बृहस्पतिस्मृतिः/अतुष्पाद्व्यवहारोपक्रमः

पीठिका सम्पाद्यताम्

भाषापादोत्तरपदौ क्रियापादस्तथैव च ।
प्रत्याकलितपादश्च व्यवहारश्चतुष्पदः ।। १,२.१ ।।

मिथ्यासंप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा ।
प्राङ्न्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः ।। १,२.२ ।।

मिथ्यायां च चतुष्पादः प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ।। १,२.३ ।।

उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितोऽसौ दण्दं अर्हति ।। १,२.४ ।।

पक्षलक्षणम् सम्पाद्यताम्

उपस्थिते ततस्तस्मिन्वादी पक्षं प्रकल्पयेत् ।
निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ।। १,२.५ ।।

देशस्थानसमामास पक्षाहोनामजातिभिः ।
द्रव्यसंख्योदयं पीडां क्षामलिङ्गं च लेखयेत् ।। १,२.६ ।।

यं च अर्थं अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
न च पक्षान्तरं गच्छेत्गच्छन्पूर्वात्स हीयते ।। १,२.७ ।।

पक्षदोषाः सम्पाद्यताम्

अप्रसिद्धं सदोषं च निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ।। १,२.८ ।।

न केनचित्कृतो यस्तु सोऽप्रसिद्ध उदाहृतः ।
अन्यार्थः स्वार्थहीनश्च सदोषः परिकीर्तितः ।। १,२.९ ।।

स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः ।
कार्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः ।। १,२.१० ।।

कुसीदाद्यैः पदैर्हीनो व्यवहारो निरर्थकः ।
वाक्पार्ष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः ।। १,२.११ ।।

ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यं असाध्यं तं पक्षं आहुर्मनीषिणः ।। १,२.१२ ।।

यस्मिन्नावेदिते पक्षे प्राड्विवाके च राजनि ।
पुरे राष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते ।। १,२.१३ ।।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
विश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ।। १,२.१४ ।।

स्वल्पाक्षरप्रभूतार्था निस्संदिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ।। १,२.१५ ।।

वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता ।
असंकरेण वक्तव्ये व्यवहारेषु वादिभिः ।। १,२.१६ ।।

मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वापि तद्ग्राह्यं उभयोरपि ।। १,२.१७ ।।

एवमादिगुणान्सम्यगालोच्य च सुनिश्चितः ।
पक्षः कृतः समादेयः पक्षाभासस्ततोऽन्यथा ।। १,२.१८ ।।

देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ।। १,२.१९ ।।

मृषायुक्ति क्रियाहीनं असाध्याद्यर्थं आकुलम् ।
पूर्वं पक्षं लेख्यतो वादहानिः प्रजायते ।। १,२.२० ।।

अपदिश्याभियोगं यस्तं अतीत्यापरं वदेत् ।
क्रियां उक्त्वान्यथा [?] ब्रूयात्स वादी हानिं आप्नुयात् ।। १,२.२१ ।।

ऊनाधिकं पूर्वप्क्षे तावद्वादी विशोधयेत् ।
न दद्यादुत्तरं यावत्प्रत्यर्थी सभ्यसंनिधौ ।। १,२.२२ ।।

ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येष्वसभ्यवादेषु प्रतिवादी न दीयते ।। १,२.२३ ।।

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषने ।। १,२.२४ ।।

पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रणिवादी न दाप्यः स्यात्कर्ता तु विवदेत्स्वयम् ।। १,२.२५ ।।

अष्टादशपदो वादो विचार्यो विनिवेदितः ।
सन्त्यन्यानि पदान्यत्र तानि राजा विशेत्स्वयम् ।। १,२.२६ ।।

षड्भागहरणं शुद्धं समयाविक्रमो निधिः ।
वधः संहरणं स्तेयं आसेधाज्ञाव्यतिक्रमः ।। १,२.२७ ।।

स्वयं नोत्पादयेत्कार्यं राजा वा सास्य पूरुषः ।
अधिकाच्छातयेदर्थान्न्यूनांश्च परिपूरयेत् ।। १,२.२८ ।।

भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः ।
श्रुतं च लिखितं चैव शोधितं च विचारितम् ।। १,२.२९ ।।

पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।
पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ।। १,२.३० ।।

आवेद्य तु गृहीतेऽर्थे प्रशमं यान्ति ये मिथः ।
अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् ।। १,२.३१ ।।

अन्ये वा ये पुरग्राम महाराजनविरोधकाः ।
अनदेयास्तु ते सर्वे व्यवहाराः प्रकीर्त्तिताः ।। १,२.३२ ।।

पाण्डुलेखेन फलके भूम्यां वा प्रथमण् लिखेत् ।
न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ।। १,२.३३ ।।

अभियोक्ताप्रगल्भत्वाद्वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कालशक्त्यनुरूपतः ।। १,२.३४ ।।

यदि नोत्सहते यत्र विवादं कर्तुं इच्छतोः ।
दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ।। १,२.३५ ।।

चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च ।
चतुर्धा निर्णयः प्रोक्तः कश्चिदष्टविधः स्मृतः ।। १,२.३६ ।।

देशः कालस्तथा स्थानं संनिवेशस्तथैव च ।
ज्ञातृसंज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ।। १,२.३७ ।।

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ।। १,२.३८ ।।

श्वोलेखनं वा लभते त्र्यहं सप्ताहं एव वा ।
मतिरुत्पद्यते यावत्विवादे वक्तुं इच्छतः ।। १,२.३९ ।।

बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितं ।
कामं तदपि गृह्णीयाद्राजा तत्त्वबृभुत्सया ।। १,२.४० ।।

शङ्काभियोगस्तथ्यं च लक्ष्येऽर्थेऽभ्यर्थनं तथा ।
वृत्ते वादे पुनर्न्यायः पक्षो ज्ञेयश्चतुर्विधः ।। १,२.४१ ।।

भ्रान्तिः शङ्का समुद्दिष्टा वश्यं नष्टार्थदर्शनम् ।
लब्धेऽर्थेऽभ्यर्थनं मोहस्तथा वृत्ते पुनः क्रियाः ।। १,२.४२ ।।

राज्ञापवर्जितो यस्तु यश्च पौरविरोधकृत् ।
राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ।। १,२.४३ ।।

न्यायं व नेच्छते कर्तुं अन्यायं वा करोति यः ।
न लेखयति यस्त्वेवं तस्य पक्षी न सिध्यति ।। १,२.४४ ।।

विरुद्धं चाविरुद्धं च द्वावप्यर्थौ निवेशितौ ।
एकस्मिन्यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ।। १,२.४५ ।।