बृहस्पतिस्मृतिः/प्रकीर्णकम्
एष वादिकृतः प्रोक्तो व्यवहारः समासतः ।
नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ।। १,२९.१ ।।
वाग्धिग्दण्डं वधं चैव चतुर्धा कल्पितं दमम् ।
पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ।। १,२९.२ ।।
सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति ।
अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ।। १,२९.३ ।।
हस्ताङ्घ्रिलिङ्गनयनं जिह्वाकर्णौ च नासिका ।
जिह्वा पादार्धसंदंश ललाटौष्ठगुदं कटिः ।। १,२९.४ ।।
स्थानान्येतानि दण्डस्य निर्दिष्टानि चतुर्दश ।
ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ।। १,२९.५ ।।
अधार्मिकांस्त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन भयेन च ।। १,२९.६ ।।
वेधेनापि यदा त्वेतान्निगृहीतुं न शक्नुयात् ।
तदैषु सर्वं अप्येतत्प्रयुञ्जीत चतुष्टयम् ।। १,२९.७ ।।
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डं अतः परम् ।। १,२९.८ ।।
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।
दुःखिता यत्र दृश्यन्ते विकृताः पापकारिणः ।। १,२९.९ ।।
दशमांशं हरेदर्थं पञ्चमं सर्वं एव वा ।
मृतस्य वित्तादादद्यादज्ञातिः शवदहकः ।। १,२९.१० ।।
बहुरक्षस्य दशमं अल्परक्षस्य पञ्चमम् ।
अपुत्रपितृभार्यस्य सर्वं एवेति शौनकः ।। १,२९.११ ।।
षड्भागस्तरशुल्कं च गते देयस्तथैव च ।
संग्रामचौरभेदी च सस्यघातनकृत्तथा ।। १,२९.१२ ।।
निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमाणां लोपश्च वर्णसंकरलोपनम् ।। १,२९.१३ ।।
निधिर्निष्कुलवित्तं च दरिद्रस्य धनागमः ।
अनाम्नातानि कार्याणि क्रियावादाश्च वादिनाम् ।। १,२९.१४ ।।
प्रकृतीनां प्रकोपश्च संकेतश्च परस्परम् ।
अशास्त्रविहितं यच्च प्रजायां संप्रकीर्त्यते ।। १,२९.१५ ।।
साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भावो विधिः ।। १,२९.१६ ।।
वेदार्थोपनिबद्धत्वात्प्राधान्यं तु मनोः स्मृतम् ।
मन्वर्थविपरीता या स्मृतिः सा न प्रशस्यते ।। १, ।।