बृहद्दैवज्ञरञ्जनम्/विवाहप्रकरणम्

अथैकसप्ततितमं विवाहप्रकरणं प्रारभ्यते ।
अथ सर्वेषामाश्रमाणां गृहस्थाश्रमो मुख्यतरस्तस्य लक्षणमुक्तम् ।
दया लज्जा क्षमा श्रद्धा प्रज्ञा कृतज्ञता ।
गुणा यस्य भवंत्येते गृहस्थो मुख्य एव च ॥१॥
शंखः –
वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः ।
गृहस्थस्य प्रसादेन जीवंत्येते यथाविधि ॥ २ ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
ददाति च गृहस्थश्च तस्माच्छ्रेयो गृहाश्रमी ॥ ३ ॥
व्यासः –
त्यागः गृहाश्रमात्परो धर्मो नास्ति नास्ति पुनः पुनः ॥ ४॥
यज्ञेभिर्दक्षिणावद्भिर्वह्निशुश्रूषया तथा ।
गृही स्वर्गमवाप्नोति तथा चातिथिपूजनात् ॥ ५ ॥
पुनर्व्यासः –
यावन्न विद्यते जाया तावदर्द्धो भवेत्पुमान् ।
नार्द्धं प्रजायते सर्वं प्रजायेतेत्यपि श्रुतिः ॥ ६ ॥
दक्षः-
पत्नीमूलं गृहं पुंसां यदि च्छंदानुवर्तिनी ।
गृहाश्रमात्परं नास्ति यदि भार्या वशानुगा ॥ ७ ॥
वसिष्ठः-
शिष्यो भार्या शिशुर्भ्राता मित्रं दासः समाश्रिताः ।
यस्यैतानि विनीतानि तस्य लोकेपि गौरवम् ॥ ८ ॥
मनुः-
यथा नदी नदाः सर्वे सागरे यांति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यांति संस्थितिम् ॥ ९ ॥
यथा वायुं समाश्रित्य वर्तंते सर्वजंतवः ।
तथा गृहस्थमाश्रित्य वर्तंते सर्व आश्रमाः ॥ १० ॥
यस्मात्त्रयोप्याश्रमिणो दानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यंते तस्माज्ज्येष्ठाश्रमो गृही ॥ ११ ॥
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् |
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाचेरत् ॥ १२ ॥
बृहस्पतिः –
विवाहादेव सत्सृष्टिः सत्सृष्ट्यैव जगत्त्रयम् ।
चतुर्वर्गफलावाप्तिस्तस्मात्परिणयः शुभः ॥ १३ ॥
विवाहसमये काले सुखासीनं शुभं प्रियम् ।
दैवज्ञं भक्तितो नत्वा संपूज्यादौ यथाबलम् ॥ १४ ॥
उडूनि नामनी चोक्त्वा संपृच्छेत्सकृदेव तम् ।
ज्ञानी चास्याक्षराज्ज्ञात्वा लग्नं तत्कालसंभवम् ॥ १५ ॥
श्रीपतिः –
प्राजापत्यं ब्राह्मदैवार्षिसंज्ञाः कालेषूक्तेष्वेव कार्या विवाहाः ।
गांधर्वाख्यश्वासुरो राक्षसश्च पैशाचो वा सर्वकाले विधेयाः ॥ १६ ॥
चत्वारो ब्राह्मणस्याद्या राज्ञां गांधर्वराक्षसौ ।
राक्षसश्चासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥ १७ ॥
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ॥ १८ ॥
आसुरो द्रविणादानाद्गांधर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ १९ ॥
अथाब्दशुद्धिः । नारदः –
वर्षग्रह संशुद्धिस्त्वयनविशुद्धिश्च माससंशुद्धिः ।
तिथिवारादिविशुद्धिर्लग्नांशविशुद्धिर्विवाहेषु ॥ २० ॥
वेदे वाक्ये जन्मतः प्रथमे वर्षे सोमो भुंक्तेथ कन्यका ।
गंधर्वोथ द्वितीयेब्दे तृतीयेग्निस्ततो नरः ॥ २१ ॥
पराशरस्तु –
षडब्दमध्ये नोद्वाहः कन्या वर्षद्वयं ततः ।
सोमो भुंक्तेऽथ गंधर्वस्ततः पश्चाद्धुताशनः॥२२॥
अन्यदपि –
चन्द्रगन्धर्ववह्न्यम्बुशिवसोमस्मरा इमे ।
पतयः कन्यकानां च बाल्यात् संति सदैव ते ॥ २३ ॥
अतः सप्तमवर्षादूर्ध्वं कन्यकाविवाह उचितः ।
पारिजाते यमः –
स्त्रीणामुपनयनस्थानोपपन्नो विवाह इति तदुचितो वयोवस्थायां विवाहस्योचितत्वात् । यमः –
सप्तसंवत्सरादूर्ध्वं विवाहः सार्ववर्णिकः ।
कन्यायाः शस्यते राजन्नान्यथा धर्मगर्हितः ॥ २४॥
बृहस्पतिः –
सप्ताब्दात्पंच वर्षेषु स्वोच्चस्वर्क्षगतो गुरुः ।
अशुभेपि शुभं दद्याच्छुभर्क्षेषु च किंपुनः ॥ २५ ॥
व्यासः –
अष्टवर्षा भवेद्गौरी नव वर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ २६ ॥
मरीचिः –
गौरी ददन्नाकपृष्ठं वैकुंठं रोहिणी ददत् ।
कन्याददद्ब्रह्मलोकं रौरवं वृषली ददत् ॥ २७ ॥
वात्स्यः –
गौरी विवाहिता सौख्यसंपन्ना स्यात्पतिव्रता ।
रोहिणी धनधान्यादि पुत्राद्या सुभगा भवेत् ॥ २८ ॥
कन्या विवाहिता संपत्समृद्धा स्वामिपूजिता ॥ २९ ॥
गौरी गुरोर्बलं देयं रोहिणीभास्करस्य च ।
कन्या चंद्रबलं देयमष्टदोषविवर्जिततम् ॥ ३० ॥
अर्कगुवोर्बलं गौर्या रोहिण्यर्कबला स्मृता ।
कन्या चंद्रबला प्रोक्ता वृषली लग्नतो बलात् ॥ ३१ ॥
गुर्विद्विनबला गौरी गुर्विंदुबलरोहिणी ।
रवींदुबलजा कन्या प्रौढा लग्नबला स्मृता ॥ ३२ ॥
वसिष्ठः –
अब्देषु युग्मेषु च कन्यकानां स्वजन्मवर्षाच्छुभदो विवाहः ।
अयुग्मवर्षेषु शुभो नराणां विपर्यये दुःखगदप्रदः स्यात्॥३३॥
नारदः-
युग्मेब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् ।
एतत्पुंसामयुग्मेब्दे व्यत्यये नाशनं तयोः ॥ ३४ ॥
संवर्तः –
युग्मेब्दे संपदो विद्याद्धनधान्यायुषः सदा ।
भर्तृदुष्टा भवत्योजे वर्षे नास्त्यत्र संशयः ॥ ३५ ॥
पराशरः- युग्मेब्दे संपदः सौख्यविद्याधर्मायुषः सदा ।
भर्तृदुष्टा भवत्योजे निषेकान्नात्र संशयः ॥ ३६ ॥
कश्यपः-
विवाहो जन्मतः स्त्रीणां युग्मेब्दे पुत्रपौत्रदः ।
अयुग्मे श्रीप्रदः पुंसां विपरीते तु मृत्युदः ॥ ३७ ॥
दैवज्ञो निर्दिशेद्युग्ममुद्वाहेब्दं प्रयत्नतः ।
सौभाग्यं धनसंपत्तिरोजे दुःखान्विता भवेत् ॥ ३८ ॥
मन्वर्थमुक्तावल्याम् –
अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत् ।
तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता ॥ ३९ ॥
श्रीपति- निबंधे –
मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे तु मासत्रयमेव यावत् ।
विवाहशुद्धिं प्रवदंति संतो वात्स्यादयो गर्गवराहमुख्याः ॥ ४० ॥
नारदः –
आदौ मासत्रये नेष्टं युग्मसंवत्सरस्य तु ।
पुरतो वर्षशुद्धिश्च गर्भमासान्विताः शुभाः ॥ ४१ ॥
लल्लः –
विवाहे जन्मतः स्त्रीणां वर्जनीयं प्रयत्नतः ।
नैव पुंसामिह प्राहुर्ज्योतिर्नयविदो बुधाः ॥ ४२ ॥
श्रीपतिरपि –
रवीज्यशशिशुद्धिश्च दशवर्षाणि कारयेत् ।
अत ऊर्ध्वं रजस्कन्या तस्माद्दोषो न विद्यते ॥ ४३ ॥
व्यासः –
दशवर्षव्यतिक्रांता कन्या शुद्धिविवर्जिता ।
तस्यास्तारेंदुलग्नानां शुद्धौ पाणिग्रहो मतः ॥ ४४ ॥
नारदः –
गुरुरबलो रविरशुभः प्राप्ते एकादशाब्दया कन्या ।
गणपतिगणकविशुद्धः स गणको ब्रह्महा भवति ॥ ४५ ॥
राजमार्तंडे - संप्राप्तैकादशे वर्षे कन्या यो न विवाहति ।
मासे मासे रजस्तस्या पिता पिबति शोणितम् ॥ ४६ ॥
नारदः - संप्राप्ते द्वादशे वर्षे कन्या यो न विवाहति ।
मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥ ४७ ॥
यमः –
कन्या द्वादशवर्षाणि याऽप्रदत्ता वसेद्गृहे।
ब्रह्महत्यापितुस्तस्याः सा कन्या वरयेत्स्वयम् ॥ ४८ ॥
वसिष्ठः- रजो हि दृष्टं यदि कन्यकायाः कुलद्वयं दुर्गतिमेति तस्याः ।
तस्मान्नितांतं च तदुक्तकालं वध्वाश्च पाणिग्रहणं विधेयम् ॥ ४९ ॥
नारदः –
यावन्तस्तृतवस्तस्याः समतीयुः पतिं विना ।
तांवत्यो भ्रूणहत्यासु उभयोर्न ददाति ताम् ॥ ५० ॥
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥ ५१ ॥
गुरुः-
चाण्डाली वृषलीभूतात्स्वत्कृतोपनिया यदि ।
वन्ध्या स्याद्वृषलीरूपा वृषली मृतपुत्रिणी ॥५२॥
रजस्वला या कौमार्ये वृषली सावरूपिणी ॥५३॥
नारदः –
पिता पितामहो भ्राता पितृव्यो मातुलस्तथा ।
पंचैते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ५४ ॥
वात्स्यः –
माता चैव पिता चैव ज्येष्ठभ्राता तथैव च ।
त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ ५५ ॥
यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यपांक्तेयः स भवेद्वृषलीपतिः ॥ ५६ ॥
रजस्वलायाः कन्याया गुरुशुद्धिं न चिंतयेत् ।
अष्टमेपि प्रकर्तव्यो विवाहत्रिगुणार्चनात् ॥५७॥
सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः ।
पंच षष्ठाब्दयोरेव शुभगोचरता मता ॥ ५८ ॥
नारदः-
अतिप्रौढा तु या कन्या कुलधर्मविरोधिनी ।
अविशुद्ध्यापि सा देया चन्द्रलग्नबलेन तु ॥ ५९ ॥
राजग्रस्तेथवा युद्धे पितॄणां प्राणसंक्षये ।
अतिप्रौढा च या कन्या नानुकूल्यं प्रतीक्ष्यते ॥ ६० ॥
दैवज्ञमनोहरे-
दुर्भिक्षे राष्ट्रभंगे च पित्रोर्वा प्राणसंक्षये ।
प्रौढायामपि कन्यायां प्रतिकूलं न दुष्यति ॥ ६१ ॥
अथ विनैव मेलापके विवाहः । दीपिकायाम् –
अयोजिता संधिलब्धा क्रीता स्नेहादिनार्पिता ।
स्वयमेवागता कन्या नैवास्तां शुद्धिमेलकौ ॥ ६२ ॥
बहूनामेकजातीनां कन्यकानां करग्रहे ।
ज्येष्ठायां मेलकं वीक्ष्य लघ्वीनां नैव चिंतयेत् ॥ ६३ ॥
आसुरादिविवाहेषु राशिकूटं न चिंतयेत् ।
तथा द्व्यङ्गातिवृद्धानां दुर्भगानां पुनर्भवाम् ॥ ६४ ॥
मनसाश्चक्षुषोर्यस्मिन्वरे यस्यां च योषिति ।
संतोषो जायते यत्र नान्यत्किचिद्विचिंतयेत् ॥ ६५ ॥
जीवत्पितृकाया अपि ऋतौ वर्षत्रयानंतरं स्वयंवर कालः ।
अदातृकाया इत्येतत् सर्ववर्णसाधारणम् । कन्याप्रदातारः कालनिर्णयदीपिकायामुक्ताः –
पिता पितामहो भ्राता माता बंधुर्यदा नहि ।
ऋतौ वर्षत्रयादूर्ध्वं कन्या कुर्यात्स्वयंवरम् ॥६६॥
बौधायनः –
वर्षाणि त्रीण्यृतुमती कांक्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विंदेत सदृशं पतिम् ॥ ६७ ॥
मनुः-
त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विंदेत सदृशं पतिम् ॥ ६८ ॥
अथ विवाहे शुद्धिक्रमः ।
सापिण्डं गोत्रशुद्धिं च शीलं सामुद्रिकाणि च ।
जातकादिभमेलं च वीक्ष्यं वाग्दानतः पुरा ॥ ६९ ॥
कुलपरीक्षा । मनुः –
लेपभागश्चतुर्थाद्याः पित्राद्याः पिंडभागिनः ।
पिण्डदः सप्तमस्तेषां सापिंडं सप्तपौरुषम् ॥ ७० ॥
संतानं भिद्यते यस्मात्पूर्वजादुभयत्रतः ।
तमादाय गणेद्धीमान् वरं यावच्च कन्यकाम् ॥ ७१ ॥
धर्मप्रदीपे –
असपिण्डा च पितृतः सप्तमात्पुरुषात्परम् ।
मातृतः पंचमादूर्ध्वमसमानार्षगोत्रजा ॥ ७२ ॥
स्मृतिचन्द्रिकायां निर्णयवचनम् –
मूलगोत्रादन्यगोत्रामुद्वहेदष्टमाष्टमीम् ।
अन्यगोत्रादन्यगोत्रात्षष्ठः षष्ठीं समुद्वहेत् ॥ ७३ ॥
तृतीयां वा चतुर्थीं वा पक्षयोरुभयोरपि ।
उद्वहेत्सर्वथा लाभ इति कैश्चिदुदीरितम् ॥ ७४ ॥
मातुलस्य तु गोत्राच्च मातृगोत्रात्तथैव च ।
समानप्रवरा ह्यूढा परित्याज्या प्रपालयेत् ।। ७५ ।।
पंचमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ।
उभयोर्मातृतश्चैव षष्ठः षष्ठीं समुद्वहेत् ॥ ७६ ॥
लिंगपुराणे –
वाक्यबंधकृतानां तु स्नेहसंबंधभागिनाम् ।
विवाहोत्र न कर्तव्यो लोकगर्हां प्रसज्यते ॥ ७७ ॥
स्मृतिमहार्णवे –
या तु प्रतीतिसंबंधा मातृगोत्रद्वये च या ।
सगोत्रा च सपिंडा च वर्ज्या सोद्वाहकर्मणि ॥ ७८ ॥
अथ गोत्रविचारः ।
समानप्रवरां कन्यामेकगोत्रामथापि वा ।
विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम् ॥ ७९ ॥
उत्सृज्य तां ततो भार्यां मातृवत्परिपालयेत् ।
अथ समानार्षगोत्रजाविवाहे प्रायश्चित्तम् ।
परिणीय सगोत्रां तु समानप्रवरां तथा ।
त्यागं कुर्याद्दिजस्तस्यास्ततश्चांद्रायणं चरेत् ।
त्यागश्चोपभोगस्यैव न तु तस्याः । प्रवरमंजर्याम्-
पंचानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।
भृंग्वगिरोगणेष्वेवं शेषेष्वेकोपि वारयेत् ॥ ८० ॥
समानप्रवरो भिन्नो मातृगोत्रवरस्य च ।
विवाहो नैव कर्तव्यः सा कन्या भगिनी भवेत् ॥ ८१ ॥
अत्र विशेषमाह सूत्रकारः –
एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते ।
तावत्समानगोत्रत्वमृते भृग्वंगिरोगणात् ॥ ८२ ॥
गोत्रप्रवर्तकाः प्राधान्येनाष्टौ मुनयः ते च अगस्त्याष्टमाः सप्तर्षयः । तथा च बोधायनः –
विश्वामित्रो जामदग्निर्भरद्वाजोथ गौतमः ।
अत्रिर्वसिष्ठः कश्यपश्च सप्तैते ऋषयः स्मृताः ॥ ८३ ॥
सप्तऋषीणामगस्त्याष्टमानां यदपत्यं गोत्रमित्याचक्षत इति ।
अत्र संग्रहकारस्त्वष्टादशगणानाह –
जमदग्न्यो वीतहव्यो वैन्यो गृत्समदाह्वयः ।
व्याघ्रः श्रीगौतमाख्यश्च भारद्वाजाह्वयः कपिः ॥ ८४ ॥
हारितो मौद्गलः कण्वो विरूपो विष्णुरुद्धयः ।
अत्रिर्विश्वामित्रक्रौंचो वसिष्ठः कश्यपाह्वयः ॥ ८५ ॥
अगस्त्यश्चेति मुनयोष्टादशगणाः स्मृताः ॥८६ ॥
स्मृत्यन्तरम् –
सावित्रीं यस्य यो दद्यात्तत्कन्या न विवाहयेत् ।
तद्गोत्रे तत्कुले वापि विवाहो नैव दोषकृत् ॥८७॥
गुरुः-
गुरोः सगोत्रप्रवरा नोद्वाहः क्षत्रवैश्ययोः ।
स्वगोत्रे ह्यनभिज्ञे च विप्रैराचार्यगोत्रजाः ॥ ८८ ॥
द्व्यामुष्यायणकाः सर्वे दत्तकक्रीतकादयः ॥ ८९ ॥
अथ वरपररीक्षा ।
कुलं शीलं वपुर्विद्या वयो वित्तं सनाथता ।
गुणाः सप्त वरे यस्मिन् तस्मै कन्या प्रदीयते ॥ ९० ॥
ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः ।
कन्यादाने तथा श्राद्धे न विद्या तत्र कारणम् ॥ ९१ ॥
कवित्वमारोग्यमतीवमेधा धर्मप्रशस्ता मधुरा च वाणी ।
कृष्णे च भक्तिः स्वजने च पूजा स्वर्गच्युतानां खलु चिह्नमेतत् ॥ ९२ ॥
सत्यं तपो ज्ञानमहिंसता च विद्या प्रियत्वं च सुशीलता च ।
एतानि यो धारयते स विद्वान् न केवलं यः पठते स विद्वान् ॥९३॥
स्वाध्यायाढ्यं योनिवंतं प्रशांतं वैतानस्थं पापभीरुर्बहुत्वम् ।
स्त्रीषु क्षांतं धार्मिकं गोशरण्यमेतैः क्रांतं तादृशं पात्रमाहुः ॥ ९४ ॥
कारिकानिबंधे –
अंधो मूकक्रियाहीनश्चापस्मारनपुंसकः ।
दूरस्थः पतितः कुष्ठी दीर्घरोगी वरो न सत् ॥९५॥
अत्यासन्ने नातिदूरे नात्याढ्ये नातिदुर्बले ।
वृत्तिहीने च मूर्खे च षड्भिः कन्या न दीयते ॥ ९६ ॥
मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् ।
त्रिगुणाधिकवर्षाणां न देया जातु कन्यका ॥ ९७ ॥
ब्रह्मवैवर्ते –
वृद्धाय गुणहीनायाबुद्धायाज्ञानिने तथा ।
दारिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ९८ ॥
अत्यंतकोपयुक्ताय चात्यंतदुर्मुखाय च ।
व्यंगुलायांगहीनाय चान्धाय बधिराय च ॥ ९९ ॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
ब्रह्महत्यां लभेत्सोपि यः स्वकन्यां ददाति च ॥ १०० ॥
अन्यत्रापि-
बालं वृद्धं काणं कुब्जं वामनं बधिरं तथा ।
षंढं व्यंगं क्रोधरतं मूकं शीतगदं तथा ॥ १०१ ॥
परदाररतं वेश्यारतं पांडुकिनं पुनः ।
आलस्यं निश्चलं चैव गंडमालादिरोगिणम् ॥ २ ॥
निर्धनं दूरदेशस्थं शूरं मूर्खं तथैव च ।
दोषैकविंशति प्राप्तं न वृणीत कदाचन ॥ ३ ॥
दासीजातश्च कुष्ठी च अपस्मारी नपुंसकः ।
चत्वारश्च महादोषाः शेषा दोषाश्च मध्यमाः ॥ ४ ॥
अपरीक्ष्य वरं कन्यां निर्गुणाय ददाति यः ।
कुलं तस्यैव तच्छोकसंतप्तो वा निकृंतति ॥ ५ ॥
अतः शांताय गुणिने चैव यूने च विदुषेपि च ।
वैष्णवाय सुतां दत्वा दशवापी फलं भवेत् ॥ ६ ॥
दशवापिसमा कन्या यदि पात्रे प्रदीयते ।
अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं बीजिनो नराः ।
क्षेत्रं वीजवते देयं नावीजी क्षेत्रमर्हति ॥ ७ ॥
अथ कन्यापरीक्षा । ज्योतिःसागरे –
भुजंगविहंगमभीषणपादपनाम्नी लकाररेफांता।
ऋक्षनदीनरसंज्ञा न विवाह्या कन्यका सद्भिः ॥ ८ ॥
अत्रांतशब्देन उपांतो लक्षितः ।
धन्या पर्वसु पुण्याख्या प्रेमनाम्नी च कन्यका ।
अतिदीर्घा च कपिला वर्ज्या कृष्णातिरोमशा ॥ ९ ॥
गतभीषणमाख्यातं नद्याख्यं वारुणं नदः ।
पक्षद्वीशं तरुर्मूलं यत्नतः परिवर्जयेत् ॥ ११० ॥
इति केचिन्मतं प्रोक्तं परैः प्रोक्तमथोच्यते ।
भुजंगादि प्रसिद्धार्थनाम्नीं कन्यां विवर्जयेत् ॥ ११ ॥
ललाटविपुला कुब्जा निर्लज्जाऽसत्यभाषिणी ।
व्याधिग्रस्ता च हीनांगी स्थूला दीर्घा कलिप्रिया ॥ १२ ॥
अंधा च बधिरा कन्या दशदोषविवर्जयेत् ।
अर्चितं वचनमुन्नतं मनो निर्विशेषसुखदं दशा वपुः ।
अस्ति चेद्यदपराङ्मुखीमतिर्लक्षणैः किमु नरैर्नृयोषिताम् ॥ १३ ॥
मनुः-
नोद्वहेत्कपिलां कन्यां नाधिकांगीं न रोगिणीम् ।
नालोमिका नातिलोमां न वाचालां न पिंगलाम् ॥ १४ ॥
ऋक्षवृक्षनदीनाम्नीं नास्तिपर्वतनामिकाम् ।
न पक्ष्यहि प्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ १५ ॥
नेत्रे यस्याः केकरे पिंगले वा स्याद्दुःशीला श्यावलोलेक्षणा च ।
कूपो यस्या गंडयोः सस्मिताया निःसंदिग्धं बंधकीं तां वदंति ॥ १६ ॥
धृष्टा कुदंता यदि पिंगलाक्षी लोम्ना समाकीर्णपदांगयष्टिः ।
मध्ये च पुष्टा यदि राजकन्या कुलेपि योग्या न विवाहनीया ॥ १७ ॥
वधूं सुलक्षणोपेतां प्रसन्नास्यां कुलोद्भवाम् ।
कन्यकां वृणुयाद्रूपवतीमव्यंगविग्रहाम् ॥ १८ ॥
मात्स्यसूक्ते –
गंगा च यमुना चैव गोमती च सरस्वती ।
नदीष्वासां नाम वृक्षे मालती तुलसी अपि ॥ १९ ॥
रेवती अश्विनी भेषु रोहिणी शुभदा भवेत् ।
अव्यंगांगीं सौम्यनाम्नीं हंसवारणगामिनीम् ॥ १२० ॥
तनुलोमकेशदशनां मृद्वंगीमुद्वहेत्स्त्रियम् ॥ २१ ॥
श्यामा सुकेशी तनुलोमराजी शुभ्रा सुशीला सुगतिः सुदंता ।
वेदीविमध्या यदि पंकजाक्षी कुलेन हीनापि विवाहनीया ॥ २२ ॥
ब्रह्मवैवर्ते –
यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।
विपदा धनलोभेन कुंभीपाकं स गच्छति ॥ २३ ॥
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी ।
दंशितः कृमिकाकैश्च यावदिंद्राश्चतुर्दश ॥ २४ ॥
तदंते व्याधियोनौ च लभते जन्म निश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ २५ ॥
अथ प्रसंगेन स्वस्यारिष्टानि ।
पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् ।
आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥ २६ ॥
स्वप्नो निमित्तं शकुनं स्वकर्म शरीरभोगं तु किमद्भुतानि ।
दोषाभिचारग्रहचारकालाः काम्यानि दैवं विविधाफलानि ॥ २७ ॥
फलं यदि प्राक्तनमेवतत्किं कृष्याद्यपायेषु परं प्रयत्नः ।
श्रुतिस्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णा ॥
अरुंधती ध्रुवश्चैव विष्णोस्त्रीणि पदानि च ।
आयुर्हीना न पश्यंति चतुर्थं मातृमण्डलम् ॥ २९॥
देहेप्यरुंधती जिह्वा ध्रुवो नासाग्रमेव च ।
भ्रुवोर्विष्णुपदं मध्यं तारकामातृमण्डलम् ॥ १३० ॥
नव भ्रुवोः सप्त घोषं पंच तारा त्रिनासिका ।
जिह्वामेकदिनं प्रोक्तं म्रियते मानवो ध्रुवम् ॥ ३१ ॥
आकीर्णश्रवणो यस्तु न घोषं शृणुयात्तथा ।
नभो मंदाकिनी मंदो छायां नेक्षेद्गतायुषः ॥ ३२ ॥
हकारे शीतलो यस्य सकारोग्निसमप्रभः ।
लक्षणं त्वीदृशं दृष्ट्वा तस्यायुः स्यात्समार्द्धकम् ॥ ३३ ॥
स्थूलो वापि कृशो कस्माद्दरिद्रो वा धनाढ्यकः ।
यो भुंक्ते न धृतिं लेभे स याति यममंदिरम् ॥ ३४ ॥
पांसुपंकादिषु न्यस्तं खंडं यस्य पदं भवेत् ।
पुरतः पृष्ठतो वापि सोष्टौ मासान्न जीवति ॥३५॥
संसृज्यते न सलिलैर्नलिनीदलवत्तनुः ।
स्नानमाचरतो यस्य षण्मासान्न स जीवति ॥ ३६ ॥
स्नानांबुलिप्तगात्रस्य यस्योरः प्राक्प्रशुष्यति ।
गात्रेष्वाद्रेषु सर्वेषु सोर्द्धमासं न जीवति ॥ ३७ ॥
जलादर्शादिषु छायां विकृतां यः प्रपश्यति ।
स्वं स्विद्यते ललाटं च तस्य मृत्युरुपस्थितः ॥ ३८ ॥
न मांत्यंगुलयस्तिस्रो मुखे यस्य स नश्यति ।
ऊर्ध्वतिर्यगधो दृष्टिर्यस्य स्यात्सोपि मृत्युभाक् ॥ ३९ ॥
नयनाते विनिष्पीड्य यस्तु तेजो न पश्यति ।
मयूरचन्द्रिकाकारं स सप्ताहाद्विपद्यते ॥ १४० ॥
गंधर्वनगरं पश्येद्दिवानक्षत्रमण्डलम् ।
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥ ४१ ॥
कंककाकाद्युलूकाद्या गोधाद्या यदि मध्यमाः ।
जीवाः शीर्षे पतंत्येव तदा जीवत्यसंशयः ॥ ४२ ॥
कपोतं प्रविशेद्यस्य गृहं घूको गृहोपरि ।
शब्दं कुर्यात्स नश्येच्च यः पश्येत्काकमैथुनम् ॥ ४३ ॥
स्वप्ने पश्यति आत्मानं षण्मासायुर्निरीक्षिते ।
कर्णनासाकरादीनां छेदनं पंकमज्जनम् ॥ ४४ ॥
पतनं दंतकेशानां पक्वमांसस्य भक्षणम् ।
खरोष्ट्रमहिषं यानं तैलाभ्यंगं च मृत्यवे ॥ ४५ ॥
अथ छायापुरुषदर्शनम् ।
अथातः संप्रवक्ष्यामि छायापुरुषलक्षणम् ।
येन विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ॥ ४६ ॥
कालो दूरस्थितो वापि येनोपायेन लक्षयेत् ।
प्रवक्ष्यामि समासेन यथोद्दिष्टं शिवागमे ॥ ४७ ॥
एकांते विजने गत्वा कृत्वादित्यं तु पृष्ठतः ।
निरीक्षेत निजां छायां कंठदेशे समाहितः ॥ ४८ ॥
ततश्चात्मसमीक्षेत ततः पश्यति शंकरम् ।
ॐ ह्रीं परब्रह्मणे नमः ।
अष्टोत्तरशतं जप्त्वा पश्चाद्यद्व्योम्नि स पश्यति ।
शुद्धस्फटिकसंकाशं नानारूपधरं हरम् ।
षण्मासाभ्यंतरे तस्प नास्ति किंचित्सुदुर्लभम् ॥ ४९ ॥
तद्रूपं शुभ्रवर्णं यः पश्यति व्योम्नि निर्मले ।
महादेवसमः साक्षाद्गोचराणां पतिर्भवेत् ॥ १५० ॥
वर्षद्वयेन तेनाथ कर्ता हर्ता स्वयं प्रभुः ।
त्रिकालज्ञानमात्रेण कर्ता हर्ता स्वयंप्रभुः ॥ ५१ ॥
संपूर्णावयवं तं चेत्संमुखं श्वेतमीक्षते ।
यावदब्दं सुखं क्षेमं विजयं प्राप्नुयात्तदा ॥ ५२ ॥
तद्रूपं कृष्णवर्णं यः पश्यति व्योम्नि निर्मले |
षण्मासान्मृत्युमाप्नोति स योगी नात्र संशयः ॥ ५३ ॥
पीते व्याधिर्भयं रक्ते नीले हत्यां विनिर्दिशेत् ।
दृष्टे तस्मिन् शिरोहीनो मासषट्कं स जीवति ॥ ५४ ॥
नानावर्णैरुपेतोस्मिन्नुद्वेगो जायते महान् ।
दुर्भिक्षं दारुणं देशे कर्बुरे च पराङ्मुखे ॥ ५५ ॥
विद्वरं धूमिते रूक्षे भिन्ने छिन्ने विघातनम् ।
विकर्णे हायने चैकव्यंसे वै माससप्तकम् ॥ ५६ ॥
स रन्ध्रहृदये सप्त दश मासान् विहस्तके |
विपार्श्वे त्रीण्युरस्के द्वौ ब्यासे मासं हि जीवनम् ॥ ५७ ॥
द्विदेहदर्शने मृत्युः सद्य एव न संशयः ।
मित्रनाशो विपादे च बन्धुनाशो विबाहुके ॥ ५८ ॥
आत्मनाशो विशीर्षे स्यात्सर्वाभावे कुलक्षयः ।
पदांगुली च जठरं विनाशः क्रमशो भवेत् ॥ ५९ ॥
षण्मासेनाथ वर्षेण क्रमाद्वर्षद्वयेन वा ।
अशिरो मासि मरणं विना जंघां दिनत्रयम् ॥ १६०॥
अष्टाभिः स्कंधनाशेन छायालुप्ते तु तत्क्षणात् ।
यस्य सूर्यस्वरोजस्रं षोडशाहं वहेत्तदा ॥ ६१ ॥
सद्यो मृत्युस्ततो नूनं न्यूनाहमिति मासके ।
एवं वामस्वरेणैव तयोर्नाशे मृतिः क्षणात् ॥ ६२ ॥
यस्य सूर्यायते चन्द्रः सूर्यश्चन्द्रायते तदा ।
अह्नद्वयं त्रयं तस्य षण्मासाभ्यंतरे मृतिः ॥ ६३ ॥
निष्प्रभं भास्करं पश्येन्म्रियते दशभिर्दिनैः ।
जाग्रत्पश्यति यः स्वप्नं सोपि वर्षं न जीवति ॥ ६४ ॥
न विंदेत्कर्णघोषं यो नासाग्रं रसनां ध्रुवंम् ।
मेढ्रं वामं न पश्येद्यः षण्मासान्न स जीवति ॥ ६५ ॥
मणिबंधं ललाटस्थं यदि सूक्ष्मं न पश्यति ।
यो दुर्गंधिर्विना हेतुं निःश्रीको वाति दीप्तिमान् ॥ ६६ ॥
कृशाङ्गः स्थूलदेहः स्यात्क्षरत्केशनखोपि वा ।
स्रवद्वामेक्षणे वापि मासषट्कं स जीवति ॥ ६७ ॥
ध्रुवं विष्णुपदं चैवारुंधतीं मातृमंडलम् ।
भूगोलं चंद्रगं चिह्नमपश्यन्नैव जीवति ॥ ६८ ॥
कफो मज्जति यस्याशु पंकादौ खंडितं पदम् ।
स्नातस्य प्रागुरः शुष्येद्धूमालिः स्याच्च मूर्द्धनि ॥ ६९ ॥
नासु भुंक्ते धृतिं धत्ते स्थूलदेहः कृशोथवा ।
विपर्यासः स्वभावस्य नोमात्यास्येंगुलत्रयम् ॥ १७० ॥
अथ कन्यादोषानाह । त्रिविक्रमः –
मृत्युः पौंश्चल्यवैधव्यदारिद्रमनपत्यता ।
एतान् दोषान्परित्यज्य विवाहपटलं ब्रुवे ॥ ७१ ॥
अन्यत्रापि –
पंच पाणिग्रहे दोषा वर्जनीयाः प्रयत्नतः ।
दारिद्र्यं मरणं व्याधिः पौंश्चल्यमनपत्यता ॥ ७२ ॥
चंद्राद्वा जन्मलग्नाद्वा बलाबलविमृश्यतः ।
अष्टमं पतिमृत्युः स्यात्सप्तमस्थानमेव च ॥ ७३ ॥
अथ जातकशास्त्रादर्भककुमार्योर्जन्मलग्नात् पापग्रहसामान्यतो निषेधकष्टतर शुभान्याह ताजकसागरात्-
द्वितीयपुत्रांकव्यवस्थितश्च पापस्तु साधारणदोषमाह ।
केन्द्राष्टमस्थे खलु पापखेटे कष्टांतरं चान्यगृहे प्रशस्तम् ॥ ७४ ॥
अथ कामिनीनां योगजग्रहाद्रंडासुतहा कुलटायोगत्रयमाह-
सूर्ये कुजे लग्नकलत्रसंस्थे स्वर्क्षोच्चगेप्यर्थयुताश्च रंडा ।
पापैः सुतस्थैः सुतवर्जिता स्याल्लग्ने कलत्रे कुलटा शनौ स्त्री ॥ ७५ ॥
अथ विधवा दुष्टा असुता दरिद्रा योगचतुष्टयमाह-
लग्नास्तरंध्रगैः पापैर्विधवा व्ययगैः खला ।
पुत्रस्थैरसुता नारी दरिद्रा धनबंधुगैः ॥ ७६ ॥
अथ वरकन्ययोः मरणयोगमाह –
षष्ठाष्टमस्थे हिमगौ च क्रूरे लग्ने मृतिः स्यात्खलु वत्सरेष्टमे ।
चंद्रे विलग्ने क्षितिजे कलत्रे वर्षेष्टमे स्यान्मरणं वरस्त्रियोः ॥ ७७ ॥
उदयात्सप्तमसंस्थे रवितनये शशांकपुत्रे वा ।
वैधव्यं क्षितितनये सप्तमगे कन्यका म्रियते ॥ ७८ ॥
अथ कन्यायाः पतिद्वयादियोगं तथा पुरुषस्य भार्याद्वयादियोगमाह-
चरोदये शीतकरे चरस्थिते पापग्रहैः केंद्रचरैर्बलान्वितैः ।
सौम्यग्रहैश्चाप्ययुतेक्षितैर्वधूः पतिद्वयं याति तथा द्विदेहगैः ॥ ७९ ॥
अथ पुंश्चलीकुलनाशिनीयोगद्वयमाह-
लग्ने सितेंद्वोर्यमभौमभस्थयोः संदृष्टयोः पापखगेन पुंश्चली ।
लग्नेथ चंद्रे ह्यशुभग्रहान्तरे पापेक्षिते स्यात्कुलनाशिनी वधूः ॥ १८० ॥
अथ कुमारिकायोनिक्षतादियोगमाह-
स्थिरोदये शीतगुलग्ननाथौ स्थिरर्क्षगावक्षतयोनिरंगना ।
चरोदये चंद्रविलग्ननाथौ चरस्थितौ स्याद्रमिता कुमारिका ॥ ८१ ॥
चरे लग्ने चरे चंद्रे चरेंशे खलखेचराः ।
तेषां स्वामिचरेंशे वा नारी देशान्तरं व्रजेत् ॥ ८२ ॥
लग्ने धने जले पुत्रे मासे रन्ध्रे कुजे रवौ ।
पापयुक्तेक्षिते शुष्कराशौ गर्भेषु चोष्णता ॥ ८३ ॥
चरोदये शीतकरे द्विदेहे स्यात्स्वल्पदोषा सुकुमारिका सा ।
चंद्रेक्षितौ शुक्रकुजौ च केंद्रे कन्या सदोषां कुरुतेऽरिगौ च ॥ ८४ ॥
हित्वा स्थिरं चन्द्रकुजेत्थशाले परेण गुह्याद्रमिता कुमारी ।
चंद्रार्कशन्योरुदयस्थयोः सा परेण कन्या प्रगटोपभुक्ता ॥ ८५ ॥
अथ सामान्यतः स्त्रीणां पौंश्चल्यादियोगं ताजिकशास्त्रादाह –
लग्नाधिनाथेन हिमांशुना वा यदित्थशालं कुरुते महीसुतः ।
भवत्यवश्यं स्वगृहैव योषा स्वर्क्षे कुजे याति तदीयमंदिरम् ॥ ८६ ॥
सपापशीतांशुरवीत्थशाले भुक्तांगनेयं नृपसंनिभेन ।
यमेत्थशाले भृतकेन भुक्तां ज्ञशुक्रयोर्लेखकविप्रवैश्यैः ॥ ८७ ॥
यामित्रनाथे बहुखेटसंयुते भवंति जारा बहवस्तु योषिताः ।
भावीत्थशाले स्मरपस्य भाविनः त्यक्त्वा तथा द्यूनपतीसराफकः ॥ ८८ ॥
लग्ने चरेंदोर्धिषणेत्थशाले साध्वी तथा केन्द्रगते सुरार्चिते ।
धर्मात्मजस्थे च सती सुशीला ज्ञेयांगनास्ते त्वशुभैर्विवर्जितैः ॥ ८९ ॥
शुभैः शशांकलग्नस्थैरपापैः स्थिरराशिगैः ।
स्वर्क्षोच्चगैश्च कैन्द्रस्थैः स्त्री सुशीला पतिव्रता ॥ १९० ॥
अथ रुष्टास्त्रीयोगमाह –
तुर्योपरिस्थिते भृगुजे चतुर्थादधस्थितेर्केण समेति रुष्टा ।
शुक्रे पुनर्वक्रगतेभ्युपैति विनिर्गतेर्काद्भृगुजेन चेति ॥ ९१ ॥
पूर्णे विधौ सा द्रुतमेति रुष्टा क्षीणैः प्रभूतैर्दिवसैः समेति ।
सूर्ये बले भर्तुरनिष्टदात्री भर्ता स्त्रियोऽनिष्टकरः सिते च ॥ ९२ ॥
अथ पुंसोः प्रीत्यादि योगमाह-
लग्नेशयामित्रपतीत्थशाले स्नेहो भवेत्स्त्री- नरयोरतीव ।
सुस्नेहदृष्ट्या च तयोः शशांककंबूलयोगे शुभयोः शुभं स्यात् ॥ ९३ ॥
लग्नेशास्तपयोः स्नेहदृष्ट्या सौख्यं मिथो भवेत् ।
क्रूरदृष्ट्या कलिं दृष्टेरभावे मध्यमं भवेत् ॥ ९४ ॥
लग्नास्थिते द्यूनपतौ स्वभर्तुरादेशकर्त्री वनिता सदा स्यात् ।
जायास्थिते लग्नपतौ स्वनार्या आदेशकारी पुरुषः सदैव ॥ ९५ ॥
पश्यंति सप्तमं सर्वे शनिजीवकुजाः पुनः ।
विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ ९६ ॥
लग्नेश्वरो लग्नगतः स्मरेशो जायास्थितो द्वावथ लग्नसंस्थौ ।
यामित्रगौ द्वावथ भर्तृवध्वोः प्रेमातिरेकं कुरुते प्रकर्षात् ॥ ९७ ॥
शत्रुदृष्ट्या च दंपत्योर्नित्यं झकटको भवेत् ।
लग्नेशास्तपयोः सप्तदृष्ट्या स्युः प्रीतिरुत्तमा ॥ ९८ ॥
अथ वंध्या - काकवंध्या- मृतवत्सा - गर्भस्रवा - पुष्पहंता - योगपंचकमाह ।
स्वर्क्षस्थितौ रन्ध्रगतौ यमार्कौ तदा स्त्रियं संदिशतश्च वंध्या ।
छिद्रस्थितौ चंद्रबुधौ सदोषां वा काकवंध्या वदतोंगना वै ॥ ९९ ॥
मृतप्रजा छिद्रगयोः सितेज्ययोर्गर्भस्रवा भूमिसुतेष्टमस्थिते ।
छिद्रे स्वरे छिद्रगते बलान्विते पुष्पं न विद्यत्यबलासु गर्भदम् ॥ २०० ॥
अपरं च सुतस्थाने द्विपापे च त्रिपापे गुरुभस्थिते ।
तदा स्त्रीपुरुषौ वंध्यौ विज्ञेयौ शत्रुवीक्षतौ ॥ १ ॥
भगिनी गृहिणी भ्रातृमातुल मातुलानी च ।
पितृव्यमातृष्वसादि- सुतवत्कारकादपि ॥ २ ॥
लग्ने शनौ कामगते शशांके शुक्रेक्षित वा यदि वंध्ययुक्तः ॥ ३ ॥
लग्ने व्यये चतुर्थे च पंचमे सप्तमे ग्रहाः ।
पतिवंध्या भवेन्नारी नारी वंध्या भवेत्पतिः ॥ ४ ॥
अथ नारीपुरुषयोर्मरणयोगमाह –
लग्नेशरन्ध्रेश पतीत्थशालकृद्रंध्रस्थ चंद्रेण युतौ मृतिप्रदः ।
षष्ठस्थ आत्मानमरिंजनात्मनः कुर्याद्व्ययं प्राप्तगतश्च संततः ।
सप्तमे क्रूरखचरः शुभदृष्टिविवर्जितः ।
भार्यामरणदः प्रोक्तो विनष्टो वास्तनायकः ॥ ५ ॥
अथ केवलभौमकृद्वधूवरयोर्दोषमाह –
लग्ने व्यये च पाताले यामित्रे चाष्टमे कुजे ।
कन्या भर्तृविनाशाय भर्तुः कन्या विनश्यति ॥ ६ ॥
लग्नादिंदोयदा भौमः सप्ताष्टांत्याद्यतुर्यगः ।
पत्युर्भार्याविनाशाय भार्यायाः पतिनाशनम् ॥ ७ ॥
द्व्यादि- पापयुते भौमे सप्तमे चाष्टमे स्थिते ।
बालवैधव्ययोगः स्यात्कुलनाशकरी वधूः ॥ ८ ॥
सप्तमस्थो यदा भौमो गुरुणा च निरीक्षिते ।
तदा तु सर्वसौख्यं स्यान्मगंली दोष नाशकृत् ॥ ९ ॥
गुरुः-
पापयुक्तो यदा चंद्रात्षष्ठे चाष्टमगे यदि ।
विवाहसमयान्मृत्युं दद्यादष्टाब्दरेतयोः ॥ २१० ॥
लग्ने पापग्रहैर्युक्ते नीचशत्रुगृहस्थितैः ।
अष्टमे वत्सरे चैव दंपत्योर्न शुभावहः ॥ ११ ॥
जन्मलग्ने यदा चंद्रस्तस्मात्षष्ठेऽष्टमे कुजः ।
वर्षाष्टमे नरो याति यमालयमपुत्रकः ॥ १२ ॥
कामार्ता विधवा कुलक्षयकरी पापद्वये चास्तगे वेश्या स्वामिवधं करोति कुलटा पापत्रयं चास्तगे ।
राहुः सप्तमगः करोति नियतं रिष्टं निहंति स्त्रियं चांडालीगतिचित्तमेव कुरुते पापत्रये वीक्षितः ॥ १३ ॥
वसिष्ठः-
स्वनीचगः शत्रुनिरीक्षितश्च पापो विलग्नाद्यदि पंचमस्थः ।
विवाहिता या मृतपुत्रिणी स्याद्वन्ध्याथ वा भर्तृविवर्जिता च ॥ १४ ॥
क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः ।
नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ १५ ॥
आथास्या भंगयोगः ।
लग्नाद्विधोर्वा यदि जन्मकाले शुभग्रहो वा मदनाधिपश्च ।
द्यूनस्थितोहंत्यनपत्यदोषं वैधव्यदोषं च विषांगनाख्यम् ॥ १६ ॥
केंद्रे कोणे शुभाढ्यश्चेत्त्रिषडायेप्यसद्ग्रहाः ।
तदा भौमस्य दोषो न मदने मदपस्तथा ॥ १७ ॥
भौमतुल्यो यदा भौमः पापो वा तादृशो भवेत् ।
उद्वाहः शुभदः प्रोक्तश्चिरायुः पुत्रपौत्रदः ॥ १८ ॥
अथ कन्यावैधव्योपशमनम् । मार्कंडेय पुराणे –
बालवैधव्ययोगे तु कुंभेषु प्रतिमादिभिः ।
कृत्वा लग्नं ततः पश्चात्कन्योद्वाह्येति चापरे ॥ १९ ॥
तत्र पुनर्भूदोषाभाव उक्तो विधानखंडे –
स्वर्णांबुपिप्पलानां च प्रतिमा विष्णुरूपिणी ।
तया सह विवाहे तु पुनर्भूत्वं न जायते ॥ २२० ॥
सूर्यारुणसंवादे –
विवाहात्पूर्वकाले च चन्द्रताराबलान्विते ।
विवाहोक्तेन मंथन्या कुंभेन सह चोद्वहेत् ॥ २१ ॥
सूत्रेण वेष्टयेत्पश्चाद्दशतंतुविधानतः ।
कुंकुमालंकृतं देहं तयोरेकान्तमंदिरे ॥ २२ ॥
ततः कुंभं च निःसार्य प्रभज्य सलिलाशये ।
ततोभिषेचनं कुर्यात्पंचपल्लववारिभिः ॥ २३ ॥
कुंभप्रार्थनापि तत्रैवोक्ता ।
वरुणांगस्वरूपाय जीवनानां समाश्रय ।
पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु ॥ २४ ॥
देहि विष्णो वरं देव कन्यां पालय दुःखतः ।
ततोलंकारवस्त्रादि वराय प्रतिपादयेत् ॥ २५ ॥
तत्रैव मूर्तिदानमप्युक्तम् ।
ब्राह्मणं साधुमामंत्र्य संपूज्य विविधार्हणैः ।
तस्मै दद्याद्विधानेन विष्णोर्मूर्तिं चतुर्भुजाम् ॥ २६ ॥
शुद्धवर्णसुवर्णेन वित्तशक्त्याथवा पुनः ।
निर्मितां रुचिरां शंखगदाचक्राब्जसंयुताम् ॥ २७ ॥
दधानां वाससी पीते कुमुदोत्पलमालिनीम् ।
सदक्षिणां च तां दद्यान्मन्त्रमेनमुदीरयेत् ॥ २८ ॥
यन्मया प्राचि जनुषि त्यक्त्वा पतिसमागमम् ।
विषोपविषशस्त्राद्यैर्हतो वातिविरक्तया ॥ २९ ॥
प्राप्यमानं महाघोरं यशःसौख्यधनापहम् ।
वैधव्यात्पतिदुःखौघनाशाय सुखलब्धये ॥२३०॥
बहुसौभाग्यलब्धौ च महाविष्णोरिमां तनुम् ।
सौवर्णनिर्मितां शक्त्या तुभ्यं संप्रददे द्विज ॥ ३१ ॥
अनघाद्याहमस्मीति त्रिवारं प्रजपेदिति ।
एवमस्त्विति तस्योक्तं गृहीत्वा स्वगृहं विशेत् ॥ ३२ ॥
ततो वैवाहिकं कुर्याद्विधिं दाता मृगीदृशः ॥ ३३ ॥
अन्येप्यश्वत्थवृक्षविवाहवृक्षसेचनादयस्तत्रैव ज्ञेयाः । ग्रन्थगौरवभयान्नेहोच्यते ।
अथ जन्मर्क्षविचारः । च्यवनः –
विशाखातुलया युक्ता देवरस्य शुभावहाः ।
विशाखा वृश्चिकोद्धूता देवरं हंत्यसंशयम् ॥ ३४ ॥
वृद्धनारदः –
निहंति देवर कन्या तुलामिश्रद्विदैवजा ।
चतुर्थपादजा त्याज्या दुष्टा वृश्चिकपुच्छ्वत् ॥ ३५ ॥
नारदः –
सुतः सुता वा नियतं श्वशुरं हंति मूलजः ।
तदंत्यपादजो नैव तथाश्लेषाद्यपादजः ॥ ३६ ॥
रामाचार्योपि -
श्वश्रूविनाशमहिजः सुतरां विधत्तः कन्यासुतौ निर्ऋतिजौ श्वशुरं हतश्च ।
ज्येष्ठाभजाततनयास्वधवाग्रजं च शक्राग्निजा भवति देवरनाशकर्त्री ॥ ३७ ॥
द्विशाद्यपादत्रयजा कन्या देवर सौख्यदा ।
मूलांत्यपादसर्पाद्यपादजातौ तयोः शुभौ ॥ ३८ ॥
ज्योतिःसारे –
मूलजा च गुणं हंति व्यालजा कुलटांगना ।
विशाखाजा देवरघ्नी ज्येष्ठाजा ज्येष्ठनाशिनी ॥ ३९ ॥
द्वीशसार्पैंद्रमूलेषु देवरं श्वशुराग्रजम् ।
श्वशुरं वैक्रमाद्धंति कन्यापुरुषयोर्द्वयोः ॥२४०॥
गर्गः–
मूलजा श्वशुरं हंति सार्पजा च तदंगनाम् ।
ज्येष्ठजा च पति- ज्येष्ठं देवरं तु द्विदैवजा ॥४१॥
धवाग्रजं हंति सुरेंद्रजाता तथैव कन्या भगिनी पुमांश्च ।
द्विदैवजा देवरमाशु हन्याद्भार्यानुजामाशु हि हंति सूनुः ॥ ४२ ॥
पत्न्यग्रजामग्रजं वा हंति ज्येष्ठर्क्षजः पुमान् ।
तथा भार्या स्वसारं वा शालकं वा द्विदैवजः ॥ ४३ ॥
कश्यप पटले-
मूलांत्यपादजौ श्रेष्ठौ तथाश्लेषांत्यपादजौ ।
द्वीशांत्यपादजौ दुष्टा तथा ज्येष्ठांत्यपादजौ ॥ ४४ ॥
नारदः –
मूलव्यालभवो दोषो विवाहे य उदाहृतः ।
स मौंजीबंधनादूर्ध्वं पुंसां नैवेति केचन ॥ ४५ ॥
पैत्र्यगण्डोद्भवा कन्या श्वशुरघ्नी च केचन ।
इत्यत्र केवलेनैकचरणाद्यः दोषकारकः ॥ ४६ ॥
अस्यापवादः । जगन्मोहने –
ऋक्षदोषे समुत्पन्ने भावनाथेस्तनीचगे ।
षष्ठाष्टमव्यये वापि ऋक्षदोषो न संशयः ॥ ४७ ॥
जातकोत्तमे –
मूलसार्पोद्भवं दौष्ट्यं न स्यात्पित्रादयो ग्रहाः ।
उक्तस्थानस्थिताः सौम्यदृष्टाश्च बलिनो यदि ॥ ४८ ॥
भावे भावाधिपे चैव चन्द्रे च बलशालिनि ।
उक्तदोषा विनश्यंति शुभग्रहयुतेक्षिते ॥ ४९ ॥
नामर्क्षाभमेलनम् । बृहस्पतिः –
दंपत्योर्जन्मताराभ्यां नामर्क्षाभ्यामथापि वा ।
भमेलं चिन्तयेत् प्राज्ञो सुखसंतानहेतवे ॥ २५० ॥
वसिष्ठः –
जन्मभं जन्मधिष्णेन नामधिष्णेन नामभम् ।
व्यत्ययेन यदा योज्यं दंपत्योर्निधनप्रदम् ॥ ५१ ॥
कुर्यात्षोडशकर्माणि जन्मराशौ बलान्विते ।
सर्वाण्यन्यानि कार्याणि नामराशौ बलान्विते ॥ ५२ ॥
ज्ञातं जन्म यदा पुंसः स्त्रियो न ज्ञायते तदा ।
जन्म नाम्नोर्बलं ज्ञात्वा कुर्वीतोद्वाहमंगलम् ॥ ५३ ॥
वसिष्ठः-
अज्ञातजन्मनां नॄणां नामभे परिकल्पना ।
तेनैव चिंतयेत् सर्वं राशिकूटादि जन्मवत् ॥ ५४ ॥
पटलसारे –
जन्मज्ञानेपि चैकस्य द्वयोर्नाम्नोर्भमेलकः ।
चिन्त्यस्तत्रैव जन्मर्क्षाद्वीक्ष्यं लग्नें॑दुजं बलम् ॥ ५५ ॥
अन्यः –
वध्वा जन्म यदा ज्ञातं न विज्ञातं वरस्य तु ।
नामर्क्षाभ्यां तदा कुर्याद्दंपत्योः पाणिपीडनम् ॥५६॥
जन्मर्क्षं यदि न ज्ञातं तदा नामैव संश्रयेत् ।
सर्वदा लौकिकायेषु नामर्क्षमवलोकयेत् ॥ ५७ ॥
यदा स्त्री जन्मसम्पत्तिर्वरजन्म न लभ्यते ।
स्त्रियः स्याज्जन्मशुद्धिर्नुर्नाम्नोर्मेलक्रिया तदा ॥ ५८ ॥
वरस्य जन्मना सार्द्धं नाम वध्वा विचिंतयेत् ।
न तु नामाद्वरस्यात्र अंगना जन्म चिंतयेत् ॥ ५९ ॥
शारंगधरः –
विवाहघटनं चैव लग्नजं ग्रहजं बलम् ।
नामाभिचिंतयेत्सर्वं जन्म न ज्ञायते सदा ॥ २६० ॥
दीपिकायाम् –
जन्म न ज्ञायते येषां तेषां नाम्नैव गण्यते ।
चक्रेऽवकहडे भांशे तन्नाडी कैश्चिदग्निभात् ॥ ६१ ॥
काकिण्यां वर्गशुद्धौ च वादे द्यूते स्वरोदये ।
मंत्रे पुनर्भूवरणे नामराशेः प्रधानता ॥ ६२ ॥
नृसिंहः –
नीचवर्णोद्भवानां च स्त्रीपुंसोर्वैरिभे गणे ।
नामांतरणे तत्कार्यं विवाहादौ विचक्षणैः ॥६३॥
पटलसारे-
वर्णं च वश्यं च मिथश्च तारा योनिश्च मैत्री खगयोर्गुणश्च ।
भमेलको नाडिकशुद्धिरेते यथोत्तरं स्युर्बलिनोष्टभेदाः ॥ ६४ ॥
गौतमः –
विप्राणां दश कूटं स्यात्क्षत्रियाणां तथाष्टकम् ।
वैश्यानामथ षड्भेदं शूद्राणां च चतुष्टयम् ॥ ६५ ॥
वर्णो वश्यं न दूरं च वल्लभत्वं च तारका ।
योनिर्मित्रगणे राशि- नाडीकेति क्रमाद्दश ॥ ६६ ॥
तत्र दूरद्वयं हित्वा कूटं भेदाष्टकं भवेत् ।
तारादि षट्कं षड्भेदं परं योनिचतुष्टयम् ॥ ६७ ॥
स्वराशिसंख्या दंपत्योर्वेदाप्तः शेषतः फलम् ।
उत्तमं स्याद्विशेषेल्पे मध्ये तुल्येधिकेधमम् ॥ ६८ ॥
अथ वर्णकूटम् ।
नारदः –
झषालिकर्कटा विप्रास्तदूर्ध्वा क्षत्रियादयः ।
पुंस्त्रीराशौ समे श्रेष्ठं पुंसो हीने तथा शुभम् ॥ ६९ ॥
प्रपंचसारे –
स्युः कर्कटो वृश्चिकमीनविप्रा नृपाहिसिंहश्च धनुश्च मेषः ।
तुला च कुंभो मिथुनश्च वैश्या कन्यावृषोथो मकरश्च शूद्राः ॥ २७० ॥
अन्यः –
कर्कालिमीनाविप्राः स्युः नृपाः सिंहाजधन्विनः ।
कन्यानक्रवृषा वैश्या शूद्रा युग्मतुलाघटाः ॥ ७१ ॥
केशवः–
षट्कर्मणां सितदेवदैत्यौ राजन्यकस्याधिपती कुजार्कौ ।
विट्शूद्रयोश्चन्द्रबुद्धौ शनिश्च संकीर्णपः स्त्रीनृषु वर्णमैत्री ॥ ७२ ॥
वरे वर्णाधिके प्रीतिरुत्तमा स्त्रीवरानुगाः ।
समवर्णे मिथः सौख्य हीने स्नेहो न जायते ॥ ७३ ॥
वर्णश्रेष्ठा तु या नारी वर्णहीनस्तु यः पुमान् ।
विवाहं नैव कुर्वीत तस्य भर्ता न जीवति ॥ ७४ ॥
यदि जीवति भर्ता च गर्भपात विदेशगः ॥ ७५ ॥
एकवर्णो भवेच्छ्रेष्ठो मध्यमौ विप्रक्षत्रियौ ।
अधमौ विप्रवैश्यौ च विप्रशूद्रौ विवर्जयेत् ॥ ७६ ॥
अथ गुणज्ञानम् । दैवज्ञमनोहरे-
एको गुणः सदृग्वर्णे तथा वर्णोत्तमे वरे ।
हीनवर्णे वरे शून्यं केप्याहुः सदृशे दलम् ॥ ७७ ॥
मार्तंडोपि – भूवर्णैक्यवरोत्तमे इति ।
अथ हीनवर्णपरिहारः । विवाहपटले –
हीनवर्णो यदा राशी राशीशौ वर्ण उत्तमः ।
तदा राशीश्वरो ग्राह्यास्तद्राशिं नैव चिन्तयेत् ॥ ७८ ॥
अथ वश्यकूटम् । तत्रादौ राशिस्वरूपं वराहः –
मत्स्यौ घटी नृमिथुनं सगदं सवीणं चापी नरोश्वजघन- मकरो मृगास्यः ।
तौली ससस्य दहना प्लवगाश्च कन्या शेषाः स्वनामसदृशाः खचौराश्च सर्वे ॥ ७९ ॥
सर्वे वश्या नृजाते स्युर्भक्ष्यास्तेषां जलोद्भवाः ।
सिंहं हित्वाथ सिंहस्य वश्यास्ते वृश्चिकं विना ॥ २८० ॥
श्रीपतिः –
सिंहं हित्वा मानुषाणां विधेया भक्ष्यास्तेषां तोयजाता हरेश्च ।
वश्यास्त्यक्त्वा वृश्चिकं चैवमन्यद्वश्यावश्यं विद्धि लोकप्रसिद्धम् ॥ ८१ ॥
वसिष्ठः –
वश्यास्त्यक्त्वा राशयोन्ये नृभानां सिंहं तस्याप्येकमन्ये विधेयाः ।
कीटं त्यक्त्वा लोकतोन्यत्प्रसिद्धं वश्यावश्यं नैव तोपालयंश्च ॥ ८२ ॥
बृहस्पतिः –
मेषस्य वश्यो सिंहालिः कर्कि वश्यो वृषस्य तु ।
यमस्य कन्या वश्यं स्यात्कर्किणश्चापवृश्चिकौ ॥ ८३ ॥
तुला सिंहस्य वश्यं स्यात्पाथोनेयस्य मत्स्यभौ ।
मृगकन्ये तु जूकस्य कर्किस्याद्वृश्चिकस्य तु ॥ ८४ ॥
मीनौ चापस्य वश्यं स्यात्क्रियकुंभौ मृगस्य तु ।
मेषकुंभस्य वश्यं स्यान्मकरो मीनवश्यवत् ॥ ८५ ॥
अन्यः –
चापाजौ वृषभेण कुंभमिथुनौ कर्केण मेषस्त्रिया शैलाग्नी सविषेण कार्मुकहरी नक्रेण नित्यद्विषौ ।
तद्वत्कुंभतुले झषेण वशगाः सिंहं विनान्ये नृणां तद्भोज्यं जलचारिणो हरिवशाः सर्वे विना वृश्चिकम् ॥ ८६ ॥
दैवज्ञमनोहरे –
सख्यं वैरं च भक्ष्यं च संख्यामाहुस्त्रिधा पुनः ।
वैरभक्ष्ये गुणाभावो द्वयोः संख्ये गुणद्वयम् ॥ ८७ ॥
वश्यवैरे गुणस्त्वेको वश्यभक्ष्ये गुणार्द्धकः ॥ ८८ ॥
मुहूर्तमार्तंडेपि-
अथ वधुगुणाः । वशभक्षेर्द्धं द्वयोर्मित्रयोः खं वैराशनके धरारिवशक इति । विवाहवृन्दावने –
स्वभाव मैत्री सखिता स्वपत्योर्वशित्वमन्योन्यभयोनिशुद्धिः ।
परस्परः पूर्वगमे गवेष्यो हस्ते त्रिवर्गी युगपद्युतिश्चेत् ॥८९॥
अथ ताराकूटम् ।
वरभाद्गणयेद्यावत्कन्यर्क्षे कन्यकादपि ।
वरभं नवहृच्छेषं तारा संति परस्परम् ॥ २९० ॥
नारदः - स्त्रीभमारभ्य गणते नवपर्यायतः क्रमात् ।
जन्मत्रिपंच सप्तस्थं पुंभस्याद्वरनाशनम् ॥ ९१ ॥
पुंभमारभ्य गणने स्त्रीभं जन्मादिके स्थले ।
स्त्रीविनाशो भवेत्तस्माद्दिनकूट विवर्जयेत् ॥ ९२ ॥
शार्ङ्गीये-
नरर्क्षाद्गणयेद्यावत्कन्यर्क्षं कन्यभादपि ।
नरभं नवहृच्छेषास्ताराः संति परस्परम् ॥ ९३ ॥
त्यक्त्वा त्रिपंचसप्ताख्याः शेषोद्वाहे मिथः शुभाः ॥ ९४ ॥
कश्यपः-
गणयेत्कन्यका धिष्ण्याद्यावंत्यवरजन्मभम् ।
जन्मत्रिपंचसप्तर्क्षं हित्वान्यर्क्षं शुभप्रदः ॥ ९५ ॥
केशवार्कः-
भीरुभादचलपंचतृतीयाः शोकवैरविपदे वरतारा ॥ ९६ ॥
दैवज्ञमनोहरे-
एकतो लभ्यते तारा शुभाश्चैवाशुभान्यतः ।
तदा सार्द्धं गुणाश्चैव तारा शुद्ध्या मिथस्त्रयः ॥ ९७ ॥
उभयोर्न शुभस्तारा तदा शून्यं समादिशेत् ॥ ९८ ॥
मार्तंडेपि- अथोसद्भयोरग्नयः मिश्रे तच्छकलम् इति ।
तारागुणाः
अथ योनिकूटम । रामाचार्यः –
अश्विन्यांबुपयोर्हयोनिगदितः स्वात्यर्कयोः कासरः सिंहोवस्वजपाद्भयोः समुदितो याम्यतयोः कुंजरः ।
मेषो देवपुरोहितानलभयोः कर्णांबुनोर्वानरः स्याद्वैश्वाभिजितोस्तथैव नकुलश्चंद्राब्जयोन्योरहिः ॥ ९९ ॥
ज्येष्ठामैत्रभयोः कुरंग उदितो मूलार्द्रयोः श्वा तथा मार्जारोदिति सार्पयोरथ ।
व्याघ्रो द्वीशभचित्रयोरपि च गौरर्यम्णबुध्न्यर्क्षयोर्योनिः पादगयोः परस्परमहावैरं विवाहे त्यजेत् ॥ ३०० ॥
परिहारवाक्यम् । अत्रिः –
एकयोनिषु संपत्यै दंपत्योः संगमः सदा ।
भिन्नयोनिषु मध्यस्यादरिभावो न चैतयोः ॥ १ ॥
योनिरभावे नोद्वाहः स तु कार्यों वियोगदः ।
राशिवश्यं च यद्यस्ति कारयेन्न तु दोषभाक् ॥ २॥
एकयोनिषु कलहो गजयोः सिंहयोः शुनोः ।
महद्वैरस्य समता महिषस्य कपेस्तथा ॥ ३ ॥
सद्भकूटे योनिवैरं मृत्युदं च परित्यजेत् ।
तत्र चेद्ग्रहयोः सख्यं नातिदुष्टं विदुर्बुधाः ॥ ४ ॥
योनिवैरं सदा त्याज्यं स्त्रीपुंसोर्भिन्नलिंगयोः ।
एकलिंगजयोः प्रोक्तं मध्यमं नातिदोषदम् ॥ ५ ॥
सति सद्राशिकूटेपि योनिवैरं न दोषकृत् ।
यदि स्यादबले योनेः पुंसोर्योनिर्बलीयसी ॥ ६ ॥
अथगृहमैत्री । गणेशः-
चन्द्रेज्यक्षितिजाः रवींदुतनयोगुर्विन्दुसूर्याः क्रमात् शुक्रार्कौ रविचन्द्रभूमितनयाः ज्ञार्की सितज्ञौमतौ ।
अर्कादेः सुहृदः समा अथ बुधाः सर्वे च शुक्रार्कजौ भौमाचार्ययमा यमः कुजगुरू पूज्यः परे वैरिणः ॥ ७ ॥
केशवः –
अपार्श्वे केंद्रद्वयगाः प्रसूतौ तत्कालमित्राणि मिथः खपंथा ।
न्यूनामपि स्त्री नृषु भृत्यराज्ञां तत्कालसंख्यं विशिनष्टि मैत्रीम् ॥ ८ ॥
नारदः –
नैसर्गिकाणि मित्राणि चिंतनीयानि यत्नतः ।
न च तत्कालमित्राणि वश्यराशिमतः शृणु ॥ ९ ॥
वसिष्ठः –
अन्योन्यमित्रं शस्तं स्यात्सममित्रं तु मध्यम् ।
उदासीनं कनिष्ठं स्यान्मृतिदं शात्रवं स्मृतम् ॥ ३१०॥
शत्रुमित्रं च विज्ञेयं दंपत्योः कलहप्रदम् ।
अन्योन्यं समशत्रुत्वं दंपत्योर्निधनप्रदम् ॥ ११ ॥
दैवज्ञमनोहरे-
ग्रहमैत्रं सप्तविधं गुणाः पंच प्रकीर्तिताः ।
तत्रैकाधिपतित्वे च मित्रत्वे गुणपंचकम् ॥ १२ ॥
चत्वारः सममित्रत्वे द्वयोः साम्ये त्रयो गुणाः ।
मित्रवैरे गुणाश्चैकः समवैरे गुणार्द्धकम् ॥ १३ ॥
परस्परं खेटवैरे गुणं शून्यं विनिर्दिशेत् ।
असद्भे सममित्रादौ व्येका ग्राह्या यथोदिता ॥ १४ ॥
मार्तंडे –
एकेशोभयमित्रयोः शरमिता रर्द्धं समारातिके चत्वारः सममित्रके रिपुहिते भूमिव्युदासे त्रयः ॥ १५ ॥
अस्यापवादः । वसिष्ठः-
द्विर्द्वादशे वा नवपंचमे वा षट्काष्टके राक्षसयोषितौ वा ।
एकाधिपत्ये भवनेशमैत्रैः शुभाय पाणिग्रहणं विधयेम् ॥ १६ ॥
राजमार्तंड:-
भवेत्त्रिकोणे बहुपुत्रवित्तो द्विर्द्वादशे चार्थमुपैति कन्या ।
षट्काष्टके सौख्यफलं विधत्ते स्त्रीणां विवाहो ग्रहमैत्रिभावे ॥ १७ ॥
सप्तर्षिमते-
नभागारिभवं हरत्सद्भकूटं विरुद्धं भकूटं हरेत्खेटमैत्री ।
न वर्णशुद्धिर्नगणो न योनिर्द्धिर्द्वादशे चापि षडाष्टके वा ॥ १८ ॥
वरेपि दूरेप्यथवा त्रिकोणे मैत्री यदा स्याच्छुभदो विवाहः ॥ १९ ॥
केशव:-
व्ययेन वित्तं न तपस्यपत्यं नायुर्द्विषत्वेव वधूवराणाम् ।
द्विर्द्वादशे पंचनवः षडष्टो जन्मर्क्षयोः सख्यविधिर्न दृष्टः ॥ ३२० ॥
शौनकः –
वर्गवैरं योनिवैरं गणवैरं नृदूरकम् ।
दुष्टकूटफलं सर्वं ग्रहमैत्रेण नश्यति ॥ २१ ॥
यथेशयोर्मिथो भावो दंपत्योस्तादृशौ भवेत् ।
 दुष्टकूटं शुभं मैत्र्यात्सद्भकूटेपि शस्यते ॥ २२ ॥
ज्योतिः प्रकाशे –
राशीशौ सुहृदौ स्यातां जन्मकाले यदा तदा ।
ग्रहवैरेपि कर्तव्यं भकूटं मुनयो जगुः ॥ २३ ॥
ग्रहमैत्रे शुभे लब्धे राशिकूटं न चिंतयेत् ॥ २४ ॥
मनुरपि –
राश्याधिपैके मैत्रे वा दुष्टकूटं शुभं भवेत् । इति ॥ २५ ॥
अथ गणकूटम् । केशवः –
त्रियुग्मो रोहिण्यां सहशिवयमर्क्षं नरसुरे श्रुतिस्वारे हाश्विन्यनुमृगशिरः पुष्यनवकम् ।
परं दैत्ये मृत्युर्दनुजमनुजानामनिमिषैः सहश्चैवं वैरं निर्ऋतितनयानां परिणये ॥ २६ ॥
अन्यः –
देमारामादमादेहे रारा मम दरादरा ।
दरा राम मदे रारा ममादेति गणत्रयम् ॥ २७ ॥
स्वगणे चोत्तमा प्रीतिः मैत्री स्यान्नरदेवयोः ।
असुरासुरयेर्वैरं मृत्युर्मानुषरक्षसोः ॥ २८ ॥
नारदः-
दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा ।
मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः ॥ २९ ॥
कश्यपः -
स्ववगणे चोत्तमा प्रीतिर्मध्यमाऽमरमर्त्ययोः ।
मर्त्यराक्षसयोर्वैरममरासुरयोरपि ॥ ३३० ॥
शारंगीये –
रक्षोगणः पुमान् स्याच्चेत्कन्या भवति मानवी ।
केपीच्छंति तदोद्वाहं व्यस्तं कोपीह नेच्छति ॥ ३१ ॥
अन्यच्च –
रक्षोगणो यदा नारी नरो नरगणो भवेत् ।
तदोद्वाहो न कर्तव्यो यस्माद्वैधव्यदो ध्रुवम् ॥ ३२ ॥
देवगणा यदा कन्या रक्षोगणसंभवो वरो भवति ।
दंपत्योः समता स्यात्परस्परप्रीतिरित्येके ॥ ३३ ॥
वरस्तीव्रगणो वापि कन्या च नृगणा भवेत् ।
दुष्टकूटे गुणाढ्येपि तत्र मृत्युर्न संशयः ॥ ३४ ॥
लल्लः -
संबंधो निजयोनौ नृपमित्रकलत्र पूर्वशस्तः।
वध्यां नरामराणां मध्यमो नररक्षसां किंचित् ॥ ३५ ॥
अस्यापवादः । केशवः –
रक्षोगणो यदि नरो नृगणा कुमारी सद्राशिकूटखगमैत्रिभयोनिशुद्धिः ।
यद्यस्ति तत्र शुभदं करपीडनं च वामभ्रुवां खलु यदा नहि नाडिवेधः ॥ ३६ ॥
सद्भकूटं योनिशुद्धिग्रहसख्यं गुणत्रयम् । एष्वेकतमसद्भावे नारी रक्षोगणा शुभा ॥३७॥
गर्गः –
ग्रहमैत्रिश्च राशिश्च विद्यते नियतं यदि ।
न गणाभावजनितं दूषणं स्याद्विरोधदम् ॥ ३८ ॥
अत्रिः –
राशीशयोः सुहृद्भावे मित्रत्वे चांशनाथयोः ।
गणादिदौष्ट्येप्युद्वाहः पुत्रपौत्रप्रवर्द्धनम् ॥ ३९ ॥
शौनकः –
वर्गवैरं योनिवैरं गणवैरं नृदूरकम् ।
दुष्टकूट फलं सर्वं ग्रहमैत्र्याद्विनश्यति ॥ ३४० ॥
मनुरपि-
ग्रहमैत्री च रज्जुश्च यदि नाडी तयोः पृथक् ।
विवाहः शुभदः कन्या राक्षसी वा नरो नरः ॥ ४१ ॥
मुहूर्तकल्पद्रुमे –
कृत्तिका रोहिणीस्वाती मघा चोत्तरफाल्गुनी ।
पूर्वाषाढोत्तराषाढे न क्वचिद्गणदोषदे ॥४२॥
दैवज्ञमनोहरे-
षड्गुणा गणसादृश्ये पंच स्युः सुरमानुषे ।
नार्या देवो नरः पुंसश्चत्वारो वा गुणास्त्रयः ॥ ४३ ॥
देवराक्षसयोः शून्यं तथैव नररक्षसोः ।
पुंसो रक्षोगणो यत्र नार्या देवोथ वा नरः ॥ ४४ ॥
गुणौ द्वौकमतश्चैको गुणो ग्राह्योन्यथा नहि ॥ ४५ ॥
मार्तंडेपि-
ना देवो मनुजा वधूरिहरसास्तद्वैपरित्ये शराः षट् साम्येस्रप पुरुषः सुरवधूरत्रैक कोन्यत्र खम् ॥४६॥
अथ भकूटविचारः ।
एकराशौ महाप्रीतिश्चतुर्थदशमे सुखम् ।
तृतीयैकादशे वित्तं सुप्रजा सम सप्तके ॥४७॥
संहिताप्रदीपे –
सौभाग्यपुत्रधनलाभकृदेकराशौ प्रीत्यर्थ भोगसुखदः समसप्तकेषु ।
त्र्याये चतुर्थदशमेपि च राशिकूटे प्रीत्यर्थसौख्यकुलवृद्धिकरो विवाहः ॥४८॥
त्र्यायं चतुर्थां वरमेकराशिं सद्राशिकूटं समसप्तकं यत् ।
तत्प्रीतिपुत्रार्थकरं विलोक्य न किंचिदत्रेति वदंति केचित् ॥ ४९ ॥
ज्योतिषतत्त्वे-
एकराशौ च दंपत्योः शुभं स्यात्समसप्तके ।
चतुर्थदशमे चैव तृतीयैकादशे तथा ॥ ३५० ॥
षट्काष्टके मृतिर्ज्ञेया पंचमे त्वनपत्यता ।
नैस्वं द्विर्द्वादशेन्येषु दंपत्योः प्रीतिरुत्तमा ॥ ५१ ॥
श्रीपतिः –
षष्ठाष्टमे मृत्युरपत्यहानिः पाणिग्रहे स्यान्नव पंचमे च ।
नैस्वं धने द्वादशके परे तु प्रज्ञा निरेका हिबुके वरस्य ॥ ५२ ॥
संहिताप्रदीपे-
षडष्टके द्वेषवियोगकारी भवेदपुत्रस्त्वशुचिस्त्रिकोणे ।
द्विर्द्वादशे निर्धनता व्ययश्च नाडीसमाजे मरणाय नूनम् ॥ ५३ ॥
लल्लः –
मरणं नाडियोगे कलहः षट्काष्टके विपत्तिर्वा ।
अनपत्यता त्रिकोणे द्विर्द्वादशाके च दारिद्रम् ॥ ५४ ॥
चण्डेश्वर:-
अपि त्रिकोणेल्पजना च नारी द्विर्द्वादशे वै विधवा कुमारी ।
षट्काष्टके मृत्युभयं प्रकारी वैगुण्यतारा मरणं करोति ॥ ५५ ॥
निधनत्वं वियोगो वा मेले द्विर्द्वादशे भवेत् ।
त्रिकोणे त्वनपत्यत्वमपमृत्युः षडष्टके ॥ ५६ ॥
पंचमे नवमे विधवा सधवा नव पंचमे ।
चतुर्थे दशमे वंध्या पुत्रिणी दश चतुर्थके ॥ ५७ ॥
तृतीयैकादशे दुःखी सुखी चैकादश त्रिके ।
द्विर्द्वादशे च दुःखी स्यात्सुखी च द्वादशाद्विके ॥ ५८ ॥
षडष्टमे च मृत्यु स्याद्दीर्घायुश्चाष्टषष्ठके ।
कन्या राशितो वरश्रेष्ठः कन्या श्रेष्ठा वरांतके ॥ ५९ ॥
यदि कन्याष्टमे भर्ता भर्तुः षष्ठे च कन्यका ।
षट्काष्टकं विजानीयाद्वर्जितं त्रिदशैरपि ॥ ३६० ॥
अथ वैरषट्काष्टकम् । नारदः –
वैरषट्काष्टकं मेषकन्ययोर्घटमीनयोः ।
चापोक्षयोर्नृयक्कीटभयोर्घटकुलीरयोः ॥ ६१ ॥
पंचास्यमृगयोर्जन्मराशेः प्रोक्तेऽशुभप्रदः ॥ ६२ ॥
राजमार्तंडे –
मकरसकेशरिमेषयुवत्यातुलधरमीनकुलीरघटेषु ।
धनवृष वृश्चिकमन्मथगामीमरणकरास्तु षडाष्टकयोगाः ॥ ६३ ॥
अस्यापवादः। वराहः–
षडाष्टकेपि भवनाधिपमित्रभावमैकाधिपत्यमवलोक्य वरस्य राशिम् ।
कार्यो विवाहसमयः शुभकृत्स उक्तस्तारा भवेद्यदि परस्परतो विशुद्धिः ॥ ६४ ॥
गर्गः –
ग्रहमैत्रं शुभा तारा राशिवश्यं त्रिभिः शुभम् ।
षडष्टकं बुधाः प्रादुर्द्वाभ्यां द्व्यर्क- त्रिकोणकम् ॥ ६५ ॥
अथ मित्रषट्काष्टकम् | जगन्मोहने –
मित्रषट्काष्टकं कीटमेषयोर्वृषजूकयोः ।
कर्किचापभयोर्मीनसिंहयोर्मृगयुग्म्योः ॥ ६६ ॥
कन्यकाकुंभयो- रन्यत्प्रयत्नादिह वर्जयेत् ॥ ६७ ॥
राजमार्तंडे –
जलचरयुग्मसकेशरिमीना घटयुवती च सवृश्चिकमेषाः ।
वृषभतौलिककार्मुककीटाः सुतधनप्रीतिषडष्टकयोगाः ॥ ६८ ॥
बृहस्पतिः –
वश्यभावे तथान्योन्यं ताराशुद्ध्या परस्परम्।
न चेत्षष्ठाष्टमो दोषस्तदा षष्ठाष्टमः शुभः ॥ ६९ ॥
समर्क्षात्कन्यकाराशेः षष्ठं च वरभं शुभम् ।
विषमात्कन्यकाराशिरन्ध्रस्थं वरभं शुभम् ।
अथ शुभनवात्मजम् । चण्डेश्वरः-
मेषे च चाप मकरे वृषे च कुंभे च युग्मे झषकर्कटे च ।
कुंभे तुलायां झषकीटयोश्च शत्रुत्रिकोणे बहु दुःखहानिः ॥ ३७० ॥
मेषे च सिंहे वृपभे च कन्ये युग्मे घटे वृश्चिककर्कटे च ।
सिंहे च चापे मकरे युवत्या मित्रत्रिकोणं बहुपुत्रलाभः ॥ ७१ ॥
शारंगीये शुक्रः-
मीनालिभ्यां युते कीटे कुंभे मिथुनसंयुते ।
मकरे कन्यकायुक्ते न कुर्यान्नवपंचकम् ॥ ७२ ॥
ज्योतिःप्रकाशे-
पुंसो गृहासुतगृहे सुतहा च कन्या धर्मे स्थिता सुतवती पतिवल्लभा च ॥ ७३ ॥
अथाशुभद्विर्द्वादशम् । चण्डेश्वरः –
कन्याहरौ कीटतुलाधरौ वा चापे मृगे वा झषगे च कुंभे ।
कुलीरयुग्मे वृषभे च मेषे द्विर्द्वादशे वै निधनं करोति ॥ ७४ ॥
चापे फणीन्द्रे घटभे मृगे च अजे जले सिंहकुलीरके च।
कन्यातुलायां वृषभेषु युग्मे द्विर्द्वादशे चार्थकरोति वृद्धिम् ॥ ७५ ॥
जगन्मोहने कश्यपवसिष्ठौ –
द्विर्द्वादशे शुभं प्रोक्तं मीनादौ युग्मराशिषु ।
मेषादौ युग्मराशौ तु निर्धनत्वं न संशयः ॥ ७६ ॥
आयुष्य संपत्सुतभोगसंपत्पुत्रार्थसंपत्पतिसौख्य संपत् ।
सौभाग्यसंपद्धनधान्यवृद्धिर्झषादियुग्मे क्रमतः फलानि ॥ ७७ ॥
अजादियुग्मे क्रमतः फलानि वैधव्यमृत्युर्वधबंधनानि ।
वियोगसंतापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि ॥ ७८ ॥
सिंहः कुलीरेण मृगेण कुंभतौलिस्त्रिया चापधरेण कीटः ।
वैशारिणोजे च वृषेण युग्मं द्विर्द्वादशे भूरिधनप्रदाः स्युः ॥ ७९ ॥
द्विर्द्वादशे धनगृहे धनहा च कन्या रिःफे स्थिता धनवती पतिवल्लभा च ॥ ३८० ॥
मार्तंडेपि –
दुःकूटे यदि योनिमैत्रमबला दूरं तदांभोधयः नो चेत्खं त्वनयोर्यदैकमिहभूर्भांघ्र्यैक्यके ख गुणाः ।
सत्कूटे वरदूरता भरियुता षड्भिन्नराश्यैकभे पंचान्यत्र सुकूटके च गिरयोरिति (?) ॥८१॥
चतुर्थदशमम् ।
तुला मृगेणाथ वृषेण सिंहो मेषेण कीटो मिथुनेन मीनः ।
चापेन कन्या घटभेन चालिर्दौर्भाग्यदैन्ये दश तुर्यकेऽस्मिन् ॥ ८२ ॥
समसप्तकम् ।
मृगः कुलीरेण घटेन सिंहो वैरप्रदः स्यात्समसप्तकोयम् ॥ ८३ ॥
अन्यः –
मकरे कर्कटे चैव कुंभे सिंहे तथैव च ।
यदि स्यात्सप्तमेन्योन्यं वैधव्यं तत्र निर्दिशेत् ॥ ८४ ॥
योगके सप्तके मेषतुले युग्महयौ तथा ।
सिंहे घटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥ ८५ ॥
समसप्तके विवाहे भवति सखित्वं शुभं चैव ।
एकादशे तृतीये कुलवृद्धिर्भवति चाशु नियमेन ॥ ८६ ॥
समसप्तके समग्रहणाद्विषमसप्तके दोषः ॥ ८७ ॥
अथ परिहारः ।
राशिनाथे विरुद्धेपि मित्रत्वे चांशनाथयोः ।
विवाहं कारयेद्धीमान् दंपत्योः सौख्यवर्द्धनम् ॥ ८८ ॥
जगन्मोहने –
राशिनाथे विरुद्धेपि सबलावंशकाधिकौ ।
तत्तन्मैत्रेपि कर्तव्यं दंपत्योः सुखमिच्छता ॥ ८९ ॥
अन्यच्च –
राशिनाथेपि नेष्टत्वे बलिष्ठे अंशकाधिपौ ।
विवाहस्तत्र कर्तव्यो दंपत्योः सुखमिच्छता ॥ ३९० ॥
अत्रिः –
राशीशयोः सुहृद्भावे मित्रत्वे चांशनाथयोः ।
गणादिदौष्ट्येप्युद्वाहः पुत्रपौत्रप्रवर्द्धनम् ॥ ९१ ॥
राशिमैत्रे शुभे लब्धे ग्रहमैत्रीं न चिंतयेत् ॥ ९२ ॥
अथ नाडिविचारः । गर्गः –
नाडीकूटं तु संग्राह्यं कूटानां तु शिरोमणिम् ।
ब्रह्मणा कन्यकाकंठसूत्रेत्वेन विनिर्गते ॥ ९३ ॥
रामः–
ज्येष्ठारौद्रार्यमांभःपतिभयुगयुगं दास्रभं चैकनाडी पुष्येंदुत्वाष्ट्रमित्रांतकवसुजलभं योनिबुध्न्ये च मध्या ।
वाय्वग्निव्यालविश्वोडुयुगयुगमथो पौष्णभं चापरा स्याद्दंपत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः ॥ ९४ ॥
नारदः -
चतुस्त्रि- द्व्यंघ्रिभोत्थायाः कन्यायाः क्रमशोश्विभात् ।
वह्निभादिंदुभान्नाडी त्रिचतुःपंचपर्वसु ॥ ९५ ॥
गर्गः –
चतुष्कात्कन्यकाऋक्षं गणयेदश्विभादिकम् ।
त्रिभं सव्यापसव्येन भिन्नं पर्व शुभावहम् ॥ ९६ ॥
कन्यकर्क्षं त्रिपाच्चेत्स्याद्गणयेत्कृत्तिकादिकम् ।
चतुर्भिःपर्वभिस्तद्वदभिजित्तारकान्वितम् ॥ ९७ ॥
कन्यकर्क्षं द्विपाच्चेत्स्याद्गणयेत्सौम्यभादिकम् ।
पंचभिस्त्ववरोहे तु पंचमंगुलिवर्जयेत् ॥ ९८ ॥
वराहः –
आद्येकनाडी कुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशनम् ।
अंत्ये च वैधव्यमतीवदुःखं तस्माच्च तिस्रः परिवर्जनीयाः ॥ ९९ ॥
वसिष्ठः –
सा मध्यनाडी पुरुषं निहंति तत्पार्श्वनाडी खलु कन्यकां तु ।
आसन्नपर्यायसमागता चेद्वर्षेण साप्यंतरिता त्रिवर्षैः ॥ ४०० ॥
एकनाडिवियोगश्च गणैः सर्वैः समन्वितः ।
वर्जनीयः प्रयत्नेन दंपत्योर्निधनप्रदः ॥ ४०१ ॥
केचित्तु –
त्र्यंघ्रिभोत्पन्नकन्यायाश्चतुः पंचनाडीचक्रे वेधमाहुः ।
वृंदावने –
प्रमीयमाणोपि मतैर्मुनीनां त्रिद्व्यांघ्रिनक्षत्रभवः कुमार्याः ।
नाडी चतुः पंचतयस्य पक्षो नक्षोदवीथी विषयत्वमेति ॥ २ ॥
हारीतः -
त्र्यंघ्रिभे द्व्यंघ्रिभं कन्या याताय गणयेत्क्रमात ।
वह्निभांर्दिदुभान्नाडीं चतुःपंचसु पर्वसु ॥ ३ ॥
देशभेदेन व्यवस्थामाह । नारदः –
चतुर्नाडी त्वहल्यायां पांचाले पंच नाडिका ।
त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः ॥ ४ ॥
वृद्धगर्गः –
जांगले तु चतुर्माला पांचाले पंच मालिका ।
त्रिमाला सर्वदेशेषु विवाहे मुनिसंमतम् ॥ ५ ॥
अन्योपि-
अश्विनी जांगले प्रोक्ता बंगाले भरणी तथा ।
कृत्तिका सर्वदेशेषु नाडीचक्रं विलोकयेत् ॥ ६ ॥
मनुः –
अहिल्यायां चतुर्नाडी संयोगः कालमृत्युदः ।
एकयोगोन्यदेशेषु दुःखदारिद्र्यदोषभाक् ॥ ७ ॥
केशवः –
आर्द्रायमेंद्रवरुणद्वयमश्विनीषु विश्वाग्निवायुफणिनां युगमंत्यभं च ।
शेषाणि चेति नवकत्रयमेकजाते जन्मोडुनी वरवधूनिधनाय नाडी ॥८॥
अथैकराशिकूटविचारः । नारदः –
एकर्क्षे चैकराशौ च विवाहः प्राणहानिदः ॥ ९ ॥
वसिष्ठः –
दंपत्योर्जन्मभे चैकराशौ च निधनं तयोः ।
एकस्य च तथोद्वाहे किंचिद्भेदेपि वा न वा ॥ ४१० ॥
एकगृहसंभवानां भवति विवाहः सुतार्थसंपत्यै ।
यद्युभयोरेकर्क्षे भवति च यदा चांशको भिन्नम् ॥ ११ ॥
जगन्मोहने-
एकर्क्षे चैकराशौ च विवाहस्त्वशुभः स्मृतः ।
संकोचे तु तदा कार्यो भिन्नपादे यदा तयोः ॥ १२ ॥
गर्गः-
एकराशिं विना नाडीयोगमादौ विवर्जयेत् ।
न दोषस्त्वेकराशिस्थे भकूटेन्ये तु मृत्युदः ॥ १३ ॥
अथैकराशिभिन्नर्क्षकूटः । नारदः-
एकराशौ पृथक् धिष्णे दंपत्योः पाणिपीडनम् ।
उत्तमं मध्यमं भिन्नराश्यैकर्क्षगयोस्तयोः ॥ १४ ॥
अत्रिः –
एकराशौ पृथक् धिष्णे पृथग्राशौ तथैकभे ।
एकांशेपि कृतोद्वाहः श्रेष्ठोऽमध्योधमः क्रमात् ॥ १५ ॥
एकराशौ शुभोद्वाहः एकभांशे मृतिप्रदः ।
यदि स्याद्भिन्ननक्षत्रं शुभदं शौनकोब्रवीत् ॥ १६ ॥
वसिष्ठः –
एकराशौ पृथक् धिष्णे तूत्तमं पाणिपीडनम् ।
एकधिष्णे पृथग्राशौ लंबेक्येपि च मृत्युदम् ॥ १७ ॥
गर्गः –
एकराशौ द्विनक्षत्रे पुंतारा प्रथमा भवेत् ।
अतीवशोभनः प्रोक्तः स्त्रीतारा चेद्विनश्यति ॥ १८ ॥
अन्यत्रापि –
भवनद्वययुक्तर्क्षपूर्वं पुंसां शुभावहम् ।
पश्चाद्भागं तथा स्त्रीणां व्यत्ययस्तु विनाशकृत् ॥ १९ ॥
अथ एकराशौ द्विनक्षत्रेपि वर्ज्यनक्षत्राण्याह । गर्गः –
एकराशौ द्विनक्षत्रे कृत्तिकाजस्य तारका ।
धनिष्ठा शततारे च पुष्याश्लेषां च वर्जयेत् ॥ ४२० ॥
अथ पृथग्राशावेकभे प्रवृत्तिमाह । विधिरत्ने भृगुः -
रोहिण्यार्द्रामघेंद्राग्नितिष्यश्रवणपौष्णभम् ।
उत्तरा प्रोष्ठपाञ्चैव नक्षत्रैक्येपि शोभनम् ॥ २१ ॥
कालनिर्णये –
विशाखिकार्द्राश्रवणप्रजेशं तिष्यांततत्पूर्वमघा प्रशस्ता ।
स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति संगिरंते ॥ २२ ॥
अन्यः-
अजैकपान्मित्रवसुद्विदैवप्रभंजनाग्न्यर्कभुजंगमानि ।
मुकुंदजीवांतकभानि नूनं शुभानि योषिन्नरजन्मभैक्ये ॥ २३ ॥
केशवार्कः –
नक्षत्रमेकं यदि भिन्नराश्योरभिन्नराश्योर्यदि भिन्नमृक्षम् ।
प्रीतिस्तदानीं निबिडा नृनार्योश्चेत्कृत्तिका रोहिणिवन्न नाडी ॥ २४ ॥
चतुर्थचरणस्यायमर्थः । चेद्यदि कृत्तिका रोहिणि वत्स्यात्तदापि नाडीदोषो न स्यात् । उपलक्षणत्वाद्गणदोषोपि यथा कृत्तिकारोहिण्ययोः शततारका पूर्वभाद्रपदयोः नाडीदोषो गणानां च राक्षसमनुष्याणां च दोषो नास्ति । लल्ल:-
प्रीतिवित्तसुखदः करग्रहस्त्वेकराशिषु च भिन्नभं यदि ।
वारुणाजपदभं भवेद्यदा नाडिदोषगणजो न विद्यते ॥ २५ ॥
नाडीगणौ नैकराशौ चिन्त्यौ भिन्नभयोर्यथा ।
कृत्तिकाकभयोर्द्वीशस्वात्योः पूभाजलेशयोः ॥ २६ ॥
एकभे भिन्ननक्षत्रे न नाडीगणदुष्टता ।
वह्निभे ब्राह्मवत्प्रीतिः शतताराज़पादवत् ॥ २७ ॥
रत्नकोशे –
वैश्वानरद्रुहिणयोरदितीशयोश्च तद्वत्करार्यमभयोद्व्यधिपानिलेंदौ ।
छागैकपाद्वरुणयोः श्रुतिवैश्वयोश्च स्याच्चेदभिन्नभवने नहि नाडिदोषः ॥ २८ ॥
उक्तं च । भृगुः –
दंपत्योरेकराशिश्चेत्पृथगृक्षं यदा भवेत् ।
वसिष्ठोक्तो विवाहः स्याद्गणनाडीं न चिंतयेत् ॥ २९ ॥
बृहस्पतिः–
एकराशौ पृथग्धिष्णे पृथग्राशौ तथैकभे ।
गणनाडीनृदूरं च ग्रहवैरं न चिंतयेत् ॥ ४३० ॥
गणपतिः –
राश्यैके भिन्नभेप्येकभेन्यराशौ तथैकभे ।
भिन्नांघ्रौ न द्वयोर्दोषो गणनाडीभकूटजाः ॥ ३१ ॥
मुहूर्ततत्त्वे –
एकराश्यभचरणामिहैकेन नाडीगणश्च ॥ ३२ ॥
मार्तंडः –
शेषार्था विविधा विभैकचरणे भिन्नर्क्षराश्यैककम् ।
भिन्नांघ्रेकभमेतयोर्गणखगौ नाडीनृदूरं न च । इति ॥ ३३ ॥
रामः –
राश्यैके चेद्भिन्नमृक्षद्वयं स्यान्नक्षत्रैक्ये राशियुग्मं तथैव ।
नाडीदोषो नो गणानां च दोषो नक्षत्रैके पादभेदे शुभं स्यात् ॥ ३४॥
ज्योतिर्निबंधे –
दंपत्योरेकराशिः स्याद्भिन्नमृक्षं यदा तदा ।
गणदोषेप्येकनाड्यां विवाहः शुभदः स्मृतः ॥ ३५ ॥
रत्नकोशे-
केचिन्नेच्छंति चैकांशे केचिदिच्छंति मेलकम् ।
तत्राप्यंघ्रे घटीसाम्यं त्यजेन्नो भिन्ननाडिकम् ॥ ३६ ॥
केशवार्क: -
पराशरः प्राह नवांशभेदादेकर्क्षराश्योरपि सौमनस्यम् ।
एकांशकत्वेपि वसिष्ठशिष्यो नैकत्र पिंडे किल नाडिवेधः ॥ ३७ ॥
नाग्निर्दहत्यात्मतनुं यथा हि द्रष्टा स्वदृष्टेर्नहि दर्शनीयः ॥ ३८ ॥
अथैकर्क्षे एकपादभेदे कूटः ।
दंपत्योरेकनक्षत्रे भिन्नं पादे शुभावहः ।
दंपत्योरेकपादे तु वर्षांते मरणं ध्रुवम् ॥ ३९ ॥
एकराशौ धनापत्यं सौभाग्यं प्रीतिवर्द्धनम् ।
एक ऋक्षे भवेद्दुःखमेकपादे वरक्षयः ॥ ४४० ॥
एकर्क्षे भिन्नपादे च विवाहः पुत्रपौत्रदः ।
एकर्क्षे चैकपादे च विवाहः प्राणहानिदः ॥ ४१ ॥
ग्रामे वा नगरे वापि राजसेवकयोस्तथा ।
एकऋक्षे भवेत्प्रीतिर्विवाहे दुःखमादिशेत् ॥ ४२ ॥
अथ किंचिद्विशेषः । ज्योतिषचिंतामणौ –
रोहिण्यार्द्रामृगेंद्राणां पुष्यश्रवणपौष्णभम् ।
अहिर्बुध्न्यर्क्षमेतेषां नाडीदोषो न विद्यते ॥ ४३ ॥
विवाहकुतूहले-
शुक्रे जीवे तथा सौम्ये एकराशीश्वरो यदि ।
नाडीदोषो न वक्तव्यः सर्वथा यत्नतो बुधैः ॥४४॥
मार्तंड: -
अथो नाडिभेदे गजाः । अथ युजां प्रीतिः ।
श्रीपतिः-
षट्पौष्णतो द्वादशशंकराच्च पौरंदराद्भानि नव क्रमेण ।
पूर्वार्धमध्यापरभागयुंजि चिरंतनज्योतिषिकैः स्मृतानि ॥ ४५ ॥
पूर्वभागयुजिभे पतिप्रियो योषितामपरभागयोगिनी ।
स्त्रीनृणां भवति मध्ययोगिनी प्रेमनूनमुभयोः परस्परम् ॥ ४६ ॥
रामोपि –
पौष्णेशशाक्राद्रससूर्यनंदा पूर्वार्द्धमध्यापरभागयुग्मम् ।
भर्ताप्रियः प्राग्युजिभे स्त्रियाः स्यान्मध्ये द्वयोः प्रेमपरे प्रिया स्त्री ॥ ४७ ॥
अथ वर्गविचारः ।
वर्गशास्तार्क्षमार्जार सिंहश्च व्यालमूषकाः ।
मृगश्च शशकस्तत्र स्ववर्गात्पंचमो रिपुः ॥ ४८ ॥
अथ वरदूरः ।
स्त्रीराशेर्वरभं दूरं कन्यादूरं शुभावहम् ।
व्यस्तानृदूरमशुभं व्यस्तत्वात्तद पीडनम् ॥ ४९ ॥
कन्यादूरं शुभं प्रोक्तं वरदूरं न कारयेत् ।
मिथ्यैतद्भाषितं मूर्खैर्ग्रहमैत्र्या यतः शुभम् ॥ ४५० ॥
अथ कन्यादूरः ।
कन्याया जन्मर्क्षद्वादशमायनवमरन्ध्रेषु ।
वरराशिस्तत्कन्यादूरं विपर्यये पुंसाम् ॥ ५१ ॥
नारदः –
स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमति निंदितम् ।
द्वितीये मध्यमं श्रेष्ठं तृतीयं नवमे धनम् ॥ ५२ ॥
भामिनी जन्मनक्षत्राद्द्वितीयं पतिजन्मभम् ।
न शुभं भर्तृनाशाय कथितं ब्रह्मयामले ॥ ५३ ॥
प्रथमं सेव्यजन्मर्क्षं द्वितीयं सेवकस्य च ।
न सेवा सुस्थिरा तस्य जलबुद्बुदवत्प्रिये ॥ ५४ ॥
ऋणग्राहकजन्मर्क्षं प्रथममृणदस्य भम् ।
द्वितीयमृणसंबन्धो न कर्तव्यः कदाचन ॥ ५५ ॥
ग्रामभं प्रथमं यस्य द्वितीयं जन्मभं भवेत् ।
न ग्राह्यः सर्वथा ग्रामो यतः सर्वार्थनाशनः ॥ ५६ ॥
अस्यापवादः ।
एकराशौ पृथग्धिष्ण्ये अंत्यांत्यौ चरणौ यदा ।
अतीव शोभनः प्रोक्तो द्वितीयस्थो न दोषकृत् ॥ ५७ ॥
एकराशौ पृथगृक्षे एकर्क्षे भिन्नराशिगः ।
एकाधिपत्यमैत्रे वा द्वितीयं स्वामिभं शुभम् ॥ ५८ ॥
गुणैः षोडशभिर्निन्द्यं मध्यमं विंशतिस्तथा ।
श्रेष्ठं त्रिंशद्गुणं यावत्परतस्तूत्तमोत्तमम् ॥ ५९ ॥
सद्भकूट इति ज्ञेयं दुष्टकूटेथ कथ्यते ।
निंद्यं गुणैर्विंशतिभिर्मध्यमं पंचविंशतिः ॥ ४६० ॥
तत्परैः पंचभिः श्रेष्ठं ततः श्रेष्ठतरं गुणैः ॥ ६१ ॥
अथ दुष्टभकूटे शांतिः । मुहूर्तमार्तंडे –
द्वयर्के ताम्रसुवर्णमष्टरिपुके गोयुग्ममर्थांकके ।
रौप्यं कांस्यमथैकनाडियुजिगो स्वर्णादि दत्वोद्वहेत् ॥ ६२ ॥
उद्वाहतत्त्वे –
ताम्रं हेमधनव्यये रजतयुक्कांस्यं शरांके वृषं गां दद्याच्च षडष्टके द्विजभुजि स्वर्णं च नाडीयुता ॥ ६३ ॥
गुरुः-
दोषापनुत्तये नाड्या मृत्युंजयजपादिकम् ।
विधाय ब्राह्मणांश्चैव तर्पयेत्कांचनादिना ॥ ६४ ॥
हिरण्मयीं दक्षिणां च दद्याद्वर्णादिकूटके ।
गावोन्नं वसनं हेम सर्वदोषापहारकम् ॥ ६५ ॥
राजमार्तंडे-
षडष्टके गोमिथुनं प्रदद्यात्कांस्यं सरौप्यं नव पंचमे च ।
देयं च वस्त्रं कनकाश्वयुक्तं द्विर्द्वादशे ब्राह्मणभोजनं च ॥ ६६ ॥
ज्योतिःप्रकाशे –
निषिद्धमेलके शांतिं कृत्वा दानं यथोदितम् ।
दत्वोद्वाहं प्रकुर्वीत प्रशस्तं शौनकादिभिः ॥ ६७ ॥
सदलादिविचारः । चण्डेश्वरः-
यदि ब्रह्मा स्वयं विष्णुः पवनोथ पुरंदरः ।
स्ववर्गं द्विगुणं कृत्वा परवर्गेण योजयेत् ॥ ६८ ॥
चतुर्भिश्च हरेद्भागं शेषं चरणमुच्यते ।
एकेन सदलं प्रोक्तं द्वाभ्यां तु रुक्ममेव च ॥ ६९ ॥
त्रिभिः स्वर्णं विजानीयाच्चतुर्भिस्ताम्र उच्यते ।
सदले पुत्रसौभाग्यं रुक्मे लक्ष्मीः प्रकीर्तिता ॥ ४७० ॥
स्वर्णे दौर्भाग्य वै पुत्रं ताम्रे क्लेशं सदैव हि ॥ ७१ ॥
अथ निश्चयदानम् ।
आदौ तातं वरं पश्येत्पश्चाद्धनकुलं तथा ।
यदि तातं वरं दोषं न वित्तेन कुलेन किम् ॥ ७२ ॥
पुण्याहे च विवाहर्क्षे चित्रावस्वग्निविष्णुभे ।
लब्ध्वा चन्द्रबलं दद्यान्निश्चयं सत्यया गिरा ॥ ७३ ॥
शुभे लग्नेग्निसांनिध्ये स्नातां पुण्यामरोगिणीम् ।
तत्कालोपस्थिते कन्यां प्रदास्यामि सुलक्षणे ॥ ७४ ॥
उत्तमे तु कुले जाता दशदोषविवर्जिता ।
इमां कन्यां प्रदास्यामि द्विजदेवाग्निसंनिधौ ॥ ७५ ॥
यदि त्वं पतितो न स्याद्दशदोषविवर्जितः ।
तुभ्यं कन्यां प्रदास्यामि द्विजदेवाग्निसंनिधौ ॥ ७६ ॥
देवाश्च ऋषयो विप्राः पितरः कुलदेवताः ।
मदीयाः साक्षिणो वाचा निश्चयोस्मिन्महाजनाः ॥ ७७ ॥
तुभ्यं कन्यार्थिने वाचा कन्यादानप्रतिश्रुताम् ।
तन्निश्चयार्थं मद्दत्तान् स्वीकुरुष्व फलाक्षतान् ॥ ७८ ॥
वाचा दत्ता मया कन्या पुत्रार्थे स्वीकृता त्वया ।
कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ ७९ ॥
ततः वरपितावचनम् ।
वाचा दत्ता त्वया कन्या पुत्रार्थे स्वीकृता मया ।
वरावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ ४८० ॥
पितृतश्चैकविंशश्च मातृतश्चैकविंशतिः ।
उभौ तौ द्वे च चत्वारिंशद्वाक्प्रमाणं ददामि ते ॥ ८१ ॥
वरं विचार्य वृणुयान्नारदोक्तिमतः श्रृणु।
एतत्सर्वं पुराणोक्तं तदेवात्र नियोजयेत् ॥ ८२ ॥
अथ वरवरणम् । व्यवहारचण्डेश्वरः-
पूर्वात्रितयमाग्नेय उत्तरात्रितयं तथा ।
रोहिणी तत्र वरणे कन्याभ्राता द्विजेन वा ॥ ८३ ॥
वरस्य वरणं कुर्यात्सौम्यवारे विधोर्बले ।
शुभयोगे सुलग्ने च विवाहर्क्षे न रिक्तके ॥ ८४ ॥
रामोपि –
धरणिदेवोथवा कन्यकासोदरः शुभदिने गीत वाद्यादिभिः संयुतः ।
वरवृतिं वस्त्रयज्ञोपवीतादिना ध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत् ।
अन्योपि―
वरवृत्तिं शुभे काले गीतवाद्यादिभिर्युतः ।
ध्रुवभे कृत्तिका पूर्वा कुर्याद्वापि विवाहभे ॥ ८५ ॥
उपवीतं फलं पुष्पं वासांसि विविधानि च ।
देयं वराय वरणे कन्याभ्रात्रा द्विजेन वा ॥ ८६ ॥
अथ कन्यावरणम् ।
पूर्वात्रयं श्रवणमित्रभवैश्वदेवहोतासवासवसमीरणदैवतेषु ।
द्राक्षाफलेषु कुसुमाक्षतपूर्णपाणिरश्रांतशांत हृदयो वरयेत्कुमारीम् ॥ ८७ ॥
सुखप्रबोधे सुदेवः –
वह्निर्धनिष्ठा श्रवणत्रिपूर्वा स्वात्युत्तराषाढ्यनुराधिकाभे ।
विवाहभे वापि शुभे दिनेषु कुर्याद्विवृत्तिं मदनातुरीयाम् ॥ ८८ ॥
कश्यपः-
पंचांगशुद्धदिवसे चन्द्रताराबलान्विते ।
विवाहोक्तेषु ऋक्षेषु कुजवर्जितवासरे ॥ ८९ ॥
माघाद्यदिवसं रिक्तामष्टमीं नवमीतिथिम् ।
त्यक्त्वान्यादिवसे गंधस्रक्तांबूलफलान्वितैः ॥ ४९० ॥
सह वृद्धिर्द्विजगणैर्वरयेत्कन्यकां सतीम् ॥ ९१ ॥
रामः –
वैश्वस्वातीवैष्णवपूर्वात्रयमैत्रे वस्वाग्नेयैवाकरपीडोचितऋक्षैः ।
वस्त्रालंकारादि समेतैः फलपुष्पैः संतोष्यादौ स्यादनु कन्यावरणं हि ।
अथ वाग्दानोत्तरं वरमरणे विशेषः।
अद्भिर्वाचा च दत्तायां म्रियेतोर्ध्वं वरो यदि ।
न च मंत्रोपनीता स्यात्कुमारी पितुरेव सा ॥ ९२ ॥
देशांतरगमने तु कात्यायनः –
वरयित्वा तु यः कश्चित्प्रवसेत्पुरुषो यदा ।
ऋत्वागमांस्त्रीनतीत्य कन्यान्यं वरयेत्पतिम् ॥ ९३॥
याज्ञवल्क्यः–
दत्तामपि हरेत्पूर्वाच्छ्रेयांश्च वर आव्रजेत् ॥ ९४ ॥
वसिष्ठः–
कुलशील विहीनस्य षंढादिपतितस्य च ।
अपस्मारी विधर्मस्य रोगिणां वेषधारिणाम् ॥ ९५ ॥
दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च ॥ ९६ ॥
अथ विवाहे वाग्दानानंतरं कुलमध्ये कस्यचिन्मरणप्राप्ते विचारः । स्मृतिचन्द्रिकायाम् –
कृता निश्चये पश्चान्मृत्युर्भवति गोत्रिणः ।
तदा न मंगलं कार्यं नारीवैधव्यदं ध्रुवम् ॥ ९७ ॥
मेधातिथि:-
वधूवरार्थं घटिते सुनिश्चिते वरस्य गेहेप्यथ कन्यकायाः ।
मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा न कार्यं खलु मंगलं बुधैः ॥ ९८ ॥
गर्गः –
कृते तु निश्चये पश्चान्मृत्युभर्वति कस्यचित् ।
तदा न मंगलं कुर्यात्कृते वैधव्यमाप्नुयात् ॥ ९९ ॥
पुरुषत्रयपर्यंतं प्रतिकूलं सगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथामुंडनमंडने ॥ ५०० ॥
मांडव्यः–
अन्येषां तु सपिंडानामाशौचं माससंमितम् ।
तदंते शांतिकं कृत्वा ततो लग्नं विधीयते ॥ १ ॥
शौनकः –
वरवध्वोः पिता माता पितृव्यश्च सहोदरः ।
एतेषां प्रतिकूलं चेन्महाविघ्नप्रदं भवेत् ॥ २ ॥
पिता पितामहश्चैव माता वापि पितामही ।
पितृव्यस्त्री सुतो भ्राता भगिनी वा विवाहिता ॥ ३ ॥
एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतम् ।
अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भवेत् ॥ ४ ॥
मांडव्यः –
वाग्दानानंतरं यत्र कुलयोः कस्यचिन्मृतिः ।
तदा संवत्सरादूर्ध्वं विवाहः शुभदो भवेत् ॥ ५ ॥
पितुराशौचमब्दं स्यात्तदूर्ध्वं मातुरेव च ।
मासत्रयं च भार्या स्यात्तदूर्ध्वं भ्रातृपुत्रयोः ॥६॥
दैवज्ञमनोहरे-
प्रतिकूले सपिंडस्य मासमेकं विवर्जयेत् ।
विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ ७ ॥
दुर्भिक्षे राष्ट्रभंगे च पित्रोर्वा प्राणसंशये ।
प्रौढायामपि कन्यायां प्रतिकूलं न दुष्यति ॥ ८ ॥
मेधातिथिः –
दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च ।
उदासवर्तिनश्चैव प्रतिकूलं न विद्यते ॥ ९ ॥
संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना ।
शांतिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ ५१० ॥
अकृत्वा शांतिकं यस्तु निषेधे सति दारुणः ।
यः करोति शुभं तावद्विघ्नं तस्य पदे पदे ॥ ११ ॥
ज्योतिःप्रकाशे –
प्रतिकूलेपि कर्तव्यो विवाहो मासमंतरा ।
शांतिं विधाय गां दद्याद्वाग्दानादि चरेद्बुधः ॥ १२ ॥
याज्ञवल्क्यः –
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ १३ ॥
बृहस्पतिः –
विवाहोत्सवयज्ञेषु त्वंतरामृतसूतके ।
पूर्वं संकल्पितेर्थेषु न दोषः परिकीर्तितः ॥ १४ ॥
षट्त्रिंशन्मते –
विवाहोत्सवयज्ञेषु त्वंतरामृतसूतके ।
परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ १५ ॥
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धं सूतकं न स्यादनारब्धे तु सूतकम् ॥ १६ ॥
प्रारंभश्च तेनैवोक्तः ।
प्रारंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः ।
नांदीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ १७ ॥
रामांडारभाष्ये शुद्धिविवेकेप्येवमेव । नांदीमुखविधिश्चावश्यकत्वे अधिक उक्तः । एकविंशत्यहर्यज्ञे विवाहे दशवासराः ।
त्रिषट्चौलोपनयने नांदीश्राद्धं विधीयते ॥ १८ ॥
विष्णुः –
अनारभ्य विशुद्ध्यर्थं कूष्मांडैर्जुहुयाद्घृतम् ।
गां दद्यात्पंचगव्याशी ततः शुद्ध्यति सूतकी ॥ १९ ॥
अथ रवीज्यचन्द्रबलम् । नारदः –
विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः ।
तत्पूजा यत्नतः कार्या दुर्बलप्रदयोस्तयोः ॥ ५२० ॥
गर्गः –
स्त्रीणां गुरुबलं श्रेष्ठं पुरुषाणां रवेर्बलम् ।
तयोश्चंद्रबलं श्रेष्ठमिति गर्गेण निश्चितम्॥ २१ ॥
दंपत्योर्बलमावश्यं विवाहे चिंतयेद्बुधः ।
रविश्चन्द्रसुरेज्यानामित्युक्तं त्रिबलं शुभम् ॥ २२ ॥
वसिष्ठः –
यत्रार्कगुर्वोरपि नैधनांत्यजन्मादिदुःस्थानगयोर्द्वयो वा ।
एतस्य पूजामपि तत्र कृत्वा पाणिग्रहं कार्यमतः सुसम्यक् ॥ २३ ॥
वराहः –
गोचरशुद्ध्या ( ? ) बिंदु कन्या या यत्नतः शुभं वीक्ष्य तिग्मकिरणं च पुंसः शेषैरबलेरपि विवाहः ।
सुरगुरुबलमबलानां पुरुषाणां तीक्ष्णरश्मिबलमेव ।
चन्द्रबलं दंपत्योरवलोक्य विशोधयेल्लग्नम् ॥ २४ ॥
अथ रविबलम् । राजमार्तंडे –
जन्मनि भानौ विधवा पतिसुतयुक्ता भवत्युपचयर्क्षे |
शेषगृहर्क्षे कन्यानाशो शोकातुरा नूनम् ॥ २५ ॥
मुहूर्तगणपतौ-
चतुर्थे चाष्टमे चैव द्वादशस्थे दिवाकरः ।
वरः पंचत्वमाप्नोति कृते पाणिग्रहोत्सवे ॥ २६ ॥
जन्मस्थिते द्वितीये च पंचमे सप्तमेपि वा ।
नवमे भास्करे पूजां कुर्यात्पाणिग्रहोत्सवे ॥ २७ ॥
तृतीयः षष्ठमश्चैव दशमैकादशस्थितः ।
रविः शुभो निगदितो वरस्यैव करग्रहे ॥ २८ ॥
अन्यः । गर्गः –
सूर्यस्त्रिदशमारिस्थस्तथैकादशगः शुभः ।
चतुरष्टांत्यगोऽनिष्टः शेषस्थानेषु मध्यमः ॥ २९ ॥
चण्डेश्वरः –
वंध्या वित्तविवर्जिता प्रमुदिता दौर्भाग्यदुःखातुरा स्वल्पापत्यवती पतिप्रियतमा बंध्युच्युता बंधकी ।
निःस्वा सौख्यसमन्विता सुतधनप्रीत्यान्विता निःसुखा व्यूढा च क्रमशः सहस्रकिरणे जन्मादि राशिस्थिते ॥ ५३० ॥
द्वितीयपुत्रांकगतः प्रभाकरस्त्रयोदशाहात्परतः शुभप्रदः ।
न सप्तजन्मव्ययबन्धुरन्ध्रगः करोति पुंसामपि तादृशं फलम् ॥ ३१ ॥
गर्ग :-
अनिष्टस्थानगे सूर्ये शुभराशिः पुरो भवेत् ।
त्रयोदशदिनं त्यक्त्वा शेषस्थं शुभमादिशेत् ॥ ३२ ॥
अशुभस्थानगे सूर्य दद्याद्धेनुं सदक्षिणाम् ॥ ३३ ॥
अथादित्यशांतिः ।
ब्राह्मणस्योपनयने नानूकुलो भवेद्रविः ।
तस्य शांतिं प्रवक्ष्यामि मंत्रौषधिविधानतः ॥ ३४ ॥
अत्रोपनयनग्रहणेन विवाहादीनामप्युपलक्षणम् ।
उपनयनात्पूर्वेद्युः कृत्वा पुण्याहवाचनम् ॥ ३५ ॥
गृहस्येशानादिग्भागे गोमयेनोपलेपयेत् ।
कुंकुमेनोल्लिखेत्पद्ममष्टपत्रं सकेसरम् ॥ ३६ ॥
सुवर्णेन रविं कृत्वा द्विभुजं पद्मधारणम् ।
कृत्वाज्यभागपर्यंतं तंत्रं कृत्वानुपूर्ववत् ॥ ३७ ॥
स्वशाखोक्तविधानेन आचार्यो होममाचरेत् ।
आकृष्णेनेति मंत्रेण समिदाज्यचरुञ्जुहेत् ॥ ३८ ॥
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
तिलव्रीहींश्च हुत्वाथ होमशेषं समापयेत् ॥ ३९ ॥
दारपुत्रसमेतस्य अभिषेकं समाचरेत् ।
कुंभाभिमंत्रणोक्तश्च समुद्रज्येष्ठमंत्रकैः ॥ ५४० ॥
ऋत्विग्भ्यो दक्षिणां दद्यादन्येभ्यश्च स्वशक्तितः ।
प्रतिमां वस्त्रकुंभं च आचार्याय प्रदापयेत् ॥ ४१ ॥
एवं यः कुरुते सूर्यः सर्वदोषं विनश्यति ॥ ४२ ॥
अथ चन्द्रबलम् । फलप्रदीपे –
स्त्रीणां चन्द्रबलं ग्राह्यं ताराबलसमन्वितम् ।
नाधिकारो नराणां च विवाहे गर्भशोधने ॥ ४३ ॥
केशवार्कः –
चन्द्रमस्युपचयात्परिमुच्यते चारुगोचर चरुः परैरपि ।
कर्तुरायति शुभं सभंगुरं निर्दिशंत्यसितशौनकादयः ॥ ४४ ॥
चण्डेश्वरः-
इष्टर्क्षगः सुरगुरुः शुभदो यथैव प्रायेण गोचरवशाच्छुभकृत्तथेंदुः ।
पक्षे सिते भवति जीवनिरीक्षितो वा प्राहुर्वसिष्ठभृगुगौतमगर्गपूर्वाः ॥ ४५ ॥
विवाहपटले—
द्यून जन्मरिपुलाभखत्रिगैश्चंद्रमाः शुभफलप्रदस्तथा ।
स्वात्मजांत्यमृतिबंधुधर्मगैर्विद्धतेन विविधैर्ग्रहैर्यदि ॥ ४६ ॥
अत्रिः –
चंद्रो द्विपंचनवमेषु शुभः प्रदिष्टः शुक्लेथ कष्टफलदः खलु कृष्णपक्षे ।
तुर्येष्टमे व्ययगतोपि नरस्य नाशं कुर्यात्सचेच्छुभमि- होच्चनिजर्क्षपूर्णः ॥ ४७ ॥
स्वर्क्षे स्वोच्चेथ मित्रर्क्षे पूर्णे वा रजनीपतिः ।
गोचरे शुभमादत्ते निंद्योप्यावश्यके विधौ ॥ ४८ ॥
अथ चन्द्रशांतिः । गर्गः-
घृतं कलशोपरि वस्त्रैः युक्तां प्रतिमां रजतघटितां च नैवेद्यादि च होमं च कार्यं तत्राभिषेचनम् ।
अथ घातचंद्रविचारः । श्रीपतिः –
एकपंचनवयुग्म षट् दश त्रीणि सप्त चतुरष्टलाभगः ।
द्वादशाजसहितो हि राशितो घातचन्द्र इति कीर्तितो बुधैः ॥ ४९ ॥
नारदोपि –
भूबाणनवहस्ताश्च रसो दिग्वह्निशैलजाः ।
वेदावसुशिवादित्या घातचंद्रो यथा क्रमात् ॥ ५५० ॥
यात्रायां शुभकार्येषु घातचन्द्रं विवर्जयेत् ।
विवाहे सर्वमांगल्ये चौलादौ व्रतबंधने ॥ ५१ ॥
घातचन्द्रो नैव चिंत्य इति पाराशरोब्रवीत् ॥ ५२ ॥
ज्योतिर्निबंधेपि –
विवाहचौलव्रतबंधयज्ञे महाभिषेके च तथैव राज्ञाम् ।
सीमंतयात्रासु तथैव जाते नो चिन्तनीयः खलु घातचन्द्रः ॥ ५३ ॥
उद्वाहकाले व्रतबंधने च सीमंतयात्रा च तथा निषेके ।
वास्तुप्रवेशे च जलाशये च नो चिंतनीयः खलु घातचन्द्रः ॥ ५४ ॥
अथ गुरुबलम् ।
दुश्चिक्यजन्मांबरशत्रुसंस्थः पूजामभीष्ट्यत्यमरेशपूज्यः ।
पातालरंध्रव्ययराशिसंस्थः शुभप्रदः स्यान्न स पूजितोपि ॥ ५५ ॥
बंधौ तृतीये रिपुसंस्थिते च इच्छन्ति पूजा दशमे गुरौ च ।
न पूज्यमिच्छंति चतुर्थगे च न द्वादशे चाष्टमगे च जीवे ॥ ५६ ॥
गर्गः-
द्विपंच सप्तनंदेशस्थितो जीवः शुभप्रदः ।
द्विजानां मेखलाबंधे कन्यकायाः करग्रहे ॥ ५७ ॥
जन्मत्रिदशमादिस्थः पूजया शुभदो गुरुः ।
विवाहेथ चतुर्थाष्टद्वादशेथ मृतिप्रदः ॥ ५८ ॥
वसिष्ठः –
द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीये च ।
प्राप्ते पाणिग्रहणे जीवे वैधव्यमाप्नोति ॥ ५९ ॥
विवाहपटले-
द्वादशे निधने तुर्ये देवाचार्यगतो यदा ।
पूजया तत्र कर्तव्यो विवाहे प्राणनाशनम् ॥ ५६० ॥
एकादशस्थे नव पंचमे वा यामित्रसंस्थे च गुरौ हि सिद्धे ।
आद्ये तृतीये दशमे च षष्ठे गुरौ हि वाच्छंति शुभाय पूजा ॥ ६१ ॥
माहेश्वरः-
अशुभैस्त्रिषडायसंस्थितैः शुभखेटैः सुतधर्मकेंद्रगैः ।
यदि चोपचये गुरौ सिते हरिजस्थे वरयेत्कुमारिकाम् ॥ ६२ ॥
देवलः –
नष्टात्मजा धनवती विधवा कुशीला पुत्रान्विता हतधना सुभगा विपुत्रा ।
स्वामिप्रिया विगतपुत्रधना धनाढ्या वंध्या भवेत्सुरगुरौ क्रमतो विवाहे ॥ ६३ ॥
फलप्रदीपे–
विपुत्रा धनैः संयुता दुर्भगा च पतिद्वेषभावार्थपुत्रादियुक्ता ।
संपत्तियुक्ताभाग्ययुक्तेशहीना सदा धर्मिणी निर्धनाढ्याथ वंध्या ॥ ६४ ॥
हाटकं वसनं पीतं दद्याद्दुष्टे बृहस्पतौ ॥ ६५ ॥
अथापवादः । चण्डेश्वरः –
स्वोच्चे गुरुः स्वभवने भवनेथ मित्रे मित्रांशकः स्वभवनोच्चगतांशके वा । कर्मांत्यजन्मनिधनारिचतुस्त्रिके वा पुत्रार्थसौख्यपतिवृद्धिकरो विवाहे ॥ ६६ ॥ उच्चस्थः स्वगृही सुहृद्भवनगो वाचस्पतिर्नित्यशः पूर्णायुर्विविधार्थसौख्यजनको जन्माष्टगो वा भवेत् ।
नीचस्थोऽरिगृही दिवाकरकरच्छायानुगामी सदा इष्टानिष्टफलं ददाति नियतं वैधव्य- पुत्रापदम् ॥ ६७ ॥
बृहस्पतिः –
झषचापकुलीरस्थो जीवोप्यशुभगोचरः ।
अतिशोभनतां दद्याद्विवाहोपनयादिषु ॥ ६८ ॥
अन्योपि –
निधनद्वादशतुर्यगते गुरौ तदपि नैव शुभोहितपूजने ।
धनुरजाबलिसिंहकुमारिकागुरवपूज्य शुभो झषकर्कटे ॥ ६९ ॥
गर्गः –
चारेतिचारे वक्रे वा तस्मिन्भे संस्थिते गुरुः ।
शुद्धिं दद्यात्स्वतंत्रेण योषितां पाणिपीडने ॥ ५७० ॥
त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयातः ।
यदा तदा प्राह शुभं विलग्ने हिताय पाणिग्रहणं वसिष्ठः ॥ ७१ ॥
वसिष्ठमाण्डव्यपराशरात्रिर्गर्गोंगिराव्यासकुलस्य वाक्यम् |
वक्रातिचारे सुरराजमंत्री यत्रागतस्तत्र फलं ददाति ॥ ७२ ॥
अथ गुरुशान्तिः । शौनकः –
कन्यकोद्वाहकाले तु आनुकूल्यं न विद्यते ।
ब्राह्मणस्योपनयने गुरुर्विधिरुदाहृतः ॥ ७३ ॥
सौवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत् ।
ईशाने धवलं कुंभं धान्योपरि विधाय च ॥ ७४ ॥
दमनं मधुपुष्पं च तथा पालाशसर्षपान् ।
मांजिष्ठगुडूच्यपामार्गा विडंबी शंखिनी वचा ॥ ७५ ॥
सहदेवी हरिक्रांता सर्वोषधिशतावरी ।
कृत्वाज्यभागपर्यंतं स्वशाखोक्तविधानतः ॥ ७६ ॥
यथोक्तमंडलेभ्यर्च्य पीतपुष्पाक्षतादिभिः ।
देवपूजोत्तरे काले ततः कुंभानुमंत्रणम् ॥ ७७ ॥
अश्वत्थसमिधश्चाज्यं पायसं सर्पिषान्वितम् ।
यवव्रीहितिलाः साज्या मंत्रेणैव बृहस्पतेः ॥ ७८ ॥
अष्टोत्तरशतं सर्वहोमशेषं समापयेत् ।
दारपुत्रसमेतस्य अभिषेकं समाचरेत् ॥ ७९ ॥
कुंभाभिमंत्रणोक्तैश्च समुद्रज्येष्ठमंत्रतः ।
प्रतिमां कुंभवस्त्रं च आचार्याय प्रदापयेत् ॥ ५८० ॥
ब्राह्मणान्भोजयेत्पश्चाच्छुभदः स्यान्न संशयः ॥ ८१ ॥
अथाष्टवर्गशोधनम् । विवाहवृन्दावने –
योषितां गुरुपतंगगोचरैः शोभनो निगदितः करग्रहे ।
अष्टवर्गविधिना तदत्यये सूर्यशुद्धिरपरे नृणां जगुः ॥ ८२ ॥
यथोदये चंद्रमसः प्रकाशो दिगंगनानां मुखकैरवस्य ।
तथाष्टवर्गग्रहलग्नशुद्धौ कार्यस्य पुंसां भवतीह शुद्धिः ॥ ८३ ॥
अभावतो गोचरशोभनानां शुद्धं वदेद्भागुरिरष्टवर्गात् ।
वैधव्यकन्याक्षयहेतुयोगो जीवोष्टवर्गस्य वदेन्न शुद्धिम् ॥ ८४ ॥
संहितासारे –
अष्टवर्गः शुभैः श्रीमान्कर्म कुर्यान्नभश्चरैः ।
गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ च वेधगौ ॥ ८५ ॥
मरीचिः –
आदावष्टकवर्गः शोध्यो विज्ञैस्तदप्राप्तौ ।
गोचरबलं विचिन्त्यं तदभावे वामवेधजं वीर्यम् ॥ ८६ ॥
अथ विवाहे मासशुद्धिः ।
मासाब्दशुद्धिं ग्रहतारकाणां सर्वेषु देशेषु वदंति तज्ज्ञाः ॥ ८७ ॥
नारदः –
अप्रबुद्धे हृषीकेशे यावत्तावन्न मंगलम् ।
उत्सवे वासुदेवस्य मंगले नान्यमंगलम् ॥ ८८ ॥
वराहः-
हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च तिष्यसंजिके ।
तिथावरिक्ते शशिनि क्षयं गते रवींदुभैौमार्कदिनेषु चाशुभम् ॥ ॥ ८९ ॥
कश्यपः–
उत्तरायणगे सूर्ये मीनं चैत्रं च वर्जयेत् ।
अजद्वंद्व कुंभालीमृगराशिगते रवौ ॥ ५९० ॥
श्रीधरीये-
शरद्वसंतश्च शुभोग्रजानां ग्रीष्मश्च राजन्यविशोः प्रशस्तः ।
शूद्रस्य वर्षा शिशिरोऽखिलस्य लोकस्य पाणिग्रहणे प्रदिष्टः ॥ ९१ ॥
केशवः –
प्रावृट् वसंतोर्जसहः करग्रहे परैरुदारैर्न तु हारि तन्मतम् ।
रवेरवैसारिणमुत्तरायणं पुरंध्रिपाणिग्रहणे परायणम् ॥ ९२ ॥
कश्यपः-
आरभ्यार्द्रोदयाद्भानोर्दशर्क्षेषु न कारयेत् ।
सुरस्थापनमुद्वाहं यज्ञोपनयनं क्वचित् ॥ ९३ ॥
अन्यच्च-
आर्द्रोदयादूर्ध्वमिनस्य कार्यं नक्षत्रवृन्दे दशके कदाचित् ।
मासोक्तकर्मेतरमंगलाद्यं कुर्यान्न सुप्तेपि तथा मुरारौ ॥ ९४ ॥
वसिष्ठः –
आर्द्रादिके स्वातिविरामकाले नक्षत्रवृन्दे दशके तथैव ।
विवाहचौलव्रतबंधनाद्यं सुरप्रतिष्ठां च न कार्यमेतत् ॥ ९५ ॥
न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात् ।
विवाहं देवतानां च प्रतिष्ठां चोपनायनम् ॥ ९६ ॥
श्रीपतिः –
नाषाढप्रभृतिचतुष्टये विवाहो नो पौषे न च मधुसंज्ञके विधेयः ।
नैवास्तं गतवति भार्गवे न जीवे वृद्धत्वे न खलु तयोर्न बालभावे ॥ ९७ ॥
वसिष्ठः –
दिनाधिपे मेषवृषालिकुंभनृयुग्मनक्राख्यघटर्क्षसंस्थे ।
माघद्वये माधवशुक्रयोश्च मुख्योथवा कार्तिकमार्गयोश्च ॥ ९८ ॥
नारदः –
माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ।
मध्यमः कार्तिको मार्गशीर्षो वै निंदिताः परे ॥ ९९ ॥
अद्भुतसागरे –
पौषचैत्रापरार्द्धं स्याच्छुभं सूर्ये मृगाजगे ।
आद्यात्र्यंशः शुचेः श्रेष्ठो मिथुनस्थे मृगीदृशाम् ॥ ६०० ॥
पौषोत्तरार्द्धमुदितं तपने मृगस्थे चैत्रोत्तरार्द्धमजगे तरणौ तथैव ।
आद्यं शुचेर्दशदिनं मिथुनस्थितेर्के पाणिग्रहं निगदितं मुनिभिः शिवाय ॥ १ ॥
भारद्वाज:-
माघफाल्गुनवैशाखज्येष्ठाषाढामृगाह्वयाः ।
षडेते पूजिता मासाश्चतुर्वर्णस्य सर्वदा ॥ २ ॥
श्रीपतिः-
मेषोक्षवैणिकमृगाननकुंभसंस्थे प्रद्योतने करतलग्रहणं प्रशस्तम् ।
गीर्वाणमंत्रिणि मृगेन्द्रमधिष्ठितेन मासाधिकेन त्रिदिनस्पृशिनावमेन ॥ ३ ॥
गार्ग्यः –
मीने धनुषि सिंहे च स्थिते सप्ततुरंगमे ।
क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म च ॥ ४ ॥
दैवज्ञवल्लभे –
फाल्गुने तपसि मासि माधवे शुक्रनाम्नि धनपुत्रतो भवेत् ।
