← अष्टमः परिच्छेदः बोधिचर्यावतारः
नवमः परिच्छेदः
[[लेखकः :|]]
दशमः परिच्छेदः →

इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ ।
तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया ॥ ९.१ ॥


संवृतिः परमार्थश्च सत्यद्वयमिदं मतं ।
बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते ॥ ९.२ ॥


तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा ।
तत्र प्राकृतको लोको योगिलोकेन बाध्यते ॥ ९.३ ॥


बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः ।
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥ ९.४ ॥


लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः ।
न तु मायावदित्यत्र विवादो योगिलोकयोः ॥ ९.५ ॥


प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः ।
अशुच्यादिषु शुच्यादि-प्रसिद्धिरिव सा मृषा ॥ ९.६ ॥


लोकावतारणार्थं च भावा नाथेन देशिताः ।
तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥ ९.७ ॥


न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः ।
अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे ॥ ९.८ ॥


मायोपमाज्जिनात्पुण्यं सद्भावेऽपि कथं यथा ।
यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः ॥ ९.९ ॥


यावत्प्रत्ययसामग्री तावन्मायापि वर्तते ।
दीर्घसंतानमात्रेण कथं सत्त्वोऽस्ति सत्यतः ॥ ९.१० ॥


मायापुरुषघातादौ चित्ताभावान्न पापकं ।
चित्तमायासमेते तु पापपुण्यसमुद्भवः ॥ ९.११ ॥


मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः ।
सापि नानाविधा माया नानाप्रत्ययसंभवा ॥ ९.१२ ॥


नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् ।
निर्वृतः परमार्थेन संवृत्या यदि संसरेत् ॥ ९.१३ ॥


बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया ।
प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि ॥ ९.१४ ॥


प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः ।
यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते ॥ ९.१५ ॥


यदा मायैव ते नास्ति तदा किमुपलभ्यते ।
चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः ॥ ९.१६ ॥


चित्तमेव यदा माया तदा किं केन दृश्यते ।
उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति ॥ ९.१७ ॥


न च्छिनत्ति यथात्मानमसिधारा तथा मनः ।
आत्मभावं यथा दीपः संप्रकाशयतीति चेत् ॥ ९.१८ ॥


नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः ।
न हि स्फटिकवन्नीलं नीलत्वेऽन्यमपेक्षते ॥ ९.१९ ॥


तथा किंचित्परापेक्षमनपेक्षं च दृश्यते ।
अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ ९.२० ॥


नीलमेव हि को नीलं कुर्यादात्मानमात्मना ।
अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ ९.२१ ॥


दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते ।
बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते ॥ ९.२२ ॥


प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् ।
वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा ॥ ९.२३ ॥


यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम् ।
अन्यानुभूते संबन्धात्स्मृतिराखुविषं यथा ॥ ९.२४ ॥


प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते ।
सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् ॥ ९.२५ ॥


यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते ।
सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते ॥ ९.२६ ॥


चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते ।
वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः ॥ ९.२७ ॥


असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः ।
वस्त्वाश्रयश्चेत्संसारः सोऽन्यथाकाशवद्भवेत् ॥ ९.२८ ॥


वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् ।
असत्सहायमेकं हि चित्तमापद्यते तव ॥ ९.२९ ॥


ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः ।
एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते ॥ ९.३० ॥


मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते ।
यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते ॥ ९.३१ ॥


अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना ।
तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥ ९.३२ ॥


शून्यतावासनाधानाद्धीयते भाववासना ।
किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते ॥ ९.३३ ॥


यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते ।
तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः ॥ ९.३४ ॥


यदा न भावो नाभावो मतेः संतिष्ठते पुरः ।
तदान्यगत्यभावेन निरालम्बा प्रशाम्यते ॥ ९.३५ ॥


चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः ।
विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते ॥ ९.३६ ॥


यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति ।
स तस्मिंश्चिरनष्टेऽपि विषादीनुपशामयेत् ॥ ९.३७ ॥


बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः ।
करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते ॥ ९.३८ ॥


अचित्तके कृता पूजा कथं फलवती भवेत् ।
तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च ॥ ९.३९ ॥


आगमाच्च फलं तत्र संवृत्या तत्त्वतोऽपि वा ।
सत्यबुद्धे कृता पूजा सफलेति कथं यथा ॥ ९.४० ॥


सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् ।
न विनानेन मार्गेण बोधिरित्यागमो यतः ॥ ९.४१ ॥


नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः ।
यस्मादुभयसिद्धोऽसौ न सिद्धोऽसौ तवादितः ॥ ९.४२ ॥


यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु ।
अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता ॥ ९.४३ ॥


सविवादं महायानमिति चेदागमं त्यज ।
तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम् ॥ ९.४४ ॥


शासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता ।
सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् ॥ ९.४५ ॥


क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा ।
दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः ॥ ९.४६ ॥


तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते ।
किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत्सती ॥ ९.४७ ॥


वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते ।
सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा ॥ ९.४८ ॥


विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः ।
यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् ॥ ९.४९ ॥


यत्सूत्रेऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते ।
महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् ॥ ९.५० ॥


एकेनागम्यमानेन सकलं यदि दोषवत् ।
एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् ॥ ९.५१ ॥


महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते ।
तत्त्वयानवबुद्धत्वादग्राह्यं कः करिष्यति ॥ ९.५२ ॥


सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः ।
मोहेन दुःखिनामर्थे शून्यताया इदं फलम् ॥ ९.५३ ॥


तदेवं शून्यतापक्षे दूषणं नोपपद्यते ।
तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता ॥ ९.५४ ॥


क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता ।
शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् ॥ ९.५५ ॥


यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम् ।
शून्यता दुःखशमनी ततः किं जायते भयम् ॥ ९.५६ ॥


यतस्ततो वास्तु भयं यद्यहं नाम किंचन ।
अहमेव न किंचिच्चेद्भयं कस्य भविष्यति ॥ ९.५७ ॥


दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् ।
न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा ॥ ९.५८ ॥


नाहं वसा न च स्वेदो न मेदोऽन्त्राणि नाप्यहम् ।
न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च ॥ ९.५९ ॥


नाहं मांसं न च स्नायुर्नोष्मा वायुरहं न च ।
न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा ॥ ९.६० ॥


शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा ।
ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते ॥ ९.६१ ॥


अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते ।
तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः ॥ ९.६२ ॥


तदेव रूपं जानाति तदा किं न शृणोत्यपि ।
शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत् ॥ ९.६३ ॥


शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम् ।
एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः ॥ ९.६४ ॥


सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः ।
शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते ॥ ९.६५ ॥


तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः ।
स एवान्यस्वभावश्चेदपूर्वेयं तदेकता ॥ ९.६६ ॥


अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम् ।
ज्ञानता चेत्ततः सर्व-पुंसामैक्यं प्रसज्यते ॥ ९.६७ ॥


चेतनाचेतने चैक्यं तयोर्येनास्तिता समा ।
विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा ॥ ९.६८ ॥


अचेतनश्च नैवाहमचैतन्यात्पटादिवत् ।
अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते ॥ ९.६९ ॥


अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् ।
अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता ॥ ९.७० ॥


न कर्मफलसंबन्धो युक्तश्चेदात्मना विना ।
कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति ॥ ९.७१ ॥


द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले ।
निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु ॥ ९.७२ ॥


हेतुमान् फलयोगीति दृश्यते नैष संभवः ।
संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् ॥ ९.७३ ॥


अतीतानागतं चित्तं नाहं तद्धि न विद्यते ।
अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः ॥ ९.७४ ॥


यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः ।
तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥ ९.७५ ॥


यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् ।
कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥ ९.७६ ॥


कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः ।
दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते ॥ ९.७७ ॥


दुःखहेतुरहंकार आत्ममोहात्तु वर्धते ।
ततोऽपि न निवर्त्यश्चेत्वरं नैरात्म्यभावना ॥ ९.७८ ॥


कायो न पादौ न जङ्घा नोरू कायः कटिर्न च ।
नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः ॥ ९.७९ ॥


न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः ।
न ग्रीवा न शिरः कायः कायोऽत्र कतरः पुनः ॥ ९.८० ॥


यदि सर्वेषु कायोऽथमेकदेशेन वर्तते ।
अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः ॥ ९.८१ ॥


सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु ।
कायास्तावन्त एव स्युर्यावन्तस्ते करादयः ॥ ९.८२ ॥


नैवान्तर्न बहिः कायः कथं कायः करादिषु ।
करादिभ्यः पृथग्नास्ति कथं नु खलु विद्यते ॥ ९.८३ ॥


तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु ।
संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् ॥ ९.८४ ॥


यावत्प्रत्ययसामग्री तावत्कायः पुमानिव ।
एवं करादौ सा यावत्तावत्कायोऽत्र दृश्यते ॥ ९.८५ ॥


एवमङ्गुलिपुञ्जत्वात्पादोऽपि कतरो भवेत् ।
सोऽपि पर्वसमूहत्वात्पर्वापि स्वांशभेदतः ॥ ९.८६ ॥


अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः ।
दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः ॥ ९.८७ ॥


एवं स्वप्नोपमे रूपे को रज्येत विचारकः ।
कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः ॥ ९.८८ ॥


यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते ।
शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते ॥ ९.८९ ॥


बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते ।
वेदनात्वं कथं तस्य यस्य नानुभवात्मता ॥ ९.९० ॥


अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु ।
तुष्टिमात्राऽपरा चेत्स्यात्तस्मात्साप्यस्य सूक्ष्मता ॥ ९.९१ ॥


विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि ।
कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु ॥ ९.९२ ॥

अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते ।
विकल्पक्षेत्रसंभूत-ध्यानाहारा हि योगिनः ॥ ९.९३ ॥


सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः ।
निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः ॥ ९.९४ ॥


नाणोरणौ प्रवेशोऽस्ति निराकाशः समश्च सः ।
अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः ॥ ९.९५ ॥


निरंशस्य च संसर्गः कथं नामोपपद्यते ।
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥ ९.९६ ॥


विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते ।
समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम् ॥ ९.९७ ॥


तदेवं स्पर्शनाभावे वेदनासंभवः कुतः ।
किमर्थमयमायासः बाधा कस्य कुतो भवेत् ॥ ९.९८ ॥


यदा न वेदकः कश्चिद्वेदना च न विद्यते ।
तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे ॥ ९.९९ ॥


दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना ।
चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते ॥ ९.१०० ॥


पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते ।
स्वात्मानं नानुभवति न चान्येनानुभूयते ॥ ९.१०१ ॥


न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः ।
निरात्मके कलापेऽस्मिन् क एव बाध्यतेऽनया ॥ ९.१०२ ॥


नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् ।
नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते ॥ ९.१०३ ॥


यन्न काये न चान्यत्र न मिश्रं न पृथक्क्वचित् ।
तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः ॥ ९.१०४ ॥


ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः ।
ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः ॥ ९.१०५ ॥


अथ ज्ञेयाद्भवेत्पश्चात्तदा ज्ञानं कुतो भवेत् ।
एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते ॥ ९.१०६ ॥


यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः ।
अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः ॥ ९.१०७ ॥


परचित्तविकल्पोऽसौ स्वसंवृत्या तु नास्ति सः ।
स पश्चान्नियतः सोऽस्ति न चेन्नास्त्येव संवृतिः ॥ ९.१०८ ॥


कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् ।
यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते ॥ ९.१०९ ॥


विचारितेन तु यदा विचारेण विचार्यते ।
तदानवस्था तस्यापि विचारस्य विचारणात् ॥ ९.११० ॥


विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः ।
निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते ॥ ९.१११ ॥


यस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः ।
यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः ॥ ९.११२ ॥


अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः ।
अथान्योन्यवशात्सत्त्वमभावः स्याद्द्वयोरपि ॥ ९.११३ ॥


पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः ।
पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः ॥ ९.११४ ॥


अङ्कुरो जायते बीजाद्बीजं तेनैव सूच्यते ।
ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते ॥ ९.११५ ॥


अङ्कुरादन्यतो ज्ञानाद्बीजमस्तीति गम्यते ।
ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते ॥ ९.११६ ॥


लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते ।
पद्मनालादिभेदो हि हेतुभेदेन जायते ॥ ९.११७ ॥


किंकृतो हेतुभेदश्चेत्पूर्वहेतुप्रभेदतः ।
कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः ॥ ९.११८ ॥


ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः ।
भूतानि चेद्भवत्वेवं नाममात्रेऽपि किं श्रमः ॥ ९.११९ ॥


अपि त्वनेकेऽनित्याश्च निश्चेष्टा न च देवताः ।
लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः ॥ ९.१२० ॥


नाकाशमीशोऽचेष्टत्वात्नात्मा पूर्वनिषेधतः ।
अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते ॥ ९.१२१ ॥


तेन किं स्रष्टुमिष्टं च आत्मा चेत्नन्वसौ ध्रुवः ।
क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च ॥ ९.१२२ ॥


कर्मणः सुखदुःखे च वद किं तेन विर्मितम् ।
हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् ॥ ९.१२३ ॥


कस्मात्सदा न कुरुते न हि सोऽन्यमपेक्षते ।
तेनाकृतोऽन्यो नास्त्येव तेनासौ किमपेक्षताम् ॥ ९.१२४ ॥


अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः ।
नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः ॥ ९.१२५ ॥


करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते ।
इच्छन्नपीच्छायत्तः स्यात्कुर्वतः कुत ईशता ॥ ९.१२६ ॥


