बृहस्पतिस्मृतिः/क्रियापादः
पीठिका
सम्पाद्यताम्
शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । |
ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना । |
प्रमाणानां बलाबलम्
सम्पाद्यताम्
प्रतिज्ञां भावयेद्वादी प्रत्यर्थी कारणं तथा । |
पूर्वपादे विलिखितं यथाक्षरं अशेषतः । |
श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना । |
द्विप्रकारा क्रिया प्रोक्ता मानुषीइ दैविकी तथा । |
साक्षिणो लिखितं भुक्तिर्मानुषं त्रिविधं स्मृतम् । |
साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया । |
अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया । |
उत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् । |
प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत्स्वयम् । |
क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु । |
वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया । |
नृपद्रोहे साहसे च कल्पयेद्दैविकीं क्रियाम् ।। १,४.१४ ।। |
हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ।। १,४.१५ ।। |
दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ।। १,४.१६ ।। |
अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ।। १,४.१७ ।। |
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेखकम् ।। १,४.१८ ।। |
प्रकान्ते साहसे वादे पारुष्ये दण्डवाचिके । |
ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा । |
चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु । |