बृहद्दैवज्ञरञ्जनम्/वर्षाप्रकरणम्

अथ पञ्चमं वर्षाप्रकरणं व्याख्यायते । तत्रादौ वायुपरीक्षा । लल्लः-
निर्घातोल्कापरिवेषविद्युच्छक्रचापसलिलमुचः ।
गंधर्वनगरपूर्वा मध्ये भूवायुकक्षायाम् ॥ १ ॥
भास्करोपि –
भूमेर्बहिर्द्वादश योजनानि भूवायुरत्रांबुदविद्युदाद्यम् ।
इति ॥ २ ॥
आषाढ्यां भास्करास्ते सुरपतिककुभे वाति वाते सुवृष्टिः सस्यध्वंसं प्रकुर्याद्यदि दहनदिशि मंदवृष्टिर्यमेन ।
नैर्ऋत्यां मध्यमा स्याद्वरुणबहुजला वायवे वायुकोपः कौबेर्यां सस्यपूर्णा भवति वसुमती तद्वदीशानकोण ॥ ३ ॥
अन्यः –
आषाढमासस्य च पौर्णमास्यां सूर्यास्तकाले यदि वाति वातः ।
पूर्वस्तदा सस्ययुता धरित्री नंदंति लोकाः सजला वनाः स्युः ॥ ४ ॥
कृशानुवाते मरणं प्रजानामन्नस्य नाशः खलु वृष्टिनाशः ।
याम्ये मही सस्यविवर्जिता स्यात् परस्परं यांति नृपा विनाशम् ॥ ५ ॥
नैशाचरो वाति यदात्र वातो न वारिदो वर्षति भूरि वारि ।
प्रत्यक्समीरे सुखिनो मनुष्या जलान्नपूर्णा च वसुंधरा स्यात् ॥ ६ ॥
वायव्यवाते जलदागमे स्यादभ्रस्य नाशः पवनैः प्रचण्डैः ।
सौम्येऽनिले धान्यजलाकुला धरा नंदंति लोका भयदुःखवर्जिताः ॥ ७ ॥
ऐशेऽन्नवृद्धिर्बहुवारिपूरिता धरा च गावो बहुदुग्धसंयुताः ।
भवंति वृक्षाः फलपुष्पदायिनो नंदंति भूपाश्च परस्परं तदा ॥ ८ ॥
आषाढ्यां पूर्णिमायां च वायुर्वहति चाष्टदिक् ।
प्रजानां सर्वसौख्यं च राज्ञां सौख्यं परस्परम् ॥ ९ ॥
आषाढ्यां यदि वा वायुर्न वहति कदाचन ।
तदा सर्वत्र वृष्टिः स्यात्सस्यवृद्धिः प्रजायते ॥ १० ॥
आषाढ्यां खंडवायुः स्याद्धरी च वहते यदि ।
रसाज्यशर्करावृद्धिः सर्वसौख्यं प्रजायते ॥ ११ ॥
आषाढीयोगोयं सम्यक् प्रोक्तो मुनिमतं समालोक्य ।
यं ज्ञात्वा दैवविदो लोके ख्यातिं समायांति ॥ १२ ॥
त्रैलोक्यप्रकाशे –
आषाढ्यां घटिकाषष्ट्या मासद्वादशनिर्णयः ।
द्वादशपंचका षष्ठिरित्येवं क्रममादिशेत् ॥ १३ ॥
पंचनाडी भवेन्मासो मासि मासि फलं पृथक् ।
यत्र नाड्यां शुभो वातो विद्युदभ्रादिगर्जनम् ॥ १४ ॥
तत्र मासि भवेद्वृष्टिरित्थं कालस्य निर्णयः ।
पूर्णिमायां विनष्टायां विनष्टं वर्षमादिशेत् ॥ १५ ॥
अथ सद्योवृष्टिलक्षणं प्रश्नं चाह । मयूरचित्रके –
शुक्ले पक्षे शशिनि तनुगे तोयराशिस्थिते वा केंद्रे याते प्रचुरमुदकं सौम्यदृष्टिप्रदिष्टम् ।
पापैर्दृष्टे न च बहुजलं प्रश्नकालेपि तज्ज्ञैर्वाच्यं सर्वं फलमविकलं चंद्रवद्भार्गवोपि ॥ १६ ॥
वर्षाप्रश्ने स्पृशति सलिलं वारिकार्योन्मुखो वा पृच्छाकाले सलिलमिति वा श्रूयते तन्मुखे वा ।
दृष्टः कूपो विमलसलिलं चेद्वदेद्वारिवृष्टिमेतत्सर्वं भवति च फलं व्यत्ययं व्यत्ययेन ॥ १७ ॥
प्रष्टुर्ब्रूयाज्जलमविरलं दुर्निरीक्ष्योतिसूर्यः प्रातःकाले भवति जलदः स्निग्धवैडूर्यकांतिः ॥ १८ ॥
प्रातःकाले पीतरश्मिर्दुर्निरीक्ष्यो भवेद्रविः ।
स्निग्धवैडूर्य्यकांतिश्चेन्मेघो वृष्टिप्रदः स्मृतः ॥ १९ ॥
प्रावृट्काले यदा सूर्यो मध्याह्ने दुःसहो भवेत् ।
तद्दिने वृष्टिदः प्रोक्तो द्रुतस्वर्णसमप्रभः ॥ २० ॥
यदा जलं च विरसं वियद्गोनेत्रसंनिभम् ।
दिशश्च विमलाः सर्वा काकांडाभं यदा नभः ॥२१॥
न यदा वाति पवनः स्थलं यांति झषादयः ।
शब्दं कुर्वंति मंडूकास्तदा स्याद्वृष्टिरुत्तमा ॥ २२ ॥
नखैर्लिखंति मार्जाराः पृथिवीं च यदा भृशम् ।
लोहाणां मलनिचयो विस्रगंधो यदा भवेत् ॥ २३ ॥
सेतुं कुर्वंति रथ्यायां शिशवो मिलिता यदा ।
शुद्धांजनाभा गिरयो बाष्पमुद्रितकंदराः ॥ २४ ॥
पिपीलिका यदांडानि गृहीत्वोच्चैः प्रयांति वै ।
सर्पा वृक्षं समायांति तदा बहुजलप्रदाः ॥ २५ ॥
गावः सूर्यं निरीक्षंति कृकलासगणास्तथा ।
गेहान्नेच्छन्ति पशवो निर्गमाः ककुरास्तथा ॥ २६ ॥
लताश्चोर्ध्वमुखाः सर्वाः स्नानं कुर्वंति पक्षिणः ।
पांसुभिश्च तृणाग्राणि सेवंते च सरीसृपाः ॥ २७ ॥
वियत्तित्तिरपक्षाभमलिपक्षनिभं तथा ।
तदा वृष्टिः समादेश्या निश्चितं दैवचिंतकैः ॥ २८ ॥
अवातवातस्तपशीत उष्णं रटंति मंडूकशिवाहिचातकाः ।
मयूरकंठद्युतिसूर्यमंडले त्रिभिर्दिनैर्वारि पतंति भूतले ॥ २९ ॥
प्रावृट्काले शीतरश्मिर्यदा स्यात्सूर्यादस्ते सौम्यदृष्टो यदा स्यात् ।
बुद्धिस्थाने सप्तमे च त्रिकोणे वृष्टिर्वाच्या दैवविद्भिः पुराणैः ॥ ३० ॥
शुभाश्च जलराशिस्थाः केंद्रगाः स्वीयगेहगाः ।
जलप्रदाः सिते पक्षे विधौ चोदयगे जले ॥ ३१ ॥
सप्तमगौ रविचंद्रौ सितरविजौ रसातले लग्नात् ।
प्रावृट्काले जलदौ भवतो वा द्वितीय सहजस्थौ ॥ ३२ ॥
प्रश्नलग्नात्तोयराशिर्यदि वित्ततृतीयगः ।
तोयसंज्ञो ग्रहस्तत्र भवत्यत्र जलप्रदः ॥ ३३ ॥
समागमे ज्ञसितयोस्तथा च गुरुशुक्रयोः ।
तथैव जीवबुधयोर्वृष्टिः स्यान्नात्र संशयः ॥ ३४ ॥
यदा भवंति सूर्यस्य ग्रहाः पृष्ठावलंबिनः ।
पुरतो वा यदा यांति तदा त्वेकार्णवा मही ॥ ३५ ॥
बुधशुक्रयोर्मध्यगतः सूर्यः स्याज्जलशोषकः ।
तयोर्यदि समीपस्थस्तदा बहुजलप्रदः ॥ ३६ ॥
अग्रे याति यदा भौमः पश्चाच्चलति भास्करः ।
तदा वृष्टिर्न बहुला जायते नात्र संशयः ॥ ३७ ॥
बुधो यदि समीपस्थो न कुजन्मा पुरो यदि ।
अनंतपदविन्यासश्चातुर्थ्यां सरसं कवेः ॥ ३८ ॥
वराहः–
व्रजति यदि कुजः पतंगमार्गे घट इव भिन्नतरे जलं ददाति ।
अथ भवति यदा दिवाग्रगश्च प्रलयघनानपि शोषयेद्धरित्रीम् ॥ ३९ ॥
लल्लः-
बुधशुक्रौ समीपस्थौ सजलां कुरुते महीम् ।
तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत् ॥४०॥
यदारसौरी सुरराजमंत्री यदैकराशौ समसप्तके च ।
अयोध्यलंकापुरमध्यदेशे भ्रमंति लोकाः क्षुधया प्रपीडिताः ॥ ४१ ॥
वराहः –
प्रावृषि शीतकरो भृगुपुत्रः सप्तमराशिगतः शुभदृष्टः ।
सूर्यसुतान्नवपंचमगो वा सप्तमगश्च जलागमनाय ॥ ४२ ॥
प्रायो ग्रहाणामुदयास्तकाले समागमे मंडलसंक्रमे च ।
पक्षक्षये तीक्ष्णकरायनांते वृष्टिर्गतेर्के नियमेन चार्द्राम् ॥ ४३ ॥
समागमे पतति जलं ज्ञशुक्रयोर्ज्ञ जीवयोर्गुरुसितयोश्च संगमे ।
यमारयोः पवनहुताशजं भयं न दृष्टयोरसहितयोश्च सद्ग्रहैः ॥ ४४ ॥
अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलंबिनः ।
यदा तदा प्रकुर्वंति महीमेकार्णवामिवं ॥ ४५ ॥
अथ त्रिनाडीचक्रम् ।
सर्पचक्रं तथा लेख्यमश्विन्यादित्रिनाडिकम् ।
नवनंदनवर्क्षाणि स्वर्गपातालभूमिषु ॥ ४६ ॥
एकनाडीस्थिताः सर्वे क्रूराः सौम्याश्च खेचराः ।
सद्यो वृष्टिं विजानीयात्प्रभूतं जलमादिशेत् ॥ ४७ ॥
स्वर्गनाडीगताः क्रूराः सौम्या पातालचारगाः ।
तद्वृष्टिर्जायते तत्र क्षिप्रं तोयं समुद्रगम् ॥ ४८॥
नपुंसकानां योगः स्याद्वायुः स्त्रीयोगतो ध्रुवम् ।
पुंस्त्रीसंयोगतो वृष्टिर्ग्रहाश्चेत्सबलास्तदा ॥ ४९ ॥
क्लीबस्त्री योगतः शीतं पुंयोगे वाततो भयम् ।
वातनाड्यादिगाः खेटाः कुर्युर्नाडीभवं फलम् ॥ ५० ॥
बुधशुक्रमहीसूनुगुरवश्चैकनाडिगाः ।
निस्संशयं तदा काले जायते वृष्टिरुत्तमा ॥ ५१ ॥
चलत्यंगारके वृष्टिरुदये च बृहस्पतौ ।
शुक्रस्यास्तमने वृष्टिर्वक्रांते च शनेर्भवेत् ॥ ५२ ॥

त्रिनाडी सर्पचक्र
अश्विनी आर्द्रा पुनर्वसु उ.फा. हस्त ज्येष्ठा मूल शतभिषक् पू.भाद्रपद स्वर्ग
भरणी मृगशिरा पुष्य पू.फा. चित्रा अनुराधा पूर्वाषाढा धनिष्ठा उ.भाद्रपद पाताल
कृत्तिका रोहिणी आश्लेषा मघा स्वाती विशाखा उत्तराषाढा श्रवण रेवती भूमि

मयूरचित्रके –
शुक्रस्यास्तमये वृष्टिरिज्ये चोदयमागते ।
संचरत्यवनीसूनौ वृष्टिर्मंदे त्रिधा मता ॥ ५३ ॥
अंगारको यदा मार्गी तदा संचरते रविः ।
तुषारं वर्षते देवः खंडं खंडं च वर्षति ॥ ५४ ॥
चंद्रत्रिकोणे द्यूने वा शुक्रो वा धरणीसुतः ।
तदा काले भवेद्वृष्टिर्नात्र कार्या विचारणा ॥५५॥