येऽपि नित्यानणूनाहुस्तेऽपि पूर्वं निवारिताः ।
सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् ॥ ९.१२७ ॥


सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः ।
प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते ॥ ९.१२८ ॥


एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत् ।
एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा ॥ ९.१२९ ॥


गुणाभावे च शब्दादेरस्तित्वमतिदूरतः ।
अचेतने च वस्त्रादौ सुखादेरप्यसंभवः ॥ ९.१३० ॥


तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः ।
सुखाद्येव च ते हेतुः न च तस्मात्पटादयः ॥ ९.१३१ ॥


पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत् ।
सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते ॥ ९.१३२ ॥


सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते ।
तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् ॥ ९.१३३ ॥


स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते ।
सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते ॥ ९.१३४ ॥


न स्थौल्यं चेत्सुखादन्यत्सुखस्यानित्यता स्फुटम् ।
नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम् ॥ ९.१३५ ॥


व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता ।
अन्नादोऽमेध्यभक्षः स्यात्फलं हेतौ यदि स्थितम् ॥ ९.१३६ ॥


पटार्घेणैव कर्पास-बीजं क्रीत्वा निवस्यताम् ।
मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः ॥ ९.१३७ ॥


लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति ।
लोकाप्रमाणतायां चेत्व्यक्तदर्शनमप्यसत् ॥ ९.१३८ ॥


प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा ।
तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते ॥ ९.१३९ ॥


कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते ।
तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा ॥ ९.१४० ॥


तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना ।
तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा ॥ ९.१४१ ॥


तस्मादेवं विचारेण नास्ति किंचिदहेतुतः ।
न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् ॥ ९.१४२ ॥


अन्यतो नापि चायातं न तिष्ठति न गच्छति ।
मायातः को विशेषोऽस्य यन्मूढैः सत्यतः कृतम् ॥ ९.१४३ ॥


मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् ।
आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् ॥ ९.१४४ ॥


यदन्यसंनिधानेन दृष्टं न तदभावतः ।
प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥ ९.१४५ ॥


विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् ।
अथाप्यविद्यमानोऽसौ हेतुना किं प्रयोजनम् ॥ ९.१४६ ॥


नाभावस्य विकारोऽस्ति हेतुकोटिशतैरपि ।
तदवस्थः कथं भावः को वान्यो भावतां गतः ॥ ९.१४७ ॥


नाभावकाले भावश्चेत्कदा भावो भविष्यति ।
नाजातेन हि भावेन सोऽभावोऽपगमिष्यति ॥ ९.१४८ ॥


न चानपगतेऽभावे भावावसरसंभवः ।
भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः ॥ ९.१४९ ॥


एवं च न विरोधोऽस्ति न च भावोऽस्ति सर्वदा ।
अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् ॥ ९.१५० ॥


स्वप्नोपमास्तु गतयो विचारे कदलीसमाः ।
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥ ९.१५१ ॥


एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् ।
सत्कृतः परिभूतो वा केन कः संभविष्यति ॥ ९.१५२ ॥


कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् ।
का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः ॥ ९.१५३ ॥


विचारे जीवलोकः कः को नामात्र मरिष्यति ।
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥ ९.१५४ ॥


सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः ।
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥ ९.१५५ ॥


शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः ।
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥ ९.१५६ ॥


मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च ।
आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥ ९.१५७ ॥


भवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम् ।
तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् ॥ ९.१५८ ॥


तत्र चानुपमास्तीव्रा अनन्तदुःखसागराः ।
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥ ९.१५९ ॥

तत्रापि जीवितारोग्य-व्यापारैः क्षुत्क्लमश्रमैः ।
निद्रयोपद्रवैर्बाल-संसर्गैर्निष्फलैस्तथा ॥ ९.१६० ॥


वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः ।
तत्राप्यभ्यस्तविक्षेप-निवारणगतिः कुतः ॥ ९.१६१ ॥


तत्रापि मारो यतते महापायप्रपातने ।
तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया ॥ ९.१६२ ॥


पुनश्च क्षणदौर्लम्यं बुद्धोत्पादोऽतिदुर्लभः ।
क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥ ९.१६३ ॥


अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् ।
ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः ॥ ९.१६४ ॥


स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः ।
स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः ॥ ९.१६५ ॥


अजरामरलीलानामेवं विहरतां सताम् ।
आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः ॥ ९.१६६ ॥


एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा ।
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ॥ ९.१६७ ॥


कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् ।
संवृत्यानुपलम्भेन पुण्यसंभारमादरात् ॥ ९.१६८ ॥


बोधिचर्यावतारे प्रज्ञापारमिता नाम नवमः परिच्छेदः ॥