अथ त्रयोविंशं वारप्रकरणं प्रारभ्यते । तन्मानलक्षणमुक्तं पुलस्तिसिद्धांते-
अथ सावनमानेन वाराः सप्त प्रकीर्तिताः ।
ते चार्कोदययोरेव विवरे तु समाः स्मृताः ॥ १ ॥
वसिष्ठोपि –
वारप्रवृत्तिविज्ञानं क्षणवारार्थमेव हि ।
अखिलेष्वन्यकार्येषु दिनानि उदयाद्भवेत् ॥ २ ॥
वारः स्वदेशार्कोदयादिति वसिष्ठसिद्धान्ते-
राश्यादिसाम्यं मासांते पक्षांतेंशादिकौ समौ ।
सर्वेषामेव मानानां दिनमर्कस्य दर्शनात् ॥ ३ ॥
तेषां नामानि –
रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः ।
एतेषां नामतो वाराः सप्तैव कथिताः पुरा ॥ ४ ॥
शुक्रेंदुबुधजीवानां वाराः सर्वत्र शोभनाः ।
भानुभूसुतमंदानां शुभकर्मसु केष्वपि ॥ ५ ॥
श्रीपतिः-
राजाभिषेकोत्सवयानसेवागोवह्निमंत्रौषधिशस्त्रकर्म ।
सुवर्णताम्रौर्णिकचर्मकाष्ठसंग्रामपण्यादि रवौ विदध्यात् ॥ ६ ॥
शंखाब्जमुक्तारजतेक्षुभोज्यस्त्रीवृक्षकृष्यंबुविभूषणाद्यम् ।
गीतक्रतुक्षीरविकारशृंगीपुष्पाक्षरारंभणमिंदुवारे ॥ ७ ॥
भेदानृतस्तेयविषाग्निशस्त्रबंधाभिघाताहवशाठ्यदंभान् ।
सेनानिवेशाकरधातुहेमप्रवालकार्यादि कुजेह्नि कुर्यात् ॥ ८ ॥
नैपुण्यपण्याध्ययनं कलाश्च शिल्पादिसेवालिपिलेखनानि ।
धातुक्रियाकांचनयुक्तिसंधिव्यायामवादाश्च बुधे विधेयाः ॥ ९ ॥
धर्मक्रिया पौष्टिकयज्ञविद्य मांगल्यहेमांबरवेश्मयात्रा ।
रथाश्वभैषज्यविभूषणाद्यं कार्यं विदध्यात्सुरमंत्रिणोह्नि ॥१०॥
स्त्रीगीतशय्यामणिरत्नगंधं वस्त्रोत्सवालंकरणादि कर्म ।
भूपण्यगोकोशकृषिक्रियाश्च सिध्यंति शुक्रस्य दिने समस्तम् ॥ ११ ॥
लोहाश्मसीसत्रपुरस्त्रदाशपापानृतस्तेयविषासवाद्यम् ।
गृहप्रवेशो द्विपबंधदीक्षा स्थिरं च कर्मार्कसुतेह्नि कुर्यात् ॥१२॥
रविः स्थिरः शांतिकरश्चरश्च महीज उग्रः शशिजश्च मिश्रः ।
लघुः सुरेज्यो भृगुजो मृदुश्च शनिश्च तीक्ष्णः कथितो मुनींद्रैः ॥ १३ ॥
शस्तो हि लाक्षारसरंजनेर्को मांजिष्ठकौसुंभकरागयोश्च ।
महीसुतः काञ्चनभूषणेषु पतंगसूनुः खलु लोहकृत्ये ॥ १४ ॥
गर्गः –
लाक्षाकौसुंभमांजिष्ठरोगकांचनभूषणे ।
प्रशस्तौ भौममार्तंडौ रविजो लोहकर्मणि ॥ १५ ॥
सोमसौम्यगुरुशुक्रवासराः सर्वकर्मसु भवंति सिद्धिदाः ।
भानुभौमशनिवासरेषु तु प्रोक्तमेव खलु कर्म सिध्यति ॥ १६ ॥
क्षीणेंदुसौरिकुजवक्रिदिने न शस्तं शस्तं च कर्म यदि चोपचयस्थिताः स्युः ।
अस्तंगतस्य विकृतस्य च नेष्टमह्नि सर्वं प्रशस्तमिह शेषदिनेश्वराणाम् ॥ १७ ॥
चण्डेश्वरः-
न वारदोषाः प्रभवंति रात्रौ विशेषतो भौमशनैश्चराणाम् ।
मध्याह्नकालादुपरि प्रवृत्ताः फलं न दद्युः करणानि चैवम् ॥ १८ ॥
न वारदोषाः प्रभवंति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् ।
दिवा शशांकार्कजभूसुतानां सर्वत्र निंद्यो बुधवार उक्तः ॥ १९ ॥
अथात्र रेखापुराणि देशांतरं चाह –
पुरी राक्षसी देवकन्याथ कांची सितः पर्वतः पर्वतौ वत्सगुल्मौ ।
पुरी चोज्जयिन्याह्वया गर्गराठं कुरुक्षेत्रमेरुर्भुवो मध्यरेखा ॥ २० ॥
रेखा स्वदेशांतरयोजनघ्नी गतिर्ग्रहस्याभ्रगजैर्विभक्ता ।
लब्धा विलिप्ताः खचरे विधेयाः प्राच्यामृणं पश्चिमतो धनंताः ॥ २१ ॥
श्रीपतिः-
वारप्रवृत्तिं मुनयो वदंति सूर्योदयाद्रावणराजधान्याम् ।
ऊर्ध्वं तथाधोप्यपरत्र तस्माच्चरार्धदेशांतरनाडिकाभिः ॥ २२ ॥
चरार्धदेशांतरयोर्वियोगो योगेथ पानीयपलैश्च सम्यक् ।'
सूर्योदयादूर्ध्वमृणे धनेधो वारप्रवृत्तिं मुनयो वदंति ॥२३॥
सिद्धांतसारे-
याम्ये सौम्य क्रमाद्गोले चरनाड्यो धनर्णकाः ।
प्रत्यक्प्राग्देशयोस्तद्वत्स्युर्देशांतरनाडिकाः ॥ २४ ॥
चरार्द्धदेशांतरनाडिकानां धनर्णतैक्ये युतिरन्यथान्या ।
सूर्योदयादूर्ध्वमथो घटीभिः स्वदेशजाभिर्दिनपप्रवृत्तिः ॥ २५ ॥
शिरोमणिसिद्धान्ते-
सूर्योदयादूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः ।
ऊर्ध्वं तथाधश्चरनाडिकाभी रवावुदग्दक्षिणगोलजाते ॥ २६ ॥
ज्योतिःसारे-
देशांतरचरार्धाभ्यां सौम्ये गोल इनोदयात् ।
ऊर्ध्वं वारप्रवृत्तिः स्याद्याम्ये चाधः प्रकीर्तितः ॥ २७ ॥
श्रीपतिः-
वारे ग्रहस्योपचयावहस्य कार्ये यथोद्दिष्टमुपैति सिद्धम् ।
भवेत्तदेवापचयावहस्य प्रयत्नतो निर्मितमप्यसाध्यम् ॥ २८ ॥
चण्डेश्वरः –
मीनालिमेषकलशेषु दिनांतमात्रं गोकर्ककार्मुकघटेष्वपि चार्धरात्रम् ।
स्त्रीयुग्मसिंहमकरेषु निशावसानं वारस्य भोगमिह यन्मुनयो वदंति ॥ २९ ॥
लल्लोपि –
मेषालिकुंभमीनार्के वारभोगं दिनांतके ।
गोधनुष्कर्कटे चार्धरात्रे शेषे निशांतकम् ॥ ३० ॥
कल्पतरौ –
नाभ्यंगमर्के न च भूमिपुत्रे क्षौरं च शुक्रेऽथ कुजे च मांसम् ।
बुधे च योषा परिवर्जनीया शेषेषु सर्वाणि समाचरेच्च ॥ ३१ ॥
ज्योतिःसारे -
ऋणं भौमे न गृह्णीयान्न देयं बुधवासरे ।
ऋणच्छेदं कुजे कुर्यात्संचयं सोमनंदने ॥ ३२ ॥
यस्य ग्रहस्य वारे यत्किंचित्कर्म प्रकीर्तितम् ।
तत्तस्य कालहोरायां सर्वमेव विधीयते ॥ ३३ ॥
अन्यदपि-
यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते ।
ग्रहस्य क्षणवारेपि तास्य तत्कर्म सर्वदा ॥ ३४ ॥
श्रीपतिः-
वारप्रवृत्तेर्घटिका द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः ।
दिनाधिपाद्या रविशुक्रसौम्यशशांक सोरेज्यकुजाः क्रमेण ॥ ३५ ॥
नारदः –
यस्मिन्वारे क्षणे वार इष्टस्तद्वासराधिषः ।
आद्यः षष्ठो द्वितीयोस्मात्तस्मात्षष्ठस्तृतीयकः ॥ ३६ ॥
षष्ठः षष्ठश्चेतरेषां काल होराधिपाः स्मृताः ।
सार्धनाडीद्वयेनैव दिवारात्रं यथाक्रमात् ॥ ३७ ॥

रविवारे होरा चन्द्रवारे होरा भौमवारे होरा बुधवारे होरा गुरुवारे होरा भृगुवारे होरा शनिवारे होरा
सू २।३० चं २।३० मं २।३० बु २।३० बृ २।३० शु २।३० श २।३०
शु ५।० श ५।० सू ५।० चं ५।० मं ५।० बृ ५।० बृ ५।०
बु ७।३० बृ ७।३० शु ७।३० श ७।३० सू ७।३० चं ७।३० मं ७।३०
चं १०।० मं १०।० बु १०।० बृ १०।० शु १०।० श १०।० सू १०।०
श १२।३० सू १२।३० चं १२।३० मं १२।३० बु १२।३० बृ १२।३० शु १२।३०
बृ १५।० शु १५।० श १५।० सू १५।० चं १५।० मं १५।० बु १५।०
मंं १७।३० बु १७।३० बृ १७।३० शु १७।३० श १७।३० सू १७।३० चं १७।३०
सू २०।० चं २०।० मं २०।० बु २०।० बृ २०।० शु २०।० श २०।०
शु २२।३० श २२।३० सू २२।३० चं २२।३० मं २२।३० बु २२।३० बृ २२।३०
बु २५।० बृ २५।० शु २५।० श २५।० सू २५।० चं २५।० मं २५।०
चं २७।३० मं २७।३० बु २७।३० बृ २७।३० शु २७।३० श २७।३० सू २७।३०
श ३०।० सू ३०।० चं ३०।० मं ३०।० बु ३०।० बृ ३०।० शु ३०।०
बृ ३२।३० शु ३२।३० श ३२।३० सू ३२।३० चं ३२।३० मं ३२।३० बु ३२।३०
मं ३५।० बु ३५।० बृ ३५।० शु ३५।० श ३५।० सू ३५।० चं ३५।०
सू ३७।३० चं ३७।३० मं ३७।३० बु ३७।३० बृ ३७।३० शु ३७।३० श ३७।३०
शु ४०।० श ४०।० सू ४०।० चं ४०।० मं ४०।० बु ४०।० बृ ४०।०
बु ४२।३० बृ ४२।३० शु ४२।३० श ४२।३० सू ४२।३० चं ४२।३० मं ४२।३०
चं ४५।० ४५।० ४५।० ४५।० ४५।० ४५।० ४५।०
श ४७।३० ४७।३० ४७।३० ४७।३० ४७।३० ४७।३० ४७।३०
बृ ५०।० ५०।० ५०।० ५०।० ५०।० ५०।० ५०।०
मं उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
सू उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
शु उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
बु उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
चं उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
श उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
बृ उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्
मं उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम् उदाहरणम्




इति श्रीमद्गयादत्तज्योतिर्विदात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने वारकथनं नाम त्रयोविंशं प्रकरणं समाप्तम् ॥ २३ ॥