सोपरैः सुखसुतार्थमानदः कार्तिके सहसि च प्रकीर्तितः ॥ ५ ॥
राजमार्तंडः –
आषाढे धन- धान्यभोगरहिता नष्टप्रजा श्रावणे वेश्या भाद्रपदेश्विने च मरणं रोगार्तिदा कार्तिके ।
पौषे प्रेतवती वियोगबलहा चत्र मदोन्मानिनी अन्येष्वेव विवाहिता सुतवती नारी समृद्धा भवेत् ॥ ६ ॥
अन्यः –
माघे मासि भवात्यूढा कन्या सौभाग्यसंयुता ।
फाल्गुनौढा भवेत्साध्वी वैशाखे पुत्रिणी भवेत् ॥ ७ ॥
ज्येष्ठेति धनिनी प्रोक्ता आषाढे सुखभाजना ।
मार्गशीर्षे भवेच्छुद्धा पुत्रपौत्रधनान्विता ॥ ८ ॥
श्रीधरीये-
पौषे च कुर्यान्मकरस्थितेर्के चैत्रे भवन्मेषगते यदि स्यात् ।
प्रशस्तमाषाढगते विवाहं वदंति गर्गा मिथुनास्थितेर्के ॥ ९ ॥
ज्योतिर्विदाभरणे –
उदन्वतो रोधसि कापिलाख्यं भूमंडलं योजनषट्कमानम् ।
रेवामहीमध्यगमार्यराशेरर्के विवाहो विहितोतिभद्रः ॥ ६१० ॥
अथ कार्तिकमासे विवाहशुद्धिः ।
अग्रतः पृष्ठतो वापि कार्तिक्यां दिनपंचके ।
पाणिग्रहणकर्तव्यो न दोषो दक्षिणायने ॥ ११ ॥
दिवसाः पंच पूर्वं हि निर्गमे पंचवासराः ।
कारयेल्लग्नमेतेषु धनधान्ययुतो भवेत् ॥ १२ ॥
शौनकादिमुनयस्त्रिपुष्करे कार्तिकीकृतकरग्रहं शुभम् ।
कीर्तयंति धनपुत्रसौख्यदं दीर्घमायुरमतेतिताध्रुवम् ॥ १३ ॥
पद्मयोनिरपि कार्तिकमासाद्यत्रतत्र कृतदारसंग्रहः ।
सृष्टिकर्तुरपि वांच्छितं फलं नात्र विष्टिकुलकादि चिंतयेत् ॥ १४ ॥
ब्रह्मविष्णुशिववासवादिभिर्दत्तशोभनवराहकार्तिकी ।
तत्र पाणितलपाणिने कृते पुत्रपौत्रमिति भार्गवोब्रवीत् ॥ १५ ॥
भार्गवामरगुरोरदर्शने पुष्टदोषपरिपीडिते दिने ।
कार्तिकी सकलदोषनाशिनी कारयेत्करतलंग्रहं बुधैः ॥ १६ ॥
ज्योतिर्विदाभरणे –
परिपंथितनूलयस्थमिंदुंपरिहायांगविवाहकामभद्रम् ।
उपरागमुखेन्यदोषजलो कुरु- पाणिग्रहणं च कार्तिकीनम् ॥ १७ ॥
इति ऋषिगणैर्विशेषनीतिर्गदिता वा परिणत्यनेहसीष्टौ ।
उदितान्प्रतिदेशकालभेदानखिलोर्व्यामुदितानुकार्तिकीनम् ॥ १८ ॥
नैव गोचरविधिं न चाष्टकं शोधयेन्न बलशुकजीवयोः ।
तारकाशशभृतोर्बलं नभं नैव लग्नविधिमत्र चिन्तयेत् ॥ १९ ॥
नष्टे शुक्रे तथा जीवे परागे चंद्रसूर्ययोः ।
केशवोत्थितदेवानां विवाहः पुष्करे स्मृतः ॥ ६२० ॥
कार्तिक्यां घटिकालग्नं कुर्यादज्ञानतोपि यः ।
कर्ता कारयिता चोभौ स शापः सकलैः सुरैः ॥ २१ ॥
कुर्याद्गोधूलिकं लग्नं कार्तिक्यां दिनपंच च ।
सर्वदोषापहं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ २२ ॥
दिनानि भुंक्ते निशि चागमे च यत्रार्द्धदृश्यं रविबिंबभागम् ।
तत्रैव पुण्यं शुभदं च नित्यं गोधूलिवेलां मुनयो वदति ॥ २३ ॥
इक्षुसान्निध्य आरामे प्रसिद्धे देवकीर्तिते ।
नदीतडागे गोष्ठे वा विवाहः पुष्करे स्मृतः ॥ २४ ॥
ज्योतिःप्रकाशे –
भृगोत्सुकच्छे च तथा विवाहे बलक्षपक्षे नभसौ दशम्याम् ।
पद्मे यथा कार्तिकपौर्णिमास्यं देशस्थितिः स्याच्छुभदा तथैव ॥ २५ ॥
अथ पक्षशुद्धिः । बृहस्पतिः-
पूर्वपक्षः शुभः प्रोक्तः कृष्णश्चांत्यत्रिकं विना ।
विष्टिरिक्ता विवर्ज्याः स्युः शोभनास्तिथयः शुभाः ॥ २६ ॥
विवाहे शुभता कृष्णे चतुर्थी न कदाचन ॥ २७ ॥
नारदः –
शुक्ले तु सुभगा मान्या कृष्णपक्षे मृतप्रजा ॥ २८ ॥
चण्डेश्वरः –
श्रेष्ठ पक्षमुशंति शुक्लमसितं स्याद्यत्त्रिभागं तथा रिक्तां प्राप्ततिथिं तथात्वयनयोः संधिं च शेषाः शुभाः ।
आग्नेयग्रहवासरेषु कलहः प्रीतिश्च सत्सूत्तमा केचित्स्थैर्यमुशंति सौरिदिवसे चन्द्रे च सापत्न्यकम् ॥ २९ ॥
अथ तिथिशुद्धिः । वसिष्ठः –
शुक्लद्वितीया दिन एव कृष्णे पक्षे दशम्यंशगताः प्रशस्ताः ।
तास्वष्टमी स्कंदगणेशदुर्गा चतुर्दशीं चापि तिथिर्विवर्ज्याः ॥ ६३०॥
चतुर्दशीं चतुर्थीं च नवमीं च विवर्जयेत् ।
एतासु विधवा कन्या भवत्यासु विवाहिता ॥ ३१ ॥
भारद्वाजः –
प्रतिपद्दुःखजननी द्वितीया प्रीतिवर्द्धिनी ।
सौभाग्यदात्री तृतीया च चतुर्थी धननाशिनी ॥ ३२ ॥
पंचम्यां सुखवित्तानि षष्ठी विघ्नप्रदायिनी ।
विद्याशीलसुखाप्तिः स्यात्सप्तम्यामफलाष्टमी ॥३३॥
नवमी शोकफलदा आनंदो दशमीदिने ।
सुखमेकादशी ज्ञेया सफला द्वादशी स्मृता ॥ ३४ ॥
मानपुत्रा त्रयोदश्यौ चतुर्दश्यां तु दोषदे ।
फलं बहुविधं नित्यं पंचदश्यां विशेषतः ॥ ३५ ॥
अमायां चैव रिक्तायां करणे विष्टिसंज्ञके ।
यः करोति विवाहं च शीघ्रं याति यमालयम् ॥ ३६ ॥
अत्रापि कृष्णपक्षस्य दशम्याद्ये विवाहिता ॥ ३७ ॥
नारदः-
मासांते पंचदिवसा त्यजेद्रिक्तावमाष्टमी ।
विष्टिं च परिघस्यार्द्धं व्यतीपातं सवैधृतम् ॥ ३८ ॥
पंचदश्यष्टमी रिक्ता वर्ज्याश्चान्याः शुभावहाः ।
केचित्कृष्णाष्टमीं प्राहुर्विवाहेषु वयोत्यये ॥ ३९ ॥
चण्डेश्वरः-
दुष्टस्य पूर्वमपहाय तिथेर्द्धभागं विष्टिप्रदुष्टमपनष्टविधुं तिथिं च ।
शेषाः शुभा निगदिता अशुभास्तथान्ये पूर्वोक्तमंत्रसकलं हि विचिन्तनीयम् ॥ ६४० ॥
अथ वारशुद्धिः ।
गुरुशुक्रबुधेंदूनां दिनेषु सुभगा भवेत् ।
सूर्यार्किभूमिवाराणां दिनेषु कुलटा भवेत् ॥ ४१ ॥
वसिष्ठः –
वाराः प्रशस्ताः शुभखेचराणां सूर्यार्किवारौ खलु मध्यमौ तौ ।
त्याज्यः सदा भूमिसुतस्य वारः कामार्कतिथ्योरपि तौ प्रदोषौ ॥ ४२ ॥
गुरुशुक्रेंदुपुत्राणां दिनेषु परिणीयते ।
या कन्या सा भवेन्नित्यं भर्तुश्चित्तानुवर्तिनी ॥ ४३ ॥
अर्कार्किभौमवाराणां दिनेषु कलहप्रिया ।
सापत्न्यं समवाप्नोति तुषारकरवासरे ॥ ४४ ॥
सूर्यदिने कृतविधवां विधवां वा वदंत्यन्ये ।
मासात्परं च शशिनः संयुक्ता सौख्यसंपर्कात् ॥ ४५ ॥
बांधवविभवविहीना दुष्टचरित्रा च वासरे कौजे ।
सौभाग्या शीलयुक्ता बोधे दिवसे च षोडशभिः ॥ ४६ ॥
धनसौख्यपुत्रपौत्रवर्द्धते वत्सरद्वये जीवे ।
शुक्रदिने पतिदयितां सुखधनयुक्ता तु वत्सरद्वितीये ॥ ४७ ॥
पंचभिरब्दैर्विगतैर्धनरहिता दुर्भगा सौरिः ।
मासैः पंचभिरथवा तेषां कालेन फलपाकः ॥ ४८ ॥
रिक्ता शनिदिने चेत्स्यात्स्थिरा पतिगृहे तदा ।
चन्द्रस्य च दिनेप्येवं किंतु सापत्न्यमाप्नुयात् ॥ ४९ ॥
विधिरत्ने व्यासः-
शनैश्चरदिने प्राप्ते यदा रिक्ता तिथिर्भवेत् ।
तस्मिन्विवाहिता कन्या पतिसंपत्तिवर्द्धिनी ॥ ६५० ॥
अथ नक्षत्रशुद्धिः । बृहस्पतिः –
सौम्यपित्र्यर्क्षहस्तां च मैत्रं नैर्ऋतिवायवः ।
त्रीण्युत्तराणि पौष्णं च रोहिणी शोभनप्रदा ॥ ५१ ॥
अन्याः सर्वा विवर्ज्याः स्युस्ताराः परिणये सदा ॥ ५२ ॥
वसिष्ठः –
स्वातौ मघायां निर्ऋतौ ध्रुवान्त्यमित्रेंदुहस्तेषु च कन्यकायाम् ।
पाणिग्रहस्त्विष्टफलप्रदः स्यादसिद्धभेष्वेव गुणान्वितानाम् ॥ ५३ ॥
नारदः –
पौष्णधात्र्युत्तरामैत्रमरुच्चंद्रार्कपित्र्यभैः ।
समूलभैरप्रसिद्धस्तैः स्त्रीकरग्रह इष्यते ॥ ५४ ॥
राजमार्तंडे –
हस्तोत्तरास्वातिमघानुराधा प्राज्ञेशपौष्णेंदवनैर्ऋतेषु ।
पुत्रार्थसौभाग्यसुखानि कन्या प्राप्नोति शेषेषु च भर्तृशोकम् ॥ ५५ ॥
श्रीपतिः –
मूलमैत्रमृगरोहिणीकरैः पौष्णमारुतमघोत्तरान्वितैः ।
निर्विधानि उडुभिर्मृगीदृशां पाणिपीडनविधिर्विधीयते ॥ ५६ ॥
चण्डेश्वरः-
मृगाशरास मघायां हस्तमैत्रोत्तरासु स्वशनिर्ऋतिपूषाब्रह्मदेवेषु चोढा ।
बहुतर सुखदाशीर्वित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बांधवानाम् ॥ ५७ ॥
माहेश्वरः –
या स्यात्पक्षभुजंगभीषणनदीवृक्षर्क्ष संज्ञोज्झिता कांता रोगविवर्जिता कपिलदृक् कांता च तामुद्वहेत् ।
माघे फाल्गुनसंयुते सहसि च ज्येष्ठे च वैशाखिक मूलब्राह्म्यमघांत्यमैत्ररविभस्वात्युत्तरा सैंदवे ॥ ५८
गर्ग :-
मघायाः प्रथमे पादे मूलस्य प्रथमे तथा ।
रेवत्याश्च चतुर्थांशे विवाहः प्राणनाशनः ॥ ५९ ॥
पूर्वात्रये विशाखाया आर्द्राद्ये भचतुष्टये ।
ऊढा चाशु भवेद्वंध्या विधवा वित्तवर्जिता ॥ ६६० ॥
गुरुः-
आर्द्रापुनर्वसौ पुष्ये सार्पे वोढा भवेद्वधूः ।
विधवा स्वल्पकालेन विवाहसमयात्परम् ॥ ६१ ॥
भगर्क्षं सर्वसौभाग्यकरं स्त्रीणां विशेषतः ।
कुतस्तर्हि वराहाद्यैगर्हितं पाणिपीडने ॥ ६२ ॥
ज्योतिःप्रकाशे –
कीर्तितो मुनिभिः सर्वैः पुष्यः सर्वार्थसाधकः ।
इति सत्यपि चोद्वाहे निंदितः केन हेतुना ॥ ६३ ॥
कालिदासोपि-
समस्तकर्मोचितकालपुष्यो दुष्यो विवाहे मदमूर्च्छितत्वात् ।
सहस्रपत्रप्रसवेन तस्मादिहापि मुक्तो भुवि लोकसंघैः ॥ ६४ ॥
अनयोरुत्तरं वृन्दावने –
प्राचेतसः प्राह शुभं भगर्क्षं सीता तदूढा न सुखं सिषेवे ।
पुष्यस्तु पुष्यत्यतिकाममेव प्रजापतेराप स शापमस्मात् ॥ ६५ ॥
चिंतामणौ –
आश्लेषा च मघापूर्वा चित्राश्रवणरेवती ।
एतानि षट्ऋक्षाणि पंगुत्वं च विनिर्दिशेत् ॥ ६६ ॥
अथ यागशुद्धिः ।
व्यतीपाते ध्रुवं मृत्युर्गण्डांते बहुरोगिणी ।
विद्युदग्निभवेद्वज्रे शूले प्राप्य तनुग्रही ॥ ६७ ॥
वैधव्ये मरणं दास्यं विष्कंभे कामचारिणी ।
वीर्यहीनेतिगण्डे स्याद्व्याघाते हन्यते सुतः ॥६८॥
परिघस्य भवेद्दासा मद्यमांसरतस्सदा ।
एतानि नवयोगानि देवता परिवर्ज - येत् ॥ ६९ ॥
श्रीपतिः-
कुलच्छेदो व्यतीपाते परिघे स्वामिघातिनी ।
वैधृते विधवा नारी विषदाहोतिगंडके ॥ ६७० ॥
व्याघाते व्याधिसंघातः शोकार्ता हर्षणे तथा ।
शूले च व्रणशूलं स्याद्गण्डे रोगभयं तथा ॥ ७१ ॥
विष्कंभेप्यहिदंशः स्याद्वज्रके मरणं भवेत् ।
एते वै दारुणाः सर्वे दश योगाः प्रकीर्तिताः ॥ ७२ ॥
अथ करणशुद्धिः ।
विष्ट्यां च मरणं नित्यं सुभगा षट्स्वपि चरे करणे ।
ध्रुवकरणैः शकुनाद्यैः पाणिग्रहणे ध्रुवं मृत्युः ॥ ७३ ॥
बृहस्पतिः –
विवाहे करणाः सर्वे शोभना विष्टिवर्जिताः ॥ ७४ ॥
अथ विवाहलग्नशुद्धिः । बृहस्पतिः –
जारसक्ता क्रिये लग्ने वृत्तिभ्रष्टा वृषोदये ।
कुलद्वये शुभा प्रोक्ता तथा च जितुमोदये ॥ ७५ ॥
नृशंसा कुलटा कर्के सिंहे वंध्या सकृत्प्रसूः ।
पतिश्वशुरयोः प्रीता कन्यायां सुरतप्रिया ॥ ७६ ॥
तुलोदये धनाढ्या स्याद्वृश्चिके नित्यमास्थिता ।
कुलटा चापपूर्वार्द्धे प्रोढा चाति सती परे ॥ ७७ ॥
परशक्त्या मृगे कुंभे मीने दुश्चारिणी द्वयोः ।
बलिनो राशयः सर्वे यथा प्रोक्तफला सदा ॥ ७८ ॥
गौतमोपि –
कृपे: कुमारिष्वनुरक्त चित्ता विहीनवित्ता गवि गोव्रता च ।
कुलद्वयानंदकरी न युग्मे कुलीरलग्ने कुलटा नृशंसा ॥ ७९ ॥
हरौ प्रसूता सकृताः श्रियायुः पतिप्रिया च श्वशुरस्य षष्ठे ।
रूपाभिमानार्थवती तुलाधरे तथालिनी क्रंदति नित्यमस्थिरा ॥ ६८० ॥
धनुषि कुलटा तत्पूर्वोर्द्धे सतीत्यपरे जगुः ।
मृगझषघटेष्वन्यासक्ता जरामुपगच्छति ॥ ८१ ॥
बृहस्पतिः-
तिथ्यास्तु बलवान्करण: करणाद्धलवान्दिनः ।
दिनादृक्षो बलाढ्यः स्यात्सर्वथानुदयोबली ॥ ८२ ॥
एवं बलोत्क्रमो ज्ञेयो गुणदोषविमिश्रिते ।
एवं सर्वत्र विज्ञेयो विवाहे तु विशिष्यते ॥ ८३ ॥
सर्वेषां बलमुक्तं तु पूर्वं विषयतः क्रमात् ।
तथा बलं समादेश्यो लग्नस्थगुणदोषयोः ॥ ८४ ॥
अथांशशुद्धिः ।
भुंक्ते पुरुषतृतीय पाणिग्रहणे क्रियांशके' कन्या ।
कामयते वृषभे गौरपि कामातुराभर्त्त्रनुजान् ॥ ८५ ॥
स्वकुलद्वयकरी विवाहिता सा तृतीयांशे ।
श्रद्धेन त्यक्त्वा पतिं विचरति कुलीरगे अन्यदेशस्तु ॥ ८६ ॥
पैतृककुलानुरक्ता सिंहांशोद्वाहिता कन्या ।
धनसौभाग्यसमृद्धा भर्तृरताथ कन्यायाम् ॥ ८७ ॥
अत्यर्थपुत्रवती सुभगा साध्वी तुलांशके साध्वी ।
रोदनशीलातीववृश्चिकभागे प्रिया भर्तुः ॥ ८८ ॥
धनुरंशके सुवृद्धिं भर्तारं भृत्यवद्भजति नारी ।
मृगभागे पुरुषाणां न याति तृप्तिं सुप्रसिद्धापि ॥ ८९ ॥
व्यभिचरति कुंभभागे वितते यज्ञेपि दीक्षिता नारी ।
सौभाग्यवती चपला प्रहसितवदनापि मीनांशे ॥ ६९० ॥
वसिष्ठोपि –
द्विभर्तृका मेषनवांशके स्याद्वृषांशके सा पशुशीलयुक्ता ।
धनान्विता पुत्रवती तृतीये कुलीरकांशे कुलटाप्यजस्रम् ॥ ९१ ॥
सिंहांशके सा पितृमंदिरस्था कन्यांशके वित्तयुता सुशीला ।
तुलांशके सर्वगुणास्पदा सा कीटांशके वित्ततरा विशीला ॥ ९२ ॥
चापांशकाद्ये धनिनि 'द्वितीये भागेन्यसक्ता मलिना गदाढ्या ।
निस्वा मृगांशे विगुणा घटांशे विभर्तृका योगरता विशीर्णा ॥ ९३ ॥
तस्मात्सदा चोक्तनवांशकेषु कुर्याद्विवाहं गुणसंप्रवृद्ध्यै ।
नवांशदोषः सकलं गुणौघं लग्नोत्थसौम्यग्रहसंभवं च ॥ ९४ ॥
ध्रुवं निहंतीव वृकाजसंघषड्वर्गजं सौम्यवियच्चराणाम् ॥ ९५ ॥
नारदः –
तुलामिथुनकन्यांशधनुराद्यर्द्धसंयुता ।
एते नवांशाः शुभदाः यदि नात्यंशका खलु ॥ ९६ ॥
शौनकः –
सुंदरी सौभाग्यवती प्रहसितवदना च मीनांशे ॥ ९७ ॥
कश्यपः –
अंत्यांशका अपि श्रेष्ठा यदि वर्गोत्तमाह्वया ।
अनुक्तांशास्तु न ग्राह्या यतस्ते कुनवांशकाः ॥ ९८ ॥
श्रीपतिः –
कोदंडतौलिमिथुनप्रमदानवांशे प्राप्नोति सौख्यमतुलं दयिता च भर्तुः ।
शेषेषु सत्स्वपि तथा च्यवनोज्झिता च चापेधिके भवति कृच्चवदंति केचित् ॥ ९९ ॥
तथा च –
कन्यानृयुग्मं च वणिग्विलग्ने स्थिते विवाहे शुभमादधाति ।
लब्धग्रहाणां बलमन्यभेपि देयस्तु तज्ज्ञैर्द्विपदांशः एव ॥ ७०० ॥
वसिष्ठः –
वर्गोत्तमविनात्यांशो विवाहे न शुभप्रदः ।
वर्गोत्तमश्चेदंत्यांश पुत्रपौत्रादिवृद्धिदः ॥ १ ॥
केशवार्कः –
चरलवं चरवेश्मगमुत्सृजेन्मृगतुलाधरगे मृगलक्ष्मणि ।
युवतिरत्रभवेत्कृत कौतुकामदनवत्यनवत्यजनोन्मुखी ॥ २ ॥
अशुभकृत्खलगः खलु योंशको जनुरनेहसिनेह सितास्तगे ।
तनुगतेोपि शिवं युवयोषितो बलवतो लवतो न भयं क्वचित् ॥ ३ ॥
अनुजनुर्मृतिगो मृतिपश्च यः सतनुगस्तनुगे न शिवं क्वचित् ।
इति विविक्तिरियं फलदा सदा स इह सिद्ध्यति चेत्समयः स्फुटः ॥ ४ ॥
अथ विवाहे दशदोषाः ।
वेधं च लत्ता च तथा च पातः खार्जूवेधो दशयोगचक्रम् ।
युतिश्च यामित्र उपग्रहाश्च वाणाख्यवज्रे च दशैव दोषाः ५ ॥
अथाष्टादशदोषाः ।
यद्वेधः पातलत्तागृहममिनमुडुक्रूरवारो ग्रहाणां जन्मर्क्षं विष्टिरर्द्धं प्रहरककुलिको मृत्युगेंदौ रिपुस्थौ ।
कर्को घंटो यमस्य प्रगतशशिबलं दुष्टयोगोर्गलाख्यो दग्धा चाहश्च गर्गप्रमुखमुनिवरैस्त्यज्यतेष्टादशोयम् ॥ ६ ॥
अथ एकविंशतिदोषाः । नारदः –
एकविंशतिदोषाणां नामरूपफलानि च ।
पितामहोक्तं संवीक्ष्य तानि वक्ष्ये समासतः ॥ ७ ॥
पंचांगशुद्धिरहितो दोषस्त्वाद्यः प्रकीर्तितः ।
उदयास्तशुद्धिहीनो द्वितीयः सूर्यसंक्रमः ॥ ८ ॥
तृतीयः पापषड़्वर्गो भृगुः षष्ठः कुजोष्टमः ।
गंडांतकर्तरीरिःफषडष्टेन्दुश्च संग्रहः ॥ ९ ॥
दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ।
दुर्मुहूर्तो वारदोषो खार्जूरिकसमांघ्रिभम् ॥ ७१० ॥
ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ।
कुनवांशो महापातो वैधृतिश्चैकविंशतिः ॥ ११ ॥
वसिष्ठः- एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः ।
कदाचिन्नैव सीदंति गुणानां कोटिकोटिभिः ॥ १२ ॥
तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् ।
विवाहे विधवा नारी मरणं व्रतबन्धने ॥ १३ ॥
ग्रामनाशः प्रतिष्ठायां सीमन्ते गर्भनाशनम् ।
नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम् ॥ १४ ॥
कर्तुनाशो गृहारंभे प्रवेशे पतिनाशनम् ।
यात्राया कर्तृनाशः स्याद्युद्धे याने विशेषतः ॥ १५ ॥
लभ्यते सुमहापुण्यमेषु श्राद्धादिकर्मभिः ॥ १६ ॥
पंचांगदोषो रविसंक्रमश्च ससंग्रहः कर्तरिकांशदोषाः ।
चन्द्रारिरिष्फाष्टमपापवर्ग:कुजाष्टमस्थो भृगुः षट्कसंस्थः ॥ १७ ॥
गण्डांतखर्जूरि कवारदोषो विषाख्यानाड्योष्टमलग्नराशिः ।
अकालवृष्टिः कुमुहूर्तदोषो महाव्यतीपातकवैधृतोंत्यः ॥ १८ ॥
लग्नास्तशुद्धिर्ग्रहणर्क्षजातः पापर्क्षविद्धर्क्षसमुद्भवा ये ।
उत्पातभाख्या महदाख्यदोषाः सर्वेषु देशेषु सदा विवर्ज्याः ॥ १९ ॥
बृहन्नारदीये –
महादोषा इमे त्याज्याः सर्वदेशेषु सर्वदा ।
न निवारयितुं शक्या गुणोत्तरशतैरपि ॥ ७२० ॥
अथ चतुरशीतिदोषाः ।
आदौ सुरगुरोरस्तं बालवृद्धस्य सूतकम् ।
देवानां शयनं चैव शुक्रास्तं शुक्रसूतकम् ॥ २१ ॥
चन्द्रास्तसूतके चैव क्षयमासाधिमासकौ ।
सिंहेज्यो मकरेज्यश्च वक्रातीचारयोर्गुरुः ॥ २२ ॥
लुप्तसंवत्सरश्चैव गुर्वादित्यस्तथैव च ।
सूर्यचन्द्रेज्यताराणां दुष्टस्थानस्य दूषणम् ॥ २३ ॥
वर्षमासादिदोषश्च ऋक्षं दग्धादि दूषितम् ।
संक्रांतिक्रूरहोराश्च क्रूरवारोथ वैधृतिः ॥२४॥
परिघार्द्धं व्यतीपातो गण्डांतस्त्रिविधस्तथा ।
उत्पातर्क्षं च पर्वर्क्षं दग्धा विष्टिश्च कर्तरी ॥ २५ ॥
लत्तापातं तथा वेधं यामित्रं युतिदूषणम् ।
एकार्गलं दशायोगं वज्रं च बाणपंचकम् ॥ २५ ॥
उपग्रहं क्रान्तिसाम्यं कुलिकं कालकंटकौ ।
उत्पातमृत्युकाणाश्च क्रकचग्रहजन्मभम् ॥ २६ ॥
यमघंटोर्द्धयामं च संवर्तः कुलिकस्तथा ।
क्रूरवर्ग:षडष्टेन्दुर्लग्नेशा रिपुमृत्युगः ॥ २७ ॥
मासतिथ्याधिसंधिश्च नक्षत्रविषनाडिकाः ।
लग्नेशास्तादिदोषश्च तथा भंगदकुंडली ॥ २८ ॥
अंधकुब्जादिदोषश्च रिक्तावृद्धिक्षयातिथिः ।
जन्ममासादिदोषश्च जन्मर्क्षादष्टमं च भम् ॥ २९ ॥
एकोदरभवोद्वाहं तथा पर्वस्य सूतकम् ।
क्रूरग्रहयुतं लग्नं घातचन्द्रस्तथैव च ॥७३० ॥
दंपत्योर्जन्मलग्नेशेऽस्तंगते सति दूषणम् ।
एतान्दोषान्परित्यज्य विवाहं प्रकरोति यः ॥ ३१ ॥
सुखसौभाग्यमाप्नोति आयुर्वृद्धिर्यशो ध्रुवम् ॥ ३२ ॥
अथ पंचशलाका । श्रीपतिः –
ऊर्ध्वा रेखाः पंच तिर्यक् स्थिताश्च द्वे द्वे रेखे कोणयोरत्र चक्रे ।
अग्रे धिष्णं शंभुकोणे द्वितीये नाड्यां न्यस्येद्भान्यतः साभिजिच्च ॥ ३३ ॥
अंत्यः पादो वैश्वदेवाह्वयस्य विष्णोर्धिष्णस्याद्यनाड्यश्चतस्रः ।
प्रोक्ता भुक्तिः साभिजित्संज्ञकस्य तत्स्थे खेटे रोहिणीनां च वेधः ॥२४॥
विवाहवृन्दावने –
याम्योत्तराप्रागपराश्च पंच द्वे द्वे च रेखे रचयेद्विदिक्षु । विदिग्द्वितीयार्गलिताग्नितारः सहाभिजित्तत्रभवेद्भवर्गः ॥३५॥
मूलादित्योः श्रवणमघयोः सौम्यविश्वाह्वयोश्च । पौष्णार्यम्णोर्वरुणमरुतार्मैत्रयाम्यर्क्षयोश्च ।
अहिर्बुध्न्याभिधरविभयो रोहिणी साभिजिच्च वेधोयं वै मुनिभिरुदितः पाणिसंबन्धकाले ॥ ३६ ॥
चिन्तामणौ राम: - वेधोन्योन्यमसौविरिंच्यभिजितोर्याम्यानुराधर्क्षयोर्विश्वें॑दोर्हरिपित्र्ययोर्ग्रहकृतो हस्तोत्तराभाद्रयोः ।
स्वातीवारुणयोर्भवेन्निर्ऋतिभादित्योस्तथा फांत्ययोः खेटे तत्र गते तुरीयचरणाद्द्येोर्वा तृतीयद्वयोः ॥ ३७ ॥
अथ सप्तशलाका । राजमार्तंडे –
पूर्वे कुबेरवरुणे च याम्ये दिङ्मण्डले सप्त भवंति रेखाः ।
ताभिर्मुनींद्रा विदितार्थसिद्धा वदंति ते सप्तशलाकचक्रम् ॥ ३८ ॥
वृन्दावने –
वैश्वदैवतचतुर्लवः श्रवः पंचभूलव इहाभिजिन्मितिः ।
अन्यतः परिणयादयंव्यधः सप्तरेखवलये विलोक्यते ॥ ३९ ॥
रामः –
शाक्रेज्ये शतभानिले जलशिवे पौष्णार्यमर्क्षेवसुद्वीशे वैश्वसुधांशुभे हयभगे सार्पानुराधे मिथः ।
हस्तोपांतिमभे विधातृविधिभे मूलादितित्वाष्ट्रभे जांघ्री याम्यमघे कृशानुहरिभे विद्धेद्रिरेखे मिथः ॥ ७४० ॥
चक्रे सप्तशलाकाख्ये स वेधः सर्वकर्मसु ।
चिंतनीयो विवाहे तु पंचरेखासमुद्भवे ॥ ४१ ॥
लांगले कमठे चक्रे फणिचक्रे त्रिनाडिके ।
अभिजिद्गणना नास्ति चक्रे खार्जुरिके तथा ॥ ४२ ॥
ताराया ग्रहचक्रे च संघाते लोहपातके ।
अभिजिद्गणना नास्ति लाते पाते च कंटके ॥ ४३ ॥
लल्ल:-
कुमारीवरणे दाने विवाहे स्त्रीप्रवेशने ।
वेधोयं पंचरेखाख्योन्यत्र सप्तशलाकके ॥ ४४ ॥
वसिष्ठः –
पंचशलाकाचक्रे पाणिग्रहणो भवेधविधिरुक्तः ।
शस्तः शुभमित्रकृतः सप्तशलाकाज इतरत्र ॥ ४५ ॥
श्रीपतिः –
वधूप्रवेशने दाने वरणे पाणिपीडने ।
वेधः पंचशलाकाख्येऽन्यत्र सप्तशलाकके ॥ ४६ ॥
वेधफलं फलप्रदीपे –
अर्कवेधे च वैधव्यं चन्द्रवेधे वियोगिनी ।
पुत्रशोकातुरा भौमे बुधे शोकाकुला भवेत् ॥ ४७ ॥
गुरौ वंध्या विजानीयात् शुक्रे स्याद्व्यभिचारिणी ।
मृतवत्सा शनौ ज्ञेया राहौ च कुलटा भवेत् ॥ ४८ ॥
केतुवेधे सर्वनाशो एवं वेधस्य लक्षणम् ॥ ४९ ॥
गर्गः –
यस्मिन् शशी पंचशलाकभिन्नः पापैरपापैरथवा विवाहे ।
तेनैव वस्त्रेण विरोदमाना श्मशानभूमिं प्रमदा प्रयाति ॥ ७५० ॥
भोजः –
विद्धे सप्तशलाकाख्ये विधवा लग्नवाससा ।
पुनर्यात्यचिरान्नारीमुखाग्नौ मुखचंद्रिकाम् ॥ ५१ ॥
अथ नक्षत्रवेधः । विवाहवृंदावने –
तस्मिन्नभिन्नाग्रगतं भिनत्ति ग्रहो विवाहर्क्षमशेषमेव ।
स्त्रीपुंसयोरायुरसौम्यवेधः सौम्यव्यधो हंति सुखानि शश्वत् ॥ ५२ ॥
नारदः –
पादएव शुभैर्विद्धमशुभे नैव कृच्छ्रभम् ।
क्रूरविद्धे युतं धिष्णं निषिद्धं नैव पादतः ॥ ५३ ॥
लल्लः–
हैमने लोहदंडेन तुल्यं दुःखं हि ताडनात् ।

तथैव सदसद्विद्धोऽशुभो दोषस्तयोः समः ॥ ५४ ॥
संहिताप्रदीपे –
तंत्रैकरेखास्थितखेचरं यद्विद्धं तदाहुर्द्युचरेण धिष्णम् ।
केचिद्विचिन्वंति हि पादवेधं समस्तमेवाशुभमाहुरन्ये ॥ ५५ ॥
यथा शरेणावयवैकदेशे विद्धो नरो न क्षमतामुपैति ।
तथैव धिष्णं द्युचरेण विद्धं न शोभनं शोभनकर्मणि स्यात् ॥ ५६ ॥
पटस्य देशे द्युचरेपि दग्धः पटो द्दि यद्वदिति तत्प्रसिद्धिः ।
तथैव पादोपि नभश्चरेण विद्धे भवेद्विद्धमशेषमेव ॥ ५७ ॥
नक्षत्रवेधे यदि पादवेधस्तदांघ्रिवेधे घटिकासु वेधः ।
नाडीव्यधे स्याद्विघटीषु वेधं भानां तदा क्वापि न चास्ति वेधः ॥ ५८ ॥
वसिष्ठः –
तक्षकविषाग्निदग्धो न नरो म्रियते किमेकदेशेपि ।
तं मृतधिष्णं निखिलं मृतभे चक्रतमृत्युरेव ॥ ५९ ॥
निहितं त्रिविधोत्पातैः क्रूराक्रान्तं च विद्धभं त्वखिलम् ।
त्याज्यं तच्छुभकर्मणि न पादतः पादधिष्णं च ॥ ७६० ॥
पादे विद्धे चेदनिष्टं भवेद्भं तत्संयोगाद्राशिरेखा शुभा स्यात् ।
तेनाप्येवं योगतो राशिचक्रं मांगल्यं तत्कर्म कार्यं कथं स्यात् ॥ ६१ ॥
नक्षत्रे यो दोषं निहंति राशिं न संचरते हेतुम् ।
यत्पुत्रपेयगरलं पित्रादीनां न हन्यते तद्वत् ॥ ६२ ॥
कश्यपः -
क्रूरविद्धं च यद्धिष्णं क्रूराक्रांतं च कृत्स्नभम् ।
मणिहेममयं हर्म्यं भूताक्रांतमिव त्यजेत् ॥ ६३ ॥
अत्रैवमृक्षं सदसद्ग्रहेण विद्धेन्नशस्तं सकलं तु यावत् ।
प्रागुक्तसंख्यार्द्धहिमांशुभोगात्ततो विचिंत्यः खलु पादवेधः ॥ ६४ ॥
लल्लः –
पुरुषश्च दृष्टिपादा यद्वल्लक्षं भिनत्ति धानुष्कः ।
समपादगतश्चैवं वेधे नांघ्रिं प्रदूषयति ॥ ६५ ॥
वसिष्ठः –
पादएव न शुभः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम् ।
क्रूरविद्धयुतभं न शोभनं शोभनेषु सकलं न पादतः ॥ ६६ ॥
अथ पादवेधः । नारदः –
अखिलर्क्षं पंचगव्यं सुराबिंदुयुतं यथा ।
पादएव शुभैर्विद्धमशुभे नैव कृच्छ्रमम् ॥ ६७ ॥
केशवार्क:-
क्षतार्दिते दिग्धशरार्दितस्य शस्तं मृगस्यामिषमेव मन्ये ।
क्रूरांघ्रिवेधाय पदं वदंति तेनैव तेषां निजपक्षहानिः ॥ ६८ ॥
विश्लेषमायाति यथांशुभिः स्वै रणे शरेणैकदिशि क्षतोपि ।
तथांघ्रिवेधादपि तारकाणां क्रूरस्य नश्येद्बलरूपसंपत् ॥ ६९ ॥
कश्यपः –
क्रूरविद्धं युतं धिष्णं निखिलं नैव पादतः ।
अन्यैरपि गुणैर्युक्तं सर्वदोषविवर्जितम् ॥ ७७० ॥
त्यजेदनर्घमाणिक्यं कलहोपहतं यथा ॥ ७१ ॥
दीपिकायाम् –
आद्यपादस्थिते खेटे चतुर्थं संप्रदुष्यति ।
द्वितीयस्थे तृतीयं तु विपरीतमतोन्यथा ॥ ७२ ॥
वृन्दावनेपि –
स किल वेधविधिर्हि तृतीययोश्चरणयोर्मिथ आदि चतुर्थयोः ।
अशुभविद्धमशेषमुडुयजेच्चरणगं शुभवेधमसंपदि ॥ ७३ ॥
छिद्येत शाखा यदि काचिदृश्यैर्भवेत्तदानीं किमशेषनाशनम् ।
एवं स एवाशुभदो ग्रहेण यो विध्यतेन्ये चरणाः शुभाः स्युः ॥ ७४ ॥
वैद्यनाथ:-
वेधमाद्यंतयोरंत्योरन्योन्यं द्वितृतीययोः ।
क्रूरैरपि त्यजेत्पादं केचिदूचुर्महर्षयः ॥ ७५ ॥
वसिष्ठः –
विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते ।
तथैव पादो न शुभो वसिष्ठः पादाः शुभाश्चेति पितामहेन ॥ ७६ ॥
रत्नकोशे-
विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते ।
यथा तथात्राप्युडुपादएव त्याज्या तदन्यत्त्रितयं शुभावहम् ॥ ७७ ॥
राजमार्तंडे –
यस्मिन्पादे ग्रहस्तिष्ठेत् शुभो वा यदि वाशुभः ।
तेनांघ्रिणा भपादो यो विद्धो नेष्टोऽपरे शुभाः ॥ ७८ ॥
यथा शरेणावयवैकभिन्नो नरः क्षमः स्यात्पटुरौषधैः स्यात् ।
हित्वा तमेवावयवं तथेंदुभोगाच्छुभं भं चरणस्तु दुष्टः ॥ ७९ ॥
धिष्णे शुभेन द्युचरेण विद्धे विद्धस्तु पादः परिवर्जनीयः ।
शेषं शुभं विद्धमतेंदुभोगं समस्तमेवाशुभखेटविद्धम् ॥ ८० ॥
क्रूरैरपि त्यजेत्पादं केचिदूचुर्मनीषिणः ॥ ८१ ॥
वसिष्ठः-
धिष्णं शुभग्रहैर्विद्धं पादमात्रं परित्यजेत् ।
क्रूरैस्तु सकलं त्याज्यमिति वेधाविनिर्णयः ॥ ८२ ॥
अथ वेधे परिहार वाक्यम्। बृहस्पतिः –
संग्रहे प्रोक्तनक्षत्रे विवाहो नैव शोभनः ।
राशिभेदेन दोषः स्यादेकतारास्वपि ग्रहाः ॥ ८३ ॥
मार्तंडे –
लग्नेशे भवगेऽथवा शशिनि सद्दृष्टे शुभे वांगगे होरायां च शुभस्य वा व्यधभयं नास्तीति पूर्वे जगुः ॥ ८४ ॥
वसिष्ठः –
लग्ने शुभे सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा ।
कालाख्यहोरा च तथा शुभस्य भवेद्धिदोषस्य तथा विभंगः ॥ ८५ ॥
उद्वाहतत्वे सद्युक्दृक्तनुगे शुभे व्यधभयं नोचायगे लग्नपे होरायां च शुभस्य वा शशिनि सद्दृष्टेपि चार्यैरुडोः ॥ ८६ ॥
अथ लत्ताविचारः । श्रीपतिः –
ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः षष्ठं चाष्टममर्कजस्य परतो हंति स्फुटं लत्तया ।
पश्चात्सप्तममिंदुजश्च नवमं राहुः सितः पंचमं द्वाविंशं परिपूर्णमूर्तिरुडुपः संताडयेन्नेतरः ॥ ८७ ॥
विवाहवृन्दावने –
रविनखैर्मितमर्कविधुंतुदौ मुनिभिरिंदुरखंडलमंडल: ।
हुतवहाकृतिषट्जिनदंतिभिः क्षितिसुतादभिलत्तपतिग्रहः ॥ ८८ ॥
वसिष्ठः –
रविलत्ता वित्तहरी नित्यं कौजी विनिर्दिशन्मरणम् ।
चांद्री नाशं कुर्याद्बोधो नाशं वदत्येव ॥ ८९ ॥
सौरी मरणं कथयति बंधुविनाशं बृहस्पतेर्लत्ता ।
मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदति ॥ ७९० ॥
केशवार्कः –
इति सतिद्युसदामभिलत्तनेयदनुलत्तममुक्तमृषिव्रजैः ।
तदुडु पश्चिमपूर्वविभागयोरनधिकाधिकदोषविवक्षया ॥ ९१ ॥
उडुनि निर्दलिते शुभलत्तया न फलमस्तु बलस्य गलत्तया ।
अशुभलत्तितलत्तितदूढयोर्धनसुता नसुतापकरं परम् ॥ ९२ ॥
केचित्तु पापलत्तां वर्जयंति । त्रिविक्रमः –
नक्षत्रं द्वादशांभानुस्तृतीयं क्षितिनंदनः ॥
नखसंख्यं तमो हंति लत्तया शनिरष्टमम् ॥ ९३ ॥
अथ लत्ताया अपवादः ।
सौराष्ट्रशाल्लदेशेषु लातितं च विवर्जयेत् ॥ ९४ ॥
लत्तामालवके देशे पातं कौशलके तथा ।
एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ ९५ ॥
अथ पातविचारः । श्रीपतिः-
सूर्याद्धिष्टितभाद्भुजंगपितृभस्त्वाष्ट्रेषु मैत्रश्रुतौ पौष्णे च क्रमशोश्विभाद्गणनयाशीतां- शुना संयुते ।
धिष्णे तावतिथौ पतत्यवितथं चण्डीशचण्डायुधं तस्मिन्नात्महत च्छुभिर्निजहिति कार्यं न कार्यं बुधैः ॥ ९६ ॥
नारदः –
सूर्यभात्सार्पपित्र्यांतात्त्वाष्ट्रमित्रोडुविष्णुभे ।
संख्यायादिनभे तावदश्विभात्पातदुष्टभम् ॥ ९७ ॥
वसिष्ठः –
रविभादहिपित्रमित्रत्वाष्ट्रभहरिपौष्णभेषु गणितेषु ।
अश्विभभादींदुयुते तावति वैपरीति गणनया पातः ॥ ९८ ॥
त्रिविक्रमः –
साध्यहर्षणशूलानां वैधृतिव्यतिपातयोः ।
यद्भगंडस्य चान्ते स्यात्तत्पातेन निपातितम् ॥ ९९ ॥
केशवः-
यदंतगंहर्षणसाध्यशूलगण्डव्यतीपातकवैधृतीनाम् ।
तथैव चन्द्रोडुनि चंडमैशमस्त्रं पतेन्मंगलभंगलक्ष्म ॥ ८०० ॥
नक्षत्रेषु यदि एतद्योगस्य समाप्तिर्भवति तदा पातदोष इत्यर्थः ।
अयमपि पातदोषश्चण्डीशचण्डायुधाह्वयो ज्ञेयः ।
अखिले मंगलेष्वपि वर्ज्यौ यस्माद्विनाशदः कर्तुम् ॥ १ ॥
पावकः पवनाश्चैव विकारी कलहप्रियः ।
मृत्युकारी क्षयंकारी षडेते पातदूषणम् ॥ २ ॥
पातेन पतितो ब्रह्मा पातेन पतितो हरिः ।
पातेन पतितो रुद्रस्तस्मात्पातं विवर्जयेत् ॥ ३ ॥
चित्रांगते पातविचित्रदेशे मैत्रे मघा मालवके निषिद्धः ।
पौष्णश्रुती चोत्तरदेशजातः सर्वत्र वर्ज्यश्च भुजंगपातः ॥ ४ ॥
अथ क्रांतिसाम्यम् ।
ऊर्ध्वा त्रीणि अधो त्रीणि मध्ये मीनं प्रदापयेत् ।
सूर्यचन्द्रमसोर्योगे क्रांतिसाम्यमुदाहृतम् ॥ ५ ॥
रामः –
पंचास्याजौ गोमृगो तौलिकुंभौ कन्यामीनौ कर्क्यली चापयुग्मे ।
तत्रान्योन्यं चन्द्रभान्वोर्निरुक्तं क्रांत्योः साम्यं नो शुभं मंगलेषु ॥ ६ ॥
ऐंद्रस्यांते ध्रुवं मध्ये व्यतीपातस्य संभवः ।
क्रांतिसाम्यकृतोद्वाहो न जीवति कदाचन ॥७॥
दिनकरहिमरश्म्योर्दृष्टिसंपातजन्मा भवति विकलमूर्तिः कोपि रौद्रो मनुष्यः ।
पतति भवनमध्ये मङ्गलानां विनष्ट्यैर्ज्वलतकपिलदृष्ट्या निर्दहंति जगंति ॥ ८ ॥
विवाहपटले–
शस्त्राहतोग्निदग्धो वा नागदष्टोपि जीवति ।
क्रांतिसाम्यकृतोद्वाहो न जीवति कदाचन ॥ ९ ॥
वैधृतिव्यतिपातौ यौ क्रांतिसाम्येर्कचन्द्रयोः ।
सत्कर्मारंभणं तत्र व्यसनं मरणं विदुः ।। ८१० ॥
मार्तंडे-
एष्यो धनं क्षपयति व्यतिपातयोगो मृत्युं ददाति न चिरादथ वर्तमानः ।
संतापशोकगदविघ्नभयान्यतीते तस्माद्दिनत्रयमपि प्रजहीत विद्वान् ॥ ११ ॥
सूर्यसिद्धांते-
तुल्यांशुजालसंपर्कात्त्रयोस्तु प्रवहाहतः ।
तादृक् क्रोधोद्भवो वह्निर्लोकाभावाय जायते ॥ १२ ॥
वसिष्ठः-
शास्त्रात्समानीतमहातिपातः स वैधृतो हंति वधूवरं च ।
त्रिसप्तवारानिव जामदग्न्य क्रोधोचिरात् क्षात्रकुलं समस्तम् ॥ १३ ॥
हिमकरतुहिनांशो दृष्टिसंपातजन्मास्त्वनलमयशरीरः सुगिरनग्निसंघात् ।
भुवि पतति जनानां मंगले ध्वंसनाय गुणगणशतसंघैरप्यवार्योग्निकोपः ॥ १४ ॥
दिनकरतनुमार्गं यावदन्वेति चन्द्रो मुनिभिरभिहितोसौ पातकालस्तु तावत् ।
उपनयन विवाहादौ न शस्तोति पुण्यो यमनियमविधाने सूर्यतुल्योपमः स्यात् ॥ १५ ॥
अथ एकार्गलखार्जूरियोगः । संहिताप्रदीपे –
त्यजंति केचित्तिथिमृक्षमेके वारं तथा पातविदुष्टमन्ये ।
मांगल्यकार्येषु न शोभनं स्याद्दिनत्रयं केचिदपि ब्रुवंति ॥ १६ ॥
विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते ।
यथा तथैव व्यतिपातयोगे क्षणोत्र दुष्टो न तिथिर्न वासरः ॥ १७ ॥
केशवः –
त्रिभागशेषे ध्रुवनाम्नि चन्द्रे त्र्यंशे गते संप्रति संभवोस्य ।
मानार्द्धयोगाधिकमिंदुभान्वोः क्रांत्यंतरं चेन्न तदैष दोषः ॥ १८ ॥
अथैकार्गलखार्जूरः । श्रीपतिः-
एका मूर्ध्नि गता त्रयोदश तथा तिर्यग्गता स्थापयेद्रेखा चक्रमिदं बुधैरभिवहितं खार्जूरिकं तत्र तु ।
व्याघातादिषु मूर्ध्निभं तु कथितं तत्रैकरेखास्थयोः सूर्याचन्द्रमसोर्मिथो निगदितो दृक्पात एकार्गलः ॥ १९ ॥
वसिष्ठः –
रेखामेकामूर्ध्वगां षट् च सप्ततिर्यक्कृत्वाप्यत्र खार्जूरचक्रे ।
तिर्यग्रेखासंस्थयोश्चन्द्रभान्वोर्दृक्संपातो दोष एकार्गलाख्यः ॥ ८२० ॥
अन्त्यातिगण्डपरिघव्यतिपातपूर्वव्याघातगण्डवरशूलमहाशनीषु ।
चित्रानुराधपितृपन्नगदस्रभेषु सादित्यमूलशशिसूरिषु मूर्ध्नि भेषु ॥ २१ ॥
त्रिविक्रमः –
विरुद्धनामयोगेषु साभिजिद्विषमर्क्षगः ।
अर्कादिंदुस्तदा योगो निंद्य एकार्गलाभिधः ॥ २२ ॥
नारदस्त्वभिजिद्वर्जितं चक्रमाह ।
लिखेदूर्ध्वगतामेकां तिर्यग्रेखां त्रयोदश ।
तत्र खार्जूरिके चक्रे कथितं मूर्ध्नि भान्यसेत् ॥ २३ ॥
व्याघातशूलपरिघपातपूर्वेषु सस्त्वपि ।
गण्डातिगण्डकुलिशवैधृत्यासहितेषु च ॥ २४ ॥
अदितीन्दुमघाह्याद्यमूलमैत्र्येंत्यभानि च ।
ज्ञेयानि सहचित्राणि मूर्ध्नि भानि यथा क्रमम् ॥ २५ ॥
भान्येकरेखास्थितयोः सूर्याचन्द्रमसोर्मिथः ।
एकार्गलो दृष्टिपाताच्चाभिजिद्वर्जितानि वै ॥ २६ ॥
कश्यपेनापि –
एकार्गलो दृष्टिपातश्चाभिजिद्रहितानि वै ॥ २७ ॥
केशवार्कः –
शीर्षभं भवति रूपसंयुतं दुष्टयोगमितिरर्द्धिता सती ।
शेषिणी यदि च सार्द्धविश्वयुक् मंगलं गलति सार्गले विधौ ॥ २८ ॥
त्यक्त्वागतैष्यस्य परेस्य हेतुमुह्यंति नक्षत्रमशेषमेव ।
एकार्गलस्यैव हि सा च भंगी संध्यागतं यद्गलहस्तयंति ॥ २९ ॥
विवाहे प्रथमे क्षौरे सीमंते कर्णवेधने ।
व्रतेऽन्नप्राशने चैव खार्जूरं परिवर्जयेत् ॥ ३० ॥
अथ दशयोगविचारः ।
अश्विन्यादि रविर्यत्र अश्विन्यादि शशी तथा ।
द्वयोर्योगो हृते ऋक्षे शेषे स्यादपि तद्दश ॥ ३१ ॥
शून्यं रूपोथ वेदर्तुदश रुद्रतिथिर्धृतिः ।
एकोनविंशविंशश्च दश योगाः प्रकीर्तिताः ॥ ३२ ॥
वायुमेघाग्निभूपालवह्निमृत्युक्रमात्फलम् ।
रोगं वज्रं तथा कष्टं हानिश्च दशयोगके ॥ (३३) ॥
फलप्रदीपे –
अश्विन्यादित एव यत्र सविता यच्चेष्टमृक्षं तयोर्येागात्खैककृतर्तुदिग्भवतिथिर्धृत्योनविंशेन्नखाः ।
उद्वाहे दशयोगके प्रकथितं वायुर्जलाद्वह्नितो राज्ञश्चैौरमृतेर्गदाश्च कलहात्कष्टार्थहानेर्भयम् ॥ ३३ ॥
विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा ।
कर्णवेधे तु चूडायां दशयोगं विवर्जयेत् ॥ ३४ ॥
अस्यापवादमाह । भरद्वाजः –
गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्नकेंद्रगे ।
दशयोगा विनश्यंति यथाग्नौ तूलराशयः ॥ ३५ ॥
व्यासोपि –
शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च ।
दशयोगसमायुक्तमपि लग्नं शुभावहम् ॥ ३६ ॥
अथ युतिदोषः । नारदः-
शशांके ग्रहसंयुक्ते दोषः संग्रहकारकः ।
तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत् ॥३७॥
विवाहपटले –
यस्मिन्भवने चन्द्रस्तस्मिन्यदि जायते ग्रहः कश्चित् ।
युतिरिति दोषस्तु तदा शुभयुक्तः केचिदिच्छंति ॥ ३८ ॥
स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतोपि वा ।
पापग्रहयुतश्चंद्रः करोति मरणं तयोः ॥ ३९ ॥
वसिष्ठः –
दारिद्र्यं रविणा कुजेन मरणं सौम्येन नष्टप्रजा दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्न्यकम् ।
प्रव्रज्यार्कसुतेन सेंदुजगुरौ वांच्छंति केचिच्छुभं व्याधेर्मृत्युरसद्ग्रहैः शशियुते दीर्घप्रवासी शुभैः ॥ ८४० ॥
भूपाद्भयं रिपुभयं व्यसनं प्रवासं वित्तक्षयं विदरणं च शुभक्रियासु ।
कर्तुः करोति शशभृत्क्रमशेोर्कपूर्वैरेकग्रहैः सह विशन्नुडुमेकराशौ ॥ ४१ ॥
यस्मिन्नृक्षः स्थितः खेटस्तदृक्षं युतिसंज्ञकम् ।
तस्मिन्विवाहिता कन्या पुंश्चली जायते ध्रुवम् ॥ ४२ ॥
श्रीपतिः –
स्वर्भानुमित्रासितभौमशुक्रैस्तुषाररश्मिः सहितोङ्गनानाम् ।
दौर्भाग्यवैधव्यभयानि धत्ते शुभं यदंभोलिभृदीज्यविद्भ्याम् ॥ ४३ ॥
चण्डेश्वरः-
युतियामित्रगो नित्यं राहुकेतू फलप्रदौ ।
व्यासशौनक्योर्वाक्यमस्मिन्नर्थे च लिख्यते ॥ ४४ ॥
भास्करयुते चन्द्रे भवति धनैर्वर्जिता दुराचारा ।
भौमे साहसयुक्ता गात्रच्छेदं समाप्नोति ।
स्वसुतयुते रजनीकरे सत्यवती धर्मशीला स्यात् ।
सुरगुरुणा पतिदयिता सधना नियता च पुत्रिणी साध्वी ॥ ४५ ॥
शुक्रे विपन्नशीला नित्यं वशगा च सापत्न्याः ।
सौरेण युतो विधवा प्रव्रज्यां वा करोति विगतभया ॥ ४६ ॥
राहुसमेते चन्द्रे प्राप्ते पाणिग्रहणं तु या ।
परपुरुषसक्तहृदया नीचैरपि याति संसर्गम् ॥ ४७ ॥
केतुयुते हिमरश्मौ कन्यापाणिग्रहणं तु या गच्छेत् ।
धारयति सा सुतीव्रं नृकपालं सोमसिद्धांतवित् ॥ ४८ ॥
ज्योतिर्निबन्धे –
एकस्मिन्नपि धिष्णे भिन्ने राशौ खलग्रहे शशिनि ।
तच्चंद्रर्क्षे कुर्याद्विवाहयात्रादिकं सर्वम् ॥ ४९ ॥
गुरुरपि –
सग्रहे प्रोक्तनक्षत्रे विवाहो नैव शोभनः ।
राशिभेदे न दोषः स्यादेकतारास्वपि ग्रहः ॥ ८५० ॥
नारदः-
स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतो विधुः ।
युतिदोषाय न भवेद्दंपत्योः श्रेयसे तदा ॥ ५१ ॥
कश्यपोपि-
तुंगमित्रस्वराशिस्थशुभयुक्तः शुभप्रदः ।
एवंविधः क्रूरयुतः संपूर्णफलदः शशी ॥ ५२ ॥
वर्गोत्तमगतश्चंद्रः स्वोच्चे वा मित्रराशिगः ।
युतिदोषश्च न भवेद्दंपत्योः श्रेयसी सदा ॥ ५३ ॥
अथ यामित्रदोषः । नारदः-
लग्नाद्वा शशिभाद्वापि यामित्रं सप्तमं स्मृतम् ।
क्रूरग्रहयुतं तत्र यत्नतः परिवर्जयेत् ॥ ५४ ॥
क्रूरो वा यदि वा सौम्यो लग्नाच्चन्द्राच्च खेचराः ।
एकोपि यदि यामित्रे समांशे शोकदो भवेत् ॥ ५५ ॥
राजमार्तंडे –
सौरारजीवबुधराहुरविश्च शुक्रे केतुश्च सप्तमगृहं शशिनश्च लग्नात् ।
वैधव्यबंधनवधक्षय पुत्रनाशव्याधिप्रवासमरणानि यथाक्रमेण ॥ ५६ ॥
भूपालवल्लभे-
चन्द्रात्सप्तमराशिगे दिनकरे त्यक्ता धनैः कन्यका भौमेन प्रमदा प्रयाति मरणं सौरेण वंध्या सरुक् ।
जीवः शुक्रशशांकजाः शुभकराः केचिद्वदन्ति क्रमात् भर्तुः प्रोज्झितदीक्षितास्तभवने नित्यं प्रवासान्विता ॥ ५७ ॥
चण्डेश्वरः-
पापात्सप्तमगः शशी यदि भवेत्पापेन वा संयुतो यत्नेनापि विवर्जयेन्मतिमता दोषोपि संकथ्यते ।
यात्राया विपदा ग्रहेषु मरणं क्षौरे च रोगो महानुद्वाहे विधवा व्रते च मरणं शूलं च पुंस्कर्माणि ॥ ५८ ॥
पापग्रहेण संयुक्तः पापयामित्रसंभवः ।
पापद्वयस्य मध्यस्थः शुभोप्यशुभदः शशी ॥ ५९ ॥
केशवः –
खलकृता तनुरोहिणि मित्रयोर्दुरधुरा विधवां कुरुते वधूम् ।
श्रुतिशरांशमिते स्मरभे तयोर्गृहमपुण्यमपुण्यमिव त्यजेत् ॥ ८६० ॥
क्रूरस्य भार्द्धांतरमृक्षमेवमनिष्टमित्येव विशेषवादः ।
पापाच्चतुः पंचलवेषु चान्द्रं यामित्रमस्मात्खलु पर्यणंसीत् ॥ ६१ ॥
पतिं त्यक्त्वा सूर्ये शशिनि करणात्सप्तमगते महीजेऽन्यासक्ता हिमकरसुते भर्तृनिरता ।
गुरौ नारी साध्वी भवति च सपत्न्या भृगुसुते सुतैहींना दीना दिनकरसुतेब्जाद्युनगते ॥ ६२ ॥
लग्नात् कलत्रे रजनीकराद्वा ऋक्षातऋक्षे यदि सप्तमेपि ।
ग्रहो विवाहे ह्यशुभः शुभो वा तदा सुवैधव्यमुशन्त्यवश्यम् ॥ ६३ ॥
चण्डेश्वरः –
शशिनः सप्तमसंस्थे दिवसकरे शीलवर्जिता कन्या ।
भौमे पतिघातकरी शशितनये वल्लभा भर्तुः ॥ ६४ ॥
सुरमंत्रिणि सुतसहिता दैत्यगुरौ शोभना साध्वी ।
रवितनये भर्तृहा कुलटा सा बंधकी या स्यात् ॥ ६५ ॥
राहौ भर्तृरनिष्टा केतौ वंशक्षयाय निर्दिष्टा ।
लग्नात्सप्तमगा पापश्चन्द्रात् सप्तमगोपि वा ।
लग्नस्थाच्चंद्रसंस्थाद्वा व्याधिवैधव्यकारकाः ॥ ६६ ॥
विवाहपटले-
यामित्रं न प्रशंसंति गर्गगालवकश्यपाः ।
यामित्रे चांगिराश्रेष्ठश्चन्द्रशुक्रबुधास्तथा ॥ ६७ ॥
तस्माच्चन्द्राच्च लग्नाच्च यामित्रं परिवर्जयेत् ।
सौराररवयो वर्ज्याः सप्तमस्थाः प्रयत्नतः ॥ ६८ ॥
दीपिकायाम् –
रविमंदकुजाक्रांतमृगांकात्सप्तमं त्यजेत् ।
विवाहयात्रा चूडासु गृहकर्मप्रवेशने ॥ ६९ ॥
अथ यामित्रापवादः । अत्रिः –
यामित्रगो यदि भवेदुशना बुधो वा गीर्वाणनाथसचिवः सितपक्षचन्द्रः ।
कन्याविवाहसमये शुभमामनंति मन्वत्रिनारदवसिष्ठपराशराद्याः ॥ ८७० ॥
मनुशांडिल्यमांडव्य भारद्वाजात्रिगौतमाः ।
यामित्रे तु प्रशंसंति बुधजीवोशनाः शुभाः ॥ ७१ ॥
वसिष्ठः-
लग्नात्त्रिकोण सहजाय गतश्च चान्द्रे यामित्रदोषमशुभं भृगुराशु हन्यात् ।
धीधर्म कटकगतस्फुरदंशुजालो जीवोतिदुष्टफलहानिकरः सशेतिः ॥ ७२ ॥
मित्रक्षिताये मंवने शुभवीक्षितो वा मित्राश्रितोथ भवने सुहृदंशके वा ।
यामित्रदोषमपहृत्य सुखं करोति चन्द्रः समीहितफलं च ददाति पुंसाम् ॥ ७३ ॥
ज्योतिःसागरे –
मित्रालये मित्रसमीक्षितो वा मित्रांशके मित्रसमाश्रितो वा ।
क्रूरग्रहादस्तगतोपि सोमः समीहितार्थं वितरेन्नराणाम् ॥ ७४ ॥
राजमार्तंडः –
तुंगत्रिकोणभवने भवने निजे वा सौम्याधिमित्रगृहगोपि तदीक्षितो वा । यामित्रवेधजनितावनपत्य दोषान्दोषाकरः सुखमनेकविधं विधत्ते ॥ ७५ ॥
व्यवहारोच्चये –
स्वोच्चेथवा स्वभवने स्फुरदंशुजालः सौम्यालये हितगृहे शुभवर्गगो वा ।
यामित्रकादि परिसंचितदोषराशिं हित्वा ददाति बहुशः सुखमेव चन्द्रः ॥ ७६ ॥
कालखण्डे वात्स्यायनः –
गुरुश्चन्द्रश्च यामित्रे तिष्ठेद्यदि बलान्वितः ।
धनसौभाग्यपुत्रांश्च लभते नात्र संशयः ॥ ७७ ॥
मणिमुक्ताप्रवालैश्च सुवर्णाभरणैः शुभैः ।
शोभिता तु सदा तिष्ठेद्गुरुणापि निरीक्षिते ॥ ७८ ॥
सा तु भर्तुः प्रिया नित्यं बुधे चन्द्रस्य सप्तमे ॥ ७९ ॥
भुजबल: -
स्त्रीणां विवाहं तु बलैरुपेता पत्युः प्रणाशं विहगा विदध्युः ।
त्यक्त्वा बुधं दैत्यगुरुं गुरुं च निशाकरादस्तगृहं प्रपन्ना ॥ ८८० ॥
देशविशेषेण परिहारः । विवाहपटले-
लत्ता मालवके देशे पातः कोसलके तथा ।
एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ ८१ ॥
वराहः–
युतिर्दोषो भवेद्गौडे यामित्रस्य च यामुने ।
वेधदोषस्तु विंध्याख्या देशे नान्येषु केचन ॥ ८२ ॥
अथोपग्रहः । श्रीपतिः-
भूकंप: सप्तमर्क्षे भवति सवितृभात्पंचमे विद्युदुक्ता शूलं चैवाष्टसंख्ये शनिरिति दशमे केतुरष्टादशे तु ।
दंडस्त्रिपंच संख्ये स नव दशमिते नूनमुल्काप्रदिष्टा धिष्णे द्विःसप्तसंख्ये मुनिभिरभिहिताश्चात्र निर्घातपातः ॥ ८३ ॥
भादेकविंशतिमिताः कथितास्तु मोहनिर्घात कंपकुलिशाः परिवेषयुक्ताः ।
एष्विन्दुगेषु न शुभं खलु कर्म कार्यं सिद्धिं प्रयांति दहनानि विषातिशाठ्याम् ॥ ८४ ॥
भूकंप: सूर्यभात्सप्तमर्क्षे विधुं तु पंचमे ।
शूलोष्टमे च नवमे शनिरष्टादशे ततः ॥ ८५ ॥
केतुः पंचदशे दण्डं चोल्का एकोनविंशतिः ।
निर्घातः पातसंज्ञं च ज्ञेयः स नवपंचमे ॥ ८६ ॥
मोहनिर्वात कंपाश्च कुलिशं परिवेषकम् ।
विज्ञेयाश्चैकविंशाख्यादारभ्य च यथाक्रमम् ॥ ८७ ॥
चन्द्रयुक्ते शुभेष्वेषु शुभ कर्म न कारयेत् ॥ ८८ ॥
विवाहपटले –
सूर्यभात्पंचमे ऋक्षं ज्ञेयं विद्युन्मुखाभिधम् ।
शूलं चाष्टमगं प्रोक्तं सन्निपातं चतुर्दशम् ॥ ८९ ॥
केतुरष्टादशं प्रोक्तमुल्का चैकोनविंशतिः ।
द्वाविंशतिर्भूमिकंपस्त्रयोविंशति वज्रकम् ॥ ८९० ॥
निर्घातस्तु चतुर्विंशं उल्का चाष्ट उपग्रहाः ।
विद्युत्पुत्रविनाशं च शूलं निर्दहते पतिम् ॥ ९१ ॥
सम्यक् दृश्यदिने शनिपातं पत्युर्विनाशं सदेवरे केतुः ।
द्रव्यविनाशं चोल्का परपुरुषरता करोति वज्राख्या ॥ ९२ ॥
कंपस्थानविनाशं न कुलसंहारा च निर्घाते ॥ ९३ ॥
फलप्रदीपे –
विद्युत्पुत्रविनाशिनी विधवता शूलेशनिर्बंधुहा निर्घातोपि च कंपते च नितरां कंपे च केतौ क्षतिः ।
वज्रे वा परिवेषकेन्यनिरता निर्घातपाते मृतिर्दंडोक्ता विगते भवेद्विधननी चैवं फलं संस्मृतम्॥ ९४ ॥
उपग्रहहतं धिष्णं दंपत्योरेकनाशनम् ॥ ९५ ॥
चण्डेश्वरः –
लाते दरिद्री बहुदुःखपाते वेधे च वंध्यायुति पुंश्चली च ।
यामित्रदोषे अनपत्यता च पाणिग्रहे पंच महांतदोषः ॥ ९६ ॥
अथास्य परिहारः । गर्गः-
पूर्वाह्णे ग्रहदोषः स्यादपराह्णे तु मोहजः ।
उल्कायामर्धरात्रे तु कंपोहोरात्रदूषकः॥ ९७ ॥
कंपोल्का दंडमोहानां स्वरमासदशर्तवः ।
