बृहस्पतिस्मृतिः/स्त्रीसंग्रहणम्
स्त्रीसंग्रहणम्
सम्पाद्यताम्पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।। १,२४.१ ।।
बलोपाधिकृते द्वे तु तृतीयं अनुरागजम् ।
तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।। १,२४.२ ।।
अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ।। १,२४.३ ।।
छद्मना गृहं आनीय दत्त्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यास्तदुपाधिकृतं विदुः ।। १,२४.४ ।।
अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ।। १,२४.५ ।।
तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।
स्पर्शो भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ।। १,२४.६ ।।
प्रेषणं गन्धमाल्यानां धूपं अध्वन्नवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ।। १,२४.७ ।।
एकशाय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।
एतत्संग्रहणं प्रोक्तं उत्तमं शास्त्रवेदिभिः ।। १,२४.८ ।।
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ।। १,२४.९ ।।
प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ।। १,२४.१० ।।
त्रयाणां अपि चैतेषां प्रथमो मध्य उत्तमः ।
विनयः कल्पनीयः स्यादधिको द्रविणाधिके ।। १,२४.११ ।।
परपत्न्या तु पुरुषः संभाषां योजयन्रहः ।
पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ।। १,२४.१२ ।।
सहमायः कामयते धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु ।। १,२४.१३ ।।
छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्गेन पुरान्निर्वासयेत्ततः ।। १,२४.१४ ।।
दमो नेयः सभायां यो हीनायां अधिकस्ततः ।
पुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ।। १,२४.१५ ।।
गृहं आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ।। १,२४.१६ ।।
छिन्ननासौष्ठकर्णानां परिभ्राम्याप्सु मज्जयेत् ।
खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ।। १,२४.१७ ।।
अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे ।
मलिनाङ्गीं अधः शय्यां पिण्डमात्रोपजीविनीम् ।। १,२४.१८ ।।
कारयेन्निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ।। १,२४.१९ ।।