बोधिचर्यावतारः/सप्तमः परिच्छेदः

← षष्ठः परिच्छेदः बोधिचर्यावतारः
सप्तमः परिच्छेदः
[[लेखकः :|]]
अष्टमः परिच्छेदः →

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता ।
न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः ॥ ७.१ ॥


किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते ।
आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना ॥ ७.२ ॥


अव्यापारसुखास्वाद-निद्रापाश्रयतृष्णया ।
संसारदुःखानुद्वेगादालस्यमुपजायते ॥ ७.३ ॥


क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् ।
किमद्यापि न जानासि मृत्योर्वदनमागतः ॥ ७.४ ॥


स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि ।
तथापि निद्रां यास्येव चण्डालमहिषो यथा ॥ ७.५ ॥


यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः ।
कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः ॥ ७.६ ॥


यावत्संभृतसंभारं मरणं शीघ्रमेष्यति ।
संत्यज्यापि तदालस्यमकाले किं करिष्यसि ॥ ७.७ ॥


इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम् ।
अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन् ॥ ७.८ ॥


शोकवेगसमुच्छून-साश्रुरक्तेक्षणाननान् ।
बन्धून्निराशान् संपश्यन् यमदूतमुखानि च ॥ ७.९ ॥


स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् ।
त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि ॥ ७.१० ॥


जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते ।
किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः ॥ ७.११ ॥


स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ ७.१२ ॥


निरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ ।
मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे ॥ ७.१३ ॥


मानुष्यं नावमासाद्य तर दुःखमहानदीम् ।
मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः ॥ ७.१४ ॥


मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम् ।
रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव ॥ ७.१५ ॥


अविषादबलव्यूह-तात्पर्यात्मविधेयता ।
परात्मसमता चैव परात्मपरिवर्तनम् ॥ ७.१६ ॥


नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः ।
यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् ॥ ७.१७ ॥


तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा ।
यैरुत्साहवशात्प्राप्ता दुरापा बोधिरुत्तमा ॥ ७.१८ ॥


किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् ।
सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम् ॥ ७.१९ ॥


अथापि हस्तपादादि दातव्यमिति मे भयम् ।
गुरुलाघवमूढत्वं तन्मे स्यादविचारतः ॥ ७.२० ॥


छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः ।
कल्पकोटीरसंख्येया न च बोधिर्भविष्यति ॥ ७.२१ ॥


इदं तु मे परिमितं दुःखं संबोधिसाधनम् ।
नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् ॥ ७.२२ ॥


सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् ।
तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् ॥ ७.२३ ॥


क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् ।
मधुरेणोपचारेण चिकित्सति महातुरान् ॥ ७.२४ ॥


आदौ शाकादिदानेऽपि नियोजयति नायकः ।
तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत् ॥ ७.२५ ॥


यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते ।
मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् ॥ ७.२६ ॥


न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः ।
मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा ॥ ७.२७ ॥


पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि ।
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते ॥ ७.२८ ॥


क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् ।
बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः ॥ ७.२९ ॥


एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः ।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥ ७.३० ॥


छन्दस्थामरतिमुक्ति-बलं सत्त्वार्थसिद्धये ।
छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन् ॥ ७.३१ ॥


एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये ।
छन्दमानरतित्याग-तात्पर्यवशिताबलैः ॥ ७.३२ ॥


अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः ।
एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः ॥ ७.३३ ॥


तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते ।
अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् ॥ ७.३४ ॥


गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः ।
तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा ॥ ७.३५ ॥


गुणलेशेऽपि नाभ्यासो मम जातः कदाचन ।
वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् ॥ ७.३६ ॥


न प्राप्तं भगवत्पूजा-महोत्सवसुखं मया ।
न कृता शासने कारा दरिद्राशा न पूरिता ॥ ७.३७ ॥


भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः ।
दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम् ॥ ७.३८ ॥


धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना ।
विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् ॥ ७.३९ ॥


कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ ।
तस्यापि मूलं सततं विपाकफलभावना ॥ ७.४० ॥


दुःखानि दौर्मनस्यानि भयानि विविधानि च ।
अभिलाषविघाताश्च जायन्ते पापकारिणाम् ॥ ७.४१ ॥


मनोरथः शुभकृतां यत्र यत्रैव गच्छति ।
तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते ॥ ७.४२ ॥


पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति ।
तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते ॥ ७.४३ ॥


विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः ।
मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥ ७.४४ ॥


यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ।
ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥ ७.४५ ॥


तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् ।
वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् ॥ ७.४६ ॥


पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा ।
अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् ॥ ७.४७ ॥


जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं च वर्धते ।
अन्यच्च कार्यकालं च हीनं तच्च न साधितम् ॥ ७.४८ ॥


त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु ।
मयैवैकेन कर्तव्यमित्येषा कर्ममानिता ॥ ७.४९ ॥


क्लेशस्वतन्त्रो लोकोऽयं न क्षमः स्वार्थसाधने ।
तस्मान्मयैषां कर्तव्यं नाशक्तोऽहं यथा जनः ॥ ७.५० ॥


नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति ।
मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम् ॥ ७.५१ ॥


मृतं दुण्डुभमासाद्य काकोऽपि गरुडायते ।
आपदाबाधतेऽल्पापि मनो मे यदि दुर्बलम् ॥ ७.५२ ॥


विषादकृतनिश्चेष्ट आपदः सुकरा ननु ।
व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः ॥ ७.५३ ॥


तस्माद्दृढेन चित्तेन करोम्यापदमापदः ।
त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे ॥ ७.५४ ॥


मया हि सर्वं जेतव्यमहं जेयो न केनचित् ।
मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥ ७.५५ ॥


ये सत्त्वा मानविजिता वराकास्ते न मानिनः ।
मानी शत्रुवशं नैति मानशत्रुवशाश्च ते ॥ ७.५६ ॥


मानेन दुर्गतिं नीता मानुष्येऽपि हतोत्सवाः ।
परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः ॥ ७.५७ ॥


सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ।
तेऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः ॥ ७.५८ ॥


ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ।
ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति ॥ ७.५९ ॥


संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः ।
दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव ॥ ७.६० ॥


महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते ।
एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् ॥ ७.६१ ॥


यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् ।
तत्कर्मशौण्डोऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् ॥ ७.६२ ॥


सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् ।
कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् ॥ ७.६३ ॥


कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः ।
पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥ ७.६४ ॥


तस्मात्कर्मावसानेऽपि निमज्जेत्तत्र कर्मणि ।
यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी ॥ ७.६५ ॥


बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् ।
सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया ॥ ७.६६ ॥


क्लेशप्रहारान् संरक्षेत्क्लेशांश्च प्रहरेद्दृढम् ।
खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह ॥ ७.६७ ॥


तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् ।
स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् ॥ ७.६८ ॥


विषं रुधिरमासाद्य प्रसर्पति यथा तनौ ।
तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति ॥ ७.६९ ॥


तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः ।
स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती ॥ ७.७० ॥


तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् ।
निद्रालस्यागमे तद्वत्प्रतिकुर्वीत सत्वरम् ॥ ७.७१ ॥


एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् ।
कथं करोमि येनेदं पुनर्मे न भवेदिति ॥ ७.७२ ॥


संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना ।
कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति ॥ ७.७३ ॥


लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन् ।
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते ॥ ७.७४ ॥


यथैव तूलकं वायोर्गमनागमने वशम् ।
तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥ ७.७५ ॥


बोधिचर्यावतारे वीर्यपारमिता नाम सप्तमः परिच्छेदः ॥