अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः ।
प्रहरन्ते कृतपणास्तं वदन्ति समाह्वयम् ।। १,२८.१ ।।

द्वन्द्वयुद्धेन यः कश्चिदवसादं अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ।। १,२८.२ ।।