बृहस्पतिस्मृतिः/संभूयसमुत्थानम्

संभूयकरणेऽधिकारिणः

सम्पाद्यताम्

कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात्सह क्रियाः ।। १,१३.१ ।।

समोऽतिरिक्तो जीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ।। १,१३.२ ।।

अनधिकारिणः

सम्पाद्यताम्

अशक्तालसरोगार्त मन्दभाग्यनिराश्रयैः ।
वणिज्याद्याः सहैतैस्तु न कर्तव्या बुधैः क्रियाः ।। १,१३.३ ।।

द्रव्यानुगुण्येन लाभः

सम्पाद्यताम्

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ।। १,१३.४ ।।

समो न्यूनोऽधिको वांशो येन क्षिप्तस्तथैव सः ।
व्ययं दद्यात्कर्म कुर्याल्लाभं गृह्णीत चैव हि ।। १,१३.५ ।।

तेषु वादे निर्णयः

सम्पाद्यताम्

परीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम् ।
संदिग्धेऽर्थेऽवञ्चनायां न चेद्द्विद्वेषसंयुताः ।। १,१३.६ ।।

यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात्सर्ववादे त्वयं विधिः ।। १,१३.७ ।।

द्रव्यहानौ निर्णयः

सम्पाद्यताम्

क्षयहानिर्यदा तत्र दैवराजकृताद्भवेत् ।
सर्वेषां एव सा प्रोक्ता कल्पनीया तथांशतः ।। १,१३.८ ।।

अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् ।
तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ।। १,१३.९ ।।

राज्ञे दत्त्वा तु षड्भागं लभेरंस्ते यतांशतः ।। १,१३.१० ।।

रक्षितुः दशमांशम्

सम्पाद्यताम्

दैवराजभयादस्तु स्वशक्त्या परिपालयेत् ।
तस्य अंशं दशमं दत्त्वा गृह्नीयुस्तेऽंशतोऽपरम् ।। १,१३.११ ।।

शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोचितम् ।
न तद्व्यभिचरेत्राज्ञां बलिरेष प्रकीर्तितः ।। १,१३.१२ ।।

नैवं तस्करराजाग्नि व्यसने समुपस्थिते ।
यस्तु स्वशक्त्या रक्षेत्तु तस्यांशो दशमः स्मृतः ।। १,१३.१३ ।।

संभूयकर्मकुर्वतां एकस्य हानौ निर्णयः

सम्पाद्यताम्

यदा तत्र वणिक्कश्चित्प्रमीयेत प्रमादतः ।
तस्य भाण्डं दर्शनीयं नियुक्तैः राजपुरुषैः ।। १,१३.१४ ।।

यदा कश्चित्समागच्छेत्तदा रिक्थहरो नरः ।
स्वाम्यं विभावयेदन्यैः स तदा लब्धुं अर्हति ।। १,१३.१५ ।।

राजाददीत षड्भागं नवमं दशमं तथा ।
शूद्रविष्क्षत्रजातीनां विप्राद्गृह्णीत विंशकम् ।। १,१३.१६ ।।

त्र्यब्दादूर्ध्वं तु नागच्छेद्यत्र स्वामी कथंचन ।
तदा गृह्णीत तद्राजा ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ।। १,१३.१७ ।।

एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वेषां सहकारिभिः ।। १,१३.१८ ।।

रथं हरेद्यथाध्वर्युर्ब्रह्माधाने च वाजिनम् ।
होता निविद्वरं चाश्वं उद्गाता चाप्यनः क्रये ।। १,१३.१९ ।।

सर्वेषां अर्धिनो मुख्यास्तदर्धेनाधिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ।। १,१३.२० ।।

आगन्तुकाः क्रमायातास्तथा चैव स्वयंकृताः ।
त्रिविधास्ते समाख्याता वर्तितव्यं तथैव तैः ।। १,१३.२१ ।।

संभूयकर्मप्रकारः

सम्पाद्यताम्

बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
करणं कारयेद्वापि सर्वैरेव कृतं भवेत् ।। १,१३.२२ ।।

ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ।। १,१३.२३ ।।

स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि ।
देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ।। १,१३.२४ ।।

समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल्लाभात्स परिहीयते ।। १,१३.२५ ।।

संभूय कृषिकर्म

सम्पाद्यताम्

श्रूयतां कर्षकादीनां विधानं इदं उच्यते ।। १,१३.२६ ।।

वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च ।
ये समाः स्युस्तु तैः सार्धं कृषिः कार्या विजानता ।। १,१३.२७ ।।

बाह्यबीजात्ययाद्यत्र क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ।। १,१३.२८ ।।

पर्वते नगराभ्यासे तथा राजपथस्य च ।
उषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ।। १,१३.२९ ।।

गर्तानूपं सुसेकं च समन्तात्क्षेत्रसंयुतम् ।
प्रकृष्टं च कृतं काले वापयन्फलं अश्नुते ।। १,१३.३० ।।

कृशातिवृद्धं क्षूद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जं विनादद्यात्बाह्यं प्राज्ञः कृषीवलः ।। १,१३.३१ ।।

एष धर्मः समाख्यातः कीनाशानां पुरातनः ।। १,१३.३२ ।।

हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ।। १,१३.३३ ।।

हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।
कर्मानुरूपं निर्वेश लभेरंस्ते यथांशतः ।। १,१३.३४ ।।

शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्लभेयुस्ते यथोत्तरम् ।। १,१३.३५ ।।

हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशं अर्हति ।। १,१३.३६ ।।

नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभतेऽध्यर्धं गायनास्तु समांशिनः ।। १,१३.३७ ।।

चोराणां लाभविभागः

सम्पाद्यताम्

स्वाम्याज्ञया तु यश्चौरैः परदेशात्समाहृतम् ।
राज्ञे दत्त्वा तु षड्भागं भजेयुस्ते यथांशतः ।। १,१३.३८ ।।

चतुरोऽंशांस्ततो मुख्यः शूरस्त्र्यंशं समाप्नुयात् ।
समर्थस्तु हरेद्द्व्यंशं शेषाः सर्वे समांशिनः ।। १,१३.३९ ।।