← अध्यायः २८ बृहद्यात्रा
अध्यायः २९
अध्यायः ३० →

अध्यायः - २९ निवेश सम्पाद्यताम्

स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः।

नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च॥

गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत्।

हत्वा पशुं रिपुगृहाकृतम् उद्यमे च प्रास्याथ वान्नमयम् अस्य विधाय रूपम्॥

एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः।

यात्रां त्रिपञ्चसप्ताहात् पुनर्भद्रेण योजयेत्॥

तच् चायुक्तम् इति प्राहुर् होराशास्त्रविदो जनाः।

वांछितार्थफलावाप्तौ यात्रा परिसमाप्यते॥E४