जलयोगे समायाते यदा चंद्रसितौ ग्रहौ ।
क्रूरदृष्टैर्युतौ वापि तदा मेघोल्पवृष्टिदः ॥ ५६ ॥
भानोरग्रे महीपुत्रो जलशोषकः प्रजायते ।
भानोः पश्चान्महीपुत्रो वृष्टिर्भवति भूयसी ॥ ५७ ॥
अथ सप्तनाड्यः ।
अथातः संप्रवक्ष्यामि यद्युक्तं सप्तनाडिकम् ।
येन विज्ञानमात्रेण वृष्टिं जानंति साधकाः ॥ ५८ ॥
कृत्तिकादि लिखेद्भानि साभिजित्तु क्रमेण च ।
सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः ॥ ५९ ॥
ताराचतुष्कवेधेन नाडिकैका प्रजायते ।
तासां नामान्यहं वक्ष्ये तथा चैव फलानि च ॥ ६० ॥
कृत्तिका च विशाखा च मैत्राख्यं भरणी तथा ।
ऊर्ध्वाद्या शनिनाडी स्याच्चण्डनाड्यभिधा मता ॥ ६१ ॥
रोहिणी स्वातिज्येष्ठाश्विद्वितीया नाडिका मता ।
आदित्यप्रभवा नाडी वायुनाडी तथैव च ॥ ६२ ॥
सौम्यं चित्रा तथा मूलं पौष्णर्क्षं च चतुर्थकम् ।
तृतीयांगारनाडी च दहनाख्या तथैव च ॥ ६३ ॥
रौद्रं हस्तं पूर्वाषाढं तथा भाद्रपदोत्तराः ।
चतुर्थी जीवनाडी स्यात्सौम्यनाडी प्रकीर्त्तिता ॥ ६४ ॥
पुनर्वसूत्तराफाल्गुन्युतराषाढतारकाः ॥
पूर्वभाद्रा च शुक्राख्या पंचमी नीरनाडिका ॥ ६५ ॥
पुष्यर्क्षं फाल्गुनी पूर्वा अभिजिच्छततारका ।
षष्ठी नाडी च विज्ञेया बुधाख्या जलनाडिका ॥ ६६ ॥
आश्लेषार्क्षं मघा कर्णं धनिष्ठाभं तथैव च ।
अमृताख्या हि सा ज्ञेया सप्तमी चंद्रनाडिका ॥ ६७ ॥

सप्तनाडी सर्पचक्रम्
चंडा वायु दहन सौम्या नीरा जल अमृत
शनि सूर्य मंगल जीव शुक्र बुध चन्द्र
कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसु पुष्य आश्लेषा
विशाखा स्वाती चित्रा हस्त उ.फाल्गुनी पू.फाल्गुनी मघा
अनुराधा ज्येष्ठा मू पूर्वाषाढा उत्तराषाढा अभिजित् श्रवण
भरणी अश्विनी रेवती उत्तरभाद्रपद पूर्वाभाद्रपद शतभिषक् धनिष्ठा

मध्यमार्गे स्थिता सौम्या नाडी तस्याग्रपृष्ठतः ।
सौम्या याम्यगता ज्ञेयं नाडिकानां त्रिकं त्रिकम् ॥६८॥
क्रूरयाम्यगता नाड्यः सौम्यासौम्यदिगाश्रिताः ।
मध्यनाडी च मध्यस्था ग्रहरूपफलप्रदाः ॥ ६९ ॥
एकनाडीगता द्वाद्या ग्रहाः क्रूराः शुभा यदि ।
ततो नाडीफलं वाच्यमशुभं यदि वा शुभम् ॥ ७० ॥
ग्रहाः कुर्युर्महावातं गताश्चंडाख्यनाडिकाः ।
वायुनाडीगता वायुं दहनामतिदाहकाः ॥ ७१ ॥
सौम्यनाडीगता मध्या नीरस्था मेघवाहकाः ।
जलायां वृष्टिदश्चद्रश्चंद्रनाडीगतं यदि ॥ ७२ ॥
एकोप्येतत्फलं दत्ते स्वनाडीसंस्थितो ग्रहः ।
भूसुतः सर्वनाडीषु दत्ते नाडीसमं फलम् ॥ ७३ ॥
प्रावृट्काले समायाते रौद्रऋक्षगते रवौ ।
