बृहद्यात्रा/अध्यायः १
बृहद्यात्रा अध्यायः १ |
अध्यायः २ → |
अध्यायः-१ दैवपुरुषकारः
सम्पाद्यताम्यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति।
सचराचरं त्रिभुवनं स जयति किरणालयः सविता॥
यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य।
विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु॥
उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः।
प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः॥
साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः।
दक्षः प्रगल्भोऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितोऽपि॥
तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्।
तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः॥
लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति।
प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च॥
उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम्।
अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः॥
विहङ्ग इव वधो हि(स्यात्) निपत्यार्यमनीश्वरः।
विधानविहितोऽदेश्यो नान्येषां नात्मनः प्रभुः॥
तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम्।
निश्चेष्टम् अपि लोकेऽस्मिन् भजते भुक्तिर् उत्तमा॥
आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति येऽरीन्।
तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी॥
तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः।
प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम्॥
उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा।
प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः॥
उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति।
उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते॥
विधानगणनाजडः पुरुषकारसुप्तादरो
मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम्।
पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं
हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु॥
कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः।
अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्॥
न विना मानुषं दैवं दैवं वा मानुषं विना।
नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्॥
सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणोऽर्द्ध्योः।
दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन॥
अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः।
इह नास्य भविष्यामि कुतः फलमनीहितम्॥
यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः।
प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति॥
सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे[न]।
कृच्छ्रेण शेषं महता यतोऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः॥E२०