साक्षिणां एष निर्दिष्टः संख्यालक्षणनिश्चयः ।
लिखितस्याधुना वच्मि विधानं अनुपूर्वशः ।। १,६.१ ।।

ऋणादिकेऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ।। १,६.२ ।।

लेख्यलक्षणम्

सम्पाद्यताम्

देशाचारहुतं वर्ष मासपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानं हस्ताङ्कं लेख्यं उच्यते ।। १,६.३ ।।

लेख्यभेदाः

सम्पाद्यताम्

राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।
लेख्यं तत्त्रिविधं प्रोक्तं भिन्नं तद्बहुधा पुनः ।। १,६.४ ।।

भागदानक्रयाधिनां संविद्दासऋणादिभिः ।
सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ।। १,६.५ ।।

विभागपत्रं इत्येतद्भागानां निर्णये कृतम् ।
सीमाविवादे निर्णीते सीमापत्रं इति स्मृतम् ।। १,६.६ ।।

दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च ।
क्रयलेख्यं दासलेख्यं आधिलेख्यं ततः परम् ।। १,६.७ ।।

संविदुद्दाम्लेख्यं च जयपत्रकं एव च ।
सन्धिपत्रं तथैवैतत्क्रियाभेदादनेकधा ।। १,६.८ ।।

-----------
आध्यर्थं आधिलेख्यं स्याद्दासार्थं दासपत्रकम् ।। १,६.९ ।।

समीहितार्थसिद्ध्यर्थं ग्रामश्रेणिगणादिभिः ।
शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्रकम् ।। १,६.१० ।।

भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ।। १,६.११ ।।

भूमिं दत्त्वा यस्तु पत्रं कुर्याच्चन्द्रार्ककालिकं [पृष्ठ ६१] ।
अनाच्छेदां अनाहार्यं दानलेख्यं तु तद्विधुः ।। १,६.१२ ।।

गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ।। १,६.१३ ।।

जङ्गमं स्थावरं बन्धं दत्त्वा लेख्यं करोति यत् ।
गोप्यभोग्यक्रियायुक्तं आधिलेख्यं तु तत्स्मृतम् ।। १,६.१४ ।।

ग्रामो देशश्च यत्कुर्यान्मत्तलेख्यं परस्परम् ।
राजाविरोधि धर्मार्थे संवित्पत्रं वदन्ति तत् ।। १,६.१५ ।।

वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् ।
कर्माहं ते करिष्यामि दासपत्रं तदिष्यते ।। १,६.१६ ।।

धनं वृध्या गृहीत्वा तु स्वयं कुर्याच्च कारयेत् ।
उद्धारपत्रं तत्प्रोक्तं ऋणलेख्यं मनीषिभिः ।। १,६.१७ ।।

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ।। १,६.१८ ।।

पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् ।
स्थितिपत्रं तु तत्प्रोक्तं मन्वादिस्मृतिवेदिभिः ।। १,६.१९ ।।

राज्ञो दानशासनम्

सम्पाद्यताम्

दत्त्वा भ्य्य्म्यादिकं राजा ताम्रपत्रे पटेऽथ वा ।
शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् ।। १,६.२० ।।

मातापित्रोरात्मनश्च पुण्यायामुकसूनवे ।
दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ।। १,६.२१ ।।

अनाच्छेद्यं अनाहार्यं सर्वं भाव्यविवर्जितं [पृष्ठ ६३] ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ।। १,६.२२ ।।

दातुः पालयितुः स्वर्गं हर्तुर्नरकं एव च ।
षष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् ।। १,६.२३ ।।

समुद्रावर्षमासादि धनाध्यक्षाक्षरान्वितम् ।
ज्ञातं मयेति लिखितं सन्धिविग्रहलेखकैः ।। १,६.२४ ।।

एवंविधं राजकृतं शासनं तदुदाहृतम् ।

प्रसादलिखितम्

सम्पाद्यताम्

देशादिकं यस्य राजा लिखितं तु प्रयच्छति ।। १,६.२५ ।।
सेवाशौर्यादिना तुष्टः प्रसादलिखितं हि तत् ।

पूर्वोत्तरक्रियावाद निर्णयान्ते यदा नृपः ।
प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ।। १,६.२६ ।।

यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियावदधारणोपेतं जयपत्रोऽखिलं लिखेत् ।। १,६.२७ ।।

