पीठिका सम्पाद्यताम्

अप्रियोक्तिस्ताडनं च पारुष्यं द्विविधं स्मृतम् ।
एकैकं तु त्रिधा भिन्नं दमश्चोक्तस्त्रिलक्षणः ।। १,२०.१ ।।

वाक्पारुष्ये त्रैविधम् सम्पाद्यताम्

देशधर्मकुलादीनां क्षेपः पापेन योजनम् ।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते ।। १,२०.२ ।।

भगिनीभ्रातृसंबद्धं उपपातकशंसनम् ।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ।। १,२०.३ ।।

अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यं उत्तमं प्रोक्तं तीव्रं अर्माभिपातनम् ।। १,२०.४ ।।

दण्डः सम्पाद्यताम्

समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।
विनयोऽभिहितः शास्त्रे पणस्त्वर्धत्रयोदशः ।। १,२०.५ ।।

दण्डः काणखञ्जादीनां तथाविधानपि कार्षापणद्वयम् ।। १,२०.६ ।।

सवर्णाक्रोशने सार्धद्वादशपणो दण्डः ।
हीनवर्णे काकिण्यधिकषट्पणो दण्डः ।। १,२०.७ ।।

[काणखञ्जादीनां तथा]
समानयोः समो दण्डो न्यूनस्य द्विगुणस्तु सः ।
उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परम् ।। १,२०.८ ।।

क्षिपन्स्वस्रादिकं दद्यात्पञ्चाशत्पणिकं दमम् ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ।। १,२०.९ ।।

पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ।
वचनात्तुल्यदोषः स्यात्.... .... ।। १,२०.१० ।।

वर्णभेदेन दण्डभेदः सम्पाद्यताम्

धर्मोपदेशं धर्मेण विप्राणां अस्य कुर्वतः ।
तप्तं आसिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ।। १,२०.११ ।।

विप्रे शतार्धं दण्डस्तु क्षत्रियस्याभिशंसने ।
विशस्तथार्धपञ्चाशच् छूद्रस्यार्धत्रयोदश ।। १,२०.१२ ।।

सच्छूद्रस्यायं उद्दिष्टो विनयोऽनपराधिनः ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ।। १,२०.१३ ।।

वैश्यस्य क्षत्रियाक्रोशे दण्डनीयः प्रदो भवेत् ।
तदर्धं क्षत्रियो वैश्यं क्षिपन्विनयं अर्हति ।। १,२०.१४ ।।

शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।
बृहत्वे द्विगुणं तत्र शास्त्रविद्भिरुदाहृतम् ।। १,२०.१५ ।।

वैश्यं आक्षारयञ् शूद्रो दाप्यः स्यात्प्रथमं दमम् ।
क्षत्रियं मध्यमं चैव विप्रं उत्तमसाहसम् ।। १,२०.१६ ।।

देशादिकं क्षिपन्दाप्यः पणानर्धत्रयोदश ।
पापेन योजयन्दर्पाद्दाप्यः प्रथमसाहसम् ।। १,२०.१७ ।।

धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।
आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ।। १,२०.१८ ।।

एष दण्डः समाख्यातः पुरुषापेक्षया मया ।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः ।। १,२०.१९ ।।