बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/षष्ठः परिच्छेदः
← पञ्चमः परिच्छेदः | बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः) षष्ठः परिच्छेदः प्रज्ञाकरमतिः |
सप्तमः परिच्छेदः → |
६. क्षान्तिपारमिता नाम षष्ठः परिच्छेदः ।
तदेवं बहुधा शीलविशुद्धिं प्रतिपाद्य आत्मभावादीनां रक्षां शुद्धिं प्रतिपाद्य शुभविशुद्धिं प्रतिपादयितुम्, यच्चोक्तम्-
क्षमेत श्रुतमेषेत संश्रयेत वनं ततः ।
समाधानाय युज्येत भावयेदशुभादिकम् ॥
[शिक्षा. स. कारिका-२०]
इत्येतच्च अभिधातुमुपक्रमते सर्वमित्यादिना-
सर्वमेतत्सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ ब्च_६.१ ॥
सर्वमेतदिति शीलसंवरसमादानप्रसूतम् । सुचरितं कुशलं कर्म । दानं त्रिविधम् । सामान्येन सुगतपूजनमपि त्रिविधम् । कृतमुपार्जितमनेकैः कल्पसहस्रैर्यत्तत्सर्वं प्रतिघः सत्त्वविद्वेषः प्रतिहन्ति निर्दहति बह्निलव इव तृणसंघातम् ॥
आर्यमञ्जुश्रीविक्रीडितसूत्रे चाह- प्रतिघः प्रतिघ इति मञ्जुश्रीः कल्पशतोपचितं कुशलं प्रतिहन्ति, तेनोच्यते प्रतिघ इति ॥
आर्यसर्वास्तिवादिना पठ्यते- पश्यथ भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त । अनेन भिक्षवो भिक्षुणा यावती भूमिराक्रान्ता, अधश्चतुरशीतियोजनसहस्राणि, यावत्काञ्चनवज्रमण्डलान्तरे यावन्त्यो वालिकाः, तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि । यावत् । अथायुष्मानुपालिर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- यदुक्तं भगवता अस्य भिक्षोरेवं महान्ति कुशलमूलानि । कुत्रेमानि भगवन् कुशलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति? नाहमुपाले एवं क्षतिमुपहतिं च समनुपश्यामि यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिके दुष्टचित्तमुत्पादयति । तत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति । तस्मात्तर्हि उपाले एवं शिक्षितव्यं यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काये इति ॥
अत एवाह-
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ ब्च_६.२ ॥
न च द्वेषेण समं पापमशुभं पुण्याभिभवहेतुरस्ति । न च क्षान्त्या तितिक्षया समं तुल्यं तपः । सुमहत्परिश्रमसाध्यत्वात्सुकृतम् । यत एवम्, तस्मात्क्षान्तिं क्षमां सर्वतात्पर्येण भवयेदभ्यसेत् । विविधैर्नानाप्रकारैरुपायैर्वक्ष्यमाणैः ॥
(ब्च्प्८२) दृष्टधर्म एव द्वेषस्य दोषान् वृत्तत्रयेणोपदर्शयन्नाह-
मनः शमं न गृह्णाति न प्रीतिसुखमश्रुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ ब्च_६.३ ॥
पूजयत्यर्थमानौर्यान् येऽपि चैनं समाश्रिताः ।
तेऽप्यनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ ब्च_६.४ ॥
सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते ।
संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ ब्च_६.५ ॥
शमं प्रशमं न गृह्णाति नाश्रयते । अनुपशान्त एव सदा द्वेषानलप्रज्वलितत्वात्न प्रीतिसुखं सौमनस्यसुखमश्नुते आप्नोति, तेनैवाक्रान्तत्वात् । न निद्रां न धृतिं चित्तसुखं लभते कायचित्तसंतापकारिणि द्वेषशल्ये हृदयनिवासिनि । पूजयति सत्करोति लाभसत्कारैर्यान् । येऽपि चानुजीविनः, एवं द्वेषिणं स्वामिनमपकर्तुमिच्छन्ति । किमिति? द्वेषदुर्भगमप्रियमिति हेतुपदमेतत् । सुहृदो भित्राण्यपि उद्विजन्ते उत्त्रसन्ति अस्माद्द्वेषिणः । दानोन्मुखोऽपि भृत्यवर्गैर्न सेव्यते नोपगम्यते । किं बहुना? इदमिह संक्षेपेणावधार्यताम्- नास्ति तदुपशमकारणं किंचिद्येन कोपनः सुखं लभेत ॥
चित्तस्य कर्कशावस्था द्वेषः । तस्योद्भूतवृत्तिस्तु क्रोधः, यद्वशात्दण्डादिग्रहणं क्रियते । इति अनयोर्भेदेऽपि द्वयोरपि परिहर्तव्यतया अभेदेनैव निर्देशः ॥
एवमिह दृष्टधर्मेऽपि द्वेषदोषानवगम्य तत्परित्यागाय यत्नवता भवितव्यमित्याह-
एवमादीनि दुःखानि करोतीत्यरिसंज्ञया ।
यः क्रोधं हन्ति निर्बन्धात्स सुखीह परत्र च ॥ ब्च_६.६ ॥
एवं यथोक्तप्रकारेण दुःखानि जनयति यस्मात्, तस्माद्यः सुकृतात्मा निर्बन्धात्, गाढाभिनिवेशात् । आरब्धवीर्य इत्यर्थः । स सुखी इहलोके परलोके च ॥
इदानीं द्वेषोपघाताय तत्कारणमुपहन्तुं व्यवस्थां कुर्वन्नाह-
अनिष्टकरणाज्जातमिष्टस्य च विघातनात् ।
दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् ॥ ब्च_६.७ ॥
तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः ।
आत्मात्मीयग्रहप्रसूते इष्टानिष्टे । आत्मात्मीययोः सुखसाधनमिष्टम्, तद्विपरीतमनिष्टम्, इति कल्पनाकृतमेवैतत् । न तु परमार्थतः किंचिदिष्टमनिष्टं वा संभवति । तस्मान्मिथ्याभिनिवेशवासनावशातनिष्टस्य करणात्, इष्टस्य चोपहननाद्दौर्मनस्यं मानसं दुःखमुपजायते, तस्मात्तत्कारिणि तद्विरोधिनि वा द्वेष उत्पद्यते । इति दौर्मनस्यमेव बलबद्भोजनं (ब्च्प्८३) लब्धसामर्थ्यः सन् द्वेषो निहन्ति मामिति निश्चित्य तत्पुष्टिकारणं च हनिष्यामि प्रथमतः । तस्मिन् हते सुखमेव । तस्य हननात्, समूलघातं हतस्य पुनरुत्थानायोगाच्च ॥
ननु कोऽयमत्यर्थमभिनिवेशो भवत इत्याह-
यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः ॥ ब्च_६.८ ॥
यस्मात्मम वधं विहाय रात्रिंदिवमपरं न किंचिद्द्वेषस्य वैरिणः करणीयमस्ति ॥
एवं द्वेषदोषान् विभाव्य सर्वोपायेन तद्विपक्शभूतां क्षान्तिमुत्पादयेत् । तत्र क्षान्तिस्त्रिविधा धर्मसंगीतिसूत्रेऽभिहिता । तद्यथा- दुःखाधिवासनाक्षान्तिः, धर्मनिध्यानक्षान्तिः, परापकारमर्षणक्षान्तिश्च । तत्र तावद्दुःखाधिवासनाक्षान्तिमधिकृत्याह-
अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया ।
दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ ब्च_६.९ ॥
दुःखाधिवासनाक्षान्तिविपक्षः अनिष्टागमप्राप्तदुःखभीरुता, इष्टविघातप्राप्तश्च सुखाभिष्वङ्गः । ताभ्यां दौर्मनस्यम् । ततो द्वेषो लीनचित्तता वा । अत एवाह चन्द्रप्रदीपसूत्रेसुखेऽनभिष्वङ्गः, दुःखेऽवैमुख्यम् । इति । रत्नमेघसूत्रेऽप्युक्तम्- य इमे आध्यात्मिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः, तान् क्षमते अधिवासयतीति ॥
