् आर्त्विज्यायार्चनानसम् ॥५१॥
स सपुत्रोऽभ्यगच्छत्तं राजानं यज्ञसिद्धये ।
श्यावश्वश्चात्रिपुत्रस्य पुत्रः खल्वर्चनानसः॥५२॥
साङ्गोपाङ्गान्सर्ववेदान् यः पित्राध्यापितो मुदा।
अर्चनानाः सपुत्रोऽथ गत्वा नृपमयाजयत् ॥ ५३ ॥
यज्ञे च विततेऽपश्यद् राजपुत्रीं यशस्विनीम् ।
स्नुषा मे राजपुत्री स्याद् इति तस्य मनोऽभवत् ॥ ५४॥
श्यावाश्वस्य च तस्यां वै सक्तमासीत्तदा मनः।
संयुज्यस्व मया राजन्न् इति याज्यं च सोऽब्रवीत् ॥५५॥
श्यावाश्वाय सुतां दित्सुर् महिषीं स्वां नृपोऽब्रवीत् ।
किं ते मतमहं कन्यां श्यावाश्वाय ददामि हि ॥५६॥
अत्रिपुत्रोऽदुर्बलो हि जामाता त्वावयोरिति ।
राजानमब्रवीत्सापि नृपर्षिकुलजा ह्यहम् ॥५॥
नानृषिर्नौ तु जामाता नैष मन्त्रान् हि दृष्टवान् ।
ऋषये दीयतां कन्या वेदस्याम्बा भवेत्तथा।
ऋषिर्मन्त्रदृशं वेदपितरं मन्यते यतः ॥५८॥
प्रत्याचष्टे स तं राजा सह संमन्त्र्य भार्यया।
अनृऋषिर्नैव जामाता कश्चिद्भवितुमर्हति ॥५९॥
प्रत्याख्यात ऋषिस्तेन वृत्ते यज्ञे न्यवर्तत ।
श्यावाश्वस्य तु कन्याया मनो नैव न्यवर्तत ॥६०॥
ततस्तौ तु निवर्तेताम् उभावेवाभिजग्मतुः।
शशीयसीं तरन्तं च पुरुमीळहं च पार्थिवम् ॥६१॥
तरन्तपुरमीळ्हौ तु राजानौ वैददश्व्यृषी।
ताभ्यां तौ चक्रतुः पूजाम् ऋषिभ्यां नृपती स्वयम् ॥१२॥
ऋषिपुत्रं महिष्याश्च दर्शयामास तं नृपः।
तरन्तानुमता चैव प्रादाद्बहुविधं वसु ॥६३॥
अजाविकं गवाश्वं च श्यावाश्वाय शशीयसी ।
अत्रिं याज्यार्चितो गत्वा पितापुत्रौ स्वमाश्रमम् ॥६४॥
अभ्यवादयतामत्रिं महर्षिं दीप्ततेजसम् ।
श्यावाश्वस्य मनस्यासीन् मन्त्रस्यादर्शनादहम् ॥६५॥
न लब्धवानहं कन्यां हन्त सर्वाङ्गशोभनाम् ।
अप्यहं मन्त्रदर्शी स्यां भवेद्धर्षो महान्मम ॥ ६६॥
इत्यरण्ये चिन्तयतः प्रादुरासीन्मरुद्गणः।
ददर्श संस्थितान्पार्श्वे तुल्यरूपानिवात्मनः ॥ ६७॥
समानवयसश्चैव मरुतो रुक्मवक्षसः।
तांस्तुल्यवयसो दृष्ट्वा देवान्पुरुषविग्रहान् ॥ ६८॥
श्यावाश्वो विस्मितोऽपृच्छत् के ष्ठेति मरुतस्तदा ।
ततस्तु मरुतो देवान् रुद्रसूनूनबुध्वत ॥ ६९ ॥
य ईं वहन्त इत्याभिर् बुद्ध्वा तुष्टाव तांस्तथा ।
अतिक्रमं हि तं मेने ऋषिर्विपुलमात्मनः ॥ ७० ॥
यन्न दृष्ट्वैव तुष्टाव यच्च के ष्ठेति पृष्ठवान् ।
स्तुता स्तुत्या तथा प्रीता गच्छन्तः पृश्निमातरः॥ ७१ ॥
अवमुच्य स्ववश्नोभ्यो रुक्मं तस्मै तदा ददुः।
मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः ॥ ७२॥
रथवीतेर्दुहितरम् अगच्छन्मनसा तदा।
स सद्य ऋषिरात्मानं प्रवक्ष्यन् रथवीतये ॥ ७३ ॥
एतं मे स्तोममित्याभ्यां दौत्ये रात्रीं न्ययोजयत् ।
रथवीतिमपश्यन्तीं संप्रेक्ष्यार्षेण चक्षुषा ।। ७४ ॥
रम्ये हिमवतः पृष्ठे एष क्षेतीति चाब्रवीत् ।
ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥ ७२ ।।
आदाय कन्यां तां दार्भ्य उपेयायार्चनानसम् ।
पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः॥ ७६॥
रथवीतिरहं दार्भ्य इति नाम शशंस च।
मया संगतिमिच्छन्तं त्वां प्रत्याचक्षि यत्पुरा ॥ ७७ ॥
तत्क्षमस्व नमस्तेऽस्तु मा च मे भगवन्क्रुधः ।
ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः ॥ ७८ ॥
हन्त प्रतिगृहाणेमां स्नुषामित्येवमब्रवीत् ।
पाद्यार्घ्यमधुपर्कैश्च पूजयित्वा स्वयं नृपः ॥ ७९ ॥
शुक्लमश्वशतं दत्त्वा अनुजज्ञे गृहान्प्रति ।
शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम् ॥ ८० ॥
षडभिःसनदिति स्तुत्वा जगामर्षिरपि क्षयम् ।
ऋतेन मैत्रावरुणान्य् एकादश पराणि तु ॥ ८१ ॥
 षडश्विनानि गर्भार्थं पञ्चर्चोपनिषत्स्तुतिः।
सप्त कृत्वापराधान्यै विफले दारसंग्रहे ॥ ८२ ॥
ऋषिः कृतोऽश्वमेधेन भारतेनेति वै श्रुतिः।
तमष्टमेऽपराधे तु वृक्षद्रोण्यां स पार्थिवः ॥ ८३ ॥
ऋबोसे ह विनिक्षिप्य स्कन्नं रात्रौ न्यधारयत् ।
सोऽश्विनाविति सूक्तेन तुष्टावर्षिः शुभस्पती ।। ८४॥
तौ तं तस्मात्समुद्धृत्य चक्रतुः सफलं पुनः ।
तृचः स्वस्यैव गर्भार्थं स्वपतस्तस्य गर्भवत् ॥ ८५ ॥
यथा वात इति ज्ञेये त्वश्विन्यामितरे ऋचौ।
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ॥ ८६ ॥
भाववृत्तं तु तद्वत्स्यात् तथारूपं हि दृश्यते।
जरायुगर्भशब्दाभ्याम् एतद्रूपं हि दृश्यते ॥ ८७॥
महे उषस्ये सावित्रे युञ्जतेऽच्छेति वै स्तुतः।
पर्जन्यो बलिति त्वस्मिन् पृथिवी मध्यमा स्तुता ॥८८॥
अद्या नो देव सवितर् इयं दुःस्वप्ननाशनी ।
वारुणं तु प्र सम्राजे इन्द्राग्न्यैन्द्राग्नमुत्तरम् ॥ ८९ ॥
विष्णुन्यङ्गं परं प्रेति मारुतं सूक्तमुत्तमम् ।
एवयामरुदाख्यातं द्योर्नैन्द्रं प्रतिपूर्वकम् ॥९०॥
श्रीसूक्तमाशीर्वादस्तु श्रीपुत्राणां पराणि षट् ।
तत्स्याद्वा लक्ष्म्यपनुदम् अग्निस्तत्र निपातभाक् ॥९१॥
प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ ।
नानारूपा पयस्विन्यः संस्रवन्तीति संस्तुताः ॥९२॥
आशीर्वादेषु संज्ञाषु कर्मसंस्थासु देवता ।
