धर्मप्रधानाः पुरुषाः पूर्वं आसन्नहिंसकाः ।
लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ।। १,१.१ ।।

प्रयच्छेच्चेद्भृतिं स्वामी भृत्यानां कर्म कुर्वताम् ।
न कुर्वन्ति च भृत्याश्चेत्तत्र वादः प्रवर्तते ।। १,१.२ ।।

हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति ।
द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ।। १,१.३ ।।

यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते ।
तन्मूल्यं उत्तमर्णेन व्यवहार इति स्मृतः ।। १,१.४ ।।

गुणधर्मानतो राज्ञः कथयाम्यनुपूर्वशः ।
धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ।। १,१.५ ।।

विचारयति यः सम्यक्तस्योत्पत्तिं निबोधत ।
सोमाग्न्यर्कानिलेन्द्राणां वित्तापत्त्योर्यमस्य च ।। १,१.६ ।।

तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर्हि निर्मिता ।
तस्य सवाणि भूतानि चराणि स्थावराणि च ।। १,१.७ ।।

भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ।
नाराजके कृषिवणिक् कुसीदपरिपालनम् ।। १,१.८ ।।

तस्माद्वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा ।

व्यवहारपदानि

सम्पाद्यताम्

द्विपदो व्यवहारः स्यात्धनहिंसासमुद्भवः ।। १,१.९ ।।

द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः ।
पारुष्ये द्वे वधश्चैव परस्त्रीसंग्रहस्तथा ।। १,१.१० ।।

कुसीदनिधिदेयाद्यं संभूयोत्थानं एव च ।
भृत्यदानं अशुश्रूषा भूवादोऽस्वामिविक्रियः ।। १,१.११ ।।

क्रयविक्रयानुशयः समयातिक्रमस्तथा ।
स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ।। १,१.१२ ।।

एतान्यर्थसमुत्थानि पदानि तु चतुर्दश ।
पुनरेवं प्रभिन्नानि क्रियाभेदादनेकदहा ।। १,१.१३ ।।

पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा ।
हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ।। १,१.१४ ।।

हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् ।
विशेष एषां निर्दिष्टश्चतुर्णां अप्य् अनुक्रमात् ।। १,१.१५ ।।

पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ।। १,१.१६ ।।

पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा ।
क्रियापादस्तथा वाच्यश्चतुर्थो निर्णयस्तथा ।। १,१.१७ ।।

धर्मादिचतुष्टयबलाबलम्

सम्पाद्यताम्

धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ।। १,१.१८ ।।

शास्त्रं केवलं आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस्तेनापि वर्धते ।। १,१.१९ ।।

देशस्थित्यानुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते ।। १,१.२० ।।

विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः ।
निर्णयं सा तु राजाज्ञा चरितं बाध्यते तया ।। १,१.२१ ।।

धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः ।
व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च ।
क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः ।। १,१.२२ ।।

धर्माधिकरणम्

सम्पाद्यताम्

सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् ।
चतुर्दशकं एवेदं मण्डलं परिचक्षते ।। १,१.२३ ।।

चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् ।
अमात्यादिभिरेते च जगत्यक्षरसंहिताः ।। १,१.२४ ।।

प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून्ज्योतिर्विदो वैद्यान्देवान्विप्रान्पुरोहितान् ।। १,१.२५ ।।

यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिनन्द्य च गुर्वादीन्सुमुखः प्रविशेत्सभाम् ।। १,१.२६ ।।

राजा कार्याणि संपश्येत्सद्भिरेव त्रिभिर्वृतः ।
सभां एव प्रविश्याग्र्यां आसीनः स्थित एव वा ।। १,१.२७ ।।

दुर्गलक्षणम्

सम्पाद्यताम्

आत्मदारार्थलोकानां संचितानां तु गुप्तये ।
नृपतिः कारयेद्दुर्गं प्राकारद्वयसंयुतम् ।। १,१.२८ ।।

भूपानां इन्धनरसैर्वेत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश्च विविधैः स्निग्धैः शूरैर्नरैर्युतम् ।। १,१.२९ ।।

वेदविद्याविदो विप्रान्क्षत्रियानग्निहोत्रिणः ।
आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ।। १,१.३० ।।

अनाच्छेद्याः करास्तेभ्यः प्रदेया गृहभूमयः ।
मुक्ता भाव्याश्च नृपतेर्लेखयित्वा स्वशासने ।। १,१.३१ ।।

नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस्ते संदिग्धविनयं तथा ।। १,१.३२ ।।

समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा ।
शालाट्टपरिखाद्याश्च कर्तव्याश्च तथाविधाः ।। १,१.३३ ।।

समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः ।
द्विजवैश्यवणिच्छिल्पि कारुका रक्षकास्तथा ।। १,१.३४ ।।

शलावस्थाननिष्काश भ्रमश्वभ्रचतुष्पथान् ।
समाजविक्रयस्थान गोव्रजांश्चैव कल्पयेत् ।। १,१.३५ ।।

गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि ।
कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ।। १,१.३६ ।।

तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।
अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ।। १,१.३७ ।।

प्रजापालनलक्षणम्

सम्पाद्यताम्

सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः ।
कण्टकोद्धरणे नित्यं आतिष्ठेद्बलं उत्तमम् ।। १,१.३८ ।।

तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।
परचक्राच्चौरभयाद्बलिनोऽन्यायवर्तिनः ।। १,१.३९ ।।

परानीकस्तेनभयं उपायैः शमयेन्नृपः ।
बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ।। १,१.४० ।।

यदधीते यद्यजते यज्जुहोति यदर्चति ।
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ।। १,१.४१ ।।

रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ।। १,१.४२ ।।

दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् ।
खिलाद्वर्षावसन्ताच्च कृष्यमाणाद्यथाक्रमम् ।। १,१.४३ ।।

देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् ।
एष धर्मः समाख्यातः कीनाशानां पुरातनः ।। १,१.४४ ।।

सभानिवेशनप्रकारः

सम्पाद्यताम्

औदकं पार्वतं वार्क्ष्यं ऐरणं धान्वनं तथा ।
दुर्गमध्ये गृहं कुर्याज्जलवृक्षावृतं पृथक् ।। १,१.४५ ।।

प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् ।
माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ।। १,१.४६ ।।

प्रतिमालेख्यदेवैश्च युक्तां अग्न्यम्बुना तथा ।
लक्षण्यां वास्तुशास्त्रोक्त लक्षणेन तु लक्षिताम् ।। १,१.४७ ।।

भद्रासनं अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनं आरभेत् ।। १,१.४८ ।।

विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः ।
सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ।। १,१.४९ ।।

यशो वित्तं फलरसो भोगोपग्रहपूजनम् ।
अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ।। १,१.५० ।।

वोदोत्वैतान्न्यायरसान्समो भूत्वा विवादनम् ।
त्यक्तलोभादिकं राजा धर्मं कुर्याद्विनिर्णयम् ।। १,१.५१ ।।

राजा वृत्तिविवादानां स्वयं एव प्रदर्शनम् ।
शास्त्रदृष्टेन मार्गेण स विद्वद्भिः प्रसेव्यते ।। १,१.५२ ।।

तस्मान्न्यायेन राजा तु सम्यग्यत्नेन पालयेत् ।
तस्मादर्थं च राज्यं च [यशश्च] विपुलं लभेत् ।। १,१.५३ ।।

सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ।। १,१.५४ ।।

पश्वाज्य्यर्त्विगादीनां संयोगाज्जायतेऽध्वरः ।
यथा संबध्यते तेन व्यवहारस्तथोच्यते ।। १,१.५५ ।।

प्राड्विवाकसदस्यानां उपजीव्य मतानि तु ।
तद्युक्तियोगाद्योऽर्थेषु निर्णये न स दण्डभाक् ।। १,१.५६ ।।

सभाप्रभेदाः

सम्पाद्यताम्

प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधाः ।। १,१.५७ ।।

प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिता अध्यक्षसंयुक्ता राजयुक्ता च शासिता ।। १,१.५८ ।।

न्यायान्पश्येत्कृतमतिः सा सभाध्वरसंमिता ।

लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ।। १,१.५९ ।।

कुर्यादलग्नकौ रक्षेदर्थिप्रथ्यर्थिनौ सदा ।
एतद्दशाङ्गं करणं यस्यां अध्यास्त पार्थिवः ।। १,१.६० ।।

द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ।। १,१.६१ ।।

साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।
अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ।। १,१.६२ ।।

सप्त पञ्च त्रयो वा सभासदो भवन्ति ।। १,१.६३ ।।
देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।

उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ।। १,१.६४ ।।
राजा कार्याणि संपश्येत्प्राड्विवाकोऽथ वा द्विजः ।

न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ।। १,१.६५ ।।
बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः ।

दीप्यमानः स्ववपुषा तेन राजाभिधीयते ।। १,१.६६ ।।
एकस्त्वनेकधा प्रोक्तो व्यवहारो मनीषिभिः ।

तस्य निर्णयकृद्राजा ब्राह्मणश्च बहुश्रुतः ।। १,१.६७ ।।
व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति श्रुतिः ।

विवदेत्तत्र यस्तस्मिन्प्राड्विवाकस्तु स स्मृतः ।। १,१.६८ ।।
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।

प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ।। १,१.६९ ।।
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।

ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ।। १,१.७० ।।
सर्वशास्त्रार्थवेत्तारं अलुब्धं न्यायभाषिणम् ।

विप्रं प्राज्ञं क्रमायातं अमात्यं स्थापयेद्द्विजम् ।। १,१.७१ ।।
द्विजान्विहाय यः पश्येत्कार्याणि वृषलैः सह ।

तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ।। १,१.७२ ।।
ये चारण्यचरास्तेषां अरण्ये करणं भवेत् ।

सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ।। १,१.७३ ।।
कीनाशाः कारुका मल्लाः कुसीदश्रेणिवर्तकाः ।

लिङ्गिनस्तस्कराश्चैव स्वेन धर्मेण निर्णयः ।। १,१.७४ ।।
कुलानि श्रेणयश्चैव गणास्त्वधिकृतो नृपः ।

प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ।। १,१.७५ ।।
तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।

मायायोगविदां चैव न स्वयं कोपकारणात् ।। १,१.७६ ।।
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।

अयशो महदाप्नोति नरकं चैव गच्छति ।। १,१.७७ ।।
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुरोऽपि वा ।

नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ।। १,१.७८ ।।
यत्र विप्रो न विद्वान्स्यात्क्षत्रियं तत्र योजयेत् ।

वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।। १,१.७९ ।।
धर्मकर्मविहीनस्तु ब्राह्मैर्लिङ्गैर्विवर्जितः ।

ब्रवीति ब्राह्मणोऽस्मीति तं आहुर्ब्राह्मणब्रुवम् ।। १,१.८० ।।
शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।

नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ।। १,१.८१ ।।
अकारणे रक्षणे च साक्ष्यर्थिप्रवादिनाम् ।

सभ्याधीनः सत्यवादी कर्तव्यस्तु स पूरुषः ।। १,१.८२ ।।
एतद्दशाङ्गकरणं यस्यां अध्यास्य पार्थिवः ।

न्य्हायं पश्येत्कृतमतिः सा सभाध्वरसंमिता ।। १,१.८३ ।।
एषां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः ।

बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ।। १,१.८४ ।।
हेमाग्न्यम्बुदृशौ हृच्च पादौ स्वपुरुषस्तथा ।। १,१.८५ ।।

हिरण्यं अग्निं उदकं धर्मशास्त्राणि चैव हि ।
तन्मध्ये स्थापयेद्राजा पुण्यानि च हितानि च ।। १,१.८६ ।।

आदित्यचन्द्रदेवादि दिक्पालान्तत्र कल्पयेत् ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ।। १,१.८७ ।।

दशानां अपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ।। १,१.८८ ।।

स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा ।
शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ।। १,१.८९ ।।

गणको गणयेदर्थं लिखेन्न्यायं च लेखकः ।
पर्त्यर्थिसभ्यानयनं साक्षिणं च स्वपूरुषः ।। १,१.९० ।।

वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ ।
अर्थदण्डवधावुक्तौ राजायतावुभावपि ।। १,१.९१ ।।

राज्ञा ये विदिताः सम्यक्कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ।। १,१.९२ ।।

कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः ।
विचार्य श्रेणिभिः कार्यं कुलैर्यन्न विचारितम् ।। १,१.९३ ।।

गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ।
कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षः स्मृतोऽधिकः ।। १,१.९४ ।।

सर्वेषां अधिको राजा धर्मं यत्नेन निश्चितम् ।
उत्तमाधममध्यानां विवादानां विचारणात् ।। १,१.९५ ।।

उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।
अज्ञानतिमिरोपेतान्संदेहपटलान्वितान् ।। १,१.९६ ।।

निरामयान्यः कुरुते शास्त्राञ्जनशलाकया ।
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ।। १,१.९७ ।।

लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ।। १,१.९८ ।।

अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।
उपेक्षमाणास्ते भूपा नरकं यान्त्यधोमुखाः ।। १,१.९९ ।।

न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः ।। १,१.१०० ।।

सभ्येन तावद्वक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ।। १,१.१०१ ।।

अनिर्णीतेषु यद्येवं संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽपि दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ।। १,१.१०२ ।।

स्नेताच्चाज्ञानतो वापि मोहाद्वा लोभतोऽपि वा ।
यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ।। १,१.१०३ ।।

लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।
प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ।। १,१.१०४ ।।

निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः ।
तेषां नृपः प्रमाण् अं स्यात्स सर्वस्य प्रभुर्यतः ।। १,१.१०५ ।।

व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ।। १,१.१०६ ।।
अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।

विश्वस्ते वञ्चकाश्चैव निर्वास्याः सर्व एव ते ।। १,१.१०७ ।।
नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुं अर्हति ।

यत्तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ।। १,१.१०८ ।।
पूर्वामुखस्तूपविशेद्राजा सभ्या उदङ्मुखाः ।

गणकः पश्चिमा यस्तु लेखको दक्षिणामुखः ।। १,१.१०९ ।।
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।

तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ।। १,१.११० ।।
धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन पार्थिवः ।

समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ।। १,१.१११ ।।
न्यायशास्त्रं अतिक्रम्य सभ्यैरत्र तु निश्चितम् ।

तत्र धर्मो हतो हन्ति सर्वानेव न संशयः ।। १,१.११२ ।।
धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन ।

द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ।। १,१.११३ ।।
केवलं शास्त्रं आश्रित्य न कर्तव्यो विनिर्णयः ।

युक्तिहीने विचारे तु धर्महानिः प्रजायते ।। १,१.११४ ।।
पूर्वाह्णे तां अधिष्ठाय वृद्धामात्यानुजीविभिः ।

पश्येत्पुराणधर्मार्थ शास्त्राणि शृणुयात्तथा ।। १,१.११५ ।।
चौरोऽचौरः साध्वसाधु जायते व्यवहारतः ।

युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ।। १,१.११६ ।।
असत्याः सत्यसदृशाः सत्याश्चासत्यसंनिभाः ।

दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ।। १,१.११७ ।।
यज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः ।

जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ।। १,१.११८ ।।
पूर्वपक्षोत्तरावाद्यं प्रतिज्ञा च हविः स्मृतः ।

त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ।। १,१.११९ ।।
तथा चैवोपदृष्टारौ ज्ञेयौ गणकलेखकौ ।

एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ।। १,१.१२० ।।
स्मृत्याचारव्यपेतेन मार्गेनाधर्षितः परैः ।

आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ।। १,१.१२१ ।।
पतितादिकृतश्चैव यश्च न प्रकृतिं गतः ।

अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ।। १,१.१२२ ।।
मत्तोन्मत्तार्तव्यसनि बालवृद्धप्रयोजितः ।

असंबन्धकृतश्चैव व्यवहारो न सिध्यति ।। १,१.१२३ ।।
गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।

एतेषां समवेतानां व्यवहारो न सिध्यति ।। १,१.१२४ ।।
एवं परीक्षितं सभ्यैः पूर्व्पक्षं तु लेखयेत् ।

अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ।। १,१.१२५ ।।

देशजातिधर्मास्तथैव पालनीयाः

सम्पाद्यताम्

प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
देशजातिकुलादीनां ये धर्मास्तत्प्रवर्तिताः ।। १,१.१२६ ।।

तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा ।
जनापरक्तिर्भवति बलं कोशश्च नश्यति ।। १,१.१२७ ।।

उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ।। १,१.१२८ ।।

मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ।। १,१.१२९ ।।

सहजाताः प्रगृह्णन्ति भ्रातृभार्यां अभर्तृकाम् ।
अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ।। १,१.१३० ।।

विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् ।
भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ।। १,१.१३१ ।।

[प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम्] ।
शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ।। १,१.१३२ ।।

तां दृष्ट्वा निर्णयं कुर्यात्प्राङ्निविष्टव्यवस्थया ।
सभा शुल्कोचितदमे मासषाण्मासिके करे ।। १,१.१३३ ।।

मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ।
अर्थिनश्च वचः कार्यं वचः प्रत्यर्थिनस्तथा ।

परीक्ष्य पदं आदद्यादन्यथा नरकं व्रजेत् ।। १,१.१३४ ।।
एकस्य बहुभिः सर्धं स्त्रीभिः प्रेक्षकरैस्तथा ।

अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ।। १,१.१३५ ।।

अनासेध्याः

सम्पाद्यताम्

सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तो वृद्धोऽनुयुक्तश्च नृपकार्योद्यतो व्रती ।। १,१.१३६ ।।

आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे ।
विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ।। १,१.१३७ ।।

अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ।। १,१.१३८ ।।

वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवलः ।
सत्रोद्यताश्चैव तथा दापनीयाः कृतक्रियाः ।। १,१.१३९ ।।

मतिर्नोत्सहते यत्र विवादं कर्तुं इच्छते ।
दातव्यस्तस्य कालः स्यादर्थिप्रत्यर्थिनोरपि ।। १,१.१४० ।।

यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।
तं एवानाययेद्राजा सुद्रया पुरुषेण वा ।। १,१.१४१ ।।

अप्रगल्भजडोन्मात वृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद्बन्धुर्नियुक्तोऽन्योऽथ वा नरः ।। १,१.१४२ ।।

ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तिनौ ।
यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ।। १,१.१४३ ।।

आहूतो यस्तु नागच्छेद्दर्पाद्बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ।। १,१.१४४ ।।

काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ।। १,१.१४५ ।।

एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैः ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ।। १,१.१४६ ।।

मुद्रां दद्याद्यथा पत्रं पुरुषं वा समादिशेत् ।
आहूतस्त्व् अवमन्येत यः शक्तो राजशासनम् ।

अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ।। १,१.१४७ ।।
अकल्पबालस्थविर विषमस्थक्रियाकुलान् ।

हीने कर्मणि पञ्चाशन्मध्यमेषु शतावरः ।
गुरुकार्येषु दण्ड्यः स्यात्न्नित्यं पञ्चशतावरः ।। १,१.१४८ ।।

परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ।। १,१.१४९ ।।

कार्यातिपातिव्यसनि नृपकार्योत्सवाकुलान् ।। १,१.१५० ।।
द्जर्मोद्यतानभ्युदये पराधीनशठाकृतीन् ।

मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ।। १,१.१५१ ।।
न च भ्राता न च पिता न पुत्रो न नियोगकृत् ।

परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ।। १,१.१५२ ।।
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।

सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ।। १,१.१५३ ।।
कालं देशञ् च [?] विज्ञाय कार्याणां च बलावलम् ।

अकल्पादीनपि शनैर्यानैराह्वापयेन्नृपः ।। १,१.१५४ ।।
तदधीनकुटुम्बिव्यः स्वैरिण्यो गणिकाश्च याः ।

निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ।। १,१.१५५ ।।
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ।। १,१.१५६ ।।

ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः ।
तानप्याह्वापयेत्राजा गुरुकार्येष्वकोपयन् ।। १,१.१५७ ।।

वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ।। १,१.१५८ ।।

स्थानासेधः काल्कृतः प्रवासात्कर्मणस्तथा ।
चतुर्विधः स्यादासेधः आसिद्धस्तं न लङ्घयेत् ।। १,१.१५९ ।।

क्षेत्रारामगृहादीनि धनधान्यादिकं तथा ।
अन्यायवादिनां त्वेतान्यासेधव्यानि वादिनाम् ।। १,१.१६० ।।

आसेद्धा तु स्वं आसेधं स्वयं एवोत्सृजेद्यदि ।
न तस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् ।। १,१.१६१ ।।

राज्ञे निवेदनादूर्ध्वं आसेद्धा नोत्सृजेद्स्वयम् ।
उत्सृजेच्चेद्दमो दाप्य आसिद्धश्च न लङ्घयेत् ।। १,१.१६२ ।।

नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।
आसिद्धस्तु परासेधं उत्क्रामन्नापराध्नुयात् ।। १,१.१६३ ।।

निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।
अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ।। १,१.१६४ब् ।।

गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ।। १,१.१६५ ।।

वृक्षं पर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ।। १,१.१६६ ।।

यस्त्विन्द्रियनिरोधेनाप्याहारोच्छ्वसनादिभिः ।
आसेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमी ।। १,१.१६७ ।।

आसेधयोग्य आसेधं उत्क्रामन्दण्डं अर्हति ।
आसेधयंस्तु नासेध्यं राज्ञा शास्य इति स्थितिः ।। १,१.१६८ ।।

आगतानां विवदतां असकृद्वादिनां नृपः ।
वादान्पश्येन्नात्मकृतान्न चाध्यक्षनिवेदितान् ।। १,१.१६९ ।।

वादिप्रतिवादिनोरुक्तिक्रमः

सम्पाद्यताम्

पीडितः स्वयं आयातः शस्त्रेणार्थी यदा भवेत् ।
प्राड्विवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ।। १,१.१७० ।।

योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते ।
वचनं तस्य न ग्राह्यं लिखितप्रेषितादृते ।। १,१.१७१ ।।

अहं पूर्विकया यातावर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडां अवेक्ष्य वा ।। १,१.१७२ ।।

उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिवृद्धबालश्च विज्ञेयास्तु निरुत्तराः ।। १,१.१७३ ।।

पक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा ।
यादृग्वादी यश्च पक्षो ग्राह्यस्तत्कथयाम्यहम् ।। १,१.१७४ ।।

पीडातिशयं आश्रित्य यद्ब्रवीति विवक्षितम् ।
स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ।। १,१.१७५ ।।