साधयेत्साध्यं अर्थं तु चतुष्पादन्वितं जये ।
राजमुद्रान्वितं चैव जयपत्रकं इष्यते ।। १,६.२८ ।।

अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ।। १,६.२९ ।।

लेख्यदूषणानि

सम्पाद्यताम्

मुमूरुषुहीनलुप्तार्थैरुन्मातव्यसनातुरैः ।
विषोपधिबलात्कार कृतं लेख्यं न सिध्यति ।। १,६.३० ।।

दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।
कूटलेख्यं तु तत्प्राह लेखको वापि तादृशः ।। १,६.३१ ।।

यदुज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।
भग्नं म्लिष्ताक्षरयुतं लेख्यं कूटत्वं आप्नुयात् ।। १,६.३२ ।।

दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।
तथा लेख्यसबिम्बानि कुर्वन्ति कुशला जनाः ।। १,६.३३ ।।

तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् ।
एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ।। १,६.३४ ।।

विमृश्य ब्राह्मणैः सार्धं वक्तृदोषं निरूपयेत् ।। १,६.३५ ।।

येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ।। १,६.३६ ।।

दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते ।
पत्रस्थैः साक्षिभिर्वाचा लेखकस्य मतेन च ।। १,६.३७ ।।

स्थानभ्रष्टास्त्वकान्तिस्थाः संदिग्धा लक्षणच्युताः ।
यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ।। १,६.३८ ।।

उद्धरेल्लेख्यं आहर्ता तत्पुत्रो भुक्तिं एव तु ।
अभियुक्तः प्रमीतश्चेत्तत्पुत्रस्तत्समुद्धरेत् ।। १,६.३९ ।।

ज्ञात्वा कार्यं देशकाल कुशलाः कूटकारकाः ।
कुर्वन्तिसदृशं लेख्यं तद्यत्नेन विचारयेत् ।। १,६.४० ।।

लेख्यं आलेख्यवत्केचिल्लिखन्ति कुशला जनाः ।
तस्मान्न लेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता ।। १,६.४१ ।।

स्त्रीबालार्तान्लिप्यविज्ञान्वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ।। १,६.४२ ।।

त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत्ततः ।। १,६.४३ ।।

उद्यामं उदयादानादाधानं फलसंग्रहात् ।
प्रतियोगिधनाढ्यत्वाज्ज्ञेयं यत्रोपधिः कृतः ।। १,६.४४ ।।

दर्शितं प्रतिकालं यच्छ्रावितं स्मारितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ।। १,६.४५ ।।

वाचकैर्यत्र सामर्थ्यं अक्षराणां विहन्यते ।
क्रियाणां सर्वनाशः स्यादनवस्था च जायते ।। १,६.४६ ।।

लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ।। १,६.४७ ।।

प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
न याचते च ऋणिकं तत्संदेहं अवाप्नुयात् ।। १,६.४८ ।।

कुलश्रेणिगणादीनां यथाकालं प्रदर्शितम् ।
श्रावयेत्स्मारयेच्चैव तथा स्याद्बलवत्तरम् ।। १,६.४९ ।।

यदि लब्धं भवेत्किञ् चित्प्रज्ञप्तिर्वा तथा भवेत् ।
प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः ।। १,६.५० ।।

आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।
शुद्धर्णाशङ्कया तत्र लेख्यं दुर्बलतां इयात् ।। १,६.५१ ।।

उन्मत्तजडबलानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिं आप्नुयात् ।। १,६.५२ ।।

अथ पञ्चत्वं आपन्नो लेखकः साक्षिभिः सह ।
तत्स्वहस्तादिभिस्तेषां विशुध्यते न संशयः ।। १,६.५३ ।।

ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिऋणयः ।। १,६.५४ ।।

लेख्ये संशयं आपन्ने साक्षिलेखककर्तृभिः ।
दुष्टेषु तेषु तद्धस्त कृतपूर्वाक्षरादिभिः ।। १,६.५५ ।।

न जातु हीयते लेख्यं साक्षिभिः शपथेन वा ।
अदर्शनाश्राविताभ्यां हानिं प्राप्नोत्युपेक्षया ।। १,६.५६ ।।

अतः परीक्ष्यं उभयं एतद्राज्ञा विशेषतः ।
एकं एव भवेल्लेख्यं एकस्यार्थस्य सिद्धये ।। १,६.५७ ।।

अनेकेषु तु लेख्येषु दोषं उत्पादयेदपि ।
देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।
कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति ।। १,६.५८ ।।