आदितो घटिकास्तेषु वर्जनीयाः परे शुभाः ॥ ९८ ॥
कश्यपः –
वाह्लिके कुरुदेशे च वर्जयेद्भमुपग्रहम् ॥ ९९ ॥
अथ बाणविचारः । मार्तंड: -
रविभुक्तांशकान्नन्दैर्भजेच्छेषं तु पंचकम् ।
वसुनेत्राब्धिषट्चन्द्रैर्विवाहे पंचकं त्यजेत् ॥ ९०० ॥
रोगाग्निनृपचौरं च मृत्युदं लग्नपंचकम् ॥ १ ॥
फलप्रदीपे –
गततिथियुतलग्नं पंचधा कर्मभूमौ तिथि रविदशनागांभोधिभिर्युक्रमेण ।
नवहृत इषुशेषे शोभने वर्जनीयः रुगनलनृपचौरं मृत्युदं पंचकं स्यात् ॥ २ ॥
विवाहप्रदीपे –
धार्या तिथिः सूर्यदशाष्टवेदाः संक्रांतितो भुक्तदिनैश्च युक्ताः ।
ग्रहैर्विभक्ता यदि पंचकं स्याद्रोगादिवह्निर्नृपचौरमृत्युः ॥ ३ ॥
रवौ रोगं कुजे वह्निः शनौ च नृपपंचगम् ।
वर्ज्यं पुनः कुजे चौरं बुधवारे च मृत्युदम् ॥ ४ ॥
रोगं चौरं त्यजेद्रात्रौ दिवा राजाग्निपंचकम् ।
उभयोः संध्ययोर्मृत्युरल्पकालेन निंदितम् ॥ ५ ॥
रोगं मृत्युं सदा त्याज्यं संध्ययोर्वह्निकं जनैः ।
तत्रापि यत्र लग्नं चेद्बलाढ्यं तत्र निष्फलम् ॥ ६ ॥
नृपाख्यं नृपसेवायां गृहगोपाग्निपंचकम् ।
याने चौरं व्रते रोगं त्यजेन्मृत्युं करग्रहे ॥ ७ ॥
गृहगोपेग्निकं त्याज्यं विवाहे मृत्युपंचकम् ।
नृपसेवा व्रते याने नृपचौरहरं क्रमात् ॥ ८ ॥
वास्तुराजवल्लभे-
व्रतोद्वाहे गमे सेव्यां गृहस्याच्छादनेपि च ।
रोगं मृत्युहरं राज्यमग्निबाणं यथाक्रमम् ॥ ९ ॥
यात्रायां चौरबाणं तु व्रते रोगं त्यजेद्बुधः ।
विवाहे मृत्युबाणं च नृपाख्यं नृपसेवया ॥ १० ॥
गृहस्याच्छादने वह्निं वर्जयेत्सर्वदा बुधः ॥ ११ ॥
निबंधसारे-
ये गत्वा दिनसंक्रांतौ लग्नमात्रेण संयुतम् ।
नवभिश्च हरेद्भागं शेष पंचक उच्यते ॥ १२ ॥
एके मृत्युर्द्वये वह्निश्चतुर्थे नृपपंचकम् ।
षष्ठे चौराष्टमे रोगं पंचाद्रिनवमे शुभम् ॥ १३ ॥
नार्कारवारे यदि रोगपंचकं सोमेषु राज्यं क्षितिजे च वह्निः ।
बुधेषु मृत्युः सुरमंत्रिचौरे नाशोभनं अन्यदिने शुभश्च ॥ १४ ॥
लत्तां हंति रविस्तथार्कतनयः पातं कुजो वेधजं यामित्रं च सुखोदितं भृगुसुतो युक्तस्तथोपग्रहान् ।
राहुश्चार्गलकं निहंति च बुधो दग्धं तथा पंचकं सोमं पापभवं च कालकुलिका रेखाप्रदः सर्वदा ॥ १५ ॥
अपवादः ।
सौराष्ट्र शाल्वदेशेषु लातितं च विवर्जयेत् ।
कलिंगवङ्गदेशेषु पातितं भमुपग्रहम् ।
वाह्लिके कुरुदेशे वा अन्यदेशे न दूषणम् ॥ १६॥
लत्ता मागधमंडले प्रियतमे पातं तथा कोशले गौरी सुन्दरि पाणिपीडनविधौ चैकार्गलं वर्जितम् ।
सर्वत्रापि विनाशनं प्रकुरुते धीराश्च वेधो बली यामित्रं किल मध्यदेशविषये कुब्जे युतिर्दोषकः ॥ १७ ॥
अथ विवाहे वज्रपंचकम् ।
तिथिवारं च नक्षत्रं नवभिश्च समन्वितम् ।
सप्तभिस्तु हरेद्भागं शेषांके फलमादिशेत् ॥ १८ ॥
त्रिशेषे तु जलं विंद्यात् पंचशेषे प्रभंजनः ।
सप्तशेषे वज्रपातो ज्ञेयं वज्रस्य लक्षणम् ॥ १९ ॥
अन्यः-
सूर्यात्पंचदशं ऋक्षं अष्टादशं च राहुणा ।
त्रयोविंशति केतुश्च चतुर्विंशति भूसुतः ॥९२०॥
पंचविंशतिमंदश्च विवाहे वज्रपंचकम् ॥ २१ ॥
अस्य फलम् ।
व्याधिः सूर्येग्निराहौ च केतौ नृपभयं तथा ।
भौमे चौरभयं विद्यान्मरणं च शनैश्चरे ॥ २२ ॥
निबंधे –
यद्दिने पाणिग्रहणीया तिथिवारसमन्वितः ।
गृहं च योजयेत्प्राप्ते मुनिभिर्भागमाहरेत् ॥ २३ ॥
जले त्रीणि पंचमे वायु शून्ये मृत्युसमाचरेत् ।
शेषाश्च शुभदाः प्रोक्ता उक्ताश्च पूर्वसूरिभिः ॥ २४ ॥
अथ दंपत्योः पृथक् पंचकभावः ।
निबंधे –
दंपत्योर्नामनक्षत्रं तत्रादौ गुणितं क्रमात् ।
नक्षत्रैकं विवाहैकं दिनयुक्तं प्रकल्पयेत् ॥ २५ ॥
गुणितं पंच बाणादौ कन्या कन्यावरं वरम् ॥ २६ ॥
स्वनामऋक्षं दिनऋक्षकं च संक्रांतिमादौ दिनयोजिता च ।
शरैर्विमिश्रं नवभिश्च भागं वरं वरं पश्यति कन्यका च ॥ २७ ॥
अथोदयास्तशुद्धिः । वसिष्ठः –
इष्टोदयांशे निजपत्यदृष्टवरस्य मृत्युस्तदसंयुते च ।
अस्तांशकेप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्या ॥ २८ ॥
नारदः –
लग्नलग्नांशकौ स्वस्वपतिना वीक्षितौ युतौ ।
न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ २९ ॥
वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ ।
एवं तौ वीक्षितयुतौ मृत्युर्वध्वाः करग्रहे ॥ ९३० ॥
वराहः –
शुद्धिस्त्विह स्यान्न यदोदयांशो लग्ने नवांशांशमुपैति शुद्धिः ।
तया सुहृत्सौम्यनिरीक्षितो यः शुभाय स स्यात्प्रवदंति संतः ॥ ३१ ॥
कश्यपः –
राश्यंशौ मित्रसौम्येन वीक्षितौ वाप्यसंयुतौ ।
उदयास्तांशयोः शुद्धिस्त्रिविधा मंगलप्रदा ॥ ३२ ॥
श्रीपतिः –
उदयगतनवांशः स्वेशदृष्टो युतो वा न भवति यदि मृत्युः स्यात्तदानीं वरस्य ।
परिणयसमये चैवमस्तोदयांशः स्वपतिसहितदृष्ट्वा मृत्युकारी च वध्वा ॥ ३३ ॥
लल्लः –
लग्नाधिमित्रलग्नं पश्यति चेत्तदा तदंशको दृष्टः ।
तस्यांशकस्य पत्या यत्र क्वचिन्न स्थितेनापि ॥ ३४ ॥
अथ सूर्य संक्रमणाख्यदोषः । शौनकः –
अयनद्वये समूढा भर्तारं नाभिनंदते नारी ।
विषुवद्वयेपि विधवा षडशीतिमुखे च सा म्रियते ॥ ३५ ॥
विष्णुपदेषु जीविता कन्या विकलेंद्रिया व्यतीपाते ।
वैधृतिविष्ट्योर्भ्रष्टा सुभगा शेषेषु करणेषु ॥ ३६ ॥
सर्वग्रहाणां संक्रांतिघटीवर्ज्यम् । उक्तं च रामदैवज्ञेन-
देवद्व्यंकर्तवोष्टाष्टौ नाड्योंका खनृपाः क्रमात् ।
वर्ज्याः संक्रमणेर्कादेः प्रायोर्कस्याति निंदिता ॥ ३७ ॥
अथपंग्वन्धादिलग्नम् । वसिष्ठः-
मेषादे रन्ध्रकं षट्कं चत्वारो बधिराः स्मृताः ।
द्वौ पंगू चेति विज्ञेयावित्येतद्राशिलक्षणम् ॥ ३८ ॥
मेषो वृषो मृगेंद्रश्च दिवसेंधाः प्रकीर्तिताः ।
नृयुक्कर्कटकन्याश्च रात्रावंधाः प्रकीर्तिताः ॥ ३९ ॥
तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा ।
धनुश्च मकरश्चैव बधिरौ निशि कीर्तितौ ॥ ९४० ॥
कुंभमीनौ च पंगू द्वौ दिवारात्रौ यथाक्रमम् ॥ ४१ ॥
अथास्य परिहारः । वसिष्ठः –
मासशून्याह्वयास्तारा राशयो बधिरादयः ।
स्वामिजीवबुधैर्दृष्टा युक्ता वा नैव दोषदाः ॥ ४२ ॥
कश्यपः –
काणपंग्बंधबधिरा मासशून्याश्च राशयः ।
काणांधा बधिरोद्भूता दग्धलग्नतिथेर्भव ॥ ४३ ॥
ते दोषा नाशमायांति केंद्रसंस्थे शुभग्रहे ॥ ४४ ॥
रामः –
अब्दायनर्तुतिथिमासभपक्षदग्धाः तिथ्यंधकाणबधिरांगमुखाश्च दोषाः ।
नश्यंति विद्गुरुसितेष्विह केंद्रकोणे तद्वच्च पापविधुयुक्तनवांश दोषाः ॥ ४५ ॥
बृहस्पतिः –
केंद्रत्रिकोणयोः सौम्यः बलवांश्च स्ववर्गगः ।
मासशून्य कृतं दोषं राशिशून्यांश्च नाशयेत् ॥ ४६ ॥
अथाष्टमलग्नराशिदोषः । नारदः –
दंपत्योरष्टमं लग्नं त्वष्टमो राशिरेव च ।
यदि लग्नगतः सोपि दंपत्योर्निधनप्रदः ॥ ४७ ॥
स राशिः शुभयुक्तोपि लग्नं वा शुभसंयुतम् ।
लग्नं विवर्जयेद्यत्नात्तदंशाश्च तदीश्वराः ॥४८॥
पराशरः-
संत्यजेन्नैधनं लग्नं दंपत्योर्जन्मलग्नतः ।
निधनेशश्च यत्रास्ति तं राशिं वर्जयेत्सुधीः ॥ ४९ ॥
जन्मराश्यंशतो वापि जन्मलग्नांशतोपि वा ।
अष्टमो राशिलग्नांशौ त्याज्यौ शुभफलेप्सुभिः ॥ ९५० ॥
गर्गः –
लग्नादि नैधने त्याज्यं बलयुक्तं यदा भवेत् ।
बलहीनं च न त्याज्यमुक्तदोषसमर्थतः ॥ ५१ ॥
कश्यपः-
दंपत्योरष्टमे लग्ने राशौ वापि तदंशके ।
तदीशे वा लग्नगते तयोर्मृत्युर्न संशयः ॥ ५२ ॥
केशवः-
जननलग्नभयोर्मृतिशाशितुर्मृतिगतस्य च राशिनवांशकाः ।
तनुगता यदि तत्तनुसेवधूरतिलका तिलकाय जलांजलिः ॥ ५३ ॥
सगुणं चाष्टमं लग्नं त्याज्यमंशं तथाष्टमम् ।
जन्मभाज्जन्मलग्नाच्च मृत्युदं लग्नमष्टमम् ॥ ५४ ॥
लग्नाधिनाथश्च नवांशनाथः षष्ठाष्टमश्चाथ विवाहकाले ।
स्वप्नेपि नो पश्यति चात्मनः सुखं विचर्चितं कज्जलकुंकुमेन ॥ ५५ ॥
फलप्रदीपे-
त्यजंति वै नैधनभं तथान्ये तदंशकं चोभयमेव चान्ये ।
तस्मात्स्वजन्मर्क्षविलग्नयोश्च लग्नांशगौ नैधनगौ विवर्ज्यौ ॥ ५६ ॥
यस्याष्टलग्ने तदधीश्वरे वा राशौ तदीशेथ विलग्नगे वा ।
स मृत्युमाप्नोति तदा मनोजस्त्रिनेत्रभालांककवह्निनेव ॥ ५७ ॥
केशवः –
जन्मोदयर्क्षान्निधनं विलग्नं तदीश्वरेणोपगतोथ वा स्यात् ।
कृते विवाहोभयमृत्युकारी त्रातुं विधातापि न तं समर्थः ॥ ५८ ॥
अनुजनुर्मृतिगो मृतिपश्च यः स तनुगस्तनुते न शिवं क्वचित् ।
इति विविक्तिरियं फलदा सदा स इह सिद्ध्यति चेत्समयः स्फुटः ॥ ५९ ॥
अथास्य परिहारमाह । कश्यपः –
जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ ।
जन्मराश्योष्टमर्क्षोत्थदोषो नश्यति भावतः ॥ ९६० ॥
केशवः –
व्यलिवृषं जननर्क्षविलग्नयोर्भवनमष्टममभ्युदितं त्यजेत् ।
स हि पुलस्त्यमतेन तदीशता तनुसमेति समेति न दूषणम् ॥ ६१ ॥
झषकुलीरवृषालिमृगांगना जननराशिविलग्नगृहाष्टमः ।
शुभफला भृगुणा कथितास्तयोरधिपतिः सुहृदो हि परस्परम् ॥ ६२ ॥
गुरुः-
लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः ।
यद्यष्टमगतस्योक्तदोषमाशु व्यपोहति ॥ ६३ ॥
जन्मेशाष्टमराशीशे मिथो मित्रे यदा तदा ।
अष्टमर्क्षोत्थ संभूतो दोषो नश्यति भावतः ॥ ६४ ॥
जन्मेशमृत्युराशीशौ मिथो मित्रे यदा तदा ।
जन्माष्टमर्क्षे चन्द्रस्य दोषो भंगत्वमाव्रजेत् ॥ ६५ ॥
रंध्रेशः स्वशुभांशस्यः तुंगस्वक्षेत्रामित्रगः ।
अष्टमस्थानदोषो हि विनश्यति न संशयः ॥ ६६ ॥
अयं निषेधो जन्मेश रंध्रेशो वैरिणो यदा ।
परस्परं तौ मित्रे चेत्तदा दुष्टफलं न हि ॥ ६७ ॥
रामः –
जन्मलग्नभयोर्मृत्युः राशौ नेष्टः करग्रहः ।
एकाधिपत्ये राशीशे मैत्रे वा नैव दोषकृत् ॥ ६८ ॥
वसिष्ठः –
न दोषोष्टमलग्नस्य यदि जन्मेशरन्ध्रगौ ।
सुहृदौ चेत्तदा कार्ये मंगलं मुनयो विदुः ॥ ६९ ॥
मुहूर्तदर्पणे-
स्वकीयजन्माष्टमराशिमैत्र्यां न चापि जन्माष्टमराशिदोषः ।
जन्मेशकर्मेश्वरमित्रभावः क्षिणोति वैनाशिकदोषमुत्थम् ॥ ९७० ॥
अथ चतुर्थद्वादशराशिदोषः । कश्यपः-
तथैव द्वादशे लग्ने तदंशे वा तदीश्वरे ।
विवाहलग्नगे नैस्वं नित्यं स्यात्कलहं द्वयोः ॥ ७१ ॥
नारदेनापि –
दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ।
व्यर्थहानिर्भवेत्तस्मात्तदंशस्वामिनं त्यजेत् ॥ ७२ ॥
लल्लः –
दंपत्योर्द्वादशभे लग्नं नेष्टं तथाष्टमे च गृहे ।
लग्नेंद्वोः स्थानाभ्यां धनापहं जीवितं क्षयकृत् ॥ ७३ ॥
केशवः-
सुखग्रहं सुखहृत्तनुजन्मनोरबलता सबलैः सुखकर्तृभिः ।
अपि तयोर्व्ययभं व्ययभं भवेद्विगत वाधनका धनकारिणः ॥ ७४ ॥
सुखघ्नं तुर्यमुद्वाहे द्वादशं वित्तनाशकृत् ।
चतुर्थं सगुणं देयं द्वादशं च गुणाधिकम् ॥ ७५ ॥
गुरुः-
चतुर्थं द्वादशं लग्नं शस्तं यदि गुणान्वितम् ।
अष्टमं तु न कर्तव्यं यदि सर्वगुणान्वितम् ॥ ७६ ॥ ॥
अथ ग्रहाणां भावफलम् । शौनकः –
लग्नस्थेर्के विधवा संवत्सरेष्टमे भवति ।
विपुलकनकादि युक्ता षष्ठेब्दे निर्धना धनगे ॥ ७७ ॥
बंधुजनेभ्यः पूजां त्रिंशद्वर्षाणि सहजे त्वर्के ।
बंधुवियुक्ता कन्या यावज्जीवं हिबुकसंस्थे ॥ ७८ ॥
पंचमसंस्थे च रवौ त्रयोदशेब्दे त्वपत्यसंयोगः ।
प्राप्नोति धनं षष्ठे अब्दादूर्ध्वं सुताश्चैव ॥ ७९ ॥
संवत्सरेण विधवां सप्तमराशौ दिवाकरः कुरुते ।
दंपत्योः सहमरणं निधनेर्केब्दसप्तत्यात् ॥ ९८० ॥
नवमे त्वधर्मयुक्ता त्रयोदशाब्दानि कन्यका भवति ।
यावज्जीवति कन्या दशमस्थेर्के विकर्मकरी ॥ ८१ ॥
आवृत्योर्धनयुक्ता त्र्यब्दादूर्ध्वं तथायगः सविता ।
संवत्सरे व्यतीते वामांगरुजा व्ययस्थेर्के ॥ ८२ ॥
लग्नस्थो हिमरश्मिर्मृत्युं कुर्यात्त्रयोदशे मासे ।
अब्दाद्धनसौभाग्यं करोति चन्द्रो धने नार्याः ॥ ८३ ॥
चन्द्रस्तृतीयराशौ सौभाग्यकरस्तु यावदायुष्यम् ।
बंधुश्वशुरवियुक्तां चतुर्थसंस्थः शशी त्वब्दात् ॥ ८४ ॥
अब्दादेकं तनयं ततः परं न प्रसूयते सुतगे ।
अब्दचतुष्कान्मृत्युर्दंपत्योः षष्ठगे चन्द्रे ॥ ८५ ॥
कन्यास्तिस्रो जनयति सापत्न्यं चैव सप्तमे शशिनि ।
मासत्रयेण विधवां निधनस्थश्चन्द्रमां कुरुतेः ॥ ८६ ॥
जनयति षट् पुत्रान्नपमस्थे शशिनि सप्तमं पुत्रम् ।
भुक्त्वा द्वादश चाब्दान् दशमसंस्थे त्यजति कन्याम् ॥ ८७ ॥
लग्नादेकादशगः कन्यामिंदुर्धनागमं कुरुते ।
उद्धृत्य खादति धनं चन्द्रे व्ययसंस्थित वर्षात् ॥ ८८ ॥
भौमे सद्यो विधवां लग्नस्थोब्देन सौम्यदृग्योगात् ।
दशरात्रादग्निभयं द्वितीयमब्दान्नृपभयं च ॥ ८९ ॥
सहजस्थो भूमिसुतः सौभाग्यकरस्तु यावदायुष्यम् ।
बंधुजनवियोगं हिबुकस्थोंगारकोब्देन ॥ ९९० ॥
भौमः पंचमराशौ व्ययस्थितं पुत्रवर्जितां कुरुते ।
संवत्सरेण विपुलं धनागमं शत्रुसंस्थश्च ॥ ९१ ॥
यामित्रगतः कन्यामुपजातकभगिनीं कुजेब्देन ।
भौमत्रयोदशाब्दान् निधनस्थः पुत्रवर्जितां कुरुते ॥ ९२ ॥
अब्दात्प्रतिविभ्रष्टां नवमस्थोंगारकः पराभिरताम् ।
सा कन्या मतियुक्ता दशमस्थः पंचमे वर्षे ॥ ९३ ॥
मणिकांचनरत्नाढ्यामेकादशगः कुजेब्दषट्केन ।
हंति मासत्रितयात्करोति महतो व्यये भौमः ॥ ९४ ॥
लग्नस्थः शशितनयः सौभाग्यसुखप्रदोत्यचिरात् ।
पश्यति सुतानति सुतान् द्वितीयसंस्थितेन चान्द्रेण ॥ ९५ ॥
पत्युः सहोदराणां सहजस्थोपि प्रियां बुधः कुरुते ।
तुर्यस्थे शुभदो ददाति बोधो पंचमे शुभदोपि सदा ॥ ९६ ॥
षष्ठः षड्भिर्मासैरसपत्नीं कन्यका कुरुते ॥ ९७ ॥
सप्तमगः सप्ताब्दान्भर्ताप्तरी भजति यथा कन्याम् ।
मासत्रयेण कन्यां निधनस्थो याति पंचत्वम् ॥ ९८ ॥
एकादशभिर्वर्षैर्नवमस्थस्तपसि संस्थिता कुरुते ।
कन्या समुद्धतकुहकां दशमस्थो वर्षे विंशत्या ॥ ९९ ॥
साध्वी सौभाग्यवती बहुप्रजामायगः करोति बुधः ।
व्ययगृहगतः स एव कन्या प्रवर्ज्यतां द्वादशे वर्षे ॥ १००० ॥
लग्नस्थे देवगुरौ मनोरमां सुप्रजां प्रियां पत्युः ।
धनगे गुरौ धनाढ्यां मृतेप्यनुयाति भर्तारम् ॥ १ ॥
बंधुश्वशुरकुलाभ्यां धनहानिकरस्तृतीयगो मासात् ।
बंधुजनस्य पुंसां कन्यामब्देन हिबुकस्थः ॥ २ ॥
जनयत्यष्टौ पुत्रान्पंचमराशौ व्ययस्थिते जीवे ।
उभयकुलानंदकरी करोति न चिराद्गुरुः षष्ठः ॥ ३ ॥
शीलचरित्रोपेतां करोति पत्युः कलत्रगो द्वेष्यम् ।
दंपत्योर्निधनस्थः सप्ताब्दाद्वियोगकरः ॥ ४ ॥
पितृदेवार्चनरतामत्यन्त पतिप्रियां गुरुर्नवमे ।
दशमे गुरौ कलाज्ञां योगैः संपन्मंगलानां च ॥ ५ ॥
श्वशुरपतिसहोदराणामतिप्रियामायगो गुरुः कुरुते ।
शौचाचार भ्रष्टमधर्मयुक्तां गुरुर्व्ययगः ॥ ६ ॥
लग्नस्थेनोशनसा दुर्लभमाप्नोति चैव पत्नीत्वम् ।
मान्या धनगे शुक्रे कृपणत्वं प्राप्नुयान्नारी ॥ ७ ॥
दुश्चिक्यगते कन्यां त्र्यब्दाद्भर्तुः कनीयसा भजते ।
हिबुकस्थेब्दचतुष्काद्बांधवगोत्रार्थलाभकारी ॥ ८ ॥
बहुपुत्रा नाल्पधनां पंचमगो भार्गवः करोत्यलसाम् ।
दंपत्योर्वैरकरः षष्ठस्तु भवेत्त्रिभिर्वर्षैः ॥ ९॥
यामित्रगतो वेश्यां त्र्यब्दादतिदुर्भगा करोति भृगुपुत्रः ।
पंचत्वं नयति भृगुर्निधनस्थः सप्तभिर्वर्षैः ॥ १० ॥
नवमस्थः षण्मासात्सौभाग्यसुखप्रदो भवत्युशनसा ।
वर्षद्वयेन दशमगः कुलसुतधनभोगवृद्धिकरः ॥ ११ ॥
आयगतो दशरात्रात्सौभाग्यसुखप्रदो विनिर्दिष्टः ।
व्ययगः स एव दृष्टः सौभाग्यसुतार्थधनहरः ॥ १२ ॥
कामयति नीचवर्णां लग्नस्थे रविसुते बहून्पुरुषान् ।
धनगे धनैर्वियुक्तां पंचभिरब्दौर्विवर्णतनुः ॥ १३ ॥
धनधान्यापत्यपशून्पंचमसंवत्सरात्तृतीयस्थः ।
अल्पपयस्वी कन्यप्रसवान्म्रियेत हिबुकसंस्थः ॥ १४ ॥
एकादशभिरब्दैस्त्रिकोणगोर्किः करोति हृद्रोगम् ।
षष्ठः षड्भिर्मासैरसपत्नीकन्यकां कुरुते ॥ १५ ॥
सप्तमग कन्यायां पतंति गर्भात्वमकेशोर्कसुते ।
निधनगतोर्किः कुपादामरणादामयवियुक्ता ॥ १६ ॥
उपवासव्रतनियमैर्विवर्जितानां नवगः करोति शनिः ।
पापां कर्मणि दशमे षष्ठेब्दे कन्यकां धनैर्युक्ताम् ॥ १७ ॥
आयगतोर्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासात् ।
सोमकुलेपि हि जातां द्वादशे मद्यपां कुरुते ॥ १८ ॥
शनिवद्विधुंतुदस्य ज्ञेयं सदसदतिफलम् ।
पश्योद्वाहविलग्नाच्छुभाशुभं कन्यकासु निर्देश्यम् ॥ ॥ १९ ॥
अधिरिपुनीचर्क्षगताभावफलं घ्नंति शत्रुसंदृष्टाः ।
कालादि बलसंमृद्धास्तदेव संबंधयंत्याशु ॥ २० ॥
पंचभिरिष्टैरिष्टं पुष्टमनिष्टैरेनिष्टमादेश्यम् ।
स्थानादिबल समृद्धिश्चतुर्भिरथवोच्यते यवनैः ॥ २१ ॥
अथांशशुद्धिः ।
भुंक्ते पुरुषत्रितयं पाणिग्रहणे क्रियांशके कन्या ।
कामयते वृषभे गौरिव कामातुरा भर्त्रनुजान् ॥ २२ ॥
स्वकुलद्व्यवृद्धिकरी विवाहिता स्यात्तृतीयांशे ।
श्रद्धेन त्यक्त्वा पतिं विचरति कुलीरगेऽन्यदेशस्तु ॥ २३ ॥
अथ नंदादियोगाः । विवाहपटले वराहः –
नन्दो जीवो जीमूत: स्थावरो जयो विजयः ।
व्यालो रसातलमुखः क्षयस्तथोंत्यो विवाहगणः ॥ २४ ॥
सौम्ये लग्ने नन्दः शुक्रे भद्रास्तथा गुरौ जीवः ।
आद्यंतौ जीमूतस्थावर इति मध्यमांत्याभ्याम् ॥ २५ ॥
बुधशुक्राभ्यां तु जयः सर्वैर्विजयो भवत्युदयसंस्थैः ।
दिनकरयोगाद्व्यालो भौमेन रसातलः क्षयः शनिना ॥ २६ ॥
तमसा तमोभिर्युक्तो भवति हि केतौ कृतांतश्च ॥ २७ ॥
चकारादंत्यसंज्ञोपि । अथैषां फलानि ।
त्रिषु नंदात्रिषु राज्ञो चतुर्षु वा ततः परम् ।
महादेवी व्यालायेषु पंचसु विधवा शोच्या दरिद्रा च ॥ ॥ २८ ॥
अथ रेखादातृग्रहाः । रामः-
व्यायाष्टषट् सुयारविकेतुतमोर्कपुत्रात्र्या रिगः क्षितिसुतो द्विगुणायगोब्जः ।
सप्तव्ययाष्टरहितौ ज्ञगुरूसितोष्ट त्रिद्यूनषट्व्ययगृहान्परिहृत्य शस्तः ॥ २९ ॥
अन्यच्च –
विधानारित्रिलाभस्था अर्कार्किशिखिराहवः ।
लाभत्रिशत्रुगो भौमो द्वित्रिलाभगतः शशी ॥ ३० ॥
द्यूनाष्टांत्यं विना सौम्यो सप्ताष्टांत्यं विना गुरुः ।
अस्ताष्टारिव्ययं हित्वा शुक्रो रेखाप्रदः शुभः ॥ ३१ ॥
अथ लग्नविंशोपकाः । वराहः-
रवौ सार्द्धत्रयो भागाश्चन्द्रे पंचगुणैस्त्रयः ।
द्वौ शुक्रे द्वौ बुधे चैव प्रोक्ता ह्येते विंशोपकाः ॥ ३२ ॥
मंदे भौमे तथा राहौ सार्द्धं प्रत्येकमुच्यते ।
बलाबलवशादेवं विज्ञातव्या विंशेोपकाः ॥ ३३ ॥
अथ कर्तरियोगलक्षणम् । वसिष्ठः-
लग्नस्य पृष्ठाग्रगयोरसाध्वी सा कर्तरी स्यादृजुवक्रगत्योः ।
तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति पितामहोक्तिः ॥ ३४ ॥
ज्योतिःसागरे –
पापमध्यगते चन्द्रे पापसंसर्गगेपि वा ।
शुभकर्म न कर्तव्यं तथा लग्ने कदाचन ॥ ३५ ॥
व्यये मार्गगतिः क्रूरो वक्री क्रूरो धने यदि ।
तौ च लग्नांशतुल्यौ चेत्तदा घोराख्यकर्तरी ॥ ३६ ॥
महाविघ्नप्रदा ज्ञेया विवर्ज्याः शुभकर्मसु ।
क्रूरयोः कर्तरी नेष्टा महाविघ्नप्रदा ध्रुवम् ॥ ३७ ॥
सौम्ययोः शुभदा ज्ञेया मध्यमा पापसौम्ययोः ॥ ३८ ॥
वसिष्ठः –
कर्तरीदूषिते लग्ने चन्द्रे वापि षडष्टगे ।
यातुर्भंगप्रदा यात्रा लग्ने बहुगुणान्विते ॥ १०३९ ॥
रामदैवज्ञः –
लग्नात्पापावृजुनृजुव्ययार्थस्थौ यदा तदा ।
कर्तरी नाम सा ज्ञेया दुःखदारिद्र्यशोकदा ॥ ४० ॥
गुरुः-
वक्रो चारो यदा पापो द्वितीये द्वादशे स्थितः ।
तदा कर्तरियोगः स्यान्महादोषो विलग्नतः ॥ ४१ ॥
क्रूरमध्यगतं लग्नं चन्द्रं च वर्जयेन्मतिमान् ।
परिणयने वनितानां शतगुणामपि मृत्यवे पुंसाम् ॥ ४२ ॥
नारदः –
कर्तरीदोषपुष्टं यल्लग्नं तत्परिवर्जयेत् ।
अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम् ॥ ४३ ॥
अथास्यभंगः । कश्यपः-
पापयोः कर्तरीकर्त्रोः शत्रुनीचग्रहस्थयोः ।
यदा चास्तगयोर्वापि कर्तरी नैव दोषदा ॥ ४४ ॥
गर्गः –
क्रूरकर्तरिसंयुक्तं लग्नं चन्द्रं च न त्यजेत् ।
केंद्रत्रिकोणसंस्थश्चेद्गुरुभार्गववित्सु च ॥ ४५ ॥
अन्यच्च –
त्रिकोणकेंद्रगे गुरौ त्रिलाभगे रविर्यदा ।
तदा न कर्तरी भवेदगस्त्यबादरायणाः ॥ ४६ ॥
कश्यपः –
चन्द्रस्य कर्तरी तत्स्याच्छुभदृष्ट्या न दोषदा ॥ ४७ ॥
क्रूरद्वयस्यांतरगो विलग्ने मृतिप्रदं चन्द्रमसं च रोगदम् ।
शुभैर्धनस्थैरथवांत्यगे गुरौ न कर्तरी स्यादिति भार्गवोब्रवीत् ॥ ४८ ॥
नहि कर्तरि यो दोषो सौम्ययोर्यदि जायते ।
शुभग्रहयुतं लग्नं क्रूरयोर्नास्ति कर्तरी ॥ ४९ ॥
अथ ग्रहाणां जन्मर्क्षदोषः । विवाहपटले –
ग्रहाणां जन्मऋक्षेषु विवाहं नैव कारयेत् ।
विवाहेषु च वैधव्यं प्रस्थाने मरणं ध्रुवम् ॥ ५० ॥
विद्यारंभे च मूर्खत्वं कृषिवाणिज्यनिष्फलम् ।
भरणी भानुना चैव सोमे चित्रा तथैव च ॥ ५१ ॥
कुजे च उत्तराषाढा धनिष्ठा चन्द्रजा शुभा ।
गुरौ चोत्तरफल्गुन्योः शुक्रे ज्येष्ठा प्रकीर्तिताः ॥ ५२ ॥
रेवती सूर्यपुत्रेण जन्म ऋक्षाणि वर्जयेत् ॥ ५३ ॥
अकालजाश्च नीहारविद्युत्पाताभ्रसंभवाः।
परिवेषः प्रतिसूर्यशक्रचापध्वजादयः ॥ ५४ ॥
दोषप्रदा मंगलेषु कालजाश्चेन्न दोषदाः ॥ ५५ ॥
अथ मर्मादिवेधः । विवाहपटले –
मर्मकंटकवेधं च शल्यं छिद्र यो न जानाति ।
नार्हति विवाहदीक्षालग्नं दातुं स दैवज्ञः ॥ ५६ ॥
क्रूरैस्तनुगैर्मर्म पंचमनवमैश्च कंटकौ भवति ।
दशम चतुर्थे शल्यं यामित्रं भवति ते छिद्रम् ॥ ५७ ॥
मर्मणि वेधे मरणं कंटकवेधे कुलक्षयं भवति ।
शल्यं नृपतेः शत्रुयामित्रं पुत्रनाशयति ॥ ५८ ॥
अथ ग्रहवशाच्छ्वशुरादि विचारः । शौनकः-
श्वशुरोर्कः सितः श्वश्रूः स्त्रीणामस्तपतिः पतिः ।
एभिरुच्चोपगैरेषां शुभं नीचादिगैरसत् ॥ ५९ ॥
