बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/द्वितीयः परिच्छेदः

← प्रथमः परिच्छेदः बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
द्वितीयः परिच्छेदः
प्रज्ञाकरमतिः
तृतीयः परिच्छेदः →

२. पापदेशना नाम द्वितीयः परिच्छेदः ।

सांप्रतमेवं क्षणसंपत्समागमं दुर्लभमधिगम्य विदितबोधिचित्तानुशंसः बोधिचित्तग्रहणार्थं बुद्धबोधिसत्त्वानामुखीकृत्य वन्दनपूजनशरणगमनपापदेशनापुण्यानुमोदनबुद्धाध्येषणायाचनाबोधिपरिणामनां च कुर्वन्नाह-

तच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् ।
सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनाम् ॥ ब्च_२.१ ॥

तस्य समनन्तरप्रतिपादितानुशंसस्य चित्तरत्नस्य ग्रहणाय स्वीकाराय । तदुत्पादयितुमित्यर्थः । तथागतानां बुद्धानां भगवतां पूजां करोमि । एषोऽहमिति बोधिचित्तग्राहकोऽयमात्मानं निदर्शयति । अयं बुद्धरत्नस्य निर्देशः । सद्धर्मरत्नस्य चेति आगमाधिगमलक्षणस्य । निर्मलस्येति त्रिकल्याणतया त्रिकोटिशुद्धस्य प्रकृतिप्रभास्वरस्य च । सर्वदा सर्वमलानामस्थानत्वात्, क्लेशानामागन्तुकत्वात्, समस्तमलापहरणपटुत्वाच्च । अयं च धर्मरत्नस्य निर्देशः । तदात्मजानां च बुद्धसुतानाम् । गुणोदधीनां गुणरत्नसमुद्राणामार्यावलोकितमञ्जुघोषप्रभृतीनाम् । अयं तु संघरत्नस्य निर्देशः । इत्यादौ रत्नत्रयपूजाविधिः । पूजां करोमीति सर्वत्र संबन्धनीयम् । सम्यगिति पूजाया एव विशेषणम् । सम्यगविपरीतं यथा भवति । तीव्रचित्तप्रसादेन वा ग्रहणस्य वा विशेषणम् । सम्यग्ग्रहणाय अतिशयप्रसन्नचित्तेन न परानुरोधादिना । यथा गृहीतं न पुनर्भ्रश्यति इति ॥

पूजामेव कथयन्नाह-

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति ।
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ ब्च_२.२ ॥

यत्परिमाणमेषामिति यावन्ति निरवशेषाणि । पुष्पाणि फलानि चैव । आकाशधातुप्रसरावधीनि सर्वाण्यपीमानि अपरिग्रहाणि । आदाय बुद्धया मुनिपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः इति सर्वत्र पूर्वेषु योजनीयम् । भैषज्यजातानि औषधप्रकाराः । स्वच्छमनोरमाणीति रत्नानामपि विशेषणम् ॥

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः ।
लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥ ब्च_२.३ ॥
(ब्च्प्२३) देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः ।
सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥ ब्च_२.४ ॥

महीधराः पर्वताः । रत्नमया रत्नस्वभावाः । विवेकरम्या इति विवेकोपरम्या मनोहराः । विवेकानुकूला इति यावत् । सुपुष्पाभरणोज्ज्वलाश्चेति शोभनपुष्पाण्येवाभरणानि मण्डनानि तैरुज्ज्वला अतिभ्राजिष्णवः । सत्फलनम्रशाखा इति सन्ति च शोभनानि वर्णगन्धरससंपन्नानि तानि फलानि चेति तैर्नम्रा अवनता भूमिलग्ना इव शाखा येषां ते कल्पद्रुमाः कल्पवृक्षाः । अम्भोरुहभूषणानि पद्मान्येव भूषणानि येषां तानि तथा । हंसस्वनात्यन्तमनोहराणि हंसानां स्वनै रूतैरत्यन्तमनोहराणि रमणीयानि तानि तथा ॥

अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि ।
आकाशधातुप्रसरावधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥ ब्च_२.५ ॥

अकृष्टान्येव हलविलेखनमन्तरेणैव जातानि प्रादुर्भूतानि । शस्यजातानि व्रीहिविशेषाः । अन्यानि वा पूज्यविभूषणानि पूज्यानामाराध्यानां विभूषणानि शोभाकराणि । अन्यानि अपराणि आकाशधातुप्रसरावधीनि आकाशधातोः प्रसरोऽवकाशः विस्तारो वा, तावदवधीनि तत्पर्यन्तानि । सर्वाण्यपीमानि उक्तानि उक्तसदृशानि अपरिग्रहाणि अममानि न केनचित्स्वीकृतानीत्यर्थः ॥

आदाय बुद्ध्या मुनिपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः ।
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ ब्च_२.६ ॥

आदाय बुद्धया गृहीत्वा मनोविज्ञानेन । मुनिपुंगवेभ्यो मुनिवृषभेभ्यो निर्यातयामि प्रयच्छामि । सपुत्रकेभ्यः सबोधिसत्त्वगणेभ्यः । गृह्णन्तु तन्मे स्वीकुर्वन्तु तदेतत्सर्वं मम पूजोपहारवस्तु । वरदक्षिणीया अनुत्तरदक्षिणापात्राणि बुद्धबोधिसत्त्वाः । महाकृपाः सर्वसत्त्वहितसुखविधानैकमनसः । मां दीनदुःखितसत्त्वमनुकम्पमानाः करुणायमानाः । ममानुग्रहायेति यावत् ॥

