बोधिचर्यावतारः/पञ्चमः परिच्छेदः

← चतुर्थः परिच्छेदः बोधिचर्यावतारः
पञ्चमः परिच्छेदः
[[लेखकः :|]]
षष्ठः परिच्छेदः →

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ ५.१ ॥

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥ ५.२ ॥


बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः ।
भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् ॥ ५.३ ॥


ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ ५.४ ॥


सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्ति च ॥ ५.५ ॥


यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च ।
चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥ ५.६ ॥


शस्त्राणि केन नरके घटितानि प्रयत्नतः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥ ५.७ ॥


पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः ।
तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः ॥ ५.८ ॥


अदरिद्रं जगत्कृत्वा दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ ५.९ ॥


फलेन सह सर्वस्व-त्यागचित्ताज्जनेऽखिले ।
दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु ॥ ५.१० ॥


मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् ।
लब्धे विरतिचित्ते तु शीलपारमिता मता ॥ ५.११ ॥


कियतो मारयिष्यामि दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ ५.१२ ॥


भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ ५.१३ ॥


बाह्या भावा मया तद्वच्छक्या वारयितुं न हि ।
स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥ ५.१४ ॥


सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् ।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥ ५.१५ ॥


जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥ ५.१६ ॥


दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ।
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥ ५.१७ ॥


तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् ।
चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ॥ ५.१८ ॥


यथा चपलमध्यस्थो रक्षति व्रणमादरात् ।
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥ ५.१९ ॥


व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् ।
संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम् ॥ ५.२० ॥


अनेन हि विहारेण विहरन् दुर्जनेष्वपि ।
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्ड्यते ॥ ५.२१ ॥


लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥ ५.२२ ॥


चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः ।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥ ५.२३ ॥


व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु ।
तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु ॥ ५.२४ ॥


असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् ।
सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥ ५.२५ ॥


अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि ।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥ ५.२६ ॥


असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ ५.२७ ॥


क्लेशतस्करसङ्घोऽयमवतारगवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् ॥ ५.२८ ॥


तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् ॥ ५.२९ ॥


उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् ।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः ॥ ५.३० ॥


बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः ।
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥ ५.३१ ॥


इति ध्यात्वा तथा तिष्ठेत्त्रपादरभयान्वितः ।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥ ५.३२ ॥


संप्रजन्यं तदायाति न च यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ ५.३३ ॥


पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् ।
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा ॥ ५.३४ ॥


निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन ।
निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥ ५.३५ ॥


दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन ।
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥ ५.३६ ॥


मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् ।
दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः ॥ ५.३७ ॥


सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च ।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥ ५.३८ ॥


कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः ।
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥ ५.३९ ॥


निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा ।
धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते ॥ ५.४० ॥


कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः ।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥ ५.४१ ॥


भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् ।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥ ५.४२ ॥


यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत् ।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥ ५.४३ ॥


एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् ।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति ॥ ५.४४ ॥


नानाविधप्रलापेषु वर्तमानेष्वनेकधा ।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥ ५.४५ ॥

मृन्मर्दनतृणच्छेद-रेखाद्यफलमागतम् ।
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥ ५.४६ ॥


यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत् ।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥ ५.४७ ॥


अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः ।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥ ५.४८ ॥


उद्धतं सोपहासं वा यदा मानमदान्वितम् ।
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥ ५.४९ ॥


यदात्मोत्कर्षणाभासं परपंसनमेव च ।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥ ५.५० ॥


लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः ।
उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५१ ॥


परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा ।
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५२ ॥


असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा ।
स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५३ ॥


एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः ।
निगृह्णीयाद्दृढं शूरः प्रतिपक्षेण तत्सदा ॥ ५.५४ ॥


सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् ।
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ ५.५५ ॥


परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम् ।
क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम् ॥ ५.५६ ॥


आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु ।
निर्माणमिव निर्मानं धारयाम्येष मानसम् ॥ ५.५७ ॥


चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥ ५.५८ ॥


गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः ।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥ ५.५९ ॥


रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम् ।
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥ ५.६० ॥


न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् ।
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् ॥ ५.६१ ॥


इमं चर्मपुटं तावत्स्वबुद्ध्यैव पृथक्कुरु ।
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥ ५.६२ ॥


अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः ।
किमत्र सारमस्तीति स्वयमेव विचारय ॥ ५.६३ ॥


एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते ।
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि ॥ ५.६४ ॥


न खादितव्यमशुचि त्वया पेयं न शोणितम् ।
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥ ५.६५ ॥


युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम् ।
कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम् ॥ ५.६६ ॥


एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः ।
कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि ॥ ५.६७ ॥


न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते ।
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥ ५.६८ ॥


दत्त्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना ।
नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते ॥ ५.६९ ॥


काये नौबुद्धिमाधाय गत्यागमननिश्चयात् ।
यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये ॥ ५.७० ॥


एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
त्यजेद्भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् ॥ ५.७१ ॥


सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् ।
नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥ ५.७२ ॥


बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् ।
प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत् ॥ ५.७३ ॥


परचोदनदक्षाणामनधीष्टोपकारिणाम् ।
प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥ ५.७४ ॥


सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् ।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥ ५.७५ ॥


परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः ।
स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥ ५.७६ ॥


सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा ।
भोक्ष्ये तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः ॥ ५.७७ ॥


न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम् ।
अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥ ५.७८ ॥


विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् ।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥ ५.७९ ॥


ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव ।
एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥ ५.८० ॥


सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च ।
गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् ॥ ५.८१ ॥


दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् ।
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥ ५.८२ ॥


उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः ।
नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥ ५.८३ ॥


एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः ।
निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥ ५.८४ ॥


विनिपातगतानाथ-ब्रतस्थान् संविभज्य च ।
भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥ ५.८५ ॥


सद्धर्मसेबकं कायमितरार्थे न पीडयेत् ।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥ ५.८६ ॥


त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये ।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥ ५.८७ ॥


धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् ।
सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥ ५.८८ ॥


गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना ।
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥ ५.८९ ॥


नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् ।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥ ५.९० ॥


दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् ।
नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥ ५.९१ ॥


मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् ।
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥ ५.९२ ॥


नैकयाऽन्यस्त्रिया कुर्याद्यानं शयनमासनम् ।
लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥ ५.९३ ॥


नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् ।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥ ५.९४ ॥


न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे ।
अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः ॥ ५.९५ ॥


नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा ।
संप्रजान् ल्लघूत्थानः प्रागवश्यं नियोगतः ॥ ५.९६ ॥


आचारो बोधिसत्त्वानामप्रमेय उदाहृतः ।
चित्तशोधनमाचारं नियतं तावदाचरेत् ॥ ५.९७ ॥


रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् ।
शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥ ५.९८ ॥


या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥ ५.९९ ॥


न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥ ५.१०० ॥


पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् ।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥ ५.१०१ ॥


सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत् ।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥ ५.१०२ ॥


श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् ।
एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥ ५.१०३ ॥


शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् ।
आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् ॥ ५.१०४ ॥


शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः ।
विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः ॥ ५.१०५ ॥


सङ्क्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम् ।
आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः ॥ ५.१०६ ॥


यतो निवार्यते यत्र यदेव च नियुज्यते ।
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ॥ ५.१०७ ॥


एतदेव समासेन संप्रजन्यस्य लक्षणम् ।
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः ॥ ५.१०८ ॥


कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् ।
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति ॥ ५.१०९ ॥


इति बोधिचर्यावतारे संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ॥