बृहस्पतिस्मृतिः/अदेयदेयदत्तानि
एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः ।
अदेयदेयदत्तानां अदत्तस्य च कथ्यते ।। १,१४.१ ।।
सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।
प्रतिश्रुतं तथान्यस्य न देयं त्वष्टधा स्मृतम् ।। १,१४.२ ।।
कुटुम्बभक्तवसनाद्देयं यदतिरिच्यते ।
मध्वास्वादो विषं पश्चाद्दातुर्धमोऽन्यथा भवेत् ।। १,१४.३ ।।
सप्तारामाद्गृहक्षेत्राद्यद्यत्क्षेत्रं प्रचीयते ।
पित्रा वाथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम् ।। १,१४.४ ।।
स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् ।
वैवाहिके क्रमायाते सर्वदानं न विद्यते ।। १,१४.५ ।।
सौदायिकक्रमायातं शौर्यप्राप्तं च यद्भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिं अवाप्नुयात् ।। १,१४.६ ।।
सर्वस्वगृहवर्जं तु कुटुम्बभरणादिकम् ।
यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ।। १,१४.७ ।।
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्यनीशः सर्वत्र दानादापनविक्रये ।। १,१४.८ ।।
भृतिस्तुष्ट्या पण्यमूलं स्त्रीशुल्कं उपकारिणे ।
श्रद्धानुग्रहसंप्रीत्या दत्तं अष्टविधं स्मृतम् ।। १,१४.९ ।।
शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं दानं ब्राह्मणे षड्गुणं स्मृतम् ।। १,१४.१० ।।
श्रोत्रिये चैव साहस्रं उपाध्याये तु तद्द्वयम् ।
आचार्ये त्रिगुणं ज्ञेयं आहिताग्निषु तद्द्वयम् ।। १,१४.११ ।।
आत्मिके ज्ञातसाहस्रं अनन्तं त्वग्निहोत्रिणि ।
सोमपे शतसाहस्रं अनन्तं ब्रह्मवादिनि ।। १,१४.१२ ।।
स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्च्छेत्तं तु वर्जयेत् ।
कुल्याभावे तु बन्धुभ्यः तदभावे द्विजातिषु ।। १,१४.१३ ।।
मदूर्ध्वं इति यद्दत्तं न तत्सत्त्वावहं भवेत् ।
तेनेदानीं अदत्तत्वान्मृते रिक्थिनं आपतेत् ।। १,१४.१४ ।।
क्रुद्धहृष्टप्रमत्तार्त बालोन्मत्तभयातुरैः ।
मत्तातिवृद्धनिर्धूतैः संऊढैः शोकवेगिभिः ।। १,१४.१५ ।।
नन्ददत्तं तथैतैर्यत्तददत्तं प्रकीर्तितम् ।। १,१४.१६ ।।
प्रतिलाभेच्छया दत्तं अपात्रे पात्रशङ्कया ।
कार्ये वाधर्मसंयुक्ते स्वामी तत्पुनराप्नुयात् ।। १,१४.१७ ।।
अदत्तभोक्ता दण्ड्यः स्यात्तथादेयप्रदायकः ।। १,१४.१८ ।।