अतो यदि नाम मम शिरश्छिद्यते, तथापि न क्षोभ्या न विकोपयितव्या मुदिता मया । मुदिता हि दौर्मनस्यप्रतिपक्षः । दुःखागमेऽपि प्रमुदितचित्तस्य दौर्मनस्यानवकाशात्, इति दौर्मनस्यनिरासाय मुदिता यत्नेन रक्षितव्या । कुतः? दौर्मनस्येऽपि कृते इष्टविघाते सति नास्तीष्टं नाभिलषितं सेत्स्यति । अयं तु विशेषः स्यात्- कुशलं पुनरुपहन्यते ॥
मुदिता च आर्याक्शयमतिसूत्रे वर्णिता- तत्र कतमा मुदिता? या बुद्धधर्माणामनुस्मरणात्प्रीतिः प्रसादः प्रामोद्यं चित्तस्यानवलीनता अनवमृद्यता अपरितर्षणता, सर्वकामरतीनामपकर्षणात्सर्वधर्मरतीनां प्रतिष्ठानम्, चित्तस्य प्रामोद्यम्, कायस्यौद्विल्यम्, बुद्धेः संप्रहर्षणम्, मनस उत्पलवः, तथागतकायाभिनन्दनरतिः । इति विस्तरः ॥
किं चेदमविचारयतो दौर्मनस्यमुत्पद्यते इत्याह-
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ ब्च_६.१० ॥
यदि च इष्टविघातनिवर्तनाय अनिष्टोपनिपातप्रतिषेधाय च प्रतीकारः उपायान्तरमस्ति, तदा दौर्मनस्येन तत्र किम्? तदेव अनुष्ठीयताम् । अथ नास्ति, तदापि दौर्मनस्येन तत्र किम्? न किंचित्प्रयोजनम् । उपायाभावात्सर्वथा गतमेतत् । इति विचार्य दौर्मनस्यनिवर्तनमेव वरम् ॥
अभ्यासाद्दुःखमबाधकं भवतीति प्रसाधयितुमुपक्रमते-
दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम् ।
प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् ॥ ब्च_६.११ ॥
(ब्च्प्८४) दुःखं कायिकं मानसिकं चेति द्विविधम् । तत्र कायिकं दण्डादिघातजम् । मानसिकं न्यक्कारादिनिमित्तम् । तत्र न्यक्कारो धिक्कारः । पारूष्यं मर्मघट्टनावचनम् । अयशश्च अकीर्तिः वैगुण्यप्रकाशनम् । इत्येतत्सर्वमनभिलषितम् । यदि परेषां शिवं ननु? तदर्थमाह- प्रियाणाम् । आत्मीयत्वेन ये स्वीकृताः, प्रेमस्थानं तेषामात्मनश्च । दुःखादिकारकस्य पुनः शत्रोरेतद्विपर्ययात् । तस्य दुःखादिकमभीष्टमेव ॥
तत्र दुःखसहिष्णुतां तावन्निराकर्तुमाह-
कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः ।
दुःखेनैव च निःसारः चेतस्तस्माद्दृढीभव ॥ ब्च_६.१२ ॥
महता प्रायत्नेन कुशलपक्षमुपसेव्य कदाचित्कर्हिचित्सुदुर्लभं संसारे सास्रवं सुखं लभ्यते । दुःखं तु सर्वदा सुलभम्, अयत्नसिद्धत्वात्, इति तदभ्यासो न दुष्करः, सर्वदा परिचितत्वात् । किं च । संसारनिःसरणोपायोऽपि दुःखमेव । तथापि पाथेयरूपतया तत्परिग्रहो युक्त एव । यत एवम्, तस्माथे चित्त, दुःखानुभवनाय दृढीभव, मा कातरतामाश्रयस्व ॥
अपि च । इदं दुःखं महार्थसाधकत्वात्सोढुमुचितम्, इति मनसि कर्तव्यम्, इत्याह-
दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् ।
वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः ॥ ब्च_६.१३ ॥
दुर्गापुत्रकाः चण्डीसुताः । महानवमीसमयादिषु त्रिरात्रमेकाहं वा उपोष्य गात्रदाहच्छेदनभेदनं कुर्वन्तो दुःखां वेदनां निष्फलमेवानुभवन्ति । तथा कर्णाटदेशादिसमुद्भूता दाक्षिणात्या उपरिनामलिखनमात्राभिमानतः परस्परं स्पर्धमाना अनेकाभिः कारणाभिर्दुःखमनुभवन्तो जीवितमप्युत्सृजन्ति । अहं तु स्वपरात्मनोः परमदुर्लभबुद्धत्वसाधनाय कृतोत्साहः दुःखैः कस्मात्कारणात्कातरीभवामि?