विवाहपटले –
शिरः सूर्यः शशिर्गात्रः गुरुर्जीवो त्वचा भृगुः ।
भौमेस्थीनि समं प्रोक्तं लग्नात्पंच प्रशस्यते ॥ ६० ॥
शिरो विहीना पतिना निहंति गात्रैर्विहीना भय रोगपीडा ।
तेजोविहीना मरणं उभौ च त्वचा विहीना मरणं प्रजासु ॥ ६१ ॥
अस्थ्ना विहीना भवतीह वंध्या तं लग्नमेव परिवर्जनीया ॥ ६२ ॥
शार्ङ्गीये-
सूर्यात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्च सुखं गुरोस्तु ।
धर्मः सितादर्कसुताच्च वेश्म ब्रूयात्समुद्वाहविधौ स्वयुक्ता ॥ ६३ ॥
एतैर्नीचस्थितैः शत्रुगतैर्वैवाहिकं न सत् स्वगृहोच्च त्रिकोणस्थैः शुभमेषां यथोदितम् ॥ ६४ ॥
अथ लग्नभंगदग्रहाः । रामः –
व्यये शनिः खेवनिजस्तृतीये भृगुस्तनौ चन्द्रखला न शस्ताः ।
लग्नैट्कवि-
ग्लौश्च रिपौ मृतोग्लार्लग्नेट्शुभाराश्च मदे च सर्वे ॥ ६५ ॥
नारदः –
कुजाष्टमो महान्दोषो लग्नादष्टमगे कुजे ।
शुभत्रययुतं लग्नं त्यजेत तुंगगे यदि ॥ ६६ ॥
त्रिविक्रमः-
त्याज्या लग्नेब्धयो मंदा षष्ठे शुक्रेंदुलग्नपाः ।
रन्ध्रे चन्द्रादयः पंच सर्वस्तेब्जगुरुः समौ ॥ ६७ ॥
अथ भंगदग्रहाणामपवादमाह ।
नीचराशिगते शुक्रे शत्रुक्षेत्रगतोपि वा ।
भृगुषट्कस्थितो दोषो नास्ति तत्र न संशयः ॥ ६८ ॥
अस्तगे नीचगे भौमे शत्रुक्षेत्रगतोपि वा ।
कुजाष्टमोद्भवो दोषो न किंचिदपि विद्यते ॥ ६९ ॥
नीचराशिगते चन्द्रे नीचांशकगतेपि वा ।
चन्द्रेषष्ठाष्टरिःफस्थे दोषो नास्ति न संशयः ॥७०॥
कश्यपः-
नीचगे तु तुरीये वा शत्रुक्षेत्रगतेपि वा ।
भृगुषष्ठोद्भवो दोषो नास्तीत्यत्र न संशयः ॥ ७१ ॥
गुरुः स्वकीयवर्गस्थो बलवान्कंटकाश्रितः ।
पश्यन् सग्रहशीतांशुं तद्दोषं विलयं नयेत् ॥ ७२ ॥
शत्रुनींचर्क्षगो शुक्रो न दोषोत्र्यरिसंस्थितः।
नाशुभश्चाष्टमो भौमः शत्रुनीचास्तगः यदि ॥ ७३ ॥
नीचो नीचांशगश्चन्द्रो नाशुभोष्टारिरिःफगः ।
लग्नं बली गुरुः शुक्रश्चंद्रो वा शुभवर्गगः ॥ ७४ ॥
शुभदृष्टे निहंत्येव दोषं रिःफारिचन्द्रजः ॥ ७५ ॥
अथ विवाहे अब्दाद्यनेकदोषाणामपवादमाह । कश्यपः –
अब्दायनर्तुमासोत्थाः पक्षतिथ्यर्क्षसंभवाः ।
ते सर्वे नाशमायांति केंद्रसंस्थे शुभग्रहे ॥ ७६ ॥
गुरुः-
त्रिकोणकंटके वापि शुभस्तिष्ठेद्बलान्वितः ।
यमकंटकदोषोपि नात्र स्याच्चन्द्रलग्नयोः ॥ ७७ ॥
शुभकर्मरते चन्द्रे शुभांशे शुभवीक्षिते ।
यमकंटकसंभूते दोषो नैवात्र विद्यते ॥ ७८ ॥
अन्यः –
गुरुरेकोपि केंद्रस्थः शुक्रो वा यदि वा बुधः ।
हरेः स्मृतिर्यथा हंति तद्वद्दोषा न कालजाः ॥ ७९ ॥
लत्तोपग्रहचण्डीशचन्द्रयामित्रसंभवाः ।
तत्केंद्रगो गुरुर्हंति सुपर्णः पन्नगानिव ॥ ८० ॥
संहिताप्रदीपे –
सचन्द्रराशेरशुभो नवांशः प्रोक्तः सपापोपि विलग्नसंस्थः ।
त्रिकोणकेंद्रेषु गुरुः सितोपि यदा तदासावशुभोपि शस्तः ॥ ८१ ॥
नारदः –
उक्तानुक्ताश्च ये दोषास्तान्निहंति बली गुरु: ।
केंद्रसंस्थस्थितो वापि पन्नगान् गरुडो यथा ॥ ८२ ॥
कश्यपः-
काव्ये गुरौ वा सौम्यो वा यदा केंद्रत्रिकोणगे ।
नाशयंत्यखिला दोषाः पापानिव हरिस्मृतिः ॥ ८३ ॥
वसिष्ठः –
ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः ।
लग्ने गुरुस्तान्विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥ ८४ ॥
पापोपि लग्नाधिपतित्रिषष्ठलाभस्थितः स्थानबलाधिकश्च ।
लग्नोत्थदोषान्निखिलान्निहंति पापानि यद्वत्परमाक्षरज्ञः ॥ ८५ ॥
तथा च –
यत्रैकादशगे सूर्ये दोषा नाशं ययुस्तदा ।
स्मरणादेव रुद्रस्य पापं जन्मशतोद्भवम् ॥ ८६ ॥
कश्यपः –
वर्गोत्तमगते लग्ने वर्गदोषालयं ययुः ।
चन्द्रे चोपचये वापि ग्रीष्मे कुसरितो यथा ॥ ८७ ॥
मुहूर्तलग्नषड्वर्गकुनवांशग्रहोद्भवाः ।
ये दोषास्तान्निहंत्येव यंत्रैकादशगः शशी ॥ ८८ ॥
लग्नाद्दुःस्थानगे व्योमचरोत्थं दोषसंचयम् ।
शुभः केंद्रगतो हंति दावाग्निर्विपिनं यथा ॥ ८९ ॥
नारदः –
दोषाणां च शतं हंति बलवान्केंद्रगो बुधः ।
अपहाय द्युनं शुक्रो द्विगुणं लक्षमंगिराः ॥ ९० ॥
लग्नेट् लग्नांशनाथो वा आयगः केन्द्रगोपि वा ।
राशिं निहंति दोषाणामिंधनानीव पावकः ॥ ९१ ॥
एकोपि केंद्रगः सौम्यः सकलं दोषसंचयम् ।
विनाशयति घर्मांशुरुदितं तिमिरं यथा ॥ ९२ ॥
शुभग्रहस्वोच्च संस्थे लग्नं पश्यति चेद्यदा ।
तदा दोषा लयं यांति ग्रीष्मे कुसरितो यथा ॥ ९३ ॥
एकोपि सौम्यः खचरः त्वाधिमित्र गृहस्थितिम् ।
अलोकयंति ये लग्नं सर्वदोषविनाशकृत् ॥ ९४ ॥
अत्रि: -
यस्मिन्विवाहे गुरुशुक्रसौम्याः केन्द्रस्थिताः पुत्रधनस्थिता वा ।
समस्तदोषान्विनिहंति चन्द्रः शुभं च तस्मिन्धनसंस्थितो वा ॥ ९५ ॥
स्ववर्गकेंद्रेषु गतेऽमरेज्ये बलेन युक्ते शुभवीक्षिते च ।
सितेथवा शीतमयूखपुत्रे नश्यंति दोषाः सकला विवाहे ॥ ९६ ॥
रत्नमालायाम्-
दोषाणां शतमपि हंति सोमपुत्रः केंद्रस्थो द्युनमपहाय दृश्यमूर्तिः ।
दैत्येज्यो द्विगुणमिदं पुनर्बलीयानाचार्यः शमयति लक्षमप्यवश्यम् ॥ ९७ ॥
रात्रौ चन्द्रे दिवा सूर्य लग्नमेकादशस्तथा ।
शतकोटिदुरितं हंति यथा चक्रेण माधवः ॥ ९८ ॥
अर्द्धप्रहरपूर्वार्द्ध मध्ये तु यमघंटके ।
कुलिकात्यंघटी त्याज्या शेषेषु शुभमाचरेत् ॥ ९९ ॥
अथ गोधूलिप्रशंसा । भागुरिः –
गोपैर्यष्ट्या हतानां खुरपुटदलिता याति धूली दिनांते सोद्वाहे सुंदरीणां विविधधनसुतारोग्यसौभाग्यदात्री ।
तस्मिन्काले न ऋक्षं न च तिथिकरणं नैव लग्नं न योगाः ख्याताः पुंसां सुखार्थं शमयति दुरितान्युत्थितं गौरजः स्युः ॥ ११०० ॥
लल्लः –
लग्नं यदा नास्ति विशुद्धमन्यद्गोधूलिकं साधु तदा वदति ।
लग्ने विशुद्धे सति वीर्ययुक्ते गोधूलिकं नैव फलं वदंति ॥ १ ॥
शुभाशुभयुतं सर्वराशेर्दोषं च निंदितम् ।
विवाहलग्नवच्छेषं गोधूलिं प्राह भागुरिः ॥ २ ॥
किंच –
कुलिकं क्रांतिसाम्यं च मूर्तौ षष्ठाष्टमः शशी ।
पंचगोधूलिके त्याज्या अन्यदोषाः शुभावहाः ॥ ३ ॥
नारदः –
प्राच्यानां तु कलिंगानां मुख्यं गोधूलिकं स्मृतम् ।
गांधर्वादिविवाहेषु वैश्योद्वाहेषु योजयेत् ॥ ४ ॥
घटी लग्नं यदा नास्ति गोधूलिकं शुभम् ।
शूद्रादीनां शुभं प्राहुर्न द्विजानां कदाचन ॥ ५ ॥
महादोषान् परित्यज्य प्रोक्तधिष्ण्यादिकेषु च ।
कारयेद्गोरजो यावत्तावल्लग्नं शुभावहम् ॥ ६ ॥
लग्नशुद्धिर्यदा नास्ति कन्या यौवनशालिनी ।
तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥ ७ ॥
भूपालवल्लभे-
विप्रेषु घटिकालाभे दातव्यं गोरजो बुधैः ।
संकीर्णे गोरजः शस्तं परेषु द्वितयं शुभम् ॥ ८ ॥
केचित्तु –
यावद्दिनांते दिशि पश्चिमायां पश्येत्तृतीयं रविबिंबभागम् ।
तस्मात्परं नाडिकयुग्ममेके गोधूलिकालं मुनयो वदंति ॥ ९ ॥
ज्योतिःसंहितासारे –
षष्ठाष्टमे मूर्तिगते शशांके गोधूलिके मृत्युमुपैति कन्या ।
कुजेऽष्टमे मूर्तिगतेथवास्ते वरस्य नाशं प्रवदंति संतः ॥ १० ॥
अन्योपि-
षष्ठाष्टमे चंद्रजजीवक्षोणीसुतेऽस्तगे वा भृगुनंदने वा ।
मूर्तौ च चन्द्रे नियमेन मृत्युर्गोधूलिकं स्यादिह वर्जनीयम् ॥ ११ ॥
अन्यच्च –
धिष्णं क्रूरयुतं त्याज्यं मूर्तौ षष्ठाष्टमः शशी ॥
गोरजस्तत्प्रशंसंति संतः शनिदिनं विना ॥ १२ ॥
केशवार्क:-
गोधूलिकेपि विधुमष्टमषष्ठमूर्तिं यन्मोचयंति तदयं स्वरुचिप्रपंच: ।
पंचांगशुद्धिमयमेव विवाहाधिष्णे यस्मादिदं सततमस्तगते पतंगे ॥ १३ ॥
संहितासारे-
यत्रैकादशगश्चन्द्रो द्वितीये वा तृतीयगः ।
गोधूलिका स विज्ञेया शेषा धूलिरितिः स्मृता ॥ १४ ॥
अन्यच्च-
तिथिवारेंदुनक्षत्रं लग्नं तारादयो ग्रहाः ।
नानिष्टदाः परिणये गोधूलिसमये सति ॥ १५ ॥
राजमार्तंड: -
ऋक्षे शुभेपि शशिनि प्रतिकूलभेपि पापेष्वपि क्षितिसुतोपि विलग्नगोपि ।
गोधूलियोगमपरे परिकीर्तयंति स्त्रीणामपत्यंपतिसौख्यवहं विवाहे ॥ १६ ॥
अन्योपि –
यामित्रं न विचिंतयेद्ग्रहयुतं लग्नं नवांशं तथा नो वेधो न कुवारकं न हिमगो लग्नं च भौमान्वितः ।
होरायां च नवांशकं न च खगा मूर्त्यादिभावस्थिताः हित्वा वर्जतनूषडाष्टमगते गोधूलिकं शस्यते ॥ १७ ॥
नांशो न लग्नमिह दृष्टयुतं स्वभर्त्रा नार्कारसौरतमसापि च संगभंगः ।
किंचंद्रचार भयमेकमिहास्तु किंचिन्नात्र प्रमाणवचनं किमपि श्रुतं नः ॥ १८ ॥
सार्कं शनौ विरविचित्रचिखंडिसूनौ तत्केवलं कुलिक यामदलोपलंभात् ।
प्रायेण शंकर भुवामशुभर्क्षपक्षक्रूरक्षणेषु शुभकृत्करपीडनं स्यात् ॥ १९ ॥
मंदवारे न कर्तव्यं बुधैर्लग्नं निशामुखे ।
गुरोर्वारे न कर्तव्यं सार्कं संध्यासु लग्नकम् ॥२०॥
शनिवारे लग्नं सार्कं ग्राह्यं गुरुवारे अस्तमिते रवौ ग्राह्यम् ॥ २१ ॥
उक्तं च-
क्षीणं चन्द्रं देवपूज्या र्किवारौ विष्टं क्रूरोपेतभानिष्टयोगात् ।
संक्रांतिं च प्रोक्तशेषेषु शस्तं सूर्ये चास्ते याति गोधूलिकाख्याम् ॥ २२ ॥
अत्रेोभयत्र घटिका दलमिष्टमाहुर्ग्राह्यस्तदंबरमणेरपि सार्द्धबिंबम् ।
एकार्गलानियतये तपनार्द्धबिंबवेलाव्यवस्थितिरियं रचयांबभूव ॥ २३ ॥
शौनकः –
दिनांते सूर्यबिंबार्द्धात्पूर्वभेत्र घटीदलम् ।
एकार्गला च वेलेयं विवाहे पुत्रपौत्रदम् ॥ २४ ॥
गोधूली त्रिविधा वदंति मुनयो नारीविवाहादिषु हेमंते शिशिरे प्रयाति मृदुतां पिंडीकृते भास्करे ।
ग्रीष्मे चार्द्धमिते सर्वसमये भानौ गते दृश्यतां सूर्ये चास्तमुपागते भगवति प्रावृट् शरत्कालयो: ॥ २५ ॥
नास्मिन्ग्रहा न तिथयो न च विष्टिवारा ऋक्षाणि नैव जनयंति कदापि दोषम्।
अव्याहतः सततमेव विवाहकाले यात्रासु चायमुदितो भृगुजेन दोषः ॥ २६ ॥
यामित्रं न विंचितयेद्ग्रहकृतं लब्धाच्छशांकात्तथा नो वेधं न कुवासरं नहि गतं नो गामिभं पापभैः ।
नो होरा न नवांशकं नहि खगान्मूर्त्यादिभावस्थितान् हित्वा चन्द्रमसं षडष्टमगतं गोधूलिकं शस्यते ॥ २७ ॥
यावत्कुंकुमरक्तचन्दननिभो नास्तं गते भास्करे यावच्चोडुगणो नभस्तलगतो नो दृश्यते रश्मिभिः ।
यावद्गोखुरघात चूर्णितरजो विस्तीर्यते चांबरे तावत्सर्वजनस्य मंगलविधौ गोधूलिकं शस्यते ॥ २८ ॥
अस्तक्ष्माधरमुष्णधाम्नि गतवत्यस्पष्टतारागणे संध्यारागविवर्जिता ऽपरदिशा श्रीविष्णुनोद्वाहिता ।
तावन्नैव तिथिर्न योगमशुभं लग्नेंदुताराबलं कालोयं कथितः पुराणमुनिभिर्गोधूलिकाख्यः शुभः ॥ २९ ॥
मार्गे गोधूलियोगे प्रभवति विधवा माघमासे तथैव पुत्रायुर्धनयौवनेन सहिता कुंभस्थिते भास्करे ।
वैशाखे सुखदा प्रजाधनवती ज्येष्ठे पतेर्मानदा आषाढे धनधान्यपुत्रबहुला पाणिग्रहे कन्यका ॥ ३० ॥
अथ संकीर्णजातीनां विवाहे नियतं कालविशेषम् । शार्ङ्गीये-
कृष्णे पक्षे भानुभौमार्कजानां वारे योगे चापि धिष्णे निषिद्धे ।
संकीर्णानां दारकर्मप्रशस्तं प्रीत्यर्थायुःप्राप्तये शौनकाद्याः ॥ ३१ ॥
केशवार्कः –
प्रायेण शंकरभवामशुभर्क्षपक्षक्रूरक्षणेषु शुभकृत्करपीडनं स्यात् ॥ ३२ ॥
अथ द्वितीयविवाहकालः । संग्रहे-
प्रमदास्मृतिवासरादितः पुनरुद्वाहवरस्य (?) विषमे युगवत्सरे शुभो युगुले वापि मृतिप्रदो भवेत् ।
अथ तृतीयविवाहकालः । मात्स्ये निषेधः –
उद्वाह इति सिद्ध्यर्थं तृतीयां न कदाचन ।
मोहादज्ञानतो वापि यदि गच्छेत्तु मानुषीम् ॥ ३३ ॥
न पश्यत्येव संदेहो गर्गस्य वचनं तथा ॥ ३४ ॥
संग्रहे-
तृतीया यदि चोद्वाहे तर्हि सा विधवा भवेत् ।
चतुर्थ्यादि विवाहोर्थं तृतीयेऽर्कं समुद्वहेत् ॥ ३५ ॥
अथ पुनर्भू- विवाहकालः । ज्योतिर्निबंधे-
न शुक्रास्तादिकं चिंत्यं शुद्धिवेधादिकं तथा ।
पुनर्भवासंवरणे न मासं तिथिशोधनम् ॥ ३६ ॥
मुहूर्तमुक्तावल्याम्-
हस्तादिपंचकतुरंगनिभं धनिष्ठा मार्तंडमंगलगुरौ भृगुवासरेषु ।
नंदा च भद्रजयपूर्णवृषालिकुंभे सिंहे सुखं भवति पुत्रपुनर्ग्रहं च ॥३७॥
अथ यवनविवाहकालः ।
अस्तंगते वा गुरुभार्गवानां सिंहस्थिते वा ह्यधिमासकेपि ।
शुक्रेन्दुसूर्येज्यवलावरिष्टं विवाहलग्नं यवना वदंति ॥ ३८ ॥
शुक्रो दैत्यगुरुस्तस्मान्म्लेच्छा दैत्य इव स्मृताः ।
भूभृद्गमविवाहादौ शुक्रदोषो न विद्यते ॥ ३९ ॥
ये पूर्वदेवाः कथिताः पृथिव्यां तेषां गुरोः शुक्र इहोपदिष्टम् ।
म्लेच्छस्य लोके यवनादिवर्यैः शुक्रस्य दोषस्तत एव नोक्तम् ॥ ४० ॥
अथ विवाहतः प्राक्कर्तव्यकर्मणां दिनशुद्धिः ।
शार्ङ्गीये-
दलनकंडनमंडनवेदिका गृहसुमार्जनवारकमंडपाः ।
करतलग्रहमध्यगता गतं तदखिलं विदधीत विवाहभे ॥ ४१ ॥
विवाहकृत्यं निखिलं विवाहभे विलोकयेन्नात्र बलं हिमद्युतेः ।
नवत्रिषष्ठेह्नि विवाहपूर्वतो न वर्णको मंडपतैलमंगलम् ॥ ४२ ॥
दैवज्ञमनोहरे –
चित्रा विशाखा शततारकाश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् ।
हित्वा प्रशस्तं फलतैलवेदिका प्रदाननं कंडनमंडपादिकम् ॥ ४३ ॥
हेमाद्रौ व्यासः–
कंडनदलनयवारकमंडपमृद्वेदिवर्णकाद्यखिलम् ।
तत्सबंधिगतागतमृक्षे वैवाहिके कुर्यात् ॥ ४४ ॥
निबंधे-
दलनं कंडनं चैव व्यंजनं मोदकानि च ।
यवारमंडपौ वेदी कुंकुमं वर्णकं तथा ॥ ४५ ॥
कार्यं विवाहांगमिदं विवाहभैर्युजंति नात्रेंदुबलाबलं बुधाः ।
षष्ठे तृतीये नवमेह्नि लग्नतः पूर्वं न वर्णो न यवारमंडपौ ॥ ४६ ॥
कन्यादानं गणेशार्चां कर्मारंभं कुसुंभकम् ।
मंडपं वर्णकाद्यं च सर्वं कुर्याद्विवाहभे ॥ ४७ ॥
अथ विवाहे तिलतैलादि लापनम् । रामः –
मेषादिराशिजवधूवरयोर्बटोश्च तैलादिलापनविधौ कथिता हि संख्या ।
शैला दिशा शरदिगक्षनगाद्रिवाणवाणोक्षवाणगिरयो मुनिभिस्तु कैश्चित् ॥ ४८
गणपतिः –
मेषादिराशिजातानां कुर्यात्तैलादिलापनम् ।
शैलदिग्वाणसप्तांग इषुपंचेषवः शराः ॥ ४९ ॥
बाणशैलास्त्रयश्चैव क्रमात्कश्चिदितीरितम् ॥ ५० ॥
अथ कांजिकाधारणम् । शार्ङ्गीये-
मूलेंद्ररुद्रश्रवणार्कपौष्णविश्वेशचित्रानलरेवती च ।
संस्थापनं कांजिककंटिकाया वारे रविर्भूमिसुतस्य शस्तम् ॥ ५१ ॥
अथ वेदिनिर्माणम् । केशवार्क:-
वेदिकां विरचयेद्यथातथं स्यादियं प्रविशतस्य दक्षिणे ।
स्युर्जनाश्रययवोप्तिवर्णिकाः षड्भवत्रिदिवसेषु नाग्रतः ॥ ५२ ॥
अथ वेदिकालक्षणम् । नारदः –
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समंततः ।
स्तंभैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः ॥
समंडपां चतुर्दिक्षु सोपानैरुपशोभिताम्।
प्रागुदकप्रवणां रंभास्तंभहंसशुकादिभिः ॥ ५३ ॥
विचित्रितां चित्रकुंभैश्चित्रितैस्तोरणांकुरैः ।
एवंविधां समारोहेन्मिथुनं साग्निवेदिकाम् ॥ ५४ ॥
वसिष्ठः-
षडंशारत्निकां कुर्याच्चतुर्द्वारोपशोभिताम् ।
मंडपं तोरणैर्युक्तं तत्र वेदीं प्रकल्पयेत् ॥ ६५ ॥
अष्टहस्तं तु रचयेन्मडपं वा द्विषट्करम् ।
सप्तर्षिमते विवाहपटले –
मंगलेषु च सर्वेषु मण्डपो गृहमानतः ।
कार्यः षोडशहस्तो वा द्विषड्ढस्तो दशावधिः ॥ ५६ ॥
स्तंभैश्चतुर्भिरेवात्र वेदी मध्ये प्रतिष्ठिता ।
शोभिता चित्रिता कुंभैरासमन्ताच्चतुर्दिशम् ॥ ५७ ॥
द्वारविद्धा वलीविद्धा कूपवृक्षव्यधा तथा ।
न कार्या वेदिका तज्ज्ञैः शुभमंगलकर्माणि ॥ ५८ ॥
नारदः -
समे तु दिवसे कुर्याद्देककोत्थापनं विधिः ।
षष्ठं च विषमं नेष्टं मुक्त्वा पंचमसप्तमौ ॥ ५९ ॥
राम: -
युग्मे घस्रे षष्ठहीने च पंच सप्ताहे स्यान्मंडपोद्वासनं सत् ॥ ६० ॥
अथ मंडपादौ स्तंभनिवेशनम् । विश्वकर्मप्रकाशे –
सिंहे कन्यातुलायां भुजगपति मुखं शंभुकोणेग्निखातं वायव्ये स्यात्तदास्यं त्वलिधनुमकरे ईशखातं वदंति ।
कुंभे मीने च मेषे निर्ऋतिदिशि मुखं वायुकोणे हि खातं वह्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे रक्षखातम् ॥ ६१ ॥
वेद्यां वृषाद्गृहे सिंहात्त्रिकं मीनात्सुरालये ।
ईशानतो व्यस्तगत्या पृष्ठस्तस्य शुभावहम् ॥ ६२ ॥
रामाचार्यस्तु –
सूर्येंगनासिंहघटेषु शैवे स्तंभोलिकोदण्डमृगेषु नार्यौ ।
मीनाजकुंभे निर्ऋतौ विवाहे स्थाप्योग्निकोणे वृषयुग्मकर्के ॥६३॥
गणपतिस्तु–
ईशान्यां स्थापयेत्कुंभं सिंहादे त्रिभगे रवौ ।
वृश्चिकादि त्रिभे वायौ- नैर्ऋत्यां कुंभतस्त्रिभे ।
वर्षात्रये तथाग्नेय्यां स्तंभखातं तथैव हि ॥ ६४ ॥
तथा च ।
विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् ।
वैधव्यमाप्नोति तदा सुकन्या जीवेत्पतिश्चेदनपत्यता स्यात् ॥ ६५ ॥
विवाहमध्ये यदि चेत्क्षयाहस्तथा स्वमुख्याः पितरो न यांति ।
व्रते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेताम् ॥ ६६ ॥
अथ नांदीश्राद्धम् । सायणीये –
नांदीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः ।
अत उर्ध्वं प्रकुर्वीत स्वयमेव तु नांदिकम् ॥ ६७ ॥
नांदीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् ।
दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च ॥ ६८ ॥
अपसव्यं स्वधाकारं नित्यश्राद्धं तथैव च ।
ब्रह्मयज्ञं चाध्ययनं नदीसीमादिलंघनम् ॥ ६९ ॥
उपवासव्रतं चैव श्राद्धे भोजनमेव च ।
नैव कुर्युः सपिंडाश्च मण्डपोद्वासनावधि ॥ ७० ॥
सूतकं न विशेत्तत्र मातरो यत्र पूजिताः ।
भूकंपादेर्न दोषोस्ति वृद्धिश्राद्धे कृते सति ॥ ७१ ॥
हेमाद्रि:-
वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥ ७२ ॥
अथ विवाहकाले ऋतुप्राप्तायाः कन्यायाः किं कुर्वंतीत्याह । याज्ञपार्श्वः –
विवाहे वितते यज्ञे होमकाले उपस्थिते ।
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वंति याज्ञिकाः ॥ ७३ ॥
स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि ।
युंजानामाहुतिं हुत्वा ततस्तंत्रं प्रवर्तयेत् ॥ ७४ ॥
निर्णयसिंधौ-
अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते ।
श्रियं संपूज्य विधिवत्ततो मंगलमाचरेत् ॥ ७५ ॥
मातृरजस्वलाविषये । माधवीये –
प्रारंभात्प्राक्विवाहस्य माता यदि रजस्वला ।
निवृत्तिस्तस्य कर्तव्या संहत्य श्रुतिचोदनात् ॥ ७६ ॥
मेधातिथिः –
चौले च व्रतबंधे च विवाहे यज्ञकर्मणि ।
भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥ ७७ ॥
वरवध्वान्यतमयोर्जननी चेद्रजस्वला ।
तस्याः शुद्धेः परं कार्यं मांगल्यं मनुरब्रवीत् ॥ ७८ ॥
वृद्धमनुः –
विवाहव्रतचूडासु माता यदि रजस्वला ।
तदा न मंगलं कार्यं शुद्धौ कार्यं शुभेप्सुभिः ॥ ७९ ॥
गर्गः –
यस्योद्वाहादि मांगल्ये माता यदि रजस्वला ।
तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः ॥ ८० ॥
बृहस्पतिः –
वैधव्यं च विवाहे स्याज्जडत्वं व्रतबंधने ।
चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः ॥ ८१ ॥
विवाहोत्सवयज्ञेषु माता यदि रजस्वला ।
तदा स मृत्युमाप्नोति पंचत्वं दिवसं विना ॥ ८२ ॥
प्राप्तमभ्युदयं श्राद्धं पुत्रसंस्कारकर्मणि ।
पत्नी रजस्वला चेत्स्यान्न कुर्यात्तत्पिता तदा ॥ ८३ ॥
रजोदोषे समुत्पन्ने सूतके मृतकेपि वा ।
नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन ॥ ८४ ॥
अथ जीर्णभांडादि ।
मासषट्कं विवाहादौ व्रतप्रारंभणे न च ।
जीर्णभांडानि न त्याज्यं गृहसंमार्जनं तथा ॥ ८५ ॥
हेमाद्रौ - विवाहव्रतचूडासु वर्षमर्द्धं तदर्द्धकम् ।
पिंडदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ ८६ ॥
स्मृतिः –
महालये गयाश्राद्धे मातापित्रोः क्षयेहनि ।
कृतोद्वाहोपि कुर्वीत पिण्डनिर्वपणं ततः ॥ ८७ ॥
अथ परिवेत्ता ।
उद्वाहं चाग्निसंयोगं कुरुते योग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ ८८ ॥
परिवित्तिः परीवेत्ता नरकं गच्छतो ध्रुवम् ॥ ८९ ॥
अथ स्त्रीउपसंवेशनम् ।
विवाहसमयात्पश्चाच्चतुर्थे दिवसे स्त्रियाम् ।
उपसंवेशनं कुर्यात् कृत्वा होमावशेषितम् ॥ ९० ॥
निश्येव संमुहूर्तेस्मिन् निषेककथिते बले ।
असंभवे तथा सर्वं विवाहवदुदीरितम् ॥ ९१ ॥
सर्वेष्वत्र मुहूर्तेषु लक्षणान्यत्र मे शृणु ।
मुहूर्तो नित्ययोगस्य संख्यां कृत्वा यथाविधाम् ॥ ९२ ॥
संयोज्याधोर्ध्वतः स्थान- चतुष्केषु क्रमादिमान् ।
अर्यादिशाक्कलीपंक्तिनवकांश्च पृथक् पृथक् ॥ ९३ ॥
सप्तभक्ते क्रमात्सर्वा अधोर्ध्वं न विशिष्यते ।
मुष्टियुद्धं कुजश्चैव दशतोद्भिर्नृपाद्भयम् ॥ ९४ ॥
सावासिष्ठेन चैते स्युः यत्रैवं तत्फलं भवेत् ।
मुहूर्तफलमेते स्युः वृत्रहन्सर्वशोभनम् ॥ ९५ ॥
अथ दानाविषये ।
रात्रौ दानं न शंसंति विना चाभयदक्षिणाम् ।
विद्यां कन्या द्विजश्रेष्ठ दीपमन्नं प्रतिश्रयम् ॥ ९६ ॥
विवाहे तु दिवाभागे कन्या स्यात्पुत्रवर्जिता ।
विवाहानलदग्धा सा नियतं स्वामिघातिनी ॥ ९७ ॥
ज्योतिर्निबंधे-
उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुर्गृहे कन्यका हन्यात्तज्जननी क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् ।
पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठंती पितरं निहंतिमभयं तेषामभावे भवेत् ॥ ९८ ॥
विवाहात्प्रथमे पौषे आषाढे चाधिमासके ।
न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा ॥ ९९ ॥
अथ कन्यागृहे भोजननिषेधः । आदित्यपुराणे –
अप्रजायां तु कन्यायां नाश्नीयात्तस्य वै गृहे ।
यदि भुंजति मोहाद्वा पूयाशी नरकं व्रजेत् ॥ १२०० ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने एकसप्ततितमं विवाहप्रकरणं समाप्तम् ।