पीठिका सम्पाद्यताम्

द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
तत्प्रवर्तितं अन्यैस्तु राजभागसमन्वितम् ।। १,२७.१ ।।

सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना ।
एष एव विधिर्ज्ञेयः प्राणिद्यूतसमाह्वये ।। १,२७.२ ।।

सभिकवृत्तिः सम्पाद्यताम्

सभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय च ।
राजवृद्धिः सकितवात्सभिकाद्दशकं शतम् ।। १,२७.३ ।।

यथासमयं वा स्यात्. .... .... ।। १,२७.४ ।।

स्वामिनोर्जयपराजयः सम्पाद्यताम्

द्वन्द्वयुद्धेन यः कश्चिदवसादं अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ।। १,२७.५ ।।

रहोजितोऽनभिज्ञश्च कूटाक्षैः कपटेन वा ।
मोच्योऽभिज्ञोऽपि सर्वस्वं जितं सर्वं न दाप्यते ।। १,२७.६ ।।

कूटद्यूतदण्डः सम्पाद्यताम्

कूटाक्षदेविनः पापा राजभागहराश्च ये ।
गणनावञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ।। १,२७.७ ।।

ग्रहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।
व्यापादने तु तत्कारी वधं चित्रं अवाप्नुयात् ।। १,२७.८ ।।

संदिग्धजयपराजयनिर्णयः सम्पाद्यताम्

स एव साक्षी संदिग्धौ सभ्यैश्चान्यैस्त्रिभिर्वृतः ।
उभयोरपि संदिग्धं कितवास्तु परीक्षकाः ।। १,२७.९ ।।

यदा विद्वेषिणस्ते तु तदा राजा विचारयेत् ।। १,२७.१० ।।

एवं वादिकृतान्वादान्प्रपश्येत्प्रत्यहं नृपः ।
नृपाश्रयास्तथा चान्ये विद्वद्भिर्ब्राह्मणैः सह ।। १,२७.११ ।।