निपातभाग् लिङ्गवाक्यात् परीक्षेतेह मन्त्रवित् ॥९३॥
मन्त्र प्रयोगमन्त्रयोः प्रयोगो बलवत्तरः ।
विधेस्तयोः परीक्षा स्यान् मन्त्राः स्युरभिधायकाः ॥९४॥
तस्मात्तेन विसंवादो मन्त्राणां तद्गतानि तु ।
गुणाभिधायकानि स्युः संविज्ञानपदानि तु ॥९५॥
मन्त्रेषु गुणभूतेषु प्रधानेषु च कर्मसु ।
प्रधानगुणभूताः स्युर् देवता इति गम्यते ॥९६॥
त्रिसांवत्सरिकं सत्त्रं प्रजाकामः प्रजापतिः।
आहरत्सहितः साध्यैर् विश्वैर्देवैः सहेति च ॥ ९७ ॥
तत्र वाग्दीक्षणीयायाम् आजगाम शरीरिणी।
तां दृष्ट्वा युगपत्तत्र कस्थाथ वरुणस्य च ॥९८॥
शुक्रं चस्कन्द तद्वायुर् अग्नौ प्रास्यद्यदृच्छया।
ततोऽर्चिभ्यो भृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः ॥ ९९॥
प्रजापति सुतौ दृष्ट्वा दृष्टा वागभ्यभाषत।
आभ्यामृषिस्तृतीयोऽपि भवेदत्रैव मे सुतः ॥१००॥
प्रजापतिस्तथेत्युक्तः प्रत्यभाषत भारतीम् ।।
ऋषिरत्रिस्ततो जज्ञे सूर्यानलसमद्युतिः ॥ १०१॥
योऽङ्गारेभ्य ऋषिर्जज्ञे तस्य पुत्रो बृहस्पतिः।
बृहस्पतेर्भरद्वाजो विदथीति य उच्यते ॥ १०२॥
मरुत्स्वासीद्गुरुर्यश्च स एवाङ्गिरसो नपात् ।
सपुत्रस्य तु तस्यैतन् मण्डलं षष्ठमुच्यते ॥ १०३ ॥
त्वं ह्यग्न इति तत्रादाव् आग्नेयानि त्रयोदश।
सूक्तानि त्रीणि मूर्धानत् अग्नेर्वैश्वानरस्य तु ॥ १०४ ॥
एकान्नत्रिंशदेवात्र पिबेत्यैन्द्राण्यतः परम् ।
अग्ने स क्षेषदित्यस्यां देवौ यौ तु निपातितौ ॥ १०५॥
प्रोतये नू म इत्येते वैश्वदेव्यावृचौ स्मृते ।
ऋग्द्वितीया पदं चान्त्यम् ऐन्द्रमेति गवां स्तुतिः ॥१०६॥
आसस्राणास इत्यस्यां वायुरिन्द्रश्च संस्तुतौ ।
इन्द्रः प्राधान्यतो वात्र स्तुतो वायुर्निपातभाक् ॥ १०७॥
अयं देवस्तृचं सौम्यम् ऐन्द्रमेके प्रचक्षते ।
य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः॥ १०८ ॥
पितरं स्तौति शंयुश्च तृचस्यान्त्ये पदे स्वकम् ।
स्वादुष्किलायमिति तु सौम्यः पञ्चर्च उत्तरः ॥ १०९॥
इन्द्रः प्रधानतो वात्र स्तुतः सोमो निपातभाक्।
इन्द्रस्येन्द्रयोऽनुपानीयाः श्रूयन्ते ह्यैतरेयके ॥११०॥
अगव्यूति स्तौति देवान् पादो भूमिमथोत्तरः।
बृहस्पतिं तृतीयस्तु इन्द्रमेवोत्तमं पदम् ॥ १११ ॥
वनस्पते वीड्वङ्गः परं यत् तदाचार्या भाववृत्तं वदन्ति ।
ऋचस्तु तिस्रस्तु रथाभिमर्शना उपेति तिस्रो दुन्दुभेः संस्तवोऽत्र ॥ ११२ ॥
समश्वपर्णा इति चार्यमैन्द्रं दशादितोऽग्नेस्तृणपाणिकस्य।
तृचः परो मारुतः पृश्निसूक्ते द्वृचः परो वैश्वदेवः पुनश्च ॥
आदित्यो वा मारुत एव वा स्याद्
आ मा पूषन्निति पौष्णाश्चतस्रः।
द्वृचं परं मारुतं तत्र विद्याद्
अन्त्या द्युभ्वोः कीर्तना पृश्नये वा ॥११४॥
स्तुषे सूक्तानि वै चत्वारि वैश्वदेवान्यतः परम् ।
द्वितीयाग्निं चतुर्थी च वायुं पञ्चम्यथाश्विनौ ॥ ११५॥
स्तौत्यृक् तु सप्तमी वाचम् अत्र पूषणमष्टमी ।
त्वष्टारं नवमो रुद्रं भुवनस्येत्यथोत्तरे ॥ ११६ ॥
मारुत्यौ यो रजांसीति विष्णुमेव जगावृषिः।
अभ्यन्द्रयेति च सावित्री रौदस्याग्नेव्युताश्विनी॥११७॥
अग्नीपर्जन्यावनयो सौर्यौ चोदु त्यदित्यृचौ ।
वयं चत्वारि पौष्णानि त्वैन्द्रापौष्णस्य चोत्तरम् ॥११८॥
रथीतमं कपर्दिनं रौद्रमेके प्रचक्षते ।
ऐन्द्राग्ने प्र नु वोचेति इयं सारस्वतं स्तुषे ॥ ११९॥
आश्विने चोषसे चैव मारुतं तु वपुर्न्विति।
उपेति च द्वृचेऽश्विभ्याम् आराधनं च शंसति ॥१२०॥
मैत्रावरुणमेवैकं विश्वेषां वः सतामिति ।
श्रुष्टीति चैन्द्रावरणं समैन्द्रावैष्णवं परम् ॥ १२१ ॥
द्यावापृथिव्यौ सविता इन्द्रासोमौ बृहस्पतिः।
पृथक्पृथक् परैः सूक्तैः सोमारुद्रेति तौ स्तुतौ ॥१२२॥
चक्रं रथो मणिर्भार्या भूमिरश्वो गजस्तथा।
एतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ १२३ ॥
अभ्यावर्ती चायमानः प्रस्तोकश्चैव सार्ञ्जयः ।
आजग्मतुर्भरद्वाजं जितौ वारशिखैर्युधि ॥ १२४ ॥
अभिगम्योचतुस्तौ तं प्रसाद्याख्याय नामनी ।
युधि वारशिवैर्ब्रह्मन्न् आवां विद्धि विनिर्जितौ ॥१२५॥
भवत्पुरोहितावावां क्षत्रबन्धूञ्जयेवहि ।
क्षत्रं तदपि विज्ञेयं ब्रह्म यत्पाति शाश्वतम् ॥ १२६ ॥
ऋषिस्तौ तु तथेत्युक्त्वा पायुं पुत्रमभाषत।
अधर्षणीयौ शत्रूणां कुरुष्वैतौ नृपाविति ॥ १२७ ॥
पितरं स तथेत्युक्त्वा युद्धोपकरणं तयोः ।
जीमूतस्येति सूक्तेन पृथक्त्वेनान्वमन्त्रयत् ॥ १२८॥
प्रथमा त्वस्य सूक्तस्य योद्धारं स्तौति वर्मिणम् ।
धनुषश्च द्वितीया तु तृतीया ज्याभिमन्त्रिणी ॥१२९॥
स्तौत्यृगार्त्नी तु इषुधिं स्तौति पञ्चमी ।
अर्धेन सारथिः षष्ठ्या रश्मयोऽर्धेन संस्तुतः ॥ १३०॥
अश्वांस्तु सप्तमी स्तौति आयुधागारमष्टमी।
नवमी रथगोपांस्तु दशमी रणदेवताः ॥ १३१॥
इषुं चैकादशी स्तौति द्वादशी कवचस्तुतिः।
त्रयोदशी कशां स्तौति हस्तत्राणं चतुर्दशी ॥१३२॥
प्रथमे पञ्चदश्यास्तु पादे दिग्ध इषु स्तुतः।
अयोमुखी द्वितीये तु अर्धेऽस्त्रं वारुणं परे ॥ १३३ ॥
षोळश्यां त्वस्य सूक्तस्य धनुर्मुक्त इषु स्तुतः।
सप्तदश्यां तु युद्धादेः कवचस्य तु बध्यतः॥ १३४ ॥
स्तुतिरष्टादशी ज्ञेया युयुत्सो स्तुतिरुत्तमा।
आशास्ते चोत्तमे पादे ऋषिरात्मन अशिषः ॥ १३५॥
सूक्तनानेन तु स्तुत्वा संग्रामाङ्गान्यृषिस्तयोः।
ततः प्रस्थापयामास पुनर्वारशिखान्प्रति ॥ १३३ ॥
एतत्त्यत्ते चतसृभी राज्ञो साहाय्यकाम्यया।
भरद्वाजोऽभितुष्टाव प्रोतस्तेन पुरंदरः ॥ १३७॥
अभ्यावर्तिनमभ्येत्य हर्युपीयानदीतटे ।
सहितश्चायमानेन जघानैनान्छचीपतिः ॥ १३८॥
तौ तु वारशिखाञ्जित्वा ततोऽभ्यावर्तिसार्ञ्जयौ।
भरद्वाजाय गुरवे ददतुर्विविधं वसु ॥१३९॥
भरद्वाजश्च गर्गश्च दृष्टाविन्द्रेण वै पथि ।
द्वयान् प्रस्तोक इत्याभिर् दानं तद्वै शशंसतुः ॥१४०॥
ऋषिरप्यभितुष्टाव दानं तत्र च तस्य तु ।
ऋचैकया द्वयाँ अग्ने दत्तं संकीर्तयन् स्वयम् ॥ १४१॥
प्रसङ्गात्त्विह याः सूक्ते देवताः परिकीर्तिताः।
ता एव सूक्तभाजस्तु मेने रथीतर स्तुतौ ॥ १४२ ॥
प्राजापत्यो मरीचिर्हि मारीचः कश्यपो मुनिः।
तस्य देव्योऽभवञ्जाया दाक्षायण्यस्त्रयोदश ॥ १४३ ॥
अदितिदितिर्दनुः काला दनायुः सिंहिका मुनिः।
क्रोधा विश्वा वरिष्टा च सुरभिर्विनता तथा ॥ १४४ ॥
कद्रूश्चैवेति दुहितः कश्यपाय ददौ स च ।
तासु देवासुराश्चैव गन्धर्वोरगराक्षसाः ॥ १४५ ॥
वयांसि व पिशाचाश्च जज्ञिरेऽन्याश्च जातयः।
तत्रैका त्वदितिर्देवी द्वादशजनयत्सुतान् ॥ १४६ ॥
भगश्चैवार्यमांशश्च मित्रो वरुण एव च ।
धाता चैव विधाता च विवस्वांश्च महाद्युतिः ॥ १४७॥ ।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
द्वन्द्वं तस्यास्तु तज्जज्ञे मित्रश्च वरुणश्च ह ॥ १४८ ॥
तयोरादित्ययोः सत्त्रे दृष्ट्वाप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ॥ १४९ ॥
तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी संबभूवतः॥ १५०॥
बहुधा पतिते शुक्रे कलशेऽथ जले स्थले।।
स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥ १५१ ॥
कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः।
उदियाय ततोऽगस्त्यः शम्यामात्रो महायशाः ॥१५२॥
मानेन संमितो यस्मात् तस्मान्मान्य इहोच्यते ।
यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते ॥१५३॥
कुम्भ इत्यभिधानं तु परिमाणस्य लक्ष्यते।
ततोऽप्सु गुह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥१५४॥
नामास्य गुणतो जज्ञे वसतेः श्रैष्ठ्यकर्मणः ।
अदृश्यमृषिभिर्हीन्द्रं सोऽपश्यत्तपसा पुरा ॥ १५६ ॥
सोमभागानथो तस्मै प्रोवाच हरिवाहनः ।
ऋषयो वा इन्द्रमिति ब्राह्मणात्तद्धि दृश्यते ॥ १५७ ॥
वसिष्ठश्च वसिष्ठाश्च ब्राह्मणा ब्रह्मकर्मणि ।
सर्वकर्मसु यज्ञेषु दक्षिणीयतमास्तथा ॥ १५८ ॥
तस्माद्येऽद्यापि वासिष्ठाः सदस्याः स्युस्तु कर्हिचित् ।
अर्हयेद्दक्षिणाभिस्तान् भाल्लवेयी श्रुतिस्त्वियम् ॥१५९॥
ऋषिस्तु मैत्रावरुणिः सूक्तैः षोळशभिः परैः।
तुष्टावाग्निमिति त्वग्निम् आप्र्यस्तत्र जुषस्व नः ॥१६०॥
प्राग्नयेऽथ प्र सम्राजो द्वितीयं प्राग्नये तृचम् ।
वैश्वानरीयाण्येतानि त्वे हैन्द्राणि पराण्यतः॥१६१ ॥
दश पञ्च च सूक्तानि निपातो मरुतां स्तुतिः।
नकिः सुदास इत्यस्यां दानं पैजवनस्य तु ॥ १६२ ॥
वसिष्ठेन चतुर्भिस्तु द्वे नप्तुरिति कीर्तितम् ।।
संवादं सूक्तमैन्द्रं वा श्वित्यञ्चस्तु प्रचक्षते ॥ १६३ ॥
वसिष्ठागस्त्ययोरत्र कीर्त्यते तनयैः सह ।
इन्द्रेण चैव संवादो महिमा जन्म कर्म च ॥ १६४॥
पराणि प्रेति चत्वारि वैश्वदेवानि तत्र तु।
स्तोत्यृगब्जामहिं तत्र मा नोऽहिं बुध्न्यमेव च ॥ १६५ ॥
अहिराहन्ति मेघान्स एति वा तेषु मध्यमः।
योऽहिः स बुध्न्यो वुध्ने हि णोऽन्तरिक्षेऽभिजायते॥१६६
उदु ष्य सवितुः सूक्तं शं नो वाजिनदैवतः।
द्वृचोऽर्धर्चश्च भागोऽत्र भगमुग्र इति श्रुतिः ॥ १६७ ॥
पादश्चैव तृतीयोऽत्र पञ्चम्यामहिदैवतः।
यथार्धर्चो भगमुग्रस् तथा नूनं भगोऽपि च ॥ १६८ ॥
स हि रत्नानि सविता सुवातीति भगः स वा।
वैश्वदेवानि पञ्चोर्ध्वः पञ्चर्चो भगदैवतः॥ १६९॥
प्रातर्जितमुषस्यान्त्या द्रष्टृभ्योऽत्राशिरेव वा।
एके तु द्रातरित्यस्यां भगमेव प्रचक्षते ॥१७० ॥
आदावन्ते तु ऋषयः कीर्तयन्ति प्रसङ्गतः।
सूक्तेऽस्मिन्देवतास्त्वन्या अन्यास्तत्र भवन्ति च ॥
सालोक्यात्साहचर्याद्वा संस्तवादथवा पुनः ।
गणस्थानाद्भक्तितो वा कीर्त्यन्तेऽन्यास्तु देवताः ॥
दाधिक्रमथ सावित्रं रौद्रमित्यनुपूर्वशः।
दाधिके प्रथमायास्तु देवताः परिकीर्तिताः ॥ १७३ ॥
ता ज्ञेया आप आप्यं स्याद् आर्भवः प्रथमस्तृचः।
उत्तमा वैश्वदेवी वा आर्भवी वा निगद्यते ॥ १७४ ॥
वैश्वदेवे तथा शास्त्रे आर्भवं शस्यते हि तत् ।
दशमेऽह्नि समस्तं समुद्रज्येष्ठा अपां स्तुतिः ॥ १७५ ॥

॥ इति बृहद्देवतायां पञ्चमोऽध्यायः ॥



  1. ४.५७.१
  2. ५.४४.१
"https://sa.wikisource.org/w/index.php?title=बृहद्देवता/अध्यायः_५&oldid=400601" इत्यस्माद् प्रतिप्राप्तम्