बृहद्दैवज्ञरञ्जनम्/वधूप्रवेशप्रकरणम्


अथ द्विसप्ततितमं वधूप्रवेशप्रकरणं प्रारभ्यते ।
वसिष्ठः –
शुभकाले गृहप्राप्तौ वर्द्धते सर्वसंपदः ।
असत्काले गृहप्राप्तौ सर्वं नाशं गृहं व्रजेत् ॥ १ ॥
जयतुंगे –
मार्गशीर्षे तथा माघे माधवे ज्येष्ठसंज्ञके ।
सुप्रशस्ते भवेद्वेश्म प्रवेशो नवयोषिताम् ॥ २ ॥
नारदः –
आरभ्योद्वाहदिवसात्षष्ठे वाप्यष्टमे दिने ।
वधूप्रवेशः संपत्त्यै दशमेथ समे दिने ॥ ३ ॥
संग्रहे –
विवाहमारभ्य वधूप्रवेशो युग्मे तिथौ षोडशवत्सरांतः ।
ऊर्ध्वं ततोब्देऽयुजि पंचमांतं पुनः परस्तान्नियमो न चास्ति ॥ ४ ॥
वृद्धनारदः –
समे वर्षे समे मासे यदि नारी गृहं व्रजेत् ।
आयुष्यं हरते भर्तुः सा नारी मरणं व्रजेत् ॥ ५ ॥
प्रयोगरत्ने –
वधूप्रवेशः प्रथमे तृतीये शुभप्रदः पंचमकेथवाह्नि ।
द्वितीयक वाथ चतुर्थके वा षष्ठे वियोगामयदुःखदः स्यात् ॥ ६ ॥
वृद्धवसिष्ठोपि –
षष्ठाष्टमे वा दशमे दिने वा विवाहमारभ्य वधूप्रवेशः ।
पंचांगसंशुद्धिदिनं विनापि विधावसद्गोचरगेपि कार्यः ॥ ७ ॥
लल्लः –
स्वभवनपुरप्रवेशे देशानां विप्लवे तथोद्वाहे ।
नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति ॥ ८ ॥
एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविप्लवे ।
विवाहे तीर्थयात्रायां प्रतिशुक्रं न दुष्यति ॥ ९ ॥
चैत्रे पौषे हरौ सुप्ते नष्टे च गुरुभार्गवे ।
पितुःस्थानस्थिता नारी न गच्छेद्भर्तृमंदिरम् ॥ १० ॥
ज्योतिःप्रकाशे –
नवोढायास्तु वैधव्य यदुक्तं संमुखे भृगौ ।
तदेवं विबुधैर्ज्ञेयं केवलं तु द्विरागमे ॥११॥
कालविवेके –
न शुक्रदोषो न सुरेज्यदोषस्ताराबलं चन्द्रबलं न योज्यम् ।
उद्वाहिताया नवकन्यकाया दीपोत्सवो मंगलशोभनानि ॥ १२ ॥
मांडव्यः –
नित्ययाने गृहे जीर्णे प्राशने परिधानके ।
वधूप्रवेश मांगल्ये न मौढ्यं गुरुशुक्रयोः ॥ १३ ॥
ज्योतिर्निबंधे-
वधूप्रवेशनं कार्यं पंचमे सप्तमे दिने ।
नवमे च शुभे वारे सुलग्ने शशिनोर्बले ॥ १४ ॥
विवाहपटले –
वधूप्रवेशः प्रथमेत्र वर्षे तथा तृतीयेप्यथ पंचमे वा।
सूर्येंदुदेवेज्यबलेन कुर्यात्पुंसो मुनिर्गौतम आह सत्यम् ॥ १५ ॥
भास्करव्यवहारे-
रात्रौ विवाहभे शस्तः सन्मुहूर्ते स्थिरोदये ।
वधूप्रवेशो नैवात्र प्रतिशुक्राद्भयं विदुः ॥ १६ ॥
ऋक्षैर्वैवाहिकैः शुद्धैर्दंपत्योश्च शुभप्रदम् ।
वधूप्रवेशो नो कार्यः पंचमे ह्यकृतं यदि ॥ १७ ॥
अत्र षोडश दिनातिक्रमे मासपर्यंतं विषमदिने वधूप्रवेशः कार्यः ।
प्रथममासातिक्रमे वर्षपर्यंतं विषमे मासि कर्तव्यः ।
तदा विषमदिननियमो नास्ति ।
एवं प्रथमे वर्षे अतिक्रान्ते पंचमवर्षपर्यंतं विषमे वर्षे कर्तव्यः ॥
तदा विषममासनियमो नास्ति ।
मार्तंडेपि –
लग्नादष्टदिनन्तातः सममुनीष्वंकेद्युषूर्ध्वं त्वयुग्द्यस्रेघ मास्यपि हायने शरमिताद्वर्षात्परं स्वेच्छया ।
वैफामार्गसिते जगुः श्रुतियुगोद्वाहर्क्षचित्राश्विनीज्यर्क्षैश्चानवमंदिरे निशि वधूसंवेशभृंगे स्थिरे ॥ १८ ॥
अथ नक्षत्रादिशुद्धिः । व्यवहारतत्त्वे –
पौष्णात्कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु ।
पुष्यं च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः ॥ १९ ॥
रामः –
ध्रुवक्षिप्रमृदुश्रोत्र वसुमूलमघानिले ।
वधूप्रवेशः सन्नेष्टो रिक्तारार्के बुधे परैः ॥ २० ॥
अथ चतुर्थिका । विवाहपटले –
स्वयामित्रोदये लग्ने शुभैः कार्या चतुर्थिका ।
स्ववर्णसदृशा सौम्यैस्त्र्याद्यैरेकर्क्षसंस्थितैः ॥ २१ ॥
वैवाहिके भे दिवसे शुभस्याथ तिथौ शुभे ।
यामित्रराशौ कन्यायां लग्ने शुभसमन्विते ॥ २२ ॥
चतुर्थिकां प्रकुर्वीत विधिदृष्टेन कर्मणा ।
सज्जारोपणकाले तु कुमार्यास्तद्विचारयेत् ॥ २३ ॥
याज्ञवल्क्यः –
लोकानंत्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ २४ ॥
अथ पुंस्त्रीसमागममुहूर्तः ।
उत्तरात्रयरोहिण्यां पुष्ये मैत्रकरे मृगे ।
चित्रास्वाती धनिष्ठासु पुंनार्योः संगमः शुभः ॥ २५ ॥
कन्यावैणिकमीनगोलिभवने केंद्रस्थिते सग्रहे पापे विक्रमलाभवैरिसहिते द्यूने शुभे वीक्षिते ।
वारे सौम्यदिनस्य योगकरणे शस्ते च रिक्ताष्टमी राकामारहिते तिथौ शुभविधौ दारोपभोगः शुभः ॥ २६ ॥
ओजराशिगते चन्द्रे लग्ने पुंग्रहवीक्षिते ।
उपवीते युग्मतिथौ सुलग्ने कामयेत् स्त्रियम् ॥२७॥
गण्डान्तं त्रिविधं त्यजेन्निधनजन्मर्क्षे च मूलांतकं दास्रं पौष्णमथोपरागदिवासान्पातं तथा वैधृतिम् ।
पित्रोः श्राद्धदिनं दिवा च परिघाद्यर्द्धं स्वपत्नीगमे भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम् ॥ २८ ॥
अथ केशबंधनम् ।
वातोत्तराश्रवणशकंर वाजिमूलपुष्यादितीन्दुकरपौष्णपुरंदरेषु ।
पक्षेसिते रविनिशाकरसौम्यवारे धम्मिल्लबंधनविधिः शुभदो मृगाक्ष्याः ॥ २९ ॥
अथ चूडीधारणम् ।
यावद्भास्करभुक्तिभानि दिवसे धिष्ण्यानि संख्या तथा वह्निं भूतगुणाब्धिसप्तनयनं पृथ्वीकरेंदुक्रमात् ।
सूर्यारौ कविसौम्यराहुरविजा जीवः शशी केतवः क्रूरे हानिशुभे शुभं च कथितं चक्रे करे भूषणम् ॥ ३० ॥
अथोद्वाहानंतरं मंडपोद्वासनम् । रामः –
युग्मे घस्रे षष्ठहीने च पंच सप्ताहे स्यान्मंडपोद्वासनं सत् ॥ ३१ ॥
अथ नूतनवध्वा पाककर्ममुहूर्तः ।
मृगोत्तरातिष्यकृशानुशाक्रे श्रुतित्रये ब्रह्मद्विदैवपौष्णे ।
शुभे तिथौ व्याररवौ प्रकुर्यान्नवा वधूर्नूतनपाककर्म ॥ ३२ ॥
स्थिरे लग्ने सुखे शुद्धे सप्तमे च बलान्विते ।
रन्ध्रे खे रविहीने च नवोढा पाकमाचरेत् ॥ ३३ ॥
अथालंकृतिधारणम् । बादरायणः –
हस्तानुराधगुरुपूषधनिष्ठयुक्ता चित्रोत्तरात्रयपुनर्वसुरोहिणीषु ।
लग्ने स्थिरे रविसितेन्दुजजीववारे हेमादिधारणविधिः कथितो नराणाम् ॥ ३४ ॥
करादिपंचकेश्विभे सपौष्णवासवे स्मृता ।
धृतिश्च शंखकांचनप्रवालरक्तवाससाम् ॥ ३५ ॥
पौष्णाश्विनी वसुकरादिषु पंचकेषु कौसुंभहेममणिविद्रुमरौप्य शंखाः ।
नार्या धृताः सुतसुखार्थकरा भवंति ब्राह्मोत्तरादिति गुरुष्वशुभाय भर्तुः ॥ ३६ ॥
रोहिणी गुरुपुनर्वसुतारे या बिभर्ति नवभूषणांबरम् ।
सा न योषिदवलंबते पतिं स्नानमाचरति वारुणेपि या ॥ ३७ ॥
पुष्ये पुनर्वसौ चैव रोहिण्यामुत्तरात्रये ।
पतिजीवतमिच्छंती नैव हेमादिकं स्पृशेत् ॥ ३८ ॥
चित्रा विशाखा पवनानुराधावस्वश्विनीभास्कर रेवतीषु ।
आदित्यशुक्रेंदुजजीववारे लग्ने स्थिरे स्त्री कनकादि दध्यात् ॥ ३९ ॥
क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेषु तल्लग्ने ।
मुक्ताफलरजताद्यं भूषणमखिलं सवज्रकं धार्यम् ॥ ४० ॥
लब्धं राजप्रसादेन विप्रादेशात्करग्रहे ।
प्रीत्याप्तं चोत्सवे धार्यं भूषणं निंद्यभादिके ॥४१॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने द्विसप्ततितमं वधूप्रवेशप्रकरणं समाप्तम् ।