स्यादेतत्- अत्यल्पदुःखं कथंचित्सोढुं शक्यते । करचरणशिरश्छेदनादिदुःखं नरकादिदुःखं वा मुक्तयर्थं कथं नु सोढव्यमित्यत्राह-
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् ।
तस्मान्मृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥ ब्च_६.१४ ॥
शास्त्राभ्यासकलादि कौशलादि मृदुमध्यातिमात्रदुःखानुभवनादि वा वस्तु न तद्विद्यते किंचित्यदभ्यासगोचरो न भवति । सर्वमेव अभ्यासादात्मसात्कर्तुं शक्यत इति भावः । यस्मात्तस्मातत्यल्पतरादिव्यथाभ्यासान्नरकादिमहाव्यथापि सोढुं [शक्यते] । यथोक्तम्- तत्र अल्पदुःखाभ्यासपूर्वकं कष्टकष्टतराभ्यासः सिध्यति । यथा च अभ्यासवशात्(ब्च्प्८५) सत्त्वानां दुःखसुखसंज्ञा, तथा सर्वदुःखोत्पादेषु सुखसंज्ञाप्रत्युपस्थानाभ्यासात्सुखसंज्ञैव प्रत्युपतिष्ठते । एवं निष्पन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते । उक्तं हि पितापुत्रसमागमे-
अस्ति भगवन् सर्वधर्मसुखाक्रान्तो नाम समाधिः, यस्य समाधेः प्रतिलम्भाद्बोधिसत्त्वः सर्वारम्बणवस्तुषु सुखामेव वेदनां वेदयते न दुःखाम्, नादुःखसुखाम् । तस्य नैरयिकामपि वेदनां कार्यमाणस्य सुखसंज्ञैव प्रत्युपस्थिता भवति । मानुषीमपि कारणां कार्यमाणस्य, हस्तेष्वपि छिद्यमानेषु पादेष्वपि कर्णेष्वपि नासास्वपि, सुखसंज्ञैव प्रत्युपस्थिता भवति । वेत्रैरपि ताड्यमानस्य अर्धवेत्रैरपि कशाभिरपि ताडयमानस्य सुखसंज्ञा प्रवर्तते । बन्धनागारेष्वपि प्रक्षिप्तस्य, तैलपाचिकां वा क्रियमाणस्य, इक्षुकुट्टितिकं वा कुट्यमानस्य, नडचिप्पितिकं वा चिप्यमानस्य, तैलप्रद्योतिकं वा आदीप्यमानस्य यावत्कार्षापणच्छेदिकां छिद्यमानस्य पिष्टपाचनिकां वा पाच्यमानस्य, हस्तिभिर्वा मर्द्यमानस्य सुखसंज्ञैव प्रवर्तते ॥ इति विस्तरः ॥
स्यादेवैतद्यदि प्रथमत एव मृदुव्यथाभ्यसः स्यात् । यावता स एव नास्तीति । अत्राह-
उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम् ।
महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि ॥ ब्च_६.१५ ॥
उद्दंशादिकृतदुःखमनर्थं किं न पश्यसि? तदयत्नसिद्धं मृदुव्यथाभ्यासनिमित्तमस्त्येव इति भावः ॥
पुनरन्यथा स्वचित्तं द्रढयितुमाह-
शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः ।
सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा ॥ ब्च_६.१६ ॥
सुकुमारतरचित्तस्य हि दुःखमतितरां बाधकं भवति, दुःखेऽपि दृढचित्तस्य विपर्ययः ॥
ननु दृढीकरणेऽपि चित्तस्य दुःखमसह्यमेवेति । अत्राह-
केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः ।
परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् ॥ ब्च_६.१७ ॥
तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् ।
दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्वयथाम् ॥ ब्च_६.१८ ॥
न खलु दृढचित्तस्य किंचिदशक्यं नाम । तथाहि- केचिद्वीरपुरुषाः संग्रामभूमौ स्वशोणितमपि पश्यन्तोऽधिकतरं शौर्यमाभजन्ते । केचित्पुनः कातरचित्तसंततयः पररुधिरदर्शनादपि (ब्च्प्८६) मरणान्तिकं दुःखमनुभवन्ति । एतदुभयमपि चित्तस्य इतरेतराभ्यासविपर्ययातिति मत्वा दुःखदुर्योधनो नाधिगम्यो भवेत्, दुःखैरप्यकम्प्यत्वात् । ततोऽभिभवेद्व्यथाम्, न पुनस्तयामिभूयते ॥
