प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधा स्मृताः ।
प्रज्ञासामर्थ्यं आयाभिः प्रभिन्नास्ते सहस्रधा ।। १,२२.१ ।।

प्रकाशाप्रकाशतस्कराः

सम्पाद्यताम्

नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ।। १,२२.२ ।।

अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशतस्करा ह्येते तथा कुहकजीविनः ।। १,२२.३ ।।

सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः ।
उत्क्षेपकाः सस्यहराः ज्ञेयाः प्रच्छन्नतस्कराः ।। १,२२.४ ।।

तेषां दण्डः

सम्पाद्यताम्

संसर्गचिह्नरूपैश्च विज्ञाता राजपूरुषैः ।
प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ।। १,२२.५ ।।

उत्क्षेपकस्तु संदंशैर्भेत्तव्यो राजपूरुषैः ।
धान्यहर्ता दशगुणं दाप्यः स्याद्द्विगुणं दमम् ।। १,२२.६ ।।

एकस्मिन्यत्र निधनं प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ।। १,२२.७ ।।

तथा पान्थं उषो वृक्षे गले बध्वावलम्बयेत् ।। १,२२.८ ।।

अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधं अर्हति ।। १,२२.९ ।।

अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् ।। १,२२.१० ।।

ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।। १,२२.११ ।।

कूटाक्षदेविनः क्षुद्रा राजभार्याहराश्च ये ।
गणका वञ्चकाश्चैव दण्ड्यास्ते कितवा स्मृताः ।। १,२२.१२ ।।

प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी ।
पण्ये तद्द्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ।। १,२२.१३ ।।

अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ।। १,२२.१४ ।।

ज्योतिर्ज्ञानं तथोत्पातं अविदित्वा तु ये नृणाम् ।
श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ।। १,२२.१५ ।।

दण्डाजिनादिभिर्युक्तं आत्मानं दर्शयन्ति ये ।
हिंसन्तश्च्छद्मना नृणां वध्यास्ते राजपूरुषैः ।। १,२२.१६ ।।

अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान्वञ्चयन्ति दण्ड्यास्तेऽर्थानुरूपतः ।। १,२२.१७ ।।

हेममुक्ताप्रबालाद्यं कृत्रिमं कुर्वते तु ये ।
क्रेत्रे मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दमम् ।। १,२२.१८ ।।

मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा ।
साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणं दमम् ।। १,२२.१९ ।।

मन्त्रौषधिबलात्किंचित्संभ्रान्तिं दर्शयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा ।। १,२२.२० ।।

सन्धिच्छेदो हृतं त्याज्याः शूलं आरोपयेत्ततः ।
तथा पान्थं उषो वृक्षे गले बद्ध्वावलम्बयेत् ।। १,२२.२१ ।।


मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटाग्निना ।
गोहर्तुर्नासिकां छिन्द्यात्बध्वा वाम्भसि मज्जयेत् ।। १,२२.२२ ।।

धान्यं दशभ्यः कुम्भेभ्यो हरणेऽभ्यधिकं वधः ।
शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ।। १,२२.२३ ।।

धान्यहारी दशगुणं दाप्यस्तद्द्विगुणं दमम् ।। १,२२.२४ ।।

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छ्य तु गृह्णानो हस्तच्छेदनं अर्हति ।। १,२२.२५ ।।

वृत्तस्वाध्यायवान्स्तेयी बन्धने क्लेश्यते चिरम् ।
स्वामिने तद्धनं दाप्यः प्रायश्चित्तं न कार्यते ।। १,२२.२६ ।।