बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/चतुर्थः परिच्छेदः
← तृतीयः परिच्छेदः | बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः) चतुर्थः परिच्छेदः प्रज्ञाकरमतिः |
पञ्चमः परिच्छेदः → |
४. बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः ।
एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः ।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥ ब्च_४.१ ॥
सहसा यत्समारब्धं सम्यग्यदविचारितम् ।
तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते ॥ ब्च_४.२ ॥
विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः ।
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते ॥ ब्च_४.३ ॥
यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा ।
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥ ब्च_४.४ ॥
मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः ।
स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि ॥ ब्च_४.५ ॥
किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः ।
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥ ब्च_४.६ ॥
वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम् ।
यद्बोधिचित्तत्यागेऽपि मोचयत्येव तां नरान् ॥ ब्च_४.७ ॥
बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी ।
यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत् ॥ ब्च_४.८ ॥
योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति ।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः ॥ ब्च_४.९ ॥
एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् ।
अशेषाकाशपर्यन्तवासिनां किमु देहिनाम् ॥ ब्च_४.१० ॥
एवमापत्तिबलतो बोधिचित्तबलेन च ।
दोलायमानः संसारे भूमिप्राप्तौ चिरायते ॥ ब्च_४.११ ॥
तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात् ।
नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः ॥ ब्च_४.१२ ॥
अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः ।
नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥ ब्च_४.१३ ॥
अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः ।
दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम् ॥ ब्च_४.१४ ॥
कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च ।
कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽतिदुर्लभम् ॥ ब्च_४.१५ ॥
(ब्च्प्४५) आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम् ।
आयुःक्षणं विसंवादि कायोपाचितकोपमः ॥ ब्च_४.१६ ॥
न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये पापमेव कुतः शुभम् ॥ ब्च_४.१७ ॥
यदा कुशलयोग्योऽपि कुशलं न करोम्यहम् ।
अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥ ब्च_४.१८ ॥
अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः ।
हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि ॥ ब्च_४.१९ ॥
अत एवाह भगवान्मानुष्यमतिदुर्लभम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ ब्च_४.२० ॥
एकक्षणकृतात्पापादवीचौ कल्पमास्यते ।
अनादिकालोपचितात्पापात्का सुगतौ कथा ॥ ब्च_४.२१ ॥
न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते ।
तस्मात्तद्वेदयन्नेव पापमन्यत्प्रसूयते ॥ ब्च_४.२२ ॥
नातः परा वञ्चनास्ति न च मोहोऽस्त्यतः परः ।
यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥ ब्च_४.२३ ॥
यदि चैवं विमृष्यामि पुनः सीदामि मोहितः ।
शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः ॥ ब्च_४.२४ ॥
चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः ।
पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम् ॥ ब्च_४.२५ ॥
कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम् ।
जानन्नपि च नीयेऽहं तानेव नरकान् पुनः ॥ ब्च_४.२६ ॥
अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः ।
न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति ॥ ब्च_४.२७ ॥
हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः ।
न शूरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः ॥ ब्च_४.२८ ॥
मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः ।
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम् ॥ ब्च_४.२९ ॥
सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ।
तेऽपि नावीचिकं बन्हिं समुदानयितुं क्षमाः ॥ ब्च_४.३० ॥
(ब्च्प्४६) मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते ।
क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥ ब्च_४.३१ ॥
न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम् ।
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम् ॥ ब्च_४.३२ ॥
सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः ।
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥ ब्च_४.३३ ॥
इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु ।
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥ ब्च_४.३४ ॥
भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः ।
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम ॥ ब्च_४.३५ ॥
तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षम् ।
स्वल्पेऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्राम् ॥ ब्च_४.३६ ॥
प्रकृतिमरणदुःखितान्धकारान् । रणशिरसि प्रसभं निहन्तुमुग्राः ।
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥ ब्च_४.३७ ॥
किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य ।
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥ ब्च_४.३८ ॥
अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति ।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥ ब्च_४.३९ ॥
स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः ।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम् ॥ ब्च_४.४० ॥
दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे ।
प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः ॥ ब्च_४.४१ ॥
आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा ।
अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥ ब्च_४.४२ ॥
अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही ।
अन्यत्र तद्विधात्क्लेशात्क्लेशघातानुबन्धिनः ॥ ब्च_४.४३ ॥
गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे ।
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् ॥ ब्च_४.४४ ॥
निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात् ।
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥ ब्च_४.४५ ॥
(ब्च्प्४७) नाय, न तु क्लेशशत्रोः । न तस्य इतरशत्रुवत्समाचारो दृश्यते । कुतः पुनरेवमिच्छया लभ्यत इत्याह-
क्वासौ यायान्मन्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत ।
नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥ ब्च_४.४६ ॥
मम चित्तान्निर्वासितः असौ क्लेशरिपुः कुत्र गत्वा अवस्थानं कुर्यात्, यत्रावस्थितिं कृत्वा मम वधाय यतेत? नैव तत्स्थानमुत्पश्यामि, निर्मूलितस्य पुनरुत्थानायोगादिति भावः । अहमेव तु केवलमनुत्साही, अपटुबुद्धिप्रचारत्वात् । क्लेशाः पुनरिमे निर्मूलत्वात्परमार्थतत्त्वदर्शनमात्रप्रहेयास्तपस्विनः ॥
एतदेव प्रसाधयन्नाह-
न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता
नातोऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत् ।
मनोज्ञादिविषयदर्शनेऽपि केषांचित्संवृतेन्द्रियाणां क्लेशानुत्पत्तेः परमाणुशो विचारेऽपि तत्रादर्शनात् । न विषयेषु, नापि चक्षुरादीन्द्रियगणे पूर्ववत्, धर्मचिन्ताद्यवस्थायामिन्द्रियसद्भावेऽप्यनुपलब्धेः । नापि विषयेन्द्रिययोरन्तराले मध्ये तिष्ठन्ति, दृश्यानामनुपलब्धेरेव । न च एतेभ्योऽन्यस्मिन् स्थाने क्वचिदवस्थिता निश्चिताः । अतो निर्मूलतया तत्त्वशून्या आगन्तुका एव, अभूतपरिकल्पमात्रप्रसूतत्वात् । तथाभूता अपि जगदशेषं मथ्नन्ति । तथा च किमत्र समुचितमस्ति? आह-
मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं
प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥ ब्च_४.४७ ॥
यथा हि माया हस्त्याकारतया तदाकारशून्यापि मन्त्रौषधप्रभावादिदंप्रत्ययतया मन्त्रेण तत्त्वरहितापि प्रतिभासते, तथा अमी अपि क्लेशा विपर्यासनिमित्ता अयोनिशोमनसिकारसमुद्भूता इदंप्रतीत्यतामात्रतो निस्तत्त्वा एव प्रकाशन्ते । अतो विजहीहि हृदय त्रासं क्लेशेभ्यः । के नाम अमी वराकाः परमार्थतो विचार्यमाणाः? अतो भजस्व उद्यमम्, उत्साहं कुरुष्व प्रज्ञार्थं तत्त्वप्रविचयाधिगमाय । किमकाण्ड एव निष्प्रयोजनमेव नरकेषु संघातादिषु क्लेशवशगतया आत्मानमाबाधसे, पीडयसि?
इदानीं प्राक्तनमर्थमशेषमुपसंहरन्नाह-
एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः ।
वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥ ब्च_४.४८ ॥
(ब्च्प्४८) एवं समनन्तरसकलपरिच्छेदप्रतिपादितमर्थं विनिश्चित्य दृढीकृत्य अनन्तरमायास्वभावतां वा, करोमि यत्नम् । किमर्थम्? यथोक्तशिक्षाप्रतिपत्तिहेतोः, यथोक्तशिक्षा बोधिसत्त्वस्य तेषु तेषु सूत्रान्तेषु याः करणीयतया प्रतिपादिताः, इहैव वा शास्त्रे संक्षेपेण तत्र तत्रोपदर्शिताः, तासां शिक्षणार्थम् ॥
उक्तानि च भगवता सूत्रान्तेषु बोधिसत्त्वशिक्षापदानि । यथोक्तमार्यरत्नमेघे-
कथं च कुलपुत्र बोधिसत्त्वो बोधिसत्त्वशिक्षासंवरसंवृतो भवति? इह बोधिसत्त्व एवं विचारयति- न प्रातिमोक्षसंवरमात्रकेण मया शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु बोधिसत्त्वसमुदाचारा बोधिसत्त्वशिक्षापदानि प्रज्ञप्तानि, तेषु मया शिक्षितव्यम् । इति विस्तरः ॥
तस्मादस्माद्विधेन मन्दबुद्धिना
दुर्विज्ञेयो विस्तरोक्तत्वाद्बोधिसत्त्वस्य संवरः ।
ततः किं युक्तम्? मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत् ।
[शिक्शा. स. कारिका-३]
कतमानि च तानि मर्मस्थानानि? यदुत-
आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।
उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षाशुद्धिवर्धनम् ॥
[शिक्शा. स. कारिका-४]
इत्युक्तम् । एष बोधिसत्त्वसंग्रहो यत्र बोधिसत्त्वानामभ्यासविश्रामेऽपि आपत्तयो व्यवस्थाप्यन्ते । यथोक्तं बोधिसत्त्वप्रातिमोक्शसूत्रे-
यो बोधिसत्त्वेन मार्गः परिगृहीतः सर्वसत्त्वानां कृते दुःखक्षयगामी, सचेद्बोधिसत्त्वस्य तं मार्गं परिगृह्यावस्थितस्य अपि कल्पकोटेरत्ययेन एकं सुखचित्तमुत्पद्येत, अन्तशो निषद्याचित्तमपि, तत्र बोधिसत्त्वेन एवं चित्तमुत्पादयितव्यम्- सर्वसत्त्वानामात्ययिकं परिगृह्य एतदपि मे बहु यन्निषीदामीति ॥
अत एवाह- वैद्योपदेशादिति । यथा वैद्योपदेशमकुर्वाणस्य भैषज्यसाध्यं करणीयं यस्य भैषज्येन वा साध्यस्य रोगिणः कुतोऽस्ति निरामयत्वं नीरोगता? तथा सर्वज्ञमहावैद्योपदिष्टशिक्षाप्रतिपत्तिमकुर्वतः कुतो निरामयत्वं कर्मक्लेशोपजनितजात्यादिदुःदुखमहाभयाद्विमुक्तिः?
तदेवं समात्तसंवरस्य सामान्यमापत्तिलक्षणमुच्यते येन आपत्तिलक्षणेन युक्तं वस्तु स्वयमप्युत्प्रेक्ष्य परिहरेत् । न च आपत्तिप्रतिरूपकेषु अनापत्तिप्रतिरूपकेषु च संमुह्येत् । बोधिसत्त्वः सर्वसत्त्वानां वर्तमानानागतसर्वदुःखदौर्मनस्योपशमाय वर्तमानानागतसर्वसुखसौमनस्योत्पादाय च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं न करोति, तत्प्रत्ययसामग्रीं (ब्च्प्४९) नान्वेषते, तदन्तरायप्रतीकाराय न घटते, अल्पदुःखदौर्मनस्यं बहुदुःखदौर्मनस्यप्रतीकारभूतं नोत्पादयति, महार्थसिद्धयर्थं वा अल्पहानिं न करोति, क्षणमप्युपेक्षते, सापत्तिको भवति । संक्षेपतोऽनापत्तिः स्वशक्त्यविषयेषु कार्येषु, तत्र निष्फलतया शिक्षाप्रज्ञप्त्यभावात् । प्रकृतिसावद्यतया वा अन्यद्गृह्यतेव । यत्र तु स्वशक्त्यगोचरेऽपि योगसामर्थ्यादापत्तिः स्यात्, तन्न चिन्त्यम्, सामान्यपापदेशनान्तर्भावात्ततो मुक्तिः । एतत्समासतो बोधिसत्त्वशिक्षाशरीरम् । विस्तरतस्तु अप्रमेयकल्पपर्यवसाननिर्देश्यम् ॥
अथवा संक्षेपतो द्वे बोधिसत्त्वस्यापत्ती । यथाशक्त्या युक्तायुक्तमसमीक्ष्यारभते, न निवर्तते उपेक्षते वा, सापत्तिको भवति । निरूप्य यथार्हमतिक्रामति अन्तशश्चण्डालदासेनापि चोदितः, सापत्तिको भवति । यः पुनरेतदभ्यासार्थं व्युत्पादमिच्छति, तेन शिक्षासमुच्चये तावच्चर्यामुखमात्रशिक्षणार्थमभियोगः करणीयः, शिक्षणारम्भस्यैव महाफलत्वात् । यथोपवर्णितं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-
इति बोधिसत्त्वशिक्षा समासतो यथोपदेशतः कथितेति ॥
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्ताप्रमादश्चतुर्थः परिच्छेदः ॥