इत्थमप्यभिभवेद्व्यथामित्याह-
दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः ।
संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा ॥ ब्च_६.१९ ॥
प्रसादं पूर्वोक्तं नावसादयेद्विचक्षणः । कुतः? यस्मात्क्लेशशत्रुभिः सह संग्रामोऽयमारब्धः । संग्रामे च व्यथा नाम न भवेदिति दुर्लभम्, व्यथा तु सुलमैव ॥
ननु तथापि दुष्करमिदमतीव दृश्यत इति । अत्राह-
उरसारातिघातान् ये प्रतिच्छन्तो जयन्त्यरीन् ।
ते ते विजयिनः शूराः शेषास्तु मृतमारकाः ॥ ब्च_६.२० ॥
अभिमुखमभिभवन्तः शत्रुम् । तत्प्रहारान् वक्षःस्थलेन प्रतीच्छन्तो ये जयन्ति समरे रिपून्, ते ते शूरपुरुषाः पररिपुविजयादिह लब्धविजयाः प्रशस्यन्ते । ये पुनरन्ये छलप्रहारादिभिरभिभवन्ति शत्रुम्, ते च अकिंचित्करतया मृतमारका जुगुप्सनीया एव शूरैः ॥
इतोऽपि गुणदर्शनाद्दुःखमधिवासयितव्यमित्याह-
गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः ।
संसारिषु च कारुण्यं पापद्भीतिर्जिने स्पृहा ॥ ब्च_६.२१ ॥
अयमपरः शुभहेतुर्गुणो दुःखस्यास्य संबोधिमार्गानुकूलः, यद्दुःखस्य समावेशे मनसि संवेग उपजायते । तस्माच्च यौवनधनादिकृतस्य मदस्य च्युतिर्भङ्गो जायते, संसारिषु च संसारदुःखपीडितेसु करुणाचित्तम्, पापस्य फलमिदमिति मत्वा पापाद्भयमकरणचित्तं च, बुद्धे च भगवति स्पृहा भक्तिः श्रद्धा चित्तप्रसादश्च । भगवानेव हि दुःखक्षयगामिनं मार्गमुपदिष्टवानिति ॥
परप्रत्ययोत्पन्नदुःखाधिवासनाय परामृशन्नाह-
पित्तादिषु न मे कोपो महादुःखकरेष्वपि ।
सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः ॥ ब्च_६.२२ ॥
पित्तादिदोषत्रयात्मकमेव शरीरम् । ते च तथाविधाहारविहारवैगुण्याद्विषमावस्थां प्राप्ता व्याधीन् जनयन्तः सर्वदुःखहेतवो भवन्ति । तथापि न तेषु मम कोपः, अचेतनत्वात् । न ते संचिन्त्य दुःखदायकाः, किं तर्हि स्वकारणसामग्रीबलेन प्रकोपमुपागताः । यद्येवम्, सचेतनेषु किं कोपः? किं न स्यादिति चेत्, तेऽपि पूर्वकर्मापराधात्स्वकारणसामग्रीप्रकोपिता दुःखदायका भवन्ति । इति पित्तादिवत्तेष्वपि न युज्यते मम क्रोधः ॥
(ब्च्प्८७) उभयत्रापि समानं कारणाधीनत्वमित्युपदर्शयन्नाह-
अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा ।
अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा ॥ ब्च_६.२३ ॥
स्वप्रत्ययोपजनितसामर्थ्येभ्यः पित्तादिभ्योऽनभिप्रेतमपि शूलमवश्यमुत्पद्यते यथा, तथा स्वहेतुमपरिणामाधिगतशक्तिभ्यो दौर्मनस्यादिभ्यः क्रोध उत्पद्यते, इति साधारणमनयोर्हेतुप्रत्ययाधीनत्वम् ॥
अथ स्यात्- उक्तमत्र सचेतनाः संचिन्त्य तथाविधानिष्टकारिणः, न तु पुनरितरे तथेत्याह-
कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः ।
उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च ॥ ब्च_६.२४ ॥
तत्प्रत्ययसामग्रीमन्तरेण कुप्यामीत्येवं बुद्धिपूर्वकं संचिन्त्य न जनः स्वैरं प्रकुप्यति । क्रोधोऽपि उत्पत्स्य इत्यभिसंघाय स्वातन्त्र्येण नैवोत्पद्यते ॥
तस्मादिदमेवात्र प्रमाणसिद्धमित्याह-
ये केचिदपराधाश्च पापानि विविधानि च ।
सर्व तत्प्रत्ययबलात्स्वतन्त्रं तु न विद्यते ॥ ब्च_६.२५ ॥
इदंप्रत्ययतामात्रसमुपस्थितस्वभावं सर्वमिदम् । न तु स्वातन्त्र्यप्रवृत्तं किंचिदपि विद्यते ॥
न च प्रत्ययसामग्र्या जनयामीति चेतना ।
न चापि जनितस्यास्ति जनितोऽस्मीति चेतना ॥ ब्च_६.२६ ॥
प्रत्ययसामग्र्यपि न स्वकार्यं जनयन्ती संचिन्त्य जनयति । सा हि स्वहेतुपरिणामोपनिधिधर्मतया तथाविधं कार्यं जनयति न तु संचिन्त्य । न चापि जनितस्य कार्यस्यापि अनया सामग्र्या जनितोऽस्मीति चेतना मनसिकारोऽस्ति । तस्मान्निर्व्यापारतया सर्वधर्माणाम्, अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, इति इदंप्रत्ययतामात्रमिदं जगत्, नात्र कश्चित्स्वतन्त्रः संभवति । हेतुप्रत्ययाधीनत्वात्सर्वधर्माणाम् ॥
स्यादेतत्- अस्त्येव स्वतन्त्रं यथा सांख्यानां प्रधानमात्मा च, नैयायिकानामाकाशादयः । तत्किमुच्यते न किंचित्स्वतन्त्रमिह विद्यते, इत्याशङ्कयाह-
यत्प्रधानं किलामीष्टं यत्तदात्मेति कल्पितम् ।
तदेव हि भवाभीति न संचिन्त्योपजायते ॥ ब्च_६.२७ ॥
यत्तद्भवतां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्यभिमतम् । किलेति प्रमाणासंगतमेतदित्यरुचिं प्रकाशयति । यदपि तद्वस्तु किंचिदात्मेति कल्पितमध्यवसितं प्रमाणासंगतमेव । आह- यस्मात्तदेव स्वयमेव तदपरकारणाभावाद्भवामि समुत्पद्य इति नाभिसंधाय जायते ।
(ब्च्प्८८) कुतः? यस्मात्-
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा ।
तत्प्रधानादि प्रागसदेव । असतश्च वन्ध्यासुतादेरिव का भवितुमुत्पत्तुमिच्छा भवेत्? अथ नासदुत्पद्यते किंचित्, केवलमव्यक्तावस्थातो व्यक्तावस्थायां परिणाममात्रम् । यद्येवम्, परिणामोऽपि कथमसन्नुत्पंद्यते व्यक्तावस्था वा? परिणामस्य व्यक्तावस्थायाश्च तत्स्वभावत्वे तस्याप्युत्पत्तिप्रसङ्गः । व्यतिरेके संबन्धाभावः । संबन्धकल्पनायां च अनवस्था । परतो विस्तरेण प्रधानं निराकरिष्यते [९.१२७-१३८] ॥
स्यादेतत्- आत्मन्ययमदोष एव । न हि तस्य वयमुत्पादमिच्छामः । सर्वदा नित्यस्वभावतया अनुत्पन्न एवासौ । भवतु नाम एवम् । तथापि सर्वथा खरविषाणकल्प एवासौ, उत्पादाभावात् । ततो नात्रापि निवर्तते-
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा ।
इति ।
भावेऽपि वा नास्य स्वात्मन्यपि प्रभुत्वमस्ति । प्रकृत्युपनामितमेव हि विषयमपि स भुङ्क्ते । तदा च विषयोपभोगात्प्राक्तद्भोक्तृत्वमस्य नासीत्, पश्चादुत्पन्नं च तत्स्वभावमेव । अन्यथा तस्य भोक्तृत्वायोगात् । तदुत्पादे च तस्याप्युत्पाद इति कथं नात्मन उत्पाद इष्यत इति । तदेवं पुनः
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा ।
इत्यायातम् ॥
अपरमपि दूषणमत्राह-
विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते ॥ ब्च_६.२८ ॥
यद्यप्यसौ प्रधानोपहितविषयोपभोगाय प्रवर्तत इतीष्यते, तदा प्रागप्रवृत्तस्य पश्चात्प्रवृत्तिर्न युज्यते । अथ कथंचित्प्रवर्तते, तदापि विषये व्यापृतस्य निवृत्तिर्न स्यात् । एतदेवाह- निरोद्धुमपि नेहते । विषयोपभोगान्निवर्तितुमपि नोत्सहते, तदा तस्य तत्स्वभावत्वात्, तस्य च नित्यतया अनिवृत्तेः । निवृत्तौ वा अनित्यत्वप्रसङ्गात् । नैयायिकादीनामात्मनो व्यपदेशो नित्यत्वात् ॥
विशेषमपि तस्याह-
नित्यो ह्यचेतनश्चात्मा व्योमवत्स्फुटमक्रियः ।
अचैतन्यं सांख्यादिह विशेषः । अन्यत्र समानता । तत्र नित्यः पूर्वापरकालयोरेकस्वभावः । अचेतनश्च अचित्स्वभावः । जड इत्यर्थः । अन्यचैतन्ययोगाच्चेतयते । व्योमवद्व्यापी । अत एव स्फुटं व्यक्तमक्रियः । यदाह-
अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् ।
स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा ॥
(ब्च्प्८९) शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च ।
भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः ॥
[तत्त्वसंग्रह-१७१-७२]
तथा च अकिंचित्कर एवासौ, क्वचिदपि कार्येऽनुपयोगात् । अथ अपरसहकारिप्रत्ययसंनिधौ निष्क्रियस्यापि तस्य क्रिया[भ्यु]पगम्यते । यदुक्तम्-
ज्ञानयत्नादिसंबन्धः कर्तृत्वं तस्य भण्यते । इति ।
अत्राह-
प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया ॥ ब्च_६.२९ ॥
ज्ञानयत्नादिप्रत्ययान्तरसंपर्केऽपि नित्यत्वान्निर्विकारस्य पूर्वस्वभावादप्रच्युतस्यात्मनः का क्रिया? नैव क्रिया युज्यते ॥
यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् ।
तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् ॥ ब्च_६.३० ॥
यथा पूर्वमक्रियाकाले तथाक्रियाकालेऽपि यः, तेन कारकस्वभावविकलेन क्रियायाः किं कृतम्, येन प्रत्ययान्तरसङ्गे तस्य क्रिया व्यवस्थाप्येत? अपि च । उभयसंबन्धाभावात्तस्य आत्मनः क्रियेयमिति संबन्धे कतरत्तदन्यनिमित्तम्? नैवास्ति किंचित् ॥
विस्तरेण चात्मनो निराकरिष्यमाणत्वात्[९.५८-६०] ईश्वरस्य च [९.११९-१२६], न स्वतन्त्रः कश्चिदपि संभवति । एवमस्वातन्त्र्यं सर्वत्र प्रसाध्योपसंहरन्नाह-
एवं परवशं सर्वं यद्वशं सोऽपि चावशः ।
निर्माणवदचेष्टेषु भावेष्वेवं क्क कुप्यते ॥ ब्च_६.३१ ॥
एवमुक्तनयेन परवशं परायत्तं सर्वं बाह्याध्यात्मिकं वस्तुजातम् । तर्हि यद्वशे तदपरायत्तं भविष्यतीति चेत्, न । यद्वशं सोऽपि चावशः स्वहेतुपरतन्त्रः । एवं स हेतुरपि स्वहेतोरित्यनादिसंसारपरंपरायां न स्ववशिता क्वचिदपि संभवति । अतो निर्व्यापाराः सर्वधर्मा इति । कः कस्मै द्रुह्यति परमार्थतः येनापराधिनि क्वचित्कस्यचिदपराधे तस्य द्वेषो युक्तः । इदमेवाह- निर्माणवत्सर्वव्यापारकल्पनाविगमात्, अचेष्टेषु निरीहेषु सर्वधर्मेषु एवं सत्सु क्व कुप्यताम्? न युज्यते प्रेक्षावतां क्वचिदपि कोप इति भावः ॥
स्यादेतत्- एवं हि एकं समर्थयतो द्वितीयं विघटते इत्याशङ्कयन्नाह-
वारणापि न युक्तैवं कः किं वारयतीति चेत् ।
समर्थितन्यायेनैव वारणापि निवर्तनमपि निर्माणवदचेष्टेषु भावेषु न युक्ता । एवमिति यदा किंचिदपि स्वतन्त्रं न दृश्यते, सर्वं प्रत्ययसामग्रीं प्रतीत्य जायते, तदा वारणापि न (ब्च्प्९०) युक्ता । यदि वा- मैवम्, तथापि कथं न युक्ता? को वारयति, स्वतन्त्रः कर्ता किं निषेध्यं स्वतन्त्रप्रवृत्तं वारयतीति चेत् । अयमभिप्रायः- न हि समानेऽपि न्याये क्वचित्प्रवृत्तिः सामान्यत्वात् । तस्माद्युक्तमेतत्- वारणा न युक्तेति ॥
यद्येवं मन्यसे, अत्रोत्तरमाह-
युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता ॥ ब्च_६.३२ ॥
युक्ता वारणा, कुतः? प्रतीत्यता, इदं प्रतीत्येदमुत्पद्यते इति प्रतीत्यसमुत्पन्नता यस्मादस्ति निर्व्यापारेष्वपि भावेषु, अतो वारणा युक्ता, ततो न व्याघातः । एतदुक्तं भवति- यद्यपि निर्व्यापाराः सर्वधर्माः, तथापि प्रतीत्यसमुत्पादवशात्पारतन्त्र्यमुपदर्शितम्- एवं परवशं सर्वम् [६. ३१] इत्यादिवचनात् । ततः अविद्यादिप्रत्ययबलादुत्तरोत्तरः कार्यप्रवाहः संस्कारादिरूपः प्रवर्तते, पूर्वपूर्वनिवृत्तौ निवर्तते । एतच्च उत्तरत्र [९. ७५] विस्तरेण प्रतिपादयिष्यते । तस्माद्दुःखस्य संसारस्य उपरतिर्निवृत्तिरभिमता । अतो द्वेषादिपापप्रवृत्तिवारणा संगच्छते । तां प्रतीत्य तथाविधमभ्युदयनिःश्रेयसस्वभावं फलमुत्पद्यते ॥
सांप्रतं प्रकृतमेव योजयन्नाह-
तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ।
ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत् ॥ ब्च_६.३३ ॥
यस्मात्प्रतीत्यजं सर्वम्, तस्मादमित्रेतरं [अमित्रमितरं च] अपकारिणं प्रतीत्य सुखमेवालम्बनीयम् । कुतः? ईदृशा अपकारकरणशीलहेतवः अस्य अमित्रस्य इतरस्य वा, इति एवं निश्चित्य सुखी भवेत्, दौर्मनस्यं न कुर्वीत ॥
किं च । दुःखोपनिपातेन चित्तक्षोभेऽपि न दुःखस्य निवृत्तिरस्तीत्युपदर्शयन्नाह-
यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम् ।
न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति ॥ ब्च_६.३४ ॥
न हि आत्मेच्छामात्रेण अनविमतं निवर्तते, अभिमतं चोपतिष्ठते हेतुमन्तरेण । तथात्वे स ति न भवेत्कस्यचित्सत्त्वस्य दुःखम् । किमिति? न दुःखमात्मनः कश्चिदिच्छति । स्वसुखाभिलाषिण एव हि सर्वसत्त्वाः ॥
दुःखाधिवासनाक्षान्तिमभिधाय इदानीं परापकारमर्षणक्षान्तिमुपदर्शयन्नाह-
प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः ।
भक्तच्छेदादिभिः कोपाद्दुरापस्त्यादिलिप्सया ॥ ब्च_६.३५ ॥
उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः ।
निघ्नन्ति केचिदात्मानमपुण्याचरणेन च ॥ ब्च_६.३६ ॥
यदैवं क्लेशवश्यवाद्घ्रन्त्यात्मानमपि प्रियम् ।
तदैषां परकायेषु परिहारः कथं भवेत् ॥ ब्च_६.३७ ॥
(ब्च्प्९१) असमीक्षितकारिता प्रमादः । स्वयमेव स्वकायं कण्टकखाणुकठल्लपाषाणशर्करादिभिर्दुर्गमार्गेषु कर्मप्रवृत्ताः कण्टकास्तरणशयनादिभिर्वा बाधन्ते । तथा भोजनपानपरिहारादिभिः । किमिति? कोपातगम्यपरदारधनादि लब्धुमिच्छया वा ॥
उद्बन्धनमूर्ध्वलम्बनम् । प्रपातः प्रपतनं पर्वतादेः । जलाग्निप्रवेशादिभिः, विषापथ्यादिभक्षणैः, अत्याहारातिपानादिभिः, निघ्नन्ति मारयन्ति केचिन्मोहपुरुषा आत्मानं स्वकायम् । परवधादिभिः, अपुण्याचरणेन च । परवधाभिप्रायाः संग्रामादिष्वकुशलक्रियया च ॥
यदैवमुक्तक्रमