बृहस्पतिस्मृतिः/अस्वामिविक्रयः
पीठिका
सम्पाद्यताम्निक्षेपानन्तरं प्रोक्तो भृगुणास्वामिविक्रयः ।
श्रूयतां तं प्रयत्नेन सविशेषं ब्रवीम्यहम् ।। १,१२.१ ।।
अस्वामिलक्षणम्
सम्पाद्यताम्निक्षेपान्वाहितन्यास हृतयाचितबन्धकम् ।
उपांशुजनविक्रीतं अस्वामी सोऽभिधीयते ।। १,१२.२ ।।
अध्यक्षनिवेदितक्रयेण दोषः
सम्पाद्यताम्येन क्रीतं तु मूल्येन प्रागध्यक्षनिवेदितम् ।
न विद्यते तत्र दोषः स्तेन स्यादुपधिक्रयात् ।। १,१२.३ ।।
उपविक्रयलक्षणम्
सम्पाद्यताम्अन्तर्गृहे बहिर्ग्रामान्निशायां असतो जनात् ।
हीनमूल्यं च यत्क्रीतं ज्ञेयोऽसावुपविक्रयः ।। १,१२.४ ।।
तत्र क्रेतृशुद्धिनिर्णयः
सम्पाद्यताम्पूर्वस्वामी तु तद्द्रव्यं यदागत्य विचारयेत् ।
तत्र मूल्यं दर्शनीयं क्रेतुः शुद्धिस्ततो भवेत् ।। १,१२.५ ।।
मूले समाहृते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस्तु नाष्टकस्य विहीयते ।। १,१२.६ ।।
विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात्स्वामिने धनम् ।। १,१२.७ ।।
परद्रव्येऽभिलषति योऽस्वामी लोभसंयुतः ।
अभावयंस्ततः पश्चाद्दाप्यः स्याद्द्विगुणं दमम् ।। १,१२.८ ।।
प्रमाणहीने वादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद्विनिर्णयम् ।। १,१२.९ ।।
वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ।। १,१२.१० ।।
स्वामी दत्त्वार्धमूल्यं तु प्रकृह्णीत स्वकं धनम् ।
अर्धं द्वयोरपि हृतं तत्र स्याद्व्यवहारतः ।। १,१२.११ ।।
अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।। १,१२.१२ ।।
वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
दिवा गृहीतं सत्क्रेता समृद्धो लभते धनम् ।। १,१२.१३ ।।
विक्रीयोर्वीं तु यत्क्रेतुर्भुक्तिं यो न [च] साधयेत् ।
स तस्मै तद्धनं दद्यादन्यथा चोरदण्डभाक् ।। १,१२.१४ ।।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।
अविज्ञातविशेषत्वाद्यत्र मूल्यं न लभ्यते ।। १,१२.१५ ।।
हानिस्तत्र समा कल्प्या क्रेतृनास्तिकयोर्द्वयोः ।। १,१२.१६ ।।