स्यादेतत्- किं पुनरेवं मनोमयपूजामात्रं विधीयते यावता तत्तद्वस्तु मनोहरं साक्षादेव कस्मान्नोपनीयते इत्याशङ्कयाह-

(ब्च्प्२४) अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् ।
अतो ममार्थाय परार्थचित्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥ ब्च_२.७ ॥

अकृतपुण्योऽस्मि, अत एव महादरिद्रः । पुण्ये सर्वोपकरणसंपत्तिभिर्भवति । तदभावात्पूजार्थमन्यदुपकरणं मम नास्ति किंचित् । अतो ममार्थाय मम पुण्यकामतया भगवन्तश्च परार्थचित्ताः परहितसुखाभिलाषिणो महाकारुणिकत्वात् । अतो गृह्णन्तु नाथा इदमुक्तं पूजोपकरणं मया निर्यातितम् । आत्मशक्त्येति स्वसामर्थ्येन ॥

अयं पुनरात्मभावो ममायत्तोऽस्ति । तं निर्यातयामीत्याह-

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः ।
परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या ॥ ब्च_२.८ ॥

आत्मानं च प्रयच्छामि जिनेभ्यः । सर्वेण सर्वं च सर्वप्रकारेण । आत्मस्वीकारं परित्यज्य तदात्मजेभ्योऽपि । मां प्रतिगृह्णीत नरवृषभाः । युष्मासु दासत्वं दासभावं स्वीकरोमि । न जीविकादिलोभात्, अपि तु भक्त्या परमगौरवेण । श्रद्धाविलेन चेतसेत्यर्थः ॥

ननु कः पुनरत्र गुणोऽस्तीत्याह-

परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि ।
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ ब्च_२.९ ॥

भवत्कृतेन युष्मदीयेन महदाश्रयेण विगतभयः संसारे लोकानां हितमर्थं संपादयामि । महदाश्रयेऽपि नाकुशलकर्मावृतस्य स्वहितकरणेऽपि सामर्थ्यमस्तीत्याह- पूर्वं चेत्यादि । पूर्वमपरिज्ञानात्कृतमकुशलकर्म समतिक्रमामि, विदूषणासमुदाचारादिभिर्निर्हरामि । समतिक्रामतीत्युक्ते समतिक्रमामीत्युक्तं शाब्दव्यवहारेष्वनादरात्, अर्थप्रतिशरणताधातुप्रधानत्वाच्च । अपरं च पापं न पुनः करोमि । आयत्यां पुनरकरणसंवरं विदधे ॥

इति सर्वमात्मनिर्यातनाप्रभृतिपूजोपहारं निर्यात्य पुनर्विशेषेण पूजां विधातुमाह-

रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु ।
स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥ ब्च_२.१० ॥

(ब्च्प्२५) रत्नैरिन्द्रनीलादिभिरुज्ज्वलाः प्रभास्वरा ये स्तम्भाः तैर्मनोहराः कमनीयाः । तेषु स्नानगृहेषु स्नानं करोमीति योज्यम् । पुनः किंभूतेषु? मुक्तामया मौक्तिकरचनाखचिता उद्भासिनः उद्भास्वराः विताना इव वितानकाः येषु ते तथा, तेषु । स्वच्छाः सुनिर्मलाः , उज्ज्वला दीप्तिमन्तः, स्फटिकस्येमे स्फाटिकाः, कुट्टिमाः भूमिरचनाविशेषा येषु, तेषु । सुगन्धिषु कृष्णागुरुचन्दनादिधूपितवासितेषु । स्नानाय गृहाः तेषु ॥

मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमथैरनेकैः ।
स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतिवाद्यम् ॥ ब्च_२.११ ॥

उदकं च पुष्पाणि च मनोज्ञगन्धानि च तानि । तैः पूर्णाः कुम्भा घटाः, तैः । महारत्नमयैः महान्ति वैदूर्या(दी)नि च रत्नानि च तानि, तत्स्वभावैः । अनेकैः शतसहस्रकोटिभिः । सगीतवाद्यं सह मनोहरगीतनृत्तमुरजादिवाद्यैः ॥

प्रधूपितैर्धौतमलैरतुल्यैर्वस्त्रैश्च तेषां तनुमुन्मृषामि ।
ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥ ब्च_२.१२ ॥

प्रधूपितैरगुरुप्रभृतिधूपैः । धौतमलैः प्रक्षालितकल्मषैः । निर्मलैरित्यर्थः । अतुल्यैरप्रतिसमैः । वस्त्रैर्दुकूलैः । तेषां तथागतानां तदात्मजानां च । तनुं शरीरम् । उन्मृषामि संमार्जयामि । ततस्तस्मादुन्मर्षणानन्तरम् । सुरक्तानि शोभनरागैः सुष्ठु वा रक्तानि । शोभनधूपेन धूपितानि । ददामि तेभ्यो जिनेभ्यः । वरचीवराणि अनुत्तराण्याच्छादनानि ॥

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर्वस्त्रैरलंकारवरैश्च तैस्तैः ।
समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि ॥ ब्च_२.१३ ॥

दिव्यैर्दिविभवैर्देवार्हैः । मृदूनि च सुकुमारस्पर्शानि, श्लक्ष्णानि च सूक्श्माणि । विचित्रा नानावर्णकृता शोभा येषां तैर्वस्त्रैः । अलंकारवरैश्च विभूषणप्रधानैः । तैस्तैरिति मुकुटकटककेयूरहारनूपुरादिभिः । समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि बोधिसत्त्वान्मण्डयामि अलंकरोमि ॥

सर्वत्रिसाहस्रविसारिगन्धैर्गन्धोत्तमैस्ताननुलेपयामि ।
सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान् सर्वमुनीन्द्रकायान् ॥ ब्च_२.१४ ॥

(ब्च्प्२६) सहस्रं चतुर्द्वीपिकानां तथा चन्द्रसूर्यमेरूणां प्रत्येकं कामदेवानां ब्रह्मलोकानां च । साहस्रश्चूलिको मतः । स एव सहस्रगुणिते द्विसाहस्र । तत्सहस्रं त्रिसाहस्रः । शतकोटिः चातुर्द्वीपिकानामित्यर्थः । एवं सर्वासु दिक्षु लोकधातुरनन्तोऽपर्यन्तश्च । सर्वत्रिसाहस्त्राणि । विसर्तुं शीलं येषां ते तथा । तथाविधा गन्धाः परिमला येषां ते तथा । तैर्गन्धोत्तमैर्यक्षकर्दमहरिचन्दनादिभिः । तान्मुनीन्द्रकायाननुलेपयामि समालभे । किंभूतान्? सूत्तप्तं पुटपाकादिना परिशोधितान्तर्मलम् । सून्मृष्टं रोषाणादिमणिसंमार्जितम् । सुधौतं क्षाराम्ललवणादिप्रक्षालितबहिर्मलम् । तथाभूतं च तद्धेम चेति । तस्य प्रभा, द्युतिरित्यर्थः । तद्वदुज्ज्वलान् द्युतिमतः । एतच्च यथालोकप्रसिद्धितः कथितम् । न तु तथागतकायशोभाया लौकिकं किंचिदुपमानमस्ति ॥

सांप्रतं माल्यपूजामुपक्षिपति-
मान्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः ।
अभ्यर्चयाभ्यर्च्यतमान्मुनीन्द्रान् स्त्रग्भिश्च संस्थानमनोरमाभिः ॥ ब्च_२.१५ ॥

मान्दारवं देवेषु पुष्पविशेषः । इन्दीवरमुत्पलम् । मल्लिका वार्षिकी । एतत्प्रमुखैः सर्वैः शोभनगन्धैः पुष्पैर्मनोहारिभिः पूज्यतमान्मुनीन्द्रान् पूजयामि । स्त्रग्भिश्च मालाभिश्च ग्रथनरचनाविशेषकमनीयाभिः ॥

धूपपूजामाह-

स्फीतस्फुरद्गन्धमनोरमैश्च तान् धूपमेघैरुपधूपयामि ।

स्फीता मांसलाः । स्फुरन्तश्च दिगन्तव्यापिनः बहुलगन्धोद्गारिणो वा । तादृशा गन्धा येषां धूपमेघानां ते तथा, तैः । धूपा मेघा इव अम्बरतलावलम्बिबिम्बाः । उपमितं व्याघ्रादिभिः इति समासः । धूपानां वा मेघाः, तैः, मेघवदुद्गच्छद्भिरित्यर्थः । तानिति मुनीन्द्रानुपधूपयामि ॥

नैवेद्यपूजामाह-

भोज्यैश्च खाद्यैर्विविधैश्च पेयैस्तेभ्यो निवेद्यं च निवेदयामि ॥ ब्च_२.१६ ॥

भोज्यं यन्मुखमापूर्य भुज्यते । खाद्यं यत्कवलशः । छेद्यं धृतपूरादि । पेयं यत्पीयते एव पानकादि । एभिर्विविधैर्नानाप्रकारोपसंस्कृतैः । तेभ्यो मुनीन्द्रेभ्यो निवेद्यं च निवेदयामि ॥

दीपपूजामाह-

रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्तिन् ।
(ब्च्प्२७) गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥ ब्च_२.१७ ॥

रत्नमयाः प्रदीपाः तान् । निविष्टा पङ्क्तिर्माला येषां ते तथा । क्वेति? सुवर्णपद्मेषु । सापेक्षत्वेऽपि गमकत्वात्समासः । गन्धोपलिप्तेषु चन्दनकुङ्कुमादिगन्धैश्चर्चितेषु ॥

प्रलम्बमुक्तामणिहारशोभानाभास्वरान् दिङ्मुखमण्डनांस्तान् ।
विमानमेघान् स्तुतिगीतरम्यान्मैत्रीमयेभ्योऽपि निवेदयामि ॥ ब्च_२.१८ ॥

प्रलम्बैर्मुक्तामणिहारैः शोभा येषां तान् विमानमेघान् विमानसमूहानालोककारिणः सर्वदिकूशोभाकरान् ॥

सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि ।
प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥ ब्च_२.१९ ॥

कनकमयदण्डैः कान्तिमत्संस्थानैः । मुक्ताखचितानि रत्नमयानि छत्राणि । समुच्छ्रितानीति उद्दण्डितानि ॥

इदानीं पूजोपहारमुपसंहरन्नाह-

अतः परं प्रतिष्ठन्तां पूजामेघा मनोरमाः ।
तूर्यसंगीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः ॥ ब्च_२.२० ॥

इतः प्रभृति एते पूजामेघा मया निर्यातिताः, अन्ये वा देवादिभिरुपनीताः कल्पं वा कल्पावशेषं वा प्रतिष्ठन्तां प्रकर्षवृत्तिस्थिता भवन्तु । तूर्यसंगीतिमेघाश्च तूर्याणि मुरजादिवाद्यानि । संगीतयः समेत्य गीतयः । समुदायगीतानीत्यर्थः । अथवा । संगीतकानि नुत्तगीतवादितानि समुदितान्युच्यन्ते । तेषां मेघाः अनेकसमुदायाः । ते च सर्वसत्त्वप्रहर्षणाः सर्वसत्त्वानां प्रमोदकारिणः, न पुनरशक्यश्रवणाः । प्रतिष्ठन्तामिति संबन्धः ॥

सामान्येनाभिसंक्षिप्य सद्धर्मादिषु पूजामाह-

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च ।
पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् ॥ ब्च_२.२१ ॥

द्वादशाङ्गप्रवचनात्मकेषु सर्वसद्धर्मरत्नेषु । रत्नमिव रत्नं वस्तुतत्त्वालोककारित्वात्, परमनिर्वृतिहेतुत्वाच्च । स्तूपेषु भगवच्चैत्येषु । प्रतिमासु चेति बुद्धबोधिसत्त्वविग्रहप्रतिकृतिषु । पुष्पवृष्टयो रत्नवृष्टयश्च । आदिशब्दाच्चन्दनचूर्णवस्त्रादिवर्षाः । निरन्तरमिति आसंसारमनवच्छिन्नम् ॥

(ब्च्प्२८) अनुत्तरपूजामतिदिशन्नाह-

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् ।
तथा तथागतान्नाथान् सपुत्रान् पूजयाम्यहम् ॥ ब्च_२.२२ ॥

मञ्जुघोषसमन्तभद्राजितलोकनाथप्रमुखा दशभूमीश्वरा बोधिसत्त्वाः यथा येन अध्याशयेन तथागतान् पूजयन्ति, तथा तेन अधिमोक्षेण अहमपि तथागतान् सह पुत्रैः बोधिसत्त्वगणैः पूजयामि ॥

स्तुतिपूजामाह-

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् ।
स्तुतिसंगीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥ ब्च_२.२३ ॥

स्वराः सप्त गान्धारादयः । तेषामङ्गानि प्रभेदाः कामोदादयः । तेषां सागरवदतिबाहुल्यात्सागराः, तैः स्तोत्रैः । स्तुतय एव संगीतयः, स्तुतीनां वा संगीतयः समुदायाः । तासां मेघाः संभवन्तु उपतिष्ठन्ताम् । एषु बुद्धबोधिसत्त्वेषु । अनन्यथा अविपरीता यथा मयोपकल्पितास्तथैवेत्यर्थः ॥

बुद्धधर्मसंघरत्नेषु प्रणामपूजामाह-

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् ।
सर्वत्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् ॥ ब्च_२.२४ ॥

यावन्ति दशसु दिक्षु बुद्धक्षेत्राणि, तेषु यावन्तोऽणवः, तत्संख्यैः प्रणामैः । सर्वत्र्यध्वगतानिति अतीतप्रत्युत्पन्नानागतान् तथागतान् । किंभूतान्? सहधर्मगणोत्तमान् गणानामुत्तमोऽग्रभूतो बोधिसत्त्वगणः । धर्मश्च गणोत्तमश्च ताभ्यां सह ॥

तथागतस्तूपेषु प्रणाममाह-

सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा ।
नमः करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा ॥ ब्च_२.२५ ॥

ऊर्ध्वतिर्यगधस्तनासु दिशासु विदिशासु च । सशरीराशरीरेषु स्तूपेषु प्रणमाम्यहमित्यर्थः । बोधिसत्त्वाश्रयानपीति जातकावदानजन्मादिस्थानानि । अभिवन्द्यानिति वृद्धान् वन्दनार्हान् । तदनेन पूजावन्दनाविधिरुक्तः ॥

अयं च पूजाविधिस्त्रिसमयराजे कथितः । यथोक्तम्- स्थलजा रत्नपर्वताः । जलजा रत्नपर्वताः । स्थलजजलजानि रत्नानि दशदिगवस्थितानि । अममान्यपरिग्रहाणि । देयानीत्युक्तम् । अनया च दिशा सर्वभैषज्यानि सर्वरसायनानि सर्वसलिलानि । अनवद्यानि आमण्डलानि (?) सर्वकाञ्चनमण्डलानि । विवृत्तेषु वा लोकधातुषु परमरसस्पर्शसंपन्ना भूपर्पटका अमृतलता । अकृष्टोप्ताः शालयः । सर्वोत्तरकुरुद्वीपेषु च परिशुद्धेषु च लोकधातुषु ये रमणीयाः परिभोगाः ।

यथा आर्यरत्नमेघे चाह-

स यानीमानि सूत्रान्तेषु उदाराणि पूजोपस्थानानि शृणोति, तान्याशयतस्तीव्रेणाध्याशयेन (ब्च्प्२९) बुद्धबोधिसत्त्वेभ्यः परिणामयति । तथा स विविधानि पूजोपस्थानान्यनुविचिन्तयति इति ॥

सांप्रतं रत्नत्रयशरणगमनपूर्वकं पापदेशनामाह-

बुद्धं गच्छामि शरणं यावदा बोधिमण्डतः ।
धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा ॥ ब्च_२.२६ ॥

त्राणार्थं शरणार्थम् । गमनं तदाज्ञापरिपालनम् । यो हि यं शरणं गच्छति, स तदाज्ञां नातिक्रमतीति भावः । बोधिमण्डत इति । मण्डशब्दोऽयं सारवचनम्, घृतमण्ड इति यथा । तथा च सति बोधिप्रधानं यावत् । यावत्सम्यक्संबोधिं नाधिगच्छामि इत्यर्थः ॥

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् ।
महाकारुणिकांश्चापि बोधिसत्त्वान् कृताञ्जलिः ॥ ब्च_२.२७ ॥

विज्ञापयामीत्यनेन बुद्धबोधिसत्त्वानामग्रगतमात्मानं ध्यात्वा अध्याशयेनैतद्वक्तव्यमित्युपदर्शितम् । कृताञ्जलिरिति कायविज्ञप्तिरुक्ता । अञ्जलिः करद्वयेन संपुटं कृत्वेत्यर्थः ॥

अनादिमति संसारे जन्मन्यत्रैव वा पुनः ।
यन्मया पशुना पापं कृतं कारितमेव वा ॥ ब्च_२.२८ ॥
यच्चानुमोदितं किंचिदात्मघाताय मोहतः ।
तदत्ययं देशयामि पश्चात्तापेन तापितः ॥ ब्च_२.२९ ॥

अनादिमतीति पूर्वजन्मपरंपरासु । जन्मन्यत्रैवेति अस्मिन्नपि जन्मनि, न केवलं पूर्वत्र । पशुनेति मोहबहुलतामात्मनो दर्शयति । त्रिविधं कर्म कायवाङ्मनोभिस्तत्र कृतम् । त्रिभिरपि कारितमिति । वाङ्मनोभ्यामनुमोदितमित्यपि । आत्मघातायेति तत्पापकर्मफलस्य मम आत्मन्येव विपाकात् । तदत्ययमिति तदापत्तिम् । देशयामि प्रकाशयामि उत्तानीकरोमि, न प्रच्छादयामि । पश्चात्तापेनेति अकुशलकर्मणो नरकादौ दुःखविपाकश्रवणात् ॥

अधुना यथाप्रधानमत्ययदेशनामाह-

रत्नत्रयेऽपकारो यो मातपितृषु वा मया ।
गुरुष्वन्येषु वा क्षेपात्कायवाग्बुद्धिभिः कृतः ॥ ब्च_२.३० ॥

रत्नत्रये इति अनुत्तरगुणक्षेत्रे । मातेत्यादिना उपकारिक्षेत्रे । तत्रापकारस्य विस्तरतीव्रदुःखविपाकत्वात् ॥

अनेकदोषदुष्टेन मया पापेन नायकाः ।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ ब्च_२.३१ ॥

अनेकदोषदुष्टेनेति रागादिक्लेशदूषितेन, न स्वतन्त्रेणेत्यर्थः ॥


      • [अद्देद्:] ***

कथं च निःसराम्यस्मान्नित्योद्वेगोऽस्मि नायकाः ।
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥ ब्च_२.३२ ॥




(ब्च्प्३०) पापकर्मणि संवेगमाह-

कथं च निःसराम्यस्मात्परित्रायत सत्वरम् ।

कथं केन प्रकारेण । अस्मादशुभात् । सत्वरं शीघ्रम् । केयं त्वरा भवत इत्याह-

मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति ॥ ब्च_२.३३ ॥

यावत्पापक्षयं न करोमि, तावन्मम मृत्युर्भविष्यति न । अन्यथा दुर्गति गमनभयात् ॥

ननु च अकृतपापपरिक्षयस्य भवतो मृत्योः कोऽवकाश इत्याह-

कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः ।
स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः ॥ ब्च_२.३४ ॥

इदं कृतमिदमकृतं तावदिति न परीक्षते मृत्युः । विश्रम्भो विश्वासः । तेन घातकः । नापि नीरोगोऽहं युवा बलवत्कायो वेति विश्वसनीयम् । कुतः? आकस्मिकमहाशनिरिति अचिन्तितवज्रपातसदृशः ॥

यद्येवं पापाद्भयम्, किमर्थं तर्हि तत्कृतमित्याह-

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा ।
सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम् ॥ ब्च_२.३५ ॥

प्रिय आत्मा आत्मीयश्च, अप्रियस्तदपकारी । प्रियस्य हितसुखमप्रियस्य च तद्विपरीतमिच्छता कृतं पापमनेकधा प्राणातिपातादत्तादानादिभेदेनानेकप्रकारम् । ननु सर्वमेतन्नचिरेण परित्यज्य गन्तव्यम्, तत्किमिति निरर्थकं पापकमुपचीयते इत्याह- सर्वमित्यादि । सर्वं प्रियमप्रियं वा उत्सृज्य विहाय गन्तव्यम् । एतत्तु न मया मुग्धेन परिभावितम् ॥

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
अहं च न भविष्यामि सर्वं च न भविष्यति ॥ ब्च_२.३६ ॥

किमिदानीं परिशिष्टमवस्थितमित्याह-

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते ।
स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥ ब्च_२.३७ ॥

यद्यद्वस्त्विति सुखहेतुर्दुःखहेतुर्वा । अनुभूयते संवेद्यते । कथं पुनरेवमित्याहस्वप्नानुभूतवदिति । यथा स्वप्नावस्थायामुपलब्धं विनष्टं न पुनरीक्ष्यते, तत्र स्मरणमात्रमेव अवशिष्यते ॥

तथा अन्यदपि सर्वं प्रियादिसंगतमस्थिरमस्मिन्नेव जन्मनीत्युपदर्शयन्नाह-

इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः ।
तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥ ब्च_२.३८ ॥

(ब्च्प्३१) तिष्ठतः आसीनस्यैव मम पश्यतः । गता अनित्यतया ग्रसिताः । यद्येवं तर्हि तदर्थं कृतं पापमपि तैः सह यास्यतीत्याह- तन्निमित्तमित्यादि । तेषां प्रियादीनां निमित्तं तदर्थं यत्कृतं पापं तत्पुनरग्रत एव स्थितं मे । तन्मया सह यास्यतीत्यर्थः ॥

नन्वेवं पश्यन्नपि कथं मूर्च्छितोऽसीत्याह-

एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितम् ।
मोहानुनयविद्वेषैः कृतं पापमनेकधा ॥ ब्च_२.३९ ॥

नाहं कस्यचित्परितः, न मे कश्चित्, इत्येवं न मया प्रत्यवेक्षितं विचारितम् । तेन कारणेन । अनुनय आसङ्गः आत्मनि आत्मीये च । विद्वेषः प्रतिघः । तत्प्रतिकूलमाचरति ॥

चिरतरमतिदीर्घायुषो भवतः का मरणाशङ्का? तत्किमेवं बिभेषीत्याह-

रात्रिंदिवमविश्राममायुषो वर्धते व्ययः ।
आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥ ब्च_२.४० ॥

अहर्निशम् । आयुषो वर्धते व्ययः, आयुःसंस्काराः क्षीयन्ते । अविश्राममिति क्षणमपि न व्ययविच्छित्तिरस्ति । आगमनमागमः अनुप्रवेशः । स च आयस्य उपचयस्य लेशतोऽपि न संविद्यते तदहमेवं किं नु न मरिष्यामि? अपि तु चिरमपि स्थित्वा जीवितं मरणपर्यवसानमिति ॥

स्यादेतत् । यन्निमित्तं कृतं पापं तेऽपि न नरकादिषु तत्फलदुःखानुभवकाले संविभागिनो भविष्यन्ति । तत्किमिति कातरभावमवलम्बसे इत्यत्राह । आस्तां तावत्परलोके-

इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता ।
मयैवेकेन सोढव्या मर्मच्छेदादिवेदना ॥ ब्च_२.४१ ॥

इह अस्मिन्नेव भवे मरणान्तिकादिदुःखबाधायां स्वजनपरिजनमध्यगतेनापि । मर्मच्छेदादिवेदनेति पिपासागात्रसंतापादिदुःखं मयैवैकेन सोढव्यम् । न तत्र अल्पीयानपि भागोऽन्यस्य संभवति ॥

किं पुनर्नरकादावित्याह-

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् ।
पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥ ब्च_२.४२ ॥

कालदूतैर्गृहीतस्य अधिष्ठितस्य गलपाशेन बद्धस्य मुद्गरैराकोट्यमानस्य अटवीकान्तारगहनकण्टकविषमशिलाशकलैर्वितुद्यमानचरणस्य असहायस्य कर्मानुभवभूमिं नीयमानस्य । कुतो बन्धुः कुतः सुहृतिति न तत्र केचित्सहायास्राणं संभवन्ति । पुण्यमेवैकं तदा त्राणं स्यात् । मया तच्च न सेवितम्, तच्च पुण्यं त्राणभूतं मया नोपार्जितम् ॥

(ब्च्प्३२) पुनरपि पापात्संवेगमाह-

अनित्यजीवितासङ्गादिदं भयमजानता ।
प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥ ब्च_२.४३ ॥

अस्थायिनि जीविते । आसङ्गादाग्रहात् । इदमागामि नरकादिदुःखभयमजानता अपश्यत । प्रमत्तेनेति यौवनरूपधनाधिपत्यादिमदमत्तेन ॥

किं पुनरेवं संवेगबहुलो भवानित्याह-

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति ।
पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥ ब्च_२.४४ ॥

अत्यल्पमिदं करचरणादिच्छेदनं दुःखं नरकदुःखात् । तथापि तत्रेयमवस्था भवति । विशुष्यति सर्वात्मना शोषमुपयाति । पिपासितस्तृष्णार्तः । दीनदृष्टिरिति कृपणदृष्टिः । अन्यदेवेति विपरीतम् ॥

नरकदुःखस्यातिशयमाह-

किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः ।
महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ ब्च_२.४५ ॥

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशम् ।

भैरवाकारैरिति भयंकररूपैः । अधिष्ठितः आत्मसात्कृतः । महात्रासनज्वरस्तेन ग्रस्तो गृहीतः । पुरीषमुच्चारः, तस्योत्सर्गो विनिर्गमः, तेन वेष्टितो विलिप्तः । कातरैरिति दीनैः । चतुर्दिशं त्राणान्वेषी । कथमित्याह-

को मे महाभयादस्मात्साधुस्त्राणं भविष्यति ॥ ब्च_२.४६ ॥

साधुरकारणवत्सलः । त्राणं परित्राता ॥

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः ।
तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये ॥ ब्च_२.४७ ॥

एवमपि यदा कुत्रचिदपि त्राणं न पश्यति, तदा त्राणाभावात्पुनः संमोहमागतः । तदा तस्मिन् काले किं करिष्यामि? सर्वक्रियासु असमर्थः सन् । तस्मिन् स्थाने प्रतापनादिनरकभूमौ ॥

तस्मादिदानीमेव प्रतीकारानुष्ठानं युक्तमित्याह-

अद्यैव शरणं यामि जगन्नाथान्महाबलान् ।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् ॥ ब्च_२.४८ ॥

जगतां नाथान् सर्वाश्वासनिर्वृतिस्थानभूतान्नायकान् । महाबलानिति सर्वत्राप्रतिहतसामर्थ्यान् । जगद्रक्षार्थमुद्युक्तानिति सर्वसत्त्वपरित्राणार्थमुद्युक्तान् । एवमपि (ब्च्प्३३) त्राणानाश्रित्य भयोपशमो न स्यात्, तदा किं शरणगमनेनेत्यत्राह- सर्वत्रासहरानिति सर्वव्यसनापहर्तॄन् ॥

धर्मसंघशरणगमनमाह-

तैश्चाप्यधिगतं धर्मं संसारभयनाशनम् ।
शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ ब्च_२.४९ ॥

तैर्बुद्धैर्भगवद्भिः । अधिगतं साक्षात्कृतम् । धर्मं निर्वाणमित्यर्थः । संसारभयनाशनं सर्वक्लेशप्रतिपक्षत्वात् । भावेनेति परमप्रसादेन न मायाशाठ्येन विचिकित्सया वा । बोधिसत्त्वगणमिति संघम् । तथेति भावेन ॥

इदानीं यथाप्रधानं बोधिसत्त्वेभ्य आत्मनिर्यातनं कुर्वन्नाह-

समन्तभद्रायात्मानं ददामि भयविह्वलः ।
पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना ॥ ब्च_२.५० ॥

समन्तभद्राय बोधिसत्त्वाय । आत्मानं ददामि निर्यातयामि । भयविह्वलो नरकादिभयव्याकुलः । पुनश्च मञ्जुघोषाय मञ्जुनाथाय । आत्मनेति न परप्रेरणया । स्वयमेव प्रसन्नचित्त इत्यर्थः ॥

तं चावलोकितं नाथं कृपाव्याकुलचारिणम् ।
विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥ ब्च_२.५१ ॥

आर्यावलोकितेश्वरम् । कृपया व्याकुलं चरितं शीलमस्येति कृपाव्याकुलचारिणमिति तस्यैव विशेषणम् । विरौमि आरवं करोमि । आर्तरवमिति क्रियाविशेषणम् । दुःखदीनकातरस्वरम् । भीतः त्रस्तः पापकर्मफलात् । स भगवानवलोकितः मां रक्षतु पापिनं कृतपापं मां त्रायताम् ॥

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः ।
सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥ ब्च_२.५२ ॥

आर्यमाकाशगर्भं च बोधिसत्त्वम् । क्षितिगर्भं च बोधिसत्त्वम् । विरौमीति परेण संबन्धः । सर्वान्महाकृपांश्चापि, येऽपि न नामग्रहणेनोदाहृताः, तानपि परमकारुणिकान् परदुःखदुःखिनः ॥

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम् ।
यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम् ॥ ब्च_२.५३ ॥

यस्य दर्शनमात्रेण यमदूतादयः । आदिशब्दादन्येऽपि यक्षराक्षसादयो दुष्टा भीताः सन्तः पलायन्ते, दूरमपगच्छन्ति । तं नमस्यामि नमस्करोमि । वज्रिणमिति वज्रमस्यास्तीति वज्रपाणिं बोधिसत्त्वम् । तदनेन शरणगमनादिना पापक्षयार्थमाश्रयबलमुपदर्शितम् । यदुक्तं चतुर्धर्मकसूत्रे-

(ब्च्प्३४) तत्राश्रयबलं बुद्धधर्मसंघशरणगमनमनुत्सृष्टबोधिचित्तता च । स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम् । इति ॥

पुनरन्यथात्वशंकां निराकर्तुमाह-

अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात् ।
शरणं यामि वो भीतो भयं नाशयत द्रुतम् ॥ ब्च_२.५४ ॥

अतिक्रम्य युष्मदाज्ञाम् । सांप्रतमिदानीम् । भयदर्शनात्, तदतिक्रमे यस्मादनिष्टफलसंभवदर्शनात्, वो युष्मान् शरणं यामि भीतः अनिष्टफलादुत्त्रस्तः । तस्मात्पुनरन्यथाशङ्का न कर्तव्या । अतो भयं नाशवत, पूर्वकृतपापाद्भयमपनयत । द्रुतं शीघ्रम् । ममेत्यध्याहार्यम् ॥

ननु एवमपि कः प्रत्येष्यति । त्वद्वचनादित्याशङ्कय पुनरत्रार्थे दृढतामाह-

इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत् ।
किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः ॥ ब्च_२.५५ ॥

इत्वरो गत्वरो नश्वरोऽचिरस्थायीत्यर्थः । लघुर्वा । स चासौ व्याधिश्चेति, तस्माद्भयेन । वैद्यवाक्यं न लङ्घयेत्वैद्योपदेशं नातिक्रमेत् । मा अयं व्याधिर्मम वृद्धिमुपगच्छेत् । किमु किं पुनः । व्याधिशतैर्ग्रस्तो लङ्घयेत् । चतुर्भिश्चतुरुत्तरैरिति चतुरधिकैश्चतुर्भिः शतैरित्यर्थः । शतमकालमृत्यूनाम्, एकं कालमरणमित्येकोत्तरं शतं मृत्यूनाम् । ते च प्रत्येकं वातपित्तश्लेष्मकृताः तत्संनिपातकृताश्चेति चतुरुत्तराणि चत्वारि शतानि भवन्ति । इति कारणभेदात्कार्यभेदः, कार्यभेदाच्च कारणभेदव्यवस्था ॥

ननु तथापि किमत्र भयकारणं यन्नास्तीत्याह-

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः ।
नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते ॥ ब्च_२.५६ ॥

एकेनापि व्याधिना कुपितेन यस्मात्सर्वे जम्बुद्वीपगता नराः प्राणिनो नश्यन्ति म्रियन्ते । अन्यच्च । येषां व्याधीनां भैषज्यमौषधं चिकित्सार्थं क्वचिदपि न प्राप्यते । अत्र काशिराजपद्मकजातकमुपनेयम् । तद्यथानुश्रूयते- बोधिचर्यां चरन्नयमेव भगवानतीतेऽध्वनि पद्मो नाम काशिराजो बभूव । तस्मिन् समये सर्वे जम्बुद्वीपका मनुष्या महता रोगेण विकलीभूता म्रियन्ते च । तैरिदमालोचितम्- अयमेव अस्माकं स्वामी राजा परमकारुणिकः प्रतीकारं विधास्यतीति अस्यैव आत्मदुःखं निवेदयामः । ते च एवमवधार्य मिलित्वा, भो महाराज, भवति स्वामिनि परमहितैषिणि संविद्यमानेऽपि इयमस्माकमवस्था, इति तस्मिन् राजनि दुःखमाविष्कृतवन्तः । स च राजा करुणापरवशहृदयः तेषां दुःखमसहमानः शीघ्रममीषां रोगपीडामपनयत इति वैद्यानाज्ञापयामास । तेऽपि तथेति प्रतिश्रुत्य (ब्च्प्३५) चिकित्साशास्त्राणि व्यवलोक्य सद्योरोहितमत्स्यमांसादन्यद्भैषज्यमलभमानाः तथैव राज्ञः प्रत्युक्तवन्तः । इति विस्तरः । इदमेव जातकं भवोपलक्षणं दर्शितम् ॥

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः ।
वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥ ब्च_२.५७ ॥

कायिकमानसिकानेकशल्योद्धारिणः । आत्मानं जुगुप्सते । धिङ्मामत्यन्तमोहितमिति । एवं जानन्नपि यदि तथागताज्ञाया वैमुख्यमासेवे, तदा मम मोहस्य पर्यन्तो नास्ति । कुत्सनीयोऽस्मीत्यर्थः ॥

किं पुनरेवमित्याह-

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि ।
किमु योजनसाहस्रे प्रपाते दीर्घकालिके ॥ ब्च_२.५८ ॥

पर्वतादिप्रपातेषु अल्पतरेषु यत्रास्थिभङ्गमात्रं मरणमात्रं वा दुःखं स्यात् । किमु योजनसाहस्र इति । योजनसहस्रं परिमाणमस्य इत्यण् । अनेकयोजनसहस्रपरिमाणे अवीच्यादिकप्रपाते इत्यर्थः । दीर्घकालिक इति । यत्रान्तरकल्पादिभिरायुषः क्षयः ॥

सद्यो मरणमदृष्ट्वैव किमकाण्डे कातरतया सुखासिकां जहासीत्याह-

अद्यैव मरणं नैति न युक्ता मे सुखासिका ।
अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥ ब्च_२.५९ ॥

अवश्यमिति निश्चितमेतत् ॥

तथापि भयमयुक्तमित्याह-

अभयं केन मे दत्तं निःसरिष्यामि वा कथम् ।
अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः ॥ ब्च_२.६० ॥

अभयं मा भैरिति केन सत्पुरुषेण मम दत्तं येन निर्भयो विहरिष्यामीति भावः । यदि वा निःसरणोपायोऽपि यदि भवेत्, तथापि भयमयुक्तम् । तदपि नास्ति । निःसरिष्यामि वा कथं ततो दुःखात् । अवश्यं न भविष्यामीति । सर्वजीवितं मरणपर्यवसानमित्युक्तं भगवता ॥

इत्थमपि न युक्ता मे सुखासिकेत्याह-
पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम् ।
येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥ ब्च_२.६१ ॥

अभिनिविष्टेनेति आसक्तेन । गुरूणामिति बुद्धबोधिसत्त्वकल्याणमित्राणाम् ॥

तस्मादिदमहर्निशं मम मनसि कर्तुमुचितमित्याह-

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा ।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ ब्च_२.६२ ॥

(ब्च्प्३६) जीवलोकं सत्त्वलोकम्, इमं मनुष्यादिअसभागतालक्षणम् । एकाकीत्यसहायः । क्वापीत्यनिश्चितस्थानम् ॥

इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा ।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ ब्च_२.६३ ॥

अशुभादिति अकुशलात्कर्मणः । तत इत्यशुभात् ॥

सांप्रतं कृतकर्मफलसंबन्धनिश्चयो महताभिनिवेशेन पुनरत्ययदेशनामारभत इत्याह-

मया बालेन मूढेन यत्किंचित्पापमाचितम् ।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥ ब्च_२.६४ ॥
तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः ।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ ब्च_२.६५ ॥

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः ।

बालेनेति अजानता । मूढेनेति मोहान्धेन । यत्किंचिदिति कायेन वाचा मनसा वा । प्रकृतिसावद्यं प्राणातिपातादिदशाकुशलस्वभावम् । प्रज्ञप्तिसावद्यं यद्भगवता गृहीतसंवराणामेव प्रज्ञप्तमकालभोजनादिरूपम् । देशयामीति वाग्विज्ञप्तिमुत्थापयति । कृताञ्जलिरिति कायविज्ञप्तिः । प्रणिपत्य पुनःपुनरिति अतिशयवच्चित्तसंवेगमुपदर्शयति । अति यतत्यनेन नरकादिषु इति अत्ययः, अशुभं कर्म । तमत्ययत्वेन दोषत्वेन प्रतिगृह्णन्तु जानन्तु पश्यन्तु विदन्तु व्यक्तीकृतं मया । अनावरणचित्तेन, प्रच्छादना अत्र ममास्तीति भावः ॥

पुनः स्खलितशङ्कामपाकर्तुं पुनरकरणसंवरं कुर्वन्नाह- न भद्रकमित्यादि ।

न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया ॥ ब्च_२.६६ ॥

यदार्यकान्तं विज्ञप्रशस्तं न भवति तदभद्रकं गर्हितमनार्यं कर्मेत्युच्यते । तदद्यप्रभृति जानता पश्यता बुद्धिपूर्वकं संचिन्त्य पुनर्मया न कर्तव्यम् । आयत्यां पुनरकरणसंवरमापत्स्ये इत्यर्थः । एतच्च त्रिस्कन्धप्रवर्तनप्रस्तावे [बोधे, ५.९८-९९] व्यक्तीकरिष्यते ॥

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां पापदेशना नाम द्वितीयः परिच्छेदः ॥