बृहद्दैवज्ञरञ्जनम्/वर्षेशनिर्णयप्रकरणम्

अथ पंचदशं वर्षेशनिर्णयप्रकरणं प्रारभ्यते ।
कल्पलतायाम्—
संवत्सरस्य चांतस्य कुहुर्भवति यद्दिने ।
अपरो वासरो योसौ सोयं राजा विनिर्दिशेत् ॥ १ ॥
रत्नावल्याम् –
चैत्रशुक्लप्रतिपदि यो वारोर्कोदये स वर्षेशः ।
उदयद्वितये पूर्वो नोदययुगलेपि पूर्वः स्यात् ॥ २ ॥
दर्शांतेऽनल्पेपि पूर्वो राजा तदागमोऽपि विज्ञेयः ।
यस्माच्चैत्रसितादेरुदयाद्भानोः प्रवृत्तिरब्दादेः ॥ ३ ॥
दर्शप्रतिपत्संधौ चैत्रादौ यो भवेद्वारः ।
सोब्दपतिर्विज्ञेयः प्रतिपदि मध्याह्नकाले यः ॥ ४ ॥
बहुभिः कीर्तितो राजा रवेरुदयकालिकः ।
तत्र भूपद्वये वृद्धौ भूपाभावस्तिथिक्षये ॥ ५ ॥
गर्गः –
अमाप्रतिपदोः संधिर्मध्याह्नात्पूर्वतो यदि ।
तदा तद्दिनपो राजा परतश्चेत् परो भवेत् ॥ ६॥
मकरंदे –
यस्मिन्वारेपराह्णे स्यात्प्रतिपन्मधुशुक्लजा ।
स एव नृपतिर्ज्ञेयो वराहाद्व्यवहारतः ॥ ७ ॥
अन्ये तु यत्र वारे किंस्तुघ्नकरणं स्यात्तमेव राजानमूचुः ।
एवं मतभेदे सति पूर्वे व्यवस्थामाहुः ॥
कांबोजखार्जूर किरात सिंधुदेशेषु विल्वेष्वपि दर्दुरेषु ।
किंस्तुघ्नमध्याह्नगतेब्दपः स्यादन्येषु सूर्योदयगो दिनेशः ॥ ८ ॥
चैत्रादिमेषादिकुलीरतौलिमृगादिवाराधिपतिक्रमेण ।
राजा चमूपो ह्यथ सस्यनाथो रसाधिपो नीरसनायकश्च ॥ ९ ॥
फलोदये - चैत्रस्य शुक्लप्रतिपत्तिथौ यो वारः स उक्तो नृपतिस्तदाब्दे ।
मेषप्रवेशे किल भास्करस्य यस्मिन्दिने स्यात्स तु राजमंत्री ॥ १० ॥
कर्कसंक्रांतेर्यो वारः स अग्रधान्येश्वरः ।
धनसक्रांतेर्यो वारः स पश्चिमधान्येश्वरः ॥ ११ ॥
कर्कप्रवेशे दिनपस्य उक्ते सस्यस्य नाथो मुनिभिः पुराणैः ।
आर्द्राप्रवेशे दिननाथ उक्तो मेघाधिपः प्राक्तनविप्रवर्यैः ॥ १२ ॥
सिंहसंक्रांतिवारेशो दुर्गेशः परिकीर्तितः ।
कन्यासंक्रांतिदिनपो धनेशः परिकीर्तितः ॥ १३ ॥
तुलाप्रवेशेहनि यस्य वारो रसाधिपोऽयं नियतः प्रदिष्टः ।
चापप्रवेशे दिवसाधिनाथे धान्याधिपो वै कथितो मुनींद्रैः ॥ १४॥
नक्रसंक्रांतिवारेशो नीरसेशः प्रकीर्तितः ।
मीनसंक्रांतिदिनपः फलेशः परिकीर्तितः ॥ १५ ॥
रामघ्नशाको नग (७) भक्तशेषः पक्षण (२) युक्तो भवतीह राजा ।
बाणेन मंत्रा वसुभिश्च वर्षा नाथश्चतुर्भि ( ४ ) र्यदि सस्यनाथः ॥ १६ ॥
अथ विंशोपकानयनम् ।
शक त्रिघ्ने हृते शैलैर्लब्धं स्थाप्यं पृथक् पृथक् ।
शेषं द्विघ्नं शरै (५) र्युक्तं वर्षं स्याच्च ततः पुनः ॥ १७ ॥
लब्धं शाकं प्रकल्प्यैवं कर्तव्याः प्रोक्तवत्क्रियाः ।
धान्यं तृणं ततः शीतमुष्णं मारुतवृद्धयः ।
नाशेऽथ विग्रहश्चैव जायते क्रमतास्त्विमे ॥ १८ ॥
वर्षादिनवकस्याथ योगं दशहृते युतः ।
तल्लब्धं निष्पत्तिरुक्ता सार्धार्धं धर्मसप्तके ॥ १९ ॥
अथ क्षुदानयनम् ।
शाके सप्तगुणे नंदै ( ९ ) भक्ते लब्धं तु तत्क्वचित् ।
निधाय द्विगुणं शेषं सैकं क्षुत्स्यात्ततः पुनः ॥ २० ॥
लब्धं शाकं प्रकल्प्यैवं कर्तव्या प्रोक्तवत्क्रिया ॥ २१ ॥
तृषा निद्रा तथालस्यमुद्यमः शांतिरेव च ।
क्रोधो दंडोथ मित्रत्वमुत्सवः पापपुण्यके ॥ २२ ॥
अथ प्रकारांतरेण क्षुदानयनम् ।
शाके वेदै (४) र्हते शैलै ( ७ ) र्भक्ते लब्धं च पूर्ववत् ।
शेषं च द्विगुणं सैकं क्षुधा तृष्णा सुषुप्तिका ॥ २३ ॥
आलस्यमुद्यमः शांतिः क्रोधो लाभोथ भेदकः ।
दंडोथ मैथुनं चौर्यं रसनिष्पत्तिरेव च ॥ २४ ॥
फलनिष्पत्तिरुत्साहः पुण्यं पापं तथैव च ।
सर्वनिष्पत्तिरित्येवं संपत्तिश्च यथाक्रमात् ॥ २५ ॥
अथोग्रत्वाद्यानयनम् ।
शाकश्चाष्ट ( ८ ) गुणैः खेटै ( ९ ) र्भक्तो लब्धं च पूर्ववत् ।
द्विघ्नं शेषं त्रिभिर्युक्तमुग्रत्वं च रसोद्भवः ॥ २६ ॥
फलोत्पत्तिस्तथा व्याधी रोगनाशस्तथैव च ।
आचारश्चाप्यनाचारो मृतिर्जन्म ततः परम् ।
चौरोपशमनं वह्नेर्भीतिरग्निशमः क्रमात् ॥ २७ ॥
अथ शलभाद्यानयनम् ।
शाके त्रिघ्ने हृते नंदै (९) र्लब्धं स्थाप्यं तदुक्तवत् ।
द्विघ्नं शेषं त्रिभिर्युक्तं शलभो मूषकस्तथा ॥ २८ ॥
दैविकं पीतताम्रे च चक्रं च परचक्रकम् ॥ २९ ॥
अथ प्रकारांतरम् ।
शैलघ्नो नवहृच्छाकः शेषं द्विघ्नं युतं त्रिभिः ।
शलभो मूषको दैवं पीतं ताम्रं स्वचक्रकम् ॥ ३० ॥
परचक्रागमश्चैवं क्रमाज्ज्ञेयं च पूर्ववत् ॥ ३१ ॥
अथोद्भिज्जादिप्राण्यानयनम् ।
शाके वाणैर्नगैरेकैरीशै ( ५।७।१२।११ ) निंघ्ने पृथक् पृथक् ।
सप्तभक्तेऽवशेषं यद्विघ्नं पंचयुतं क्रमात् ॥ ३२ ॥
उद्भिज्जः स्वेदजश्चैव जरायुः प्रभवोंडजाः ॥ ३३ ॥
अथ धर्मानयनम् ।
खाभ्रखाभ्रांकवेदै ( ४९००००) श्च कलिशेषसमा युतिः ।
कलिमानेन संभक्ता यल्लब्धं धर्मराशयः ॥ ३४ ॥
अथ प्रकारांतरम् ।
रसा (५) स्तिथ्यो ( १५ ) गजाः शैलचंद्रा ( १७ ) नंदेंदव (१९) स्तथा ।
स्वर्गा (२१ ) द्दिशः ( १०) क्रमाज्ज्ञेया रव्यादीनां ध्रुवा इमे ॥ ३५ ॥
निजराशिपतेर्वर्षं स्वामिनो ध्रुवयोगके ।
त्रिघ्न बाणयुते भुक्ते तिथि ( १५) भिः शेषसंमिताः ॥३६॥
आयाः स्युः त्रिगुणे लब्धे शराढ्यास्तिथि ( १५ ) भिर्हृते ।
शेषे व्ययाः क्रमात्स्वस्य राशीनां कथितं बुधैः ॥ ३७ ॥
अथ संवत्सरादत्र सुभिक्षादिज्ञानमनुक्रमादाह ।
त्रिघ्नं संवत्सरैर्युक्तं शरैर्भक्तेथ सप्तभिः ।
चतुर्द्वित्रिमिते शेषे सुभिक्षं विपुलं भवेत् ॥ ३८ ॥
त्रिपंचके च दुर्भिक्षं षट्भूसंस्थे च मध्यमम् ।
शून्ये तु रौरवं ज्ञेयं फलं वर्षे बुधैः स्मृतम् ॥ ३९ ॥
अन्यच्च –
द्विघ्नः संवत्सरै रामैर्हीनो भक्ते नगैस्ततः ।
शेषे वाणमितैर्युग्मैः सुमिक्षं हायने भवेत् ॥ ४० ॥
वेदचंद्रमिते ज्ञेयं दुर्भिक्षं खे तु रौरवम् ।
रसानलमिते मध्यमेतद्वाच्यं फलं बुधैः ॥ ४१ ॥
अथ वर्तमान संवत्सरस्य नामसंख्यांकात्सुभिक्षादिज्ञानम् ।
प्रभवाद्दिगुणं कृत्वा त्रिभिर्न्यूनं च कारयेत् ।
सप्तभिस्तु हरेद्भागं शेष ज्ञेयं शुभाशुभम् ॥ ४२ ॥
एकचत्वारि दुर्भिक्षं पंचद्वाभ्यां सुभिक्षकम् ।
त्रिषष्ठे तु समं ज्ञेयं शून्ये पीडा न संशयः ॥ ४३ ॥
अथ शकात्सुभिक्षादिज्ञानमत्राह ।
शाके त्रिघ्ने युते वाणैः शैलैर्भक्तेऽथ शेषके ।
क्रमाद्बोध्यं सुभिक्षं च दुर्भिक्षं च सुभिक्षकम् ॥ ४४ ॥
महर्घं समता ज्ञेया चैकतो रौरवं तु खे ॥ ४५ ॥
अथ वर्षस्यात्र शुभाशुभविचारः ।
तिथिवारर्क्षयोगानां युतिः संवत्सरान्वितः ।
प्रष्टुर्नामाक्षरैर्युक्तस्त्रिहृतः शेषके फलम् ॥४६॥
एकेन क्लेशं समता च द्वाभ्यां सुखं त्रिशेषे मुनयो वदंति ॥ ४७ ॥
अथ शकाद्वृष्टिज्ञानम् ।
त्रिघ्नः शाको द्वित्रियुक्तो भक्तो वेदैश्च शेषके ।
विषमे प्रचुरा वृष्टिः समांके स्वल्पिका भवेत् ॥ ४८ ॥
इति श्रीमद्गयादत्तज्योतिर्विदात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने वर्षेशादिनिर्णयो नाम पंचदशं प्रकरणं समाप्तम् ॥ १५ ॥