← अध्यायः ३३ बृहद्यात्रा
अध्यायः ३४

अध्यायः - ३४ जयोत्तर सम्पाद्यताम्

दिग्दाहक्षतजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनाद् इवैकृतैश् च।

युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जयेऽपि पार्थिवस्य॥

शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत्

ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम्।

यदान्यद् अपि वैकृतं न विजयावसाने भवेत्

तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः।

उद्वाहम् अकालोत्सवम् अभिषेकं चात्मजस्य यः कृत्वा।

प्रस्थानाविहतः सोऽभ्येति ततश् चोत्सवदिनेषु॥

परविषयपुराप्तौ साधुदेवद्विजस्वं

कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात्।

विगजतुरगशस्त्रान्नार्तिभीतांश् च हन्याच्

छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच् च॥

स्वविषयम् उपगम्य मानवेन्द्रोऽवलिम् उपयाचितकानि चाधिकानि।

निगदितविधिनैव संप्रदद्यात् प्रथमगणासुरभूतदैवतेभ्यः॥

इति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि।

स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरोऽचिरेण॥E६