नाडीवधसमायागे जलयोगं वदाम्यहम् ॥ ७४ ॥
यत्र नाड्यां स्थितश्चंद्रः तत्रस्थाः खेचरा यदि ।
क्रूराः सौम्याश्च मिश्रा वा तद्दिने वृष्टिरुत्तमा ॥ ७५ ॥
एकऋक्षे समायुक्ता जायते यदि खेचराः ।
तत्र काले महावृष्टिर्यावत्तस्यांशके शशी ॥ ७६ ॥
केवलैः सौम्यपापैर्वा गृहे विद्धो यदा शशी ।
तदा तुच्छं च पानीयं दुर्दिनं च भवेद्ध्रुवम् ॥ ७७ ॥
यस्य ग्रहस्य नाडिस्थश्चंद्रमा तद्ग्रहेण च ।
दृष्टो युक्तः करोत्यंभः यदि क्षीणो न जायते ॥ ७८ ॥
पीयूषनाडिगश्चद्रंस्तत्र खेटाः शुभाशुभम् ।
त्रिचतुःपंच पानीयं दिनान्येकत्रिसप्तकम् ॥ ७९ ॥
एवं जलाख्यनाडीस्थे चंद्रे मिश्रग्रहान्विते ॥
दिनार्द्धं दिवसं पंच दिनानि जायते जलम् ॥ ८० ॥
अमृतादित्रिनाडीषु जायते सर्वखेचराः ।
तत्र वृष्टिः क्रमाज्ज्ञेया धृत्या ( १८ ) र्क ( १२ ) रस ( ६ ) संख्यया ॥ ८१ ॥
नीरनाडीस्थिते चंद्रे तत्रस्थैः पूर्ववद् ग्रहैः ।
यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम् ॥ ८२ ॥
सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम् ।
शेषनाड्यां महावाता दुष्टवृष्टिप्रदा ग्रहाः ॥ ८३ ॥
निर्जला जलदा नाडी भवेद्योगे शुभाधिके ।
क्रूराधिके समायोगे जलदा अपि दाहकाः ॥ ८४ ॥
यस्य नाडीस्थिताः क्रूरा अनावृष्टिप्रदा ग्रहाः ।
शुभयुक्ता जलासंस्थास्तेतिवृष्टिप्रदा ग्रहाः ॥ ८५ ॥
एकनाडीसमारूढौ चंद्रमाधरणीसुतौ ।
यदि तत्र भवेज्जीवस्तदा वारिमयी मही ॥८६॥
बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ ।
चंद्रयोगस्तदा काले जायते वृष्टिरुत्तमा ॥ ८७ ॥
जलयोगे समायाते यदा चंद्रसितौ ग्रहौ ।
क्रूरैर्दृष्टौ युतौ वापि तदा मेघाल्पवृष्टिदा: ॥ ८८ ॥
सौम्यनाडीगता मध्या नीरस्था मेघवाहकाः ।
जलानां वृष्टिदचंद्रश्चंद्र नाडीगते यदि ॥ ८९ ॥
उदयास्तगता मार्ग वक्रे युक्ताश्च संगमे ।
जलनाडीगताः खेटा अतिवृष्टिप्रदायकाः ॥ ९० ॥
आर्द्रादिदशकं स्त्रीणां विशाखात्रि नपुंसकम् ।
मूलाच्चतुर्दशं पुंसां नक्षत्राणि क्रमाद्बुधैः ॥ ९१ ॥
वायुर्नपुंसके भे च स्त्रीणां भे चाभ्रदर्शनम् ।
स्त्रीणां पुरुषसंयोगे वृष्टिर्भवति निश्चितम् ॥ ९२ ॥
रविभौमार्कजाः शुष्काः सजलौ चंद्रभार्गवौ ।
बुधवाचस्पतिर्ज्ञेयौ सजलौ जलराशिगौ ॥ ९३ ॥
कुंभकर्कटकौ मीनमकरालितुलाधराः ।
सजला राशयः प्रोक्ता निर्जलाः शेषराशयः ॥ ९४ ॥
इति श्रीमज्ज्योतिर्विद्वर्यगयादत्तात्मजरामदीनज्योतिर्विद्विरचिते संग्रहे बृहद्देवज्ञरंजने पंचमं वृष्टिप्रकरणं समाप्तम् ॥ ५ ॥