← अध्यायः २० बृहद्यात्रा
अध्यायः २१
अध्यायः २२ →

अध्यायः-२१ गजलक्षणेङ्गितम् सम्पाद्यताम्

मा भूत् प्रसङ्गाद् अतिविस्तरोऽत्र गजाश्वपुंलक्षणदर्शनेषु।

निमित्तमात्रं कथयाम्य् अतोऽहं प्रयाणकालोपयिकं नृपाणाम्॥

ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः।

चापोन्नतायतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः॥

विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्fओओत्नोते{Bष् ६६.७ब् कूर्मोन्नत-} द्विनवविंशतिभिर् नखैश् च।

रेखात्रयोपचितवृत्तकराः सजलाम्भोदनिनादवृंहिणःfओओत्नोते{Bष् ६६.७द् धन्याः सुगन्धिमदपुष्करमारुताश् च}।

दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिःः।

बृहदायतवृत्तकंधरा धन्या भूमिपतेर् मताङ्गजाःfओओत्नोते{Bष् ६६.८द् मतङ्गजाः}॥

निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणाम्।

दृश्यकोशफलपुष्करहीनान् श्यावनीलशवलसिततालून्॥

स्वल्पवक्त्ररुहमत्कुणखण्डान् हस्तिनीं च गजलक्षणयुक्ताम्।

गर्भिणीं च नृपतिः परदेशं प्रापयेद् अतिविरूपफलास् ते॥

दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतोऽस्य कल्पयेत्।

श्यावापूतिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम्॥

पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे।

श्रीजयार्थबलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः॥

दक्षिणे शुभम् अतीव शोभनं पापम् अप्य् अतिविरूपम् अन्यतः।

याप्यता भवति तद्विपर्यये विस्तरोऽन्यमुनिभिः प्रकीर्तितः॥

मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः।

स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम्॥

दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम्।

वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान्॥

आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्।

सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभम् अतोऽन्यथा भवेत्॥

क्षीरवृक्षफलपुष्पपादपेष्व् आपगातटविघट्टनेनfओओत्नोते{Bष् ९३.११ब्éġविघट्टितेन} वा।

वाममध्यरदभङ्गखण्डने शत्रुनाशकृद् अतोऽन्यथापरम्॥

स्खलितगतिर् अकस्मात् त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।

द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशोऽसृच्छकृत्कृत्॥

वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया दृष्टदृष्टिर्

यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः।

कक्षासन्नाहकाले जनयति च मुहुः शीकरं वृंहितं वा

तत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणं च॥E१५