बैबल्/इब्रिणः पत्रम्/अध्यायः १
प्रथमोऽध्यायः।
सम्पाद्यताम्१ पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्
२ स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।
३ स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
४ दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।
५ यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया। " पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति। "
६ अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां। "
७ दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥ "
८ किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः।
९ पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥ "
१० पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
११ इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।
१२ सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥ "
१३ अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥ "
१४ ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि? ॥१॥