बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/अष्टमः परिच्छेदः
← सप्तमः परिच्छेदः | बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः) अष्टमः परिच्छेदः प्रज्ञाकरमतिः |
नवमः परिच्छेदः → |
८. ध्यानपारमिता नाम अष्टमः परिच्छेदः ।
तदेवं क्षान्तेरनन्तरं वीर्यमभिधाय यदुक्तम्-
संश्रयेत वनं ततः ।
समाधानाय युज्येत भावयेच्चाशुभादिकम् ॥
[शिक्षा. स. कारिका-२०]
इति, तद्वर्धयित्वैवमित्यादिना प्रतिपादयितुमुपक्रमते-
वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः ।
एवमुक्तप्रतिपक्षस्य आसेवनादिना विपक्षमुन्मूल्य वीर्यं वर्धयित्वा अनाभोगवाहितया स्थिरीकृत्य समाधौ समाधाने चित्तैकाग्रतायां स्थापयेन्मनः, तत्र निवेशयेत् । आरोपयेदिति यावत् । किमर्थमित्याह-
विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥ ब्च_८.१ ॥
तुरिति हेतौ । यस्मात्समाधानमन्तरेण विक्षिप्तचित्तः असमाहितचित्तसमुदाचारः वीर्यवानपि नरः पुरुषः क्लेशानां राक्षसानामिव दंष्ट्रान्तरे मध्ये स्थितः, कवलीकृत एव तैरास्ते । तस्मात् ॥
तत्र तावत्समाधिविपक्षं निराकर्तुं पीठिकाबन्धं रचयन्नाह-
कायचित्तविवेकेन विक्षेपस्य न संभवः ।
तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥ ब्च_८.२ ॥
कायविवेको जनसंपर्कविवर्जनता । चित्तविवेकः कामादिवितर्कविवर्जनता । इति । कायचित्तयोर्विवेके निरासङ्गतया विक्षेपस्य तयोरुन्नततायाः । आलम्बनाप्रतिष्ठानस्येति यावत् । न संभवः न प्रादुर्भावः । यत एवम्, तस्माल्लोकं स्वजनबान्धवादिलक्षणं परित्यज्य विहाय पूर्वं वितर्काश्चित्तविक्षेपहेतून् परिवर्जयेत्परित्यजेत् ॥
तत्र लोकापरित्यागहेतुं तावन्निराकर्तुमुपदर्शयन्नाह-
स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया ।
तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥ ब्च_८.३ ॥
आत्मात्मीयग्रहप्रवर्तितोऽभिष्वङ्गः स्नेहः । तस्मान्न त्यज्यते लोकः । लाभादिषु च तृष्णया । आदिशब्दात्सत्कारयशःश्लोकादयः परिगृह्यन्ते । तेषु तृष्णया प्रलोभेन । चकारान्न त्यज्यते लोके इति समुच्चीयते । यत एतत्कारणमपरित्यागस्य, तस्मादेतस्य स्नेहस्य लोभादीनां वा । यदि वा लोकस्य परित्यागनिमित्तं विद्वान् विचक्षणः । एवमिति वक्ष्यमाणं विभावयेत् ॥
(ब्च्प्१३७) तदेवाह-
शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य ।
शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥ ब्च_८.४ ॥
शमथः चित्तैकाग्रतालक्षणः समाधिः । तेन सुयुक्त इति अपोद्धृत्य इहापि योजनीयम् । यदि वा हेत्वर्थे तृतीया । शमथेन हेतुना विपश्यनासुयुक्तः । सहार्थे वा । शमथेन सार्धं विपश्यनासुयुक्त इति । विपश्यना यथाभूततत्त्वपरिज्ञानस्वभावा प्रज्ञा । तया सुयुक्तः । युगनद्धवाहिमार्गयोगेन कुरुते क्लेशानां विनाशं प्रहाणमित्येवमवेत्य ज्ञात्वा क्लेशविमुमुक्षुणा शमथः प्रथममादौ गवेषणीयः । उत्पाद्य इत्यर्थः । तदनन्तरं विपश्यना ।
समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः ।
शमाच्च न चलेच्चित्तं बाह्यचेष्टानिवर्तनात् ॥
इति । [शिक्षा. स. कारिका-९]
स च शमथः लोके लोकविषये निरपेक्षया अभिरत्या । अभिरतिं परिहरत एव उत्पद्यते नान्यथा ॥
तामेव अभिरतिनिरपेक्षतामुत्तरप्रबन्धेन दर्शयितुमाह-
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ ब्च_८.५ ॥
कस्य सचेतनस्य स्वयमेव अनित्यस्य अनित्येषु पुत्रदारादिषु स्नेहो भवितुमर्हति युज्यते । केन हेतुना? येन कारणेन जन्मनां सहस्राणि अनेकानि जन्मानि अपर्यन्तसंसारे संसरता कदाचिदपि द्रष्टव्यो न पुनः प्रियः । प्रीणातीति प्रिय उच्यते ॥
तदपि च अस्मिन्नास्ति इत्याह-
अपश्यन्नरतिं याति समाघौ न च तिष्ठति ।
न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा ॥ ब्च_८.६ ॥
यदा तावन्न पश्यति तम्, तदा अयमरतिमधृतिं याति । तेनैव असौमनस्येन समाकुलितचित्तत्वात्समाधौ न च तिष्ठति, नैव स्थितो भवति । तमवलम्बितुमशक्त इत्यर्थः । अथ यदापि प्रियदर्शनमस्य जायते, तदापि न च तृप्यति । दृष्ट्वापि पुनरधिकतरं बाध्यते तृषा । तद्दर्शनाभिलाषेण पूर्ववतदर्शनकाल इव पीड्यते ॥
अपि च । सर्वानर्थनिदानं प्रियसंगतिकरणमित्युपदर्शयन्नाह-
न पश्यति यथाभूतं संवेगादवहीयते ।
दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥ ब्च_८.७ ॥
(ब्च्प्१३८) यथाभूतविपरीतं दोषगुणान्न पश्यति न जानाति । प्रियसंगमकाङ्क्षया तेनैव मोहेन संवेगादवहीयते भ्रष्टो भवति । तथा तेनैव अभिष्वङ्गेण दह्यते तेन शोकेन मुहूर्तमपि विच्छेदे । तथा तेन शोकेन दह्यते परितप्यते तेनैव मनस्तापेन । प्रियसंगमकाङ्क्षया प्रियस्य संगमः संप्रयोगः, तस्मिन्नाकाङ्क्षा तृष्णा, तया हेतुभूतया, पुनरुत्तरोत्तरमधिकाधिकप्रार्थनया ॥
इतोऽप्यनर्थहेतुरेव तत्संगतिरित्याह-
तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः ।
तस्य प्रियस्य तत्संगमस्य वा चिन्तया तद्गुणानां सदा परिभावनया । कथं नाम ममास्य प्रियसंगमस्य विच्छित्तिर्मा भूदिति तल्लीनचित्ततया वा । निष्फलमेव आयुःसंस्काराः प्रतिक्षणं क्षीयन्ते । न च क्वचिदपि कुशलकर्मणि समुपयुज्यन्ते इति भावः । न च यदर्थमायुः क्शयमुपनीयते तन्मित्रं स्थिरमित्यत आह-
अशास्वतेन धर्मेण धर्मो भ्रश्यति शाश्वतः ॥ ब्च_८.८ ॥
अवश्यं भङ्गुरतया अनवस्थानादस्थावरेण मित्रेण हेतुना धर्मो भ्रश्यति परिहीयते शाश्वतो दीर्घकालावस्थायी संभारान्तर्गमात्फलमहत्त्वाच्च ॥
स्यादेतत्- अवश्यं हि किंचित्तत्संगमाद्धितसुखनिबन्धनं प्राप्यते । तत्किमिति सर्वथा तन्निषिध्यत इत्यत्राह-
बालैः सभागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥ ब्च_८.९ ॥
नापि तत्संगमादनर्थमन्तरेण किंचिदपरमिह लभ्यते । तथा हि बालैः पृथग्जनैः सह सभागचरितः समानशीलः नियतमवश्यं याति दुर्गतिम्, तत्कर्मसदृशसमाचरणत्, आर्यधर्मबहिर्भावाच्च । अथ आर्यधर्मानुवर्तनात्ततोऽसदृशकर्मकारी स्यात्, तदा नेष्यते द्विष्यते विसभागश्चेति असमानचरितः । बालैरिति संबन्धः । अत्र कर्तरि तृतीया । इति उभयलोकबाधनात्किं प्राप्तमधिगतं हितसुखनिमित्तं बालसंगमात्? नैव किंचिदित्यर्थः ॥
न च अनुकूलचरितैरपि आत्मसात्कर्तुं शक्या इत्याह-
क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकृप्यन्ति दुराराधाः पृथग्जनाः ॥ ब्च_८.१० ॥
क्षणमात्रेण सुहृदो मित्राणि भवन्ति किंचित्स्वप्रयोजनमुद्दिश्य, क्षणादेव च विषमाभिप्रायत्वात्किंचिन्निमित्तमालम्ब्य त एव रिपवः शत्रवो भवन्ति । न च निमित्तमप्येषां नियतम्, यत्कदाचित्तोषस्थाने प्रीतिविषये विपर्यासवशात्प्रकुप्यन्ति । इति दुराराधा दुःखेनाराधयितुं शक्याः पृथग्जनाः अनार्याः ॥
(ब्च्प्१३९) अपरमपि बालधर्मं तद्विवर्जनार्थमुपदर्शयन्नाह-
हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् ।
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥ ब्च_८.११ ॥
इदं करणीयम्, इदमकरणीयम्, इत्युक्ताः अभिहिताः प्रकुप्यन्ति विद्विषन्ति, न पुनस्तदुक्तं हितमिति गृह्णन्ति । प्रत्युत वारयन्ति च मां हितात्, किं तव अनेन केवलप्रयासफलानुष्ठानेनेति तत्र प्रवृत्तं मां निषेधयन्ति ततः । अथ न श्रूयते तेषां बालानाम् । वचनमिति शेषः । यदि तद्वचनमवगम्य हिते प्रवृत्तिः क्रियते, तदा कुपिता अस्मद्वचनान्नायं निवर्तते इति तस्मिन् हितकर्मकारिणि कोपं कृत्वा तत्कर्मप्रेरिता दुर्गतिं प्रयान्ति ॥
इमं च बालधर्ममपरं तद्विवेकाय भावयेदित्युपदर्शयन्नाह-
ईर्ष्योत्कृष्टात्समाद्दून्द्वो हीनान्मानः स्तुतेर्मदः ।
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ ब्च_८.१२ ॥
आत्मनो विद्याकुलधनादिभिरुत्कृष्टादुत्तमादीर्ष्या परसंपत्त्यसहनता जायते । अर्थात्तेष्वेव । आत्मना समात्तुल्याद्द्वन्द्वो विवादः । आत्मनो हीनादधमान्मानः, अहमितः श्रेष्ठ इत्यभिमननात् । स्तुतेर्मदः सदसतां तद्गुणानामाख्यानादहं महीयानित्यारोपादवलेपः । अवर्णादात्मनो दोषकीर्तनश्रवणाद्द्वेषश्च । अर्थादवर्णवादिनि । इत्येवं कदा कस्मिन् काले बालद्धितं भवेत्? न कदाचिदित्यर्थः ॥
इतोऽपि बालान् परिहृत्य विहरेदिति प्रतिपादयितुमाह-
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥ ब्च_८.१३ ॥
एकस्य बालस्य अपरस्माद्बालातित्येवमादि किंचिदशुभमकुशलमवश्यं नियमेन जायते । किं तत्? आत्मन उत्कर्षः प्रकर्षः श्रुतज्ञानादिप्रशंसया । परेषामवर्णो दोषप्रकाशनं श्रुतादिप्रच्छादनम् । या संसारे रतिरभिरामः तस्याः संकथा संवर्णनम्, कामगुणानां संप्रमोदनात् । इत्यादि एवंप्रकारम् ॥
एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः ।
अपरस्यापि तत्सङ्गात्द्वितीयस्य सङ्गात्किंचिदशुभमवश्यं स्यात् । येन एवम्, तेन कारणेन अनर्थस्य अकल्याणस्य समागमः संप्राप्तिरेव अयं बालसमागम । अत आर्यधर्मानुशिक्षणार्थम्-
एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥ ब्च_८.१४ ॥
बालजनसंगमवियुक्तः अद्वितीयः विहरिष्यामि । तद्विवेकात्सुखम् । क्रियाविशेषणमेतत् । कथम्? अक्लिष्टमानस इति तत्संपर्कविवर्जनात्तत्कृतसंक्लेशाभावात् । पूर्वस्मिन् हेतुपदमेतत् । यदि वा । सुखं कायिकम् । अक्लिष्टमानस इति मानसम् ॥
(ब्च्प्१४०) तस्माद्वालजनसंपर्कजदुःखपरिजिहीर्षुणा तत्संगतिर्न कार्येति कथयितुमाह-
बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः ।
न संस्तवानुबन्धेन किं तूदासीनसाधुवत् ॥ ब्च_८.१५ ॥
बालात्सर्वतो दूरमारात्पलायेत अपसरेत्, यथा तैः सह काचिदपि संगतिर्न स्यात् । अथ कथंचिद्दैवयोगाद्भवेत्, तदा प्राप्तं मिलितमाराधयेतारागयेत् । प्रियैः प्रीतिकरैरुपचारैः । आराधयन्नपि न संस्तवानुबन्धेन न परिचयासत्तिकरणाभिप्रायेण । यदि वा, न संस्तवानुनयेन, किं तर्हि प्रतिघानुनयवर्जनादुदासीनसाधुवत्सदाचारमध्यस्थजनवत् ॥
इदमपरं साधुजनसमाचारं शिक्षयितुमाह-
धर्मार्थमात्रमादाय भृङ्गवत्कुसुमान्मधु ।
अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः ॥ ब्च_८.१६ ॥
धर्मायेदं धर्मार्थम्, तदेव केवलं तन्मात्रम् । तदादाय गृहीत्वा । सारादानं कृत्वेत्यर्थः । भृङ्गवत्चञ्चरीकवत् । मधु मकरन्दम् । यदि वा । धर्म एव अर्थः प्रयोजनमस्य चीवरपिण्डपातादेरिति विग्रहः । बालसंपर्कविमुखः अपूर्व इव नवचन्द्रोपमः सर्वत्र देशे स्थाने वा विहरिष्यामि । असंस्तुतः अपरिचितः । तन्निवासिजनैः प्रत्यासत्तिरहित इत्यर्थः ॥
तदेवं प्रियसंगतिकारणं स्नेहमपाकृत्य सांप्रतं लाभादितृष्णा लोकापरित्यागकारणं परिहर्तव्येत्युपदर्शयन्नाह-
लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम् ।
इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम् ॥ ब्च_८.१७ ॥
लाभो विद्यतेऽस्येति चीवरपिण्डपातादिलाभयोगाल्लाभी च अहम् । सत्कृतश्च पूजितो जनैः । इच्छन्ति अभिलषन्ति बहवश्च अनेके माम् । बहुजनसंमतोऽहमित्यर्थः । इत्येवं चिन्तयतः एवं मर्त्यस्य मनुष्यस्य मरणाज्जायते भयम् । किंभूतात्? संप्राप्तातचिन्तितोपस्थितात् ॥
यत्र यत्र रतिं याति मनः सुखविमोहितम् ।
तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥ ब्च_८.१८ ॥
तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् ।
स्वयमेव च यात्येतद्वैर्यं कृत्वा प्रतीक्षताम् ॥ ब्च_८.१९ ॥
बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः ।
सह लाभयशोभिस्ते न ज्ञाताः क्क गता इति ॥ ब्च_८.२० ॥
(ब्च्प्१४१)
मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः ।
मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥ ब्च_८.२१ ॥
नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ।
किं पुनर्मादृशैरज्ञैस्तस्मात्किं लोकचिन्तया ॥ ब्च_८.२२ ॥
- * * * * * इति सर्वदा अवश्यंभाविमरणमनसिकारात्किं लोकस्य बालजनस्य चिन्तया चरितपरिभावनया? न किंचित्प्रयोजनम्, अनुपादेयत्वादिति भावः ॥
इत्थमपि बालजनसंगतिर्दुःखहेतुरेवेत्याह-
निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम् ।
प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥ ब्च_८.२३ ॥
निन्दन्ति कुत्सयन्ति अलाभिनं लाभविरहितं सत्त्वम् । अकृतपुण्योऽयं वराकः, येन अयं पिण्डपातादिमात्रकमपि नैव अपरिक्लेशेन प्राप्नोतीति । लाभिनं पुनरवध्यायन्ति प्रसन्नैर्दायकदानपतिभिश्चीवरादिप्रदानैः पूजितम् । कुहनादिभिरपि दायकदानपतीन् प्रसाद्यचीवरादिलाभमासादयति । अन्यथा किमन्यस्य तथाविधा गुणा न सन्ति, येन अयमेव वरं लभते नापरः, इति अस्मिंश्चित्तमप्रसादयन्ति, वचनं चैवमुद्गिरन्ति । इति उभयथापि तेभ्यो न चेतसि शान्तिरस्ति । तदेवं प्रकृत्या स्वभावेन दुःखहेतुत्वात्दुःखं संवासो येषां बालानां ते तथा । तैस्तथाविधैः सह संवसतः कथं जायते रतिः? नैवेत्यर्थः ॥
[न च बालो दृढसुहृद्भवति । यस्मान्न बाल इत्याह-
न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः ।
न स्वार्थेन विना प्रीतिर्यस्माद्वालस्य जायते ॥ ब्च_८.२४ ॥
स्वार्थद्वारेण या प्रीतिरात्मार्थ प्रीतिरेव सा ।
द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥ ब्च_८.२५ ॥
मित्रमिति सुहृत् । उक्तं तथागतेनेत्यागमेषु उक्तम् । कस्मात्? यस्मात्स्वप्रयोजनेन विना बालस्य न कर्हिचिदपि प्रीतिर्जायते । तस्मात्तदभावे विपर्ययः । तदपि बालसंवासे सत्यपि न निर्दिष्टम् (?) तत्र मैत्रीकृतेनापि पृथग्जनस्य प्रीतिरशक्या ॥
एवं सति तत्संवासोद्भूतदोषपरिहारार्थं सुखेन] सौमनस्येन च विहाराय विवेककामेन मया अरण्यनिषेवणाय यतितव्यमिति तदनुशंसां दर्शयन्नाह-
नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः
कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥ ब्च_८.२६ ॥
(ब्च्प्१४२)
तरवो वृक्षाः नावध्यायन्ति, न च आराध्याः आराधयितव्याः प्रयत्नत इति । तदनुकूलसमाचरणेन अरण्यादिषु वसता विषमाभिप्रायरहितत्वात् । इति कदा तैस्तरुभिः सह वासो भवेन्मम? किभूतैः सुखसंवासैरित्याशंसति । सुखहेतुत्वात्सुखमिति पूर्ववत् ॥
पुनरेकाकिताविहारेऽभिरतिमाह-
शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा ।
कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन् ॥ ब्च_८.२७ ॥
शून्यदेवकुले जनसंकीर्णतारहिते स्थित्वा निवस्य रात्रिमेकामुषित्वा द्वे वा, यथाभिलाषं वृक्षमूले वृक्षस्याधस्तात् । पर्वतादिषु गुह्यप्रदेशा गुहाः, तत्र वा । अनपेक्षः कदा यास्यामि? आसङ्गस्थानस्य कस्यचिदभावात् । अत एव पृष्ठतोऽनवलोकयन् पश्चादनिर्वृतेरभावात् ॥
पुनरन्यथा प्राह-
अयमेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः ।
स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥ ब्च_८.२८ ॥
केनचिद्विरोधकारिणा पुर्वमस्वीकृतेषु । विस्तीर्णेषु विपुलेषु सौमनस्यकारिषु । स्वभावतः स्वयमेव तथाविधेषु, न कृत्रिमतया । विहरिष्याम्यहं कदा इत्याशास्ते । एवं विहरतो यत्सुखं तदुपदर्शयन्नाह- स्वच्छन्द चारी न परतन्त्रवृत्तिः । अनिलयः न विद्यते निलयः आलयः निरासङ्गतया यस्येति अनिलयः, क्वचिदपि स्वीकाराभावात् । तथाभूतः प्रतिबद्धो न कस्यचित् । शेषः सुबोधः ॥
पुनरेवमल्पेच्छतया आशंसनीयमित्यादर्शयन्नाह-
मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः ।
निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥ ब्च_८.२९ ॥
मृत्पात्रं मुण्मयं भिक्षाभाजनम्, तदेव केवलं तन्मात्रं विभवो धनं यस्येति । तथा चौराणामसंभोग्यं पांसुकूलाम्बरकृतत्वादपरिभोग्यम् । अनुपयुक्तमिति यावत् । तादृशं चीवरं वासो यस्य स तथा । एतद्द्वयमपि परैरहार्यम् । अत एव निर्भयः कायजीवितनिरपेक्षतया च । तदेव दर्शयति- कायमगोपयन्निति । बाह्याध्यात्मिकस्य परिग्रहाग्रहस्याभावातसंरक्षयन् ॥
इयमनित्यता च आसङ्गपरित्यागस्य कारणं सर्वदा सेवितव्येति वृत्तत्रितयेनोपदर्शयन्नाह-
कायभूमिं निजां गत्वा कङ्कालैरपरैः सह ।
स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥ ब्च_८.३० ॥
अयमेव हि कायो मे एवं पूतिर्भविष्यति ।
शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम् ॥ ब्च_८.३१ ॥
(ब्च्प्१४३)
अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः ।
पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥ ब्च_८.३२ ॥
कायभूमिं निजामिति श्मशानभूमिम्, चिरमपि स्थित्वा तत्पर्यवसानत्वाच्छरीरस्य । कङ्कालैरपरैरिति पूर्वमृतानामस्थिभिः पञ्जरैः । शतनं पूतिभावः, तद्धर्मिणं तत्स्वभावम् । तामेव तुलनां कथयति- अयमेव हीत्यादिना । एवमिति अपरकङ्कालगलितशरीरसादृश्यमुच्यते । पूतिः कुत्सितो भविष्यति । कीदृश इत्याह- शृगाला इत्यादि । अतिदुर्गन्धतया तदाहारपरायणानां गोमायूनामपि दुःसह इति । इत्थमपि प्रियस्य संगतिरनित्येत्याह- अस्यैकस्यापीत्यादि । अस्य उपात्तस्यैकस्य एकत्वेन कल्पितस्यापि कायस्य । सहजाः कायेन सहजाताः अस्थिखण्डकाः पृथक्पृथग्भविष्यन्ति । विसंयुक्ता भविष्यन्तीत्यर्थः । किमुतान्यः प्रियो जनः पृथग्न भविष्यति, यः सर्वदा विसंयुक्त एवास्ते ॥
स्यादेतत्- सुखदुःखसहायाः सदा ममैते पुत्रदारादयः । तदेषु युक्त एवानुनयः कर्तुमित्याह-
एक उत्पद्यते जन्तुर्म्रियते चैक एव हि ।
नान्यस्य तद्वयथाभागः किं प्रियैर्विघ्नकारकैः ॥ ब्च_८.३३ ॥
जन्ममरणयोर्न कश्चित्कस्यचिद्दुःखसंभागी स्यात् । अन्तराले च स्वकर्मोपहितमेव सुखदुःखमुपभुञ्जते सर्वे । अतोऽभिमानमात्रमेवैतत् । यतो नान्यस्य तदात्मनो व्यतिरिक्तस्य तद्वयथाभागः । तस्यानुनयकारिणो व्यथा, तस्या भागः प्रत्यंशो जायते, तस्य सा, तेनैव तस्याः संवेद्यमानत्वात् । अतो न किंचित्प्रयोजनं प्रियैः कुशलपक्षविघातकारिभिः ॥
परमार्थतो न कस्यचित्केनचित्संगतिरस्तीत्युपदर्शयन्नाह-
अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः ।
तथा भवाध्वगस्यापि जन्मावासपरिग्रहः ॥ ब्च_८.३४ ॥
मार्गप्रस्थितस्य कांचिद्दिशं गन्तुमुद्यतस्य यथा अपरैरध्वगैः सह एकस्मिन्नावासे क्वचिन्मण्डपादौ वा आवासपरिग्रहो भवति, तथा संसारेऽपि कर्मायत्तगतेः संसरतो ज्ञातिसगोत्रसालोहितादिभिरेकस्मिन् जन्मनि आवासपरिग्रहो जायते । पुनरपि तत्परित्यज्य क्वचिदेकाकितया याति । न च तत्र केचित्सहायास्तमनुगच्छन्ति । अतो न केनचित्कस्यचिद्वास्तवी संगतिः संभवति । तस्मान्नानर्थसहस्रोपनेत्रीं स्वयमुपकल्प्य केनचित्संगतिं कुर्यात् ॥
तदेवमभिधाय संगतिदोषम्, एकाकितायाः पुनरिमे गुणा इति वृत्तत्रितयेनोपदर्शयन्नाह-
चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः ।
आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥ ब्च_८.३५ ॥
(ब्च्प्१४४)
असंस्तवाविरोधाभ्यामेक एव शरीरकः ।
पूर्वमेव मृतो लोके म्रियमाणो न शोचति ॥ ब्च_८.३६ ॥
न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम् ।
बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥ ब्च_८.३७ ॥
अवश्यमनिच्छन्नपि इदानीं जीवदवस्थायां मरणमुपगतो बलात्त्याजयितव्यो [गृहावासः । तस्मादेवं स्वयं जीवन्नेव त्यक्तुमर्हति । तत इति गृहात् ।] आशोच्यमानः हा वत्सेत्यादिविलापवचनैः परिदेव्यमानः लोकेन बन्धुप्रभृतिना तावदेव ततः पूर्वमेव वनं व्रजेत् । कः पुनरत्र गुणविशेष इत्याह- असंस्तवेत्यादि । अनुनयप्रतिघाभावात्म्रियमाणो न शोचति, शोकोपजनितदुःखभागी न भवति । कुतः? पूर्वमेव मृतो लोके । यदैव गृहान्निष्क्रान्तः, तदैव स्वजनबान्धवादौ लोकविषये । अयमपरो गुणस्तस्येत्याह- न चान्तिकचरा इत्यादि । अन्तिकचराः समीपवर्तिनो ज्ञातिसगोत्रादयस्तद्वियोगातुराः शोचन्तः शोकमुपजनयन्तः न च नैव कुर्वते व्यथाम्, आत्मनः कायमनसोः पीडाम् । यदि वा । तेषां शोकं पश्यतो म्रियमाणस्य मनस्तापम् । न केवलमयमेव गुणः, अपि तु बुद्धाद्यनुस्मृतिमादिशब्दाद्धर्माद्यनुस्मृतिम्,तत्त्वालम्बनमनस्कारं वा । अस्येति जनसंपर्कविवेकचारिणो मरणसमये ॥
तस्मादित्यादिना उपसंहरति-
तस्मादेकाकिता रम्या निरायासा शिवोदया ।
सर्वविक्षेपशमनी सेवितव्या मया सदा ॥ ब्च_८.३८ ॥
एकाकिता अनासङ्गविहारिता । रम्या सुखहेतुत्वात् । निरायासा दुःखविपक्षत्वात् । शिवोदया निःश्रेयसावाहकत्वात् । सर्वविक्षेपशमनी सर्वविक्षेपस्य कायवाङ्मानसिकस्य दुराचारस्य शमनी निवर्तनी समाधानहेतुत्वात् । सेवितव्या मया सदेति । अत्रैव अभिनिवेशेन आसङ्गः कार्य इत्यर्थः ॥
तदेवं जनसंपर्कविवर्जनात्कायविवेकं प्रतिपाद्य चित्तविवेकं प्रतिपादयितुमाह-
सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः ।
समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥ ब्च_८.३९ ॥
सर्वा या अन्यचिन्ता असद्वितर्कस्वभावाः, ताभिर्निर्मुक्तः, तद्विरहितः । स्वचित्तैकाग्रमानसः स्वचित्तमेव एकमग्रं प्रधानं यस्मिन्मानसे मनसिकारे तत्तथोक्तम्, तादृशं मानसं यस्य स तथा । स्वचित्तं वा एकाग्रमेकायत्तं तत्प्रचारव्यवलोकनतत्परं नियतालम्बनप्रतिबद्धं वा मानसं यस्येति समासः । तथाभूतः समाधानाय चित्तस्य शमथाय प्रयतिष्ये, तत्परायणो भविष्यामि । तदेकाग्रतायां नियोजयिष्यामीत्यर्थः । दमाय चेति पुनःपुनस्तत्रैवालम्बने नियोजनाय, बहिर्विक्षेपनिवारणाय वा ॥
(ब्च्प्१४५)
तत्र चित्तसमाधानस्य विपक्षत्वात्कामवितर्कं निवारयितुमाह-
कामा ह्यनर्थजनका इह लोके परत्र च ।
इह बन्धवधोच्छेदैर्नरकादौ परत्र च ॥ ब्च_८.४० ॥
अप्रहीणभवसंयोजनैः कमनीयतया अध्यवसितत्वात्कामा रूपादयो विषया उच्यन्ते । हिशब्दो यस्मादर्थे । तस्मादुद्विज्य कामेभ्यः [८.८५] इति वक्ष्यमाणेन संबन्धः । ते च सेव्यमाना अनर्थजनका अ........ यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा ।
न च पापमकीर्तिर्वा यदर्थं गणिता पुरा ॥ ब्च_८.४१ ॥
प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम् ।
यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः ॥ ब्च_८.४२ ॥
तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च ।
प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥ ब्च_८.४३ ॥
उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया ।
पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् ॥ ब्च_८.४४ ॥
तन्मुखं त्वत्परिक्लेशमसहद्भिरिवाधुना ।
गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे ॥ ब्च_८.४५ ॥
परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम् ।
तदद्य भक्षितं यावत्किमीर्ष्यालो न रक्षसि ॥ ब्च_८.४६ ॥
मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् ।
आहारः पूज्यतेऽन्येषां स्त्रक्चन्दनविभूषणैः ॥ ब्च_८.४७ ॥
........रूपः । पूज्यते त्वया स्त्रगादिभिः । तैर्गृध्रैरन्यैश्च गोमायुप्रभृतिभिर्मांसोच्छ्रयं मांसपुञ्जमिमं भक्षितं बीभत्सं दृष्ट्वा किमीर्ष्यालो न रक्षसीति योजयितव्यम् । किमिदानीं पलायसे इति वा व्यवहितेन संबन्धः ॥
ननु इदमपि प्रष्टव्यो भवानित्याह-
निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् ।
निश्चलादपि काष्ठलोष्ठसमानात्तव त्रासो जायते इति काक्का पृच्छति । कङ्कालातस्थिपञ्जरात् । एवमपि बीभत्सरूपातीक्षितात्दृष्टात्यदि वा एवं त्रासः । यद्दूरादपि दूरतरं पलायसे इति योजनीयम् । यदेवं चलतः कथं न त्रास इत्याह-
वेतालेनेव केनापि चाल्यमानाद्भयं न किम् ॥ ब्च_८.४८ ॥
भूतग्रहेण चाल्यमानात्जीवतश्चलतः किं न भयं भवति? तस्मादतिशयेन भयं युक्तमित्यर्थः ॥
(ब्च्प्१४६)
एवं तावज्जुगुप्सनीयतां प्रतिपाद्य पुनरन्यथा प्रतिपादयितुमाह-
एकस्मादशनादेषां लालामेध्यं च जायते ।
तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥ ब्च_८.४९ ॥
यो हि नाम मोहावृतविवेको रागविषमूर्च्छितचैतन्यः, तस्य अतिकमनीयतया कामिनीवदनमधुपानबुद्धया तन्मुखविगलल्लालापानाभिलाषिणः । पर्यनुयोगमाह- एकमेव कारणं द्वयोरप्याहारपानस्वभावात् । तत्र तयोर्मध्ये अमेध्यं पुरीषमप्रियं भवतः । लालायाः श्लेष्मणः पानं कथं प्रियम्? केन प्रकारेण तत्राभिरतिर्नान्यत्र? द्वयोरपि युक्तेति भावः ॥
अथापि स्यात्- यद्यपि द्वयोरपि कारणमभिन्नम्, तथापि तस्मिन्नतिदुर्गन्धतया वैमुख्यम्, इतरस्मिंस्तु तदभावात्प्रीतिरिति । तदेतदपि न सम्यगभिधानमित्युपपादयन्नाह-
तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः ।
दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः ॥ ब्च_८.५० ॥
कार्पासादितूलपरिपूरितैर्मसूरकादिभिरूपधानैः सुकुमारस्पर्शैः कामिनो न रमन्ते, न धृतिमधिवासयन्ति । कुतः? दौर्गन्ध्यमशुचिनिष्यन्दं न मुञ्चन्तीति कृत्वा अशुचिपरिपूरिते स्त्रीकलेवरे एव रमन्ते । एतदपि कुतः? कामिनः कामसुखाभिलाषिणः अमेध्यमोहिता यतः । हेतुपदमेतत् । अमेध्यविषये अमेध्येन वा मोहिताः । अशुचौ शुचिविपर्यासात्तत्रैव अतिशयवतीमभिरतिमनुभवन्ति ॥
स्यादेतत्- यदि नाम अशुचित्वममेध्ये स्त्रीकलेवरे च साधारणम्, तथापि तदेकत्र विवृतमन्यत्र प्रच्छादितम् । अतस्तदन्यपरिहारेण अस्मिन्नभिष्वङ्गः इत्यत्राह-
यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम् ।
न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥ ब्च_८.५१ ॥
यस्मिन्नमेध्यस्वभावे प्रच्छादितरूपे । अदृष्टेऽपीति यावत् । एतादृशोऽभिष्वङ्गः, तदच्छन्नं दृश्यतां गतमतिशयेन प्रीतिकरमुपजायते इत्युचितम् । तत्किमिति तथाभूतमप्रियं भवतः? अथ तथाभूते सर्वथा वैमुख्यमेव ते नाच्छन्नेन किंचित्प्रयोजनं तवास्ति । यद्येवम्, तर्हि कस्माद्धेतोः छन्नं विशेषेण मृद्यते, तदन्यपरिहारेण तस्यैव घटनाय यत्नः क्रियते?
अपि च । इदमपि प्रष्टव्यस्त्वम्- किं भवानशुचिविरागो न वेति । अत्र प्रथमं विकल्पमधिकृत्याह-
यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम् ।
(ब्च्प्१४७)
यदि भवतः अशुचौ न रागः, न सर्वथा आसङ्गोऽस्ति, तर्हि कस्मादालिङ्गसे अपर मन्यम्? किं तदित्याह-
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥ ब्च_८.५२ ॥
मांसमेव कर्दम इव लेपनसाधर्म्यात्, तेन लिप्तमुपदिग्धम् । किमेवंभूतमिति चेत्, स्नायुबद्धास्थिपञ्जरम्, स्नाय्वाबद्धं सङ्गीकृतम्, आयत्तीकृतमस्थिपञ्जरमस्थिसंकलम् । अन्यथा खण्डशो विशकलितं स्यात्, इति विरागविषयतामस्य दर्शयति ॥ अथ शुचौ राग इति द्वितीयो विकल्पः स्वीक्रियते, तत्राह- स्वमेवेत्यादि । अथवा । अन्यथावतार्यतेयदुक्तं परेण- छन्ने चर्मादिना रागो भवति नाच्छन्ने । तत्राह- यदीत्यादि । यदि तेन हेतुना चर्मादिना पिहितत्वादिति कृत्वा अशुचौ रागो भवति भवतः, तदा कस्मादालिङ्गसे परमन्यदीयं पञ्जरम् । अन्यत्पूर्ववत् ॥
किं तर्हि समुचितमत्रेत्याह-
स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर ।
अमेध्यभस्रामपरां गूथघस्मर विस्मर ॥ ब्च_८.५३ ॥
स्वमेव आत्मनैव बहुतरमशुचिलालासिङ्घाणमस्तलुङ्गमूत्रपुरीषादि तवास्ति, तेनैवाशुचिना संतोषं कुरुष्व । ततोऽप्यमेघ्यभस्त्रां पुरीषप्रसेविकामपरामन्यां स्त्रीशरीरस्वभावाम् । गूथघस्मर पुरीषभक्षणशील विस्मर, तत्र मनसिकारं मा कार्षीः ॥
मांसप्रियोऽहमित्यादिना पुनरन्यथा परिहारमाह-
मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि ।
अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥ ब्च_८.५४ ॥
मांसं प्रियं यस्य । एषोऽहं मांसप्रियः । अस्य अस्थिपञ्जरस्य । यदि वा । मांसस्य प्रियो मांसप्रियोऽहमस्येति पूर्ववत् । मांसप्रियोऽहमस्य प्रिय इति यावत् । सापेक्षत्वेऽपि समासो गमकत्वात् । इत्येवं तत्प्रलोभात्प्रत्युपकारधिया वा द्रष्टुं स्प्रष्टुं च वाञ्छसि, दर्शनं स्पर्शनं च अभिलषसि । अत्राह- अचेतनं चैतन्यशून्यं मृत्पिण्डप्रायम् । स्वभावेन प्रकृत्या । न तु पुनर्यथापरे वर्णयन्ति- चैतन्ययोगादचेतनमपि चेतनमभिधीयते । तादृशं मांसं त्वमचेतनस्वभावं कामुकः सन् कथमिच्छसि? तद्दृष्टौ च मृत्पिण्डेऽपि स्यात् । तथा च सति भवानपि न चेतनः स्यात् ॥
अस्ति तत्र चित्स्वभावं चित्तम्, तेन तदिच्छामीति चेदाह-
यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते ।
यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥ ब्च_८.५५ ॥
यच्चित्तं चित्स्वभावमिच्छसि, तदरूपित्वात्द्रष्टुं न शक्यते । यच्च मांसादिस्वभावं कलेवरं द्रष्टुं स्प्रष्टुं च शक्यते, न तद्वेत्ति, न जानाति, अचेतनत्वात् । अतः किमिति (ब्च्प्१४८) तदचेतनमालिङ्गसे आश्लिष्यसि? मुधेति निष्फलम् । नैव आलिङ्गितुमुचितमिति भावः । अन्यथा लोष्ठाद्यालिङ्गनप्रसङ्गः ॥
किं च । इदमप्यतिगर्हितमित्यादर्शयन्नाह-
नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् ।
स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥ ब्च_८.५६ ॥
अन्यस्य कायं यदमेध्यमयं न वेत्सि, तन्न किंचिदाश्चर्यम् । युक्तमेव तदवेदनम्, परसंतानस्यात्मना व्यवहितत्वात् । इदं पुनरतिशयेनाश्चर्यस्थानम्, यत्स्वस्यात्मनोऽमेध्यमयं त्वं तं कायं नावैषि नावगच्छसि ॥
इदानीं शास्त्रकारस्तं संवेजयन्नाह-
विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् ।
अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥ ब्च_८.५७ ॥
विघनार्काशुभिर्विकचं विकसितम् । तादृशं तरुणपङ्कजम् । अभिनवसरोरुहं हित्वा अमेध्याभिनिविष्टचित्तस्य का रतिर्गूथपञ्जरे । न युक्तेति भावः ॥
पुनरन्यथा प्राह-
मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि ।
यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि ॥ ब्च_८.५८ ॥
आदिशब्दाद्वस्त्रादि । अशुचिम्रक्षितत्वात् । यदि स्प्रष्टुं न वाञ्छसि । यतः कायात्तदमेध्यं निर्गतं निर्यातम्, तं कायं कथमिच्छसि स्प्रष्टुम्?
अथापि स्यात्- नायमुपालम्भो मम युक्तरूपः, यतो न मे कश्चिदभिनिवेशोऽमेध्ये इत्यत्राह-
यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् ।
अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥ ब्च_८.५९ ॥
अमेध्यक्षेत्रं मातुर्जठरम्, अनेकाशुचिस्थानत्वात्, तत्र संभूतं समुत्पन्नं तद्बीजम्, तदेव अमेध्यं मातापितृशुक्रशोणितस्वभावं बीजं यस्य तत्तथोक्तम् । तेन वर्धितमिति तेन अमेध्येन मातृपीताशितस्य वान्तकल्पस्य रसेन वर्धितं गर्भस्थितमुपबृंहितम् । बहिर्निर्गतमपि स्वयमशितपीतपरिपाकाशुचिरसेन । कस्मादालिङ्गसे परमिति संबन्धः । परं स्त्रीकलेवरम् । इत्युपालम्भोऽस्त्येव भवतः ॥
अथ अशुचिरागोऽहमिति पक्षस्वीकारः, तथापि उपालम्भस्तदवस्थ एवेत्याह-
अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम् ।
बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥ ब्च_८.६० ॥
पुरीषाद्यशुचिसंभूतं कृमिं प्राणकजातं न वाञ्छसि । कायं पुनर्मातृग्रामस्य बहुतराशुचिस्वभावमशुचिसंभूतमपि पूर्वक्रमेण इच्छसि ॥
(ब्च्प्१४९)
अथापि स्यात्- किमत्रोत्तरं वक्तव्यम्? यतोऽहमपि यादृशः, तादृशं तस्याः शरीरम्, तेन अशुचेर्नाशुचिसंपर्को दोषः, यादृशो यक्षस्तादृशो बलिरपीत्याह-
न केवलममेध्यत्वमात्मीयं न जुगुप्ससि ।
अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥ ब्च_८.६१ ॥
अयमिह महामोहस्य प्रभावः, यदात्मगतमेव तावदशुचिस्वभावं न विगर्हसि । प्रत्युत अपरानशुचिकुम्भानभिलषसि, इति धिक्परामर्शविकलता । गूथघस्मरेति तिरस्कारवचनेन तस्यैव संबोधनम् ॥
इदानीं साक्षात्कृत्य अशुचिस्वभावतां प्रतिपादयन्नाह-
कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा ।
मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥ ब्च_८.६२ ॥
एवं शुचिपवित्रवस्तुन्यपि यदेकदेशनिष्यन्दसंपर्कादपवित्रस्वभावतां व्रजन्ति । आसतां तावत्तानि वस्तूनि, तत्संसर्गाद्भूमिरपि शुचिस्वभावा अशुचित्वं याति ॥
यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे ।
श्मशाने पतितान् घोरान् कायान् पश्यापरानपि ॥ ब्च_८.६३ ॥
एवं तावदध्यक्षसिद्धोऽयं व्यवहारः, तथापि यदि नाधिमुच्यसे, न संप्रत्येषि । दृष्ट्वापि न श्रद्दधासि इत्यर्थः । तदा श्मशाने पूतिनिवासे कायान् पश्य । किंभूतान्? घोरानिति । विखादितकविनीलकविपूयकादिस्वभावतया बीभत्सान् भयंकरान् वा अपरानिति अतोऽधिकान् ॥
किं च । प्रकृत्या विकृत एवायं कायो नाभिरतिस्थानं युज्यते इत्युपदर्शयन्नाह-
चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत् ।
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥ ब्च_८.६४ ॥
उत्पाटिते वियोजिते । यस्मादिति कायात् । त्रासो जायते महान्- किमेतदिति । एवं तत्स्वभावं विदित्वापि कथं तस्मिन्नेव स्थाने भयस्थानत्वेन एकदा प्रतिपन्ने पुनरन्यदा जायते रतिरभिष्वङ्गः ॥
स्यादेतत्- यदि नाम अशुचिस्वभावता कायस्य अध्यक्षसिद्धा, तथापि चन्दनादिसुरभिवस्तूपलिप्तोऽसौ कमनीयो भवति इत्यत्राह-
काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः ।
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यसे ॥ ब्च_८.६५ ॥
शरीरे निवेशितोऽप्यसौ गन्धः चन्दनादिप्रसूतः, यद्वशात्काये कमनीयबुद्धिरुपजायते । चन्दनादेव केवलात् । नान्यतः इति कायात् । अतः कस्मात्परकीयेन गन्धेन चन्दनसमुद्भूतेन अन्यत्र यस्यासौ गन्धो न भवति, अत्र अभिरतिः क्रियते?
(ब्च्प्१५०)
अपि च । चन्दनादिसंस्कारोऽपि केवलात्मोपघाताय वर्तते, न हितायेति प्रतिपादयन्नाह-
यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु ।
किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति ॥ ब्च_८.६६ ॥
स्वभावदौर्गन्ध्यात्सहजात्पूतिगन्धवहत्वात् । अत्रेति काये । यदि रागो नोत्पद्यते, तदा शिवं ननु कल्याणमेव स्यात् । एवं गुणसंभवेऽपि किं कारणमनर्थप्रियो लोकः तं कायं गन्धेनानुलिम्पति? सर्वथा न युक्तमेतदित्यर्थः ॥
न चास्य संस्कारसहस्रत्वेऽपि स्वभावान्यथात्वमस्तीत्याह-
कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् ।
कायस्य स्वभावदुर्गन्धस्य किमायातम्, किं भूतम्? न किंचित् । सुगन्धि यदि चन्दनम् । शोभनो गन्धोऽस्येति बहुव्रीहिसमासान्तादिन् । तथापि तस्य न स्वभावप्रच्युतिरस्तीति भावः । अथ तद्वशात्तस्मिन् कमनीयतामुपादाय अभिरतिरुत्पद्यते इत्यत्राह-
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥ ब्च_८.६७ ॥
एवं च न विचक्षणता स्यादित्यर्थः ॥
केशादिसंस्कारद्वारेणापि अनर्थहेतुरेवायं काय इति श्लोकद्वयेनोपदर्शयन्नाह-
यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः ।
मलपङ्कधरो नग्रः कायः प्रकृतिभीषणः ॥ ब्च_८.६८ ॥
स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत् ।
आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही ॥ ब्च_८.६९ ॥
दीर्घैः सहजावस्थितैः । अच्छिन्नैरित्यर्थः । दन्तैर्दशनैः समलपाण्डुरैः दन्तधावनक्रमुकादिभिरसंस्कृतैः । मलपङ्कधरः मल एव पङ्कः कर्दमः, तं धारयतीति तथा, स्नानाभ्यञ्जनादिविरहात् । नग्न इति वस्त्रविविक्तत्वात्यथाजात इवावस्थितः । तथाभूतः सन् । यदि कायः प्रकृत्या भीषणः प्रेतानामिव स्वभावेन भयंकरः । स एवंभूतः किमिति संस्क्रियते? यत्नादिति केशनखादिरचनाविशेषैः, दन्तधावनताम्बूलादिभिः, स्नानाभ्यञ्जनानुलेपनादिभिः, वस्त्रादिभिर्वा । किमिव? आत्मघाताय शस्त्रवत् । आत्मनो वधार्थं खङ्गादिर्यथा संस्क्रियते तद्वत् । इत्येषां मोहवशीकृतं विचेष्टितं परिदेवयन्नाह- आत्मेत्यादि । आत्मनैव संचिन्त्य आत्मनो व्यामोहमुत्पादयितुं यत्नवद्भिः उन्मत्तैरस्वस्थचित्तैः । एवं च विपरीतकर्मानुष्ठानान्नैते वराकाः सचेतस इति खेदं करोति शास्रकारः । न चात्र कश्चिदात्मज्ञो दृश्यत इति उन्मत्तैराकुला समाकीर्णा मही पृथिवीति ॥
प्रासङ्गिकं परिसमाप्य प्रकृतमनुबन्धन्नाह-
कङ्कालान् कतिचिदृष्ट्वा श्मशाने किल ते घृणा ।
ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥ ब्च_८.७० ॥
(ब्च्प्१५१)
शवानामस्थिपञ्जरान् कतिचित्प्रतिनियतान् । एतदुक्तं भवति- चर्मण्युत्पाटिते [८. ६४] इत्यादिकमुक्त्वा यदुक्तं कथं ज्ञात्वापीत्यादि, तत्र परस्योत्तरम्- न श्मशानगतकलेवरसादृश्यमस्य, येन तस्मिन्नेव अत्रापि रतिर्न स्यात्, किं तर्हि श्मशाने तस्य घृणास्थानत्वात् । नात्रेति अत्र अभिधेयकङ्कालानित्यादि । ग्रामश्मशाने । इति । नैवात्र कश्चिद्विशेषोऽस्ति । तदेव शरीरं श्मशाने घृणास्थानग्रामे वा अभिरतिस्थानमिति काक्वा ब्रूते । नैतद्विचक्षणधियां समायुक्तमिति भावः । चलत्कङ्कालसंकुले इत्यनेन एतद्दर्शयति- एतावांस्तु विशेषः । न च अनेन विशेषेणाशुचिस्वभावता घृणाहेतुर्निवर्तते, येन प्रवृत्तिरियं स्यादिति । संकुल इति समाकीर्णे ॥
भवतु नाम ईदृशमशुचिस्वभावमपि सूकराणामिव अभिरतिस्थानम् । तथा च एवं विधमपि द्रविणविकलस्य नैतत्सुलभमित्युपदर्शयन्नाह-
एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते ।
तदर्थमर्जनायासो नरकादिषु च व्यथा ॥ ब्च_८.७१ ॥
विना मूल्यं द्रव्यमन्तरेण न लभ्यते न प्राप्यते । अतस्तदर्थिना प्रथमतो धनमेव अर्जनीयम् । तदर्जनेन आयासात्कृषिवाणिज्यसेवादिसमाश्रयेण परिश्रमादिहैव दुःखमुपजायते, अधर्मेण चोपार्जनान्नरकादिषु, इति उभयलोकेऽनर्थहेतुरेव तदर्जनम् । नापि तत्सुखप्राप्तिरस्ति ॥
दुःखमेव तु केवलं तदर्जनेनेति प्रतिपादयन्नाह-
शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी ।
यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥ ब्च_८.७२ ॥
बालावस्थावस्थितस्य न धनोपार्जनशक्तिरस्ति, बालत्वादेव । केन धनेन प्रकारेण वा असौ बालो यौवने युवावस्थायां सुखी स्यात्? धनविकलत्वान्न क्वचिदित्यर्थः । यदपि कस्यचित्पितृपितामहोपार्जितधनेन यौवने सुखित्वं दृश्यते, तदपि प्रतिनियतस्यैव न सर्वस्य । न चापि पूर्वोक्तदुःखद्वयाद्विमुच्यतेऽसौ । अतो धनार्जनमुपादेयमादौ सुखसाधनोपायत्वात् । तदर्जयत एव गलितवयसो न कश्चिदुपयोगो विषयैरिति ॥
अथापि स्यात्- तदर्जयतापि कामसुखमनुभूयत एव, इत्यत्राह-
केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः ।
गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥ ब्च_८.७३ ॥
ये केचित्कुत्सितकामाक्षिप्तचेतसः काष्ठतृणपत्राद्याहरणभृतिकर्मक्रियालक्षणैर्दिनपर्यन्तव्यापारैः परिखिन्नकायमनसो निरुत्सुकाः, अस्तं गते सवितरि स्वगृहमागत्य गाढमिद्धाक्रान्तत्वात्मृतकल्पाः शेरते स्म स्वपन्ति । प्रभाते पुनरुत्थाय तत्रैव नीचकर्मणि युज्यन्ते । स्मशब्दोऽत्र वाक्यालंकारे अतीतार्थाविषयत्वात् । एवमायुःसंस्कारान् केचित्कुकामिनः क्षपयन्ति, न च कामसुखास्वादमुपलभन्ते ।
(ब्च्प्१५२)
परसेवकानधिकृत्याह-
दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः ।
वत्सररैपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥ ब्च_८.७४ ॥
अपरे पूर्वकामिकेभ्योऽन्ये कुकामिनः सेवका इत्यर्थः । ते दण्डयात्रादिभिः, दण्डः परचक्रविजयाय यात्रा प्रयाणम्, परराष्ट्रद्रव्यग्रहणाय वा यात्रा, तदादिर्येषां देशान्तरप्रेषणादीनाम्, तैः प्रवासो देशान्तरगमनम्, तेन क्लेशः परिश्रमः, तेन दुःखिताः पीडिताः । सर्वदा तथाभूताः । वत्सरैरपि अनेकवर्षात्ययेऽपि पुत्रान् दारांश्च नेक्षन्ते न पश्यन्ति । तदर्थिन इति तैः पुत्रदारादिभिरर्थिनः तदभिलाषुकाः । तदर्थमेव परसेवादिस्वीकारादित्यर्थः ॥
अहो बत अमीषां निष्फलमनुष्ठानमिति शोचयन्नाह-
यदर्थमेव विक्रीत आत्मा कामविमोहितैः ।
तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा ॥ ब्च_८.७५ ॥
यदर्थं सुखप्रतिलम्भनिमित्तं विक्रीतः परदासीकृतः आत्मा कामविडम्बितैः तन्न प्राप्तम्, तदिति सुखं न प्राप्तं न प्रतिलब्धम् । आयुःसंस्कारा एव हि केवलमनर्थकं परकर्मानुष्ठानेन क्षयमुपनीताः । न साधुकर्मणि क्वचिदपि योजिता इति भावः ॥
सुखलिप्सया प्रवृत्तानां प्रत्युत दुःखमेवापतितमेषामित्युपदर्शयन्नाह-
विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् ।
प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु ॥ ब्च_८.७६ ॥
सुखबुभुक्षया विक्रीतः परायत्तीकृतः स्वात्मभाव स्वकायो यैस्ते तथा, तेषाम् । अन्येषां सेवकानामित्यर्थः । अत एव सदा प्रेषणकरणशीलानाम् । अन्येषामपरेषां प्रभुप्रयोजनेन गच्छताम् । मार्ग एव प्रसूयन्ते स्त्रियः । अटवीविटपादिषु । आदिशब्दात्पर्वतनितग्बनदीकूलादिषु कष्टस्थानेषु ॥
अयमपरो विपर्यासस्तेषामिति प्रतिपादयन्नाह-
रणं जीवितसंदेहं विशन्ति किल जीवितुम् ।
मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः ॥ ब्च_८.७७ ॥
विक्रीतस्वात्मभावाः संग्रामं चतुर्दन्तसंघट्टं प्रविशन्ति । किंभूतं जीवितसंदेहम्? तत्र प्रविष्टस्य जीवितं स्याद्वा न वेति जीवितस्य संदेहोऽस्मिन्निति कृत्वा । जीवितुमिति जीवनार्थम् । अत्र प्रतिलब्धैर्लाभैर्जीविकां कल्पयिष्याम इति मत्वेत्यर्थः । मानार्थं दासतां यान्ति, बलवता केनचिदभिभूताः स्वमानोद्धरणार्थम् । अङ्गुलीच्छेदवेलाग्रहणस्वीकारात् । मूढा मोहान्धीकृतविवेकचक्षुषः । के ते? कामबिडम्बिताः कामाय कामेन वा विडम्बितास्तिरस्कृताः ॥
(ब्च्प्१५३)
इहैव जन्मनि कामासक्तचेतसां यद्दुःखं दृश्यते तत्कथयन्नाह-
छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः ।
दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥ ब्च_८.७८ ॥
परदारधनापहरणादेः ॥ शेषः सुबोधः ॥
किं च । अयं सुखसाधनत्वेन उपादीयमानोऽपि च अनर्थपरंपराप्रसूतिहेतुरेवार्थः इति कथयन्नाह-
अर्जनरक्षणनाशविषादैरर्थमनर्थमनन्तमवेहि ।
व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥ ब्च_८.७९ ॥
अर्जनमनुत्पन्नस्योत्पादनं दुःखम् । उपार्जितस्यापि जलानलादिभ्यः पञ्चप्रत्यवायेभ्यः परिपालनं कष्टतरम् । तथा रक्षितस्यापि कथंचित्तस्करादिभिर्नाशाद्विषादो दौर्मनस्यं परितापहेतुरनर्थः । तदेवमनर्थपरंपरानिदानत्वात्कारणे कार्योपचारादर्थ एवानर्थ उक्तः । इत्येवमर्जनादिभिः सर्वदा व्याकुलत्वात्धनासक्तचेतसां क्षणमपि समाधानानवकाशत्वात्नावसरः संसाराशृ[श्रि?]तजात्यादिदुःखनिर्मोक्षाय सदा तद्गतमनसिकारैरेव आयुःराणां क्षपणात् ॥
सर्वमेतदुपसंहृत्य कामासङ्गपरित्यागाय संवेगकथया प्रोत्साहयति एवमित्यादिना-
एवमादीनवो भूयानल्पास्वादस्तु कामिनाम् ।
शकटं वहतो यद्वत्पशोर्घासलवग्रहः ॥ ब्च_८.८० ॥
एवमित्युक्तप्रकारपरामर्शे । आदीनवोऽनर्थः । भूयाननेकप्रकारः । न चात्र सुखोत्पादवार्ताप्यस्ति । यदपि विपर्यासात्कथंचित्सुखमिति प्रतिभासते, तदपि न किंचित् । गुरुतरभाराक्रमणपरिक्लान्तवपुषः पशोरिव घासलवग्रासग्रहणम् ॥
तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः ।
हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥ ब्च_८.८१ ॥
तस्यैवंभूतस्य अतितुच्छस्य सुखास्वादलेशस्य पशोरपि साधारणास्यार्थे तस्य निमित्तम् । इयं क्षणसंपतष्टाक्षणविनिर्मुक्ता हता विनाशिता । वृथा कृतेत्यर्थः । किंविशिष्टा सुदुर्लभा व्याख्याता । केन दैवहतेन । दैवं पुरातनं कर्म, तेन हता । हिताहितपरिज्ञाने विपर्यस्तमतिः कृतः । विमोहित इत्यर्थः । वस्तुतस्तु तिरस्कारवचनमेतत् । भागविहीन एवमुच्यते ॥
अवश्यं गन्तुरित्यादिना श्लोकद्वयेन विपर्यासरूपतामेव प्रतिपादयति-
अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः ।
कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः ॥ ब्च_८.८२ ॥
(ब्च्प्१५४)
अवश्यं गन्तुरिति अनित्यतया अस्थिरस्वभावस्य । अल्पस्य लोकोत्तरकायमपेक्ष्य अतिदूरं निष्कृष्टस्य । नरकादिप्रपातिन इति अपरिमितदुःखभागिनः । स्वसुखोत्पादनेऽप्यसमर्थस्येत्यर्थः । कायस्य आत्मशरीरस्यार्थे सुखोत्पादनाय योऽयं नरकादिदुःखमविगणय्य कृतः सर्वकालं संसारस्य पूर्वस्यां कोटौ परिश्रमः प्रयासः ॥
ततः कोटिशतेनापि श्रमभागेन बुद्धता ।
ततस्तस्मात्परिश्रमात्कोटिशतेनापि परिश्रमभागेन अंशेन बुद्धत्वं स्यात्, तदपेक्षया अत्यल्पीयसा आयासबलेन बुद्धत्वं स्यात् । तथापि तदर्थं मन्दबुद्धयो नोत्सहन्त इत्यर्थः । अथ बोधिचर्यायामपि चरतः अनेकदुष्करशतसमारम्भादतिशयबद्दुःखसहस्रमुत्पद्यत एवेत्याह-
चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥ ब्च_८.८३ ॥
चर्यादुःखमपेक्ष्य इदमेव महद्दुःखं यत्कामार्थे चरतां संसारे तेषामवीच्यादिनरकपतनात्, पारतन्त्र्येण दीर्घकालमनुभवनाच्च । न तु बोधिसत्त्वानां प्रतिनियतकालं स्वेच्छया तदनुभवताम् । तदेवं दुःखमनुभवतामपि कामार्थे कामिनां सा च बोधिर्न भवति, या बोधिसत्त्वानां परार्थे दुःखमनुभवतामित्यर्थः ॥
पुनर्विशेषेण कामनिदानदुःखं प्रतिपादयन्नाह-
न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः ।
कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥ ब्च_८.८४ ॥
अमी शस्त्रादयो दुःखजनकत्वेन प्रसिद्धा न सादृश्यं भजन्ते प्रति कामानाम् । कस्मात्? नरकादिदुर्गतिदुःखस्य आगमात्प्रतिपन्नस्य स्मरणात्स्मरणेनामुखीकरणात् । शस्त्रादयो हि नियतकालं मरणमात्रदुःखदायकाः, कामास्तु दीर्घकालिकतीव्रनरकादिदुःखहेतव इति कीदृशी तैरुपमा भवेत्?
तदेवं कायविवेकानन्तरं चित्तविवेकं प्रतिपाद्य प्रकृते योजयितुमाह-
एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् ।
कामेभ्यो भयहेतुभ्यः । एवमुक्तक्रमेण उद्विज्य संत्रासं कृत्वा पूर्वोक्तविवेके रतिमभिरतिमुत्पादयेत् । कुत्र स्थित्वा तत्राह-
कलहायासशून्यासु शान्तासु वनभूमिषु ॥ ब्च_८.८५ ॥
प्रतिद्वन्द्विनामभावात्कलहायासशून्यास्ताः, व्यालमृगसरीसृपतस्करादिविरहाच्च रम्याः ॥
तत्रानुशंसामाह-
धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु ।
निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥ ब्च_८.८६ ॥
(ब्च्प्१५५)
धन्यैः सुकृतिभिः । शशाङ्कस्य चन्द्रमसः करा रश्मय एव शुक्लताशैत्यसाधर्म्याच्चन्दनानीव, तैः शीतलानि यानि श्लातलानि तेषु चंक्रम्यत इति संबन्धः । किंविशिष्टेषु? प्रकृत्यैव शुचिपवित्रेषु कर्कशादिदोषरहितेषु च । हर्म्यविपुलेषु धवलगृहवद्विस्तीर्णेषु । कीदृशैः सद्भिश्चंक्रम्यते? निःशब्दैः प्रतिकूलशब्दविरहितैः । सौम्यैरनुत्कटैः । सुखसंस्पर्शैरित्यर्थः । वनमारुतैः वनपवनैः । वीज्यमानाः तैश्चंक्रम्यत इति परावृत्त्या पुनः पुनर्मन्दं भ्रम्यते । न केवलं चंक्रम्यते, किं तु परहिताय सत्त्वानां सुखोत्पादनाय विचिन्त्यते । सर्वमेतदयत्नसिद्धं योगिनाम्, कामिनां तु प्रयत्नसाध्यम् । तदनेन ऐश्वर्यसुखाद्विशिष्यते विवेकसुखमित्युपदर्शितं भवति ॥
इदमपरमसाधारणं सुखं विवेकविहारिण इत्युपदर्शयन्नाह-
विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु ।
परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥ ब्च_८.८७ ॥
सुबोधम् ॥
स्वच्छन्दचारीत्यादिना कथितमेवार्थं व्यक्तीकरोति-
स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् ।
यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥ ब्च_८.८८ ॥
स्वस्यात्मनः छन्दोऽभिलाषः, तेन चरितुं शीलमस्येति । स्वेच्छाचारीत्यर्थः ॥
इति विवेकगुणानभिधाय प्रकृतमभिधित्सुराह-
एवमादिभिराकारैर्विवेकगुणभावनात् ।
उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥ ब्च_८.८९ ॥
एवमिति पूर्वोक्तैः । आदिशब्दादन्यैरपि एवंविधैराकारैः । विवेकस्य कायिकचैतसिकस्य गुणानां भावनात्, इति हि सर्वसुखसंपत्तिहेतुर्विवेक इति चेतसि पुनः पुनरामुखीकरणाद्धेतोः उपशान्तो वितर्कः असन्मनसिकारो यस्य सः । तथाभूतः सन् बोधिचित्तं तु भावयेत् । एवं परिशुद्धे चेतसि भाव्यमानं बोधिचित्तं प्रकर्षपदमधिरोहतीति विशेषं तुशब्देन दर्शयति ॥
तत्र यावदेकत्वं परेषु नात्मना क्रियते, न तावत्परहितसुखाय सम्यक्चित्तं चलति, आत्मग्राहस्य आत्मन्येव विशेषेण प्रवृत्तेः । अतोऽस्य निवृत्तये-
परात्मसमतामादौ भावयेदेवमादरात् ।
आदौ प्रथमतः । पश्चात्परात्मपरिवर्तनमिति भावः । एवमिति वक्ष्यमाणनीत्या । आदरादिति महताभिनिवेशेन । तस्या एवाकारं दर्शयति-
समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥ ब्च_८.९० ॥
(ब्च्प्१५६)
मत्तो नामीषां कश्चिद्विशेषोऽस्ति । अतो यथा मम दुःखं बाधकं तथा एषामपि । यथा मम सुखमनुग्राहकं तथा एषामपि । इति तुल्यदुःखसुखाः सर्वे प्राणिनो भवन्ति । तस्मात्पालनीया मयात्मवत् । यथा आत्मा दुःखाद्दुःखहेतोर्वा समुद्भियते, तथा अन्येपि सत्त्वाः समुद्धरणीयाः । यथा आत्मा सर्वथा सुखीकर्तुमिष्यते, तथा अन्येऽपीति परिपालनीया आत्मवत् ॥
ननु कथमात्मना अनेकप्रकारगतिभेदभिन्नानां सत्त्वानामेकत्वं सेत्स्यति, अभिन्नसुखदुःखस्वभावत्वं च कथम्? इत्यत्राह-
हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः ।
तथा जगद्भिन्नमभिन्नदुःखसुखात्मकं सर्वमिदं तथैव ॥ ब्च_८.९१ ॥
करचरणशिरःप्रभृतिभेदादनेकप्रकारः कायो यथिकत्वेनाध्यवसितः परिपालनीयो भवति दुःखनिवर्तनात्सुखोपधानाच्च, जगत्सत्त्वलोकः अभिन्नमेकत्वेनाध्यवसितमात्मनः परिपालनीयं भवति । अभिन्नदुःखसुखात्मकं च । लुप्तचकारो निर्देशः । तथैव हस्तादिभेदवदेव सर्वमिदमिति बहुप्रकारगतिभेदभिन्नमपि । अयमभिप्रायः- यथा अभ्यासादेकत्वाध्यवसायोऽस्मिन् काये एकत्वमन्तरेणापि, तथा अनेकप्रकारे जगत्यपीति न कश्चिद्विशेषः ॥
स्यादेतत्- यदि भवता सह जगदेकस्वभावम्, तदा कथमिव भवतो दुःखमन्यसंतानेषु न बाधकं स्यात्? एवं विपर्ययेऽपि योज्यमित्याशङ्कयाह-
यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते ।
तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥ ब्च_८.९२ ॥
अन्येषु अपरेषु शरीरेषु मम दुःखं यदि नाम प्रबाधकं न भवति, तथापि तद्दुःखमेव मम । कुतः? आत्मनि स्नेहेन दुःसहं सोढुमशक्यम् । हेतुपदमेतत् । अंशेन प्रवृत्तावपि दुःखस्वभावतां न मुञ्चतीत्यर्थः । एवं विपर्ययोऽपि व्याख्येयः ॥
तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना ।
तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम् ॥ ब्च_८.९३ ॥
अतः स्वपरविशेषमपास्य दुःखस्वभावतैव निवर्तनहेतुः । अत आह-
मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् । यद्यद्दुःखं तत्तन्मया हन्तव्यम्, यथात्मदुःखम् । दुःखं चेदमन्यसत्त्वदुःखमिति स्वभावहेतुप्रयोगः । दुःखस्वभावतामात्रभाविनी हन्तव्यता । न च असिद्धता हेतोः, अविशेषेण दुःखस्वभावतायाः प्रसाधितत्वात् । न चाप्यनैकान्तिकता, आत्मदुःखस्यापि हन्तव्यता न स्यादविशेषादिति विपर्ययबाधकम् । विरुद्धताप्यत एव न स्यात् । तथायमपरः प्रयोगः-
(ब्च्प्१५७)
अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत् ॥ ब्च_८.९४ ॥
ये सत्त्वास्ते सर्वे मया अनुग्राह्याः, यथा आत्मसत्त्वः । सत्त्वाश्च अन्येऽपि प्राणिनः इति स्वभावहेतुरेव । सत्त्वात्मकतामात्रभाविनि अनुग्राह्यस्वभावता अत्र । अयमपि नासिद्धः, सत्त्वात्मकतायाः पक्षे प्रसिद्धत्वात् । आत्मनोऽनुग्राह्यताभावप्रसङ्गेन अनैकान्तिकोऽपि न स्यात् । पूर्ववन्न विरुद्धः ॥
ननु अस्ति विशेषोऽन्यस्मादात्मनि सुखाभिनिवेशो नाम । तथा ततोऽयमनैकान्तिको हेतुरिति । अत्राह-
यदा मम परेषां च तुल्यमेव सुखं प्रियम् ।
तदात्मनः को विशेषो येनात्रैव सुखोद्यम ॥ ब्च_८.९५ ॥
तुल्यमेव सममेव सुखं प्रियमिष्टम् । तदात्मनः परस्मात्को विशेषः? नैव कश्चित्येन तत्रैव आत्मन्येव सुखोत्पादनाय तात्पर्यं न परस्मिन्नित्यर्थः ॥
प्रथमे हेतावनैकान्तिकतां परिहरन्नाह-
यदा मम परेषां च भयं दुःखं च न प्रियम् ।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥ ब्च_८.९६ ॥
भयमिति दुःखहेतुः । नेतरमिति नान्यम् ॥
स्यादेतत्- यदि नाम दुःखात्मकता न विशिष्यते, तथापि यस्य दुःखेन बाधा स्यात्, स एव रक्षितुमुचितो नान्य इत्याह-
तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते ।
नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥ ब्च_८.९७ ॥
तस्य परस्य दुःखेन मम बाधा पीडा नास्तीत्यतोऽस्मात्कारणाद्यदि न रक्ष्यतेऽन्यः, तदा अपरमिदं व्याहतं स्यात् । यतो नागामिनः कायस्य परलोकभाविनो नरकादिजातस्य दुःखात्मकस्य [दुःखान्मे] तस्योपात्तस्य कायस्य काचिद्बाधा संभवति, तस्य अन्यत्वात् । इति लोकोक्तौ, तस्मादर्थे वा । यत एवम्, तस्मात्केनाभिप्रायेण असौ रक्ष्यते? काय इति प्रकृतत्वात्पापान्निवर्तनात्कुशले प्रवर्तनाच्च ॥
अथापि स्यात्- अहमेक एव सर्वदा, तेनात्र भिन्नत्वं नास्ति शरीरयोः । नायं दोष इत्यत्राह-
अहमेव तदापीति मिथ्येयं परिकल्पना ।
आत्मनो निराकरिष्यमाणत्वात्निरस्तत्वाच्च लेशतः तत्कोऽयमहंप्रत्ययस्य विषयो भविष्यति? तस्मादहंप्रत्ययविषयस्य कस्यचिदेकस्याभावान्मिथ्येयं परिकल्पना अध्यवसायः । (ब्च्प्१५८) अहमेव तदापीति । भवान्तरेऽपि । मायोपमपञ्चोपादानस्कन्धमात्रालम्बनत्वादस्य । इतीदमपि अध्यवसायवशादुच्यते, न तु पुनरस्य वस्तुतः किंचिदालम्बनमस्ति, विकल्पात्मकत्वात् ॥
कुतः पुनरियं मिथ्याकल्पनेत्याह-
अन्य एव मृतो यस्मादन्य एव प्रजायते ॥ ब्च_८.९८ ॥
यदा नात्मादिः कश्चिदेकः परलोकगामी संभवति, स्कन्धमात्रमेव केवलम्, तदा न खलु यदेव स्कन्धपञ्चकमिह विनश्यति, तदेव पुनरप्युत्पद्यते परलोके, अपि तु अपूर्वमेव पूर्वनिवृत्तौ तत्र इदंप्रत्ययताविशिष्टं क्लेशकर्माभिसंस्कृतमन्तराभवसंतत्या समुत्पद्यते । तस्मादनादिसंसारप्रवृत्तवितथविकल्पाभ्यासवासनावशादहंप्रत्ययो वितथ एव उपजायते ॥
किं च । इदमपरं तत्र बाधकमित्याह-
यदि तस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् ।
पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते ॥ ब्च_८.९९ ॥
आस्तां तावद्यदागामिकायदुःखरक्षार्थं न यतितव्यम् । इह एकस्मिन्नपि काये प्रत्यङ्गभेदाद्भिन्नं दुःखम् । ततो यदा अन्यद्दुःखमन्यस्य रक्षितुं न युज्यते, तदा कथं पादादौ प्रहारं पतन्तं दृष्ट्वा हस्तं प्रसार्य रक्ष्यते? अन्यत्वाविशेषान्न युक्तमेतदित्यर्थः ॥
अथ-
अयुक्तमपि चेदेतदहंकारात्प्रवर्तते
तदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम् ॥ ब्च_८.१०० ॥
अहंकारोऽस्मिन् काये अहमित्यात्मग्रहादात्मनोऽभावेऽपि । प्रवर्तते जायते पादादौ रक्षणमनसिकारः । नैतत्साधु । यतो यदयुक्तं युक्त्या संगतं न भवति, तन्निवर्त्यमपसार्यं स्वकीयं परकीयं च यथाबलं यथासामर्थ्यम् । शक्तिवैकल्यादेव तदुपेक्षितुमुचितमिति भावः ॥
स्यादेतत्- यदि नाम आत्मादिर्नास्ति, तथापि संतानो नाम एकः संभवति, तथा बहूनां करचरणादीनां समुदायः शरीरमेकम् । तदेतद्द्वयं यथासंभवमिहलोके परलोके च आत्मदुःखापहरणादेर्नियामकं भविष्यति । ततोऽयमविशेषादित्यसिद्धो हेतुः, पूर्वश्च अनैकान्तिक इत्याशङ्कयाह-
संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा ।
यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति ॥ ब्च_८.१०१ ॥
संतानो नाम न कश्चिदेकः परमार्थसन् संभवति । किं तर्हि कार्यकारणभावप्रवृत्तक्षणपरंपराप्रवाहरूप एवायम्, ततो व्यतिरिक्तस्यानुपलम्भात् । तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय संकेतो कृतो बुद्धैर्व्यवहारार्थं संतान इति । इति प्रज्ञप्तिसन्नेव अयम् । तेन अत्राभिनिवेशो न कार्यः । अन्यथा आत्मना किमपराद्धं येनासौ न स्वीक्रियते । एवं समुदायोऽपि न समुदायिभ्यो वस्तुसनेको विद्यते, तस्य तेभ्यः पृथगनुपलब्धेः? (ब्च्प्१५९) तत्त्वान्यत्वविकल्पस्तु अस्य अवयविविचारेणैव गत इति नेह प्रतायते । ततश्च अयमपि संवृतिसन्नेव पूर्ववत् । अनयोर्यथासंख्यमुदाहरणमाह पङ्क्तिसेनादिवदिति । पङ्किवत्संतानः, सेनादिवत्समुदायः । आदिशब्दान्मालावनादयो गृह्यन्ते । यथा अनेकेषां पिपीलिकादीनां पूर्वापरभावेन व्यवस्थितानां स्वरूपमन्तरेण पङ्क्तिर्नास्ति स्त्रक्सूत्रवदेकाः, यथा च हस्त्यश्वपदातिप्रभृतिभ्यो मिलितेभ्यो व्यतिरिक्ता नान्या सेना काचिदेका तत्रास्ति, तथा समुदायोऽपि । एतच्च अन्यत्र [९.७३] विस्तरेण विचारितमिति नेह विचार्यते । तस्माद्वस्तुसदालम्बनाभावान्मृषायं प्रत्ययः । अर्थो वा, विचारासहत्वात् । एवमात्मादेः स्वामिनः कस्यचिदभावाद्यस्य संबन्धि दुःखं स नास्ति । अतः कस्य तद्दुःखं स्वात्मीयं भविष्यति? नैव कस्यचिदित्यर्थः । ननु यदि आत्मादिर्नास्ति, तदा कथमयं दृष्टान्तो भविष्यति आत्मवदिति आत्मसत्त्ववदिति च? सत्यमेतत् । किं तु नेदं व्यसनितया साधनमभिधीयते, किं तर्हि परस्य आत्मग्रहाभिनिवेशनिवारणाय । तद्यदि परस्य निवृत्त एव आत्मग्रहाभिनिवेशः, तदा न किंचित्प्रयोजनमनुमानप्रयोगस्य । अथ न निवृत्तः, तदा तदभिप्रायेणैव स्वपरविभागं कृत्वा तत्प्रत्यायनार्थं साधनं दृष्टान्तश्चोच्यते, इति न दृष्टान्तस्यासिद्धिर्व्यवहारप्रवर्तनाय
। किं च । इदमुपात्तपञ्चस्कन्धमात्रमभिसंधाय दृष्टान्ते दीयमाने न काचित्क्षतिः, अत्रैव आत्मशब्दस्य प्रवृत्तेरिति ॥
इदानीं प्रकृतमुपसंहरन्नाह-
अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः ।
दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥ ब्च_८.१०२ ॥
न विद्यन्ते स्वामिनो येषामुक्तक्रमेणेति विग्रहः । अममानि न कस्यचित्प्रतिबद्धानि इत्यर्थः । कुतः? किं कानिचिदेव? न । सर्वाण्येवाविशेषतः । न क्वचित्कस्यचित्स्वामित्वमस्ति, विशेषाभावात् । दुःखत्वादेव स्वपराविभागं कृत्वा वार्याणि निषेध्यानि भवन्ति । नान्यन्निमित्तमस्ति तत्र आत्मीयत्वादि । तेनायं नियमः किंकृतः, केन विशेषेण कृतः? येन स्वकीयानि च वार्याणि न परकीयानीति । एवं दुःखत्वादिति हेतुरनैकान्तिको न भवतीति समर्थितम् ॥
ननु यदि दुःखी नाम न कश्चित्संसारे संभवति, तर्हि दुःखमनिवार्यमेव स्यात्, कृपापात्रस्य दुःखिनः कस्यचिदभावादित्याशङ्कमान आह-
दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः ।
वार्यं चेत्सर्वमप्येवं न चेदात्मापि सत्त्ववत् ॥ ब्च_८.१०३ ॥
न वार्यमेव निरात्मकत्वादेव यदि मन्यसे, तदा न युक्तमेतत् । कुतः? सर्वेषामविवादादविप्रतिपत्तेः । चार्वाकस्यापि स्वदुःखपरिहारेणैवेह प्रवृत्तेः । न च तेषामात्मनो (ब्च्प्१६०)ऽभ्युपगमाददोषः, तत्स्वभावस्यानुपलब्धेः । न च अभ्युपगममात्रेण तस्य सत्ता प्रसिध्यति तत्साधकप्रमाणाभावात्, बाधकस्य च अनेकप्रकारस्याभिधानात् । एवं सति यदि वार्यं दुःखम्, तदा सर्वं वार्यम्, न चेत्सर्वं वार्यम्, तदात्मापि । उपात्तपञ्चस्कन्धस्वभावमपि दुःखं न वार्यम्, सर्व(त्त्व?)वदविशेषादित्युपसंहारः ॥
स्यादेतत्- करुणापरतन्त्रतया परदुःखदुःखिनः सर्वदुःखापहरणाय यत्नः । तद्वरं बहुदुःखनिदानं सैव प्रथमतो नोत्पादयितुं युज्यत इति परवचनावकाशं शङ्कमान आह-
कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात् ।
बलादिति प्रयत्नात् । अत्रोत्तरमाह-
जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥ ब्च_८.१०४ ॥
जगतो दुःखं नरकादिकृतमनेकप्रकारं समीक्ष्य इदं कृपाकृतं दुःखं कथं बहु? नेदं बहु कृपादुःखमिति भावः ॥
किं च । अपरमिदमत्रोत्तरमित्याह-
बहूनामेकदुःखेन यदि दुःखं विगच्छति ।
उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥ ब्च_८.१०५ ॥
एकस्य पुरुषस्य दुःखेन बहूनां सत्त्वानां यदि दुःखं विगच्छति निवर्तते, तदा उत्पाद्यमेव जनयितव्यमेतत्तादृशं दुःखम् । सदयेन कृपात्मकेन परस्यात्मनश्च ॥
उत्सूत्रतामस्य परिहरन्नाह-
अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् ।
आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥ ब्च_८.१०६ ॥
यत एव उत्पाद्यमेव तद्दुःखं कृपालुना स्वपरात्मनोः अत एव सुपुष्पचन्द्रेण बोधिसत्त्वेन । नृपादापदं नृपस्य वा राज्ञ आपदम् । जानतापि बुध्यमानेनापि । आत्मदुःखं न निहतं न निवर्तितम् । उपेक्षितमिति यावत् । तथा राज्ञोऽपि परलोकदुःखम् । किमिति? बहूनां दुःखिनां व्ययात् । दुःखस्येति प्रकृतं षष्ठयन्ततया संबध्यते । यदुक्तं सुपुष्पचन्द्रस्येतिवृत्तके [समाधि. ३५]- तथा हि- अतीतेऽध्वनि रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराजो नाम तथागतोऽभूत् । स भगवान् बुद्धकृत्यं कृत्वा चिरतरकालमवस्थाय परिनिर्वृतः । तस्मिंश्च परिनिर्वृते शासनान्तर्धानसमये राजा शूरदत्तो नाम बभूव । तस्य रत्नावती नाम राजधानी । तस्मिन् काले दृष्टिविपन्नाः सत्त्वाः । तेषामनुकम्पार्थं बहवो बोधिसत्त्वा उत्पन्नाः प्रव्रजिताः । ते च ततो राष्ट्रजनपदेभ्यो निर्वासिताः समन्तभद्रं नाम अरण्यवनखण्डमुपसृत्य विहरन्ति स्म सार्धं सुपुष्पचन्द्रेण धर्मभाणकेन । अथ खलु सुपुष्पचन्द्रस्य बोधिसत्त्वस्य सत्त्वान् करुणायमानस्य रहोगतस्य चेतसि वितर्क उदपादि- यन्न्वहं जनपदराष्ट्रराजधानीर्गत्वा सत्त्वान् कुमार्गप्रपन्नान् कल्याणे वर्त्मनि प्रतिष्ठापयामि । स तमर्थं सब्रह्मचारिभ्यो निवेदयामास । तैर्निवार्यमाणोऽपि स्वयं च स्वापदं प्रतिपद्यमानः तस्य राज्ञोऽपि ततो वनखण्डान्निर्जगाम । (ब्च्प्१६१) स क्रमेण धर्मं देशयन् तस्य राज्ञो राजधानीमनुप्राप्तो बहून् सत्त्वान् राजपुत्रामात्यपुरोहितप्रभृतीन् प्रकारं विनीय सत्पथे व्यवस्थापयन् तेन राज्ञा दृष्टः । सहदर्शनेन प्रकुप्तः सर्व च जनकायं तदावर्जितं प्रतिपद्य ईर्ष्यादूषितहृदयः । तद्वधार्थं स्वपुत्रानाज्ञापयामास । तांश्च तद्वधविमुखान् प्रतिपद्य नन्दिकं वध्यघातकमाज्ञापयामास
। तेन तदाज्ञामनुवर्तमानेन करचरणादिच्छेदक्रमेण अक्षीणि च संदंशिकेनोद्धृत्य जीविताद्व्यपरोपितः । अथ तस्य भिक्षो राजमार्गगतस्य जीविताद्व्यपरोपितस्य शरीरे अनेकान्यद्भुतानि बभूवुः । तानि प्रतिपद्य स राजा निश्चितं बोधिसत्त्व एवायं भिक्षुरिति परितापगतो बहुतरं परिदेवते स्म । इति सुपुष्पचन्द्रस्येतिवृत्तकं संक्षिप्य कथितम् । विस्तरेण पुनः समाधिराजसूत्रे [३५] निर्दिष्टमिति तत्रैव अवधार्यम् ॥
न चापि कृपावतां परदुःखदुःखिनां महदपि दुःखं बाधकमिति प्रतिपादयन्नाह-
एवं भावितसंतानाः परदुःखसमप्रियाः ।
अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥ ब्च_८.१०७ ॥
एवं परात्मसमतया भावितसंतानाः अनाभोगप्रवृत्तचित्तसंततयः । परदुःखेन समं तुल्यं प्रियं सुखहेतुर्येषां ते तथा । आत्मसुखमपि परदुःखेन दुःखमेव येषामित्यर्थः । ते अवीचिमवगाहन्ते परव्यसनसमुद्धरणाय तद्दुःखं सुखमेव मन्यमानाः । इदमेवाह- हंसाः पद्मवनं यथा । आवीचिकमपि दुःखं सुखमेव परार्थे येषां ते । केन दुःखहेतुना अन्येन दुःखिनो भविष्यन्ति?
अपि च । सुखमपि तेषामसाधारणमेवोपजायते परसुखेन, इत्युपदर्शयन्नाह-
मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः ।
तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥ ब्च_८.१०८ ॥
दुःखबन्धनाद्विसंयुज्यमानेषु सत्त्वेषु सत्सु । ये ते इति । तेषामेव अनुभवसिद्धत्वादिदंतया कथयितुमशक्याः, अत एव प्रामोद्यसागराः संतुष्टिसमुद्राः कृपावतां संतानेषु प्रादुर्भवन्ति । तैरेव प्रामोद्यसागरैः पर्याप्तं तदन्यसुखवैमुख्यात्परिसमाप्तम् । *******
अतः परार्थं कृत्वापि न मदो न च विस्मयः ।
न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥ ब्च_८.१०९ ॥
तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम् ।
रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि ॥ ब्च_८.११० ॥
अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु ।
भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि ॥ ब्च_८.१११ ॥
(ब्च्प्१६१)
तथा कायोऽन्यदीयोऽपि किमात्मेति न गृह्यते ।
परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥ ब्च_८.११२ ॥
ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् ।
आत्मभावपरित्यागं परादानं च भावयेत् ॥ ब्च_८.११३ ॥
कायस्यावयवत्वेन यथाभीष्टाः करादयः ।
जगतोऽवयवत्वेन तथा कस्मान्न देहिनः ॥ ब्च_८.११४ ॥
यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके ।
परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥ ब्च_८.११५ ॥
एवं परार्थं कृत्वापि न मदो न च विस्मयः ।
आत्मानं भोजयित्वैव फलाशा न च जायते ॥ ब्च_८.११६ ॥
तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि ।
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ॥ ब्च_८.११७ ॥
अध्यतिष्ठदतो नाथः स्वनामाप्यवलोकितः ।
पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि ॥ ब्च_८.११८ ॥
दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः ।
यस्यैव श्रवणात्रासस्तेनैव न विना रतिः ॥ ब्च_८.११९ ॥
आत्मानं चापरांश्चैव यः शीघ्रं त्रातुमिच्छति ।
स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥ ब्च_८.१२० ॥
यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम् ।
न द्विषेत्कस्तमात्मानं शत्रुवधो भयावहः ॥ ब्च_८.१२१ ॥
यो मान्द्यक्षुत्पिपासादिप्रतीकारचिकीर्षया ।
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥ ब्च_८.१२२ ॥
यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् ।
रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत् ॥ ब्च_८.१२३ ॥
कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत् ॥
न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥ ब्च_८.१२४ ॥
यदि दास्यामि किं भोक्ष्ये इत्यात्मार्थे पिशाचता ।
यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥ ब्च_८.१२५ ॥
आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते ।
आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥ ब्च_८.१२६ ॥
दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया ।
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥ ब्च_८.१२७ ॥
(ब्च्प्१६३)
आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते ।
परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥ ब्च_८.१२८ ॥
ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया ।
ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥ ब्च_८.१२९ ॥
बहुना वा किमुक्तेन दृश्यतामिदमन्तरम् ।
स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥ ब्च_८.१३० ॥
न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम् ।
स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥ ब्च_८.१३१ ॥
आस्तां तावत्परो लोके दृष्टोऽप्यर्थो न सिध्यति ।
भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम् ॥ ब्च_८.१३२ ॥
त्यक्त्वान्योन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् ।
अन्योन्यदुःखानाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥ ब्च_८.१३३ ॥
उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव ।
सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥ ब्च_८.१३४ ॥
आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते ।
यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते ॥ ब्च_८.१३५ ॥
तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ।
ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥ ब्च_८.१३६ ॥
अन्यसंबद्धमस्मीति निश्चयं कुरु हे मनः ।
सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥ ब्च_८.१३७ ॥
न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः ।
न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः ॥ ब्च_८.१३८ ॥
तेन सत्त्वपरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे ।
तत्तदेवापहत्यास्मात्परेभ्यो हितमाचर ॥ ब्च_८.१३९ ॥
हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि ।
भावयेर्ष्यां च मानं च निर्विकल्पेन चेतसा ॥ ब्च_८.१४० ॥
एष सत्क्रियते नाहं लाभी नाहमयं यथा ।
स्तूयतेऽहमहं निन्द्यो दुःखितोऽहमयं सुखी ॥ ब्च_८.१४१ ॥
अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः ।
अयं किल महांल्लोके नीचोऽहं किल निर्गुणः ॥ ब्च_८.१४२ ॥
(ब्च्प्१६४)
किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः ।
सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥ ब्च_८.१४३ ॥
शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात् ।
चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥ ब्च_८.१४४ ॥
अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यसे ।
किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम् ॥ ब्च_८.१४५ ॥
दुर्गतिव्यालबक्त्रस्थेनैवास्य करुणा जने ।
अपरं गुणमानेन पण्डितान् विजिगीषते ॥ ब्च_८.१४६ ॥
सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये ।
कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥ ब्च_८.१४७ ॥
अपि सर्वत्र मे लोके भवेयुः प्रकटा गुणाः ।
अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन ॥ ब्च_८.१४८ ॥
छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् ।
सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु ॥ ब्च_८.१४९ ॥
पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम् ।
हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥ ब्च_८.१५० ॥
अस्यापि हि वराकस्य स्पर्धा किल मया सह ।
किमस्य श्रुतमेतावत्प्रज्ञा रूपं कुलं धनम् ॥ ब्च_८.१५१ ॥
एवमात्मगुणान् श्रुत्वा कीर्त्यमानानितस्ततः ।
संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥ ब्च_८.१५२ ॥
यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात् ।
दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत् ॥ ब्च_८.१५३ ॥
सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्वयथया सदा ।
अनेन शतशः सर्वे संसारव्यथिता वयम् ॥ ब्च_८.१५४ ॥
अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव ।
श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥ ब्च_८.१५५ ॥
मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः ।
द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः ॥ ब्च_८.१५६ ॥
अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया ।
बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥ ब्च_८.१५७ ॥
तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु ।
चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥ ब्च_८.१५८ ॥
(ब्च्प्१६५)
अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे ।
तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥ ब्च_८.१५९ ॥
अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः ।
परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥ ब्च_८.१६० ॥
सुखाच्च च्यावयात्मानं परदुःखे नियोजय ।
कदायं किं करोतीति छल(फल)मस्य निरूपय ॥ ब्च_८.१६१ ॥
अन्येनापि कृतं दोषं पातयास्यैव मस्तके ।
अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥ ब्च_८.१६२ ॥
अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु ।
निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय ॥ ब्च_८.१६३ ॥
नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् ।
यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु ॥ ब्च_८.१६४ ॥
संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया ।
तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥ ब्च_८.१६५ ॥
नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत् ।
स्थाप्यो नववधूवृत्तौ ह्रीतो भीतोऽथ संवृतः ॥ ब्च_८.१६६ ॥
एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया ।
एवमेव वशः कार्यो निग्राह्यस्तदतिक्रमे ॥ ब्च_८.१६७ ॥
अथैवमुच्यमानेऽपि चित्त नेदं करिष्यसि ।
त्वामेव निग्रहीष्यामि सर्वदोषास्त्वदाश्रिताः ॥ ब्च_८.१६८ ॥
क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते ।
अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः ॥ ब्च_८.१६९ ॥
अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् ।
त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् ॥ ब्च_८.१७० ॥
त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमोदतः ।
त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥ ब्च_८.१७१ ॥
एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् ।
निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥ ब्च_८.१७२ ॥
न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते ।
यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते ॥ ब्च_८.१७३ ॥
यथा यथास्य कायस्य क्रियते परिपालनम् ।
सुकुमारतरो भूत्वा पतत्येव तथा तथा ॥ ब्च_८.१७४ ॥
(ब्च्प्१६६)
अस्यैवं पतितस्यापि सर्वापीयं वसुंधरा ।
नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति ॥ ब्च_८.१७५ ॥
अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते ।
निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥ ब्च_८.१७६ ॥
तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये ।
भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥ ब्च_८.१७७ ॥
भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते ।
अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥ ब्च_८.१७८ ॥
किं ममानेन यन्त्रेण जीविना वा मृतेन वा ।
लोष्टादेः को विशेषोऽस्य हाहंकारं न नश्यसि ॥ ब्च_८.१७९ ॥
शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते ।
किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥ ब्च_८.१८० ॥
मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा ।
न च स्नेहो न च द्वेषस्तत्र स्नेहं करोमि किम् ॥ ब्च_८.१८१ ॥
रोषो यस्य खलीकारात्तोषो यस्य च पूजया ।
स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥ ब्च_८.१८२ ॥
इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल ।
सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः ॥ ब्च_८.१८३ ॥
तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते ।
अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत् ॥ ब्च_८.१८४ ॥
तेनालं लोकचरितैः पण्डिताननुयाम्यहम् ।
अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥ ब्च_८.१८५ ॥
तस्मादावरणं हन्तुं समाधानं करोम्यहम् ।
विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् ॥ ब्च_८.१८६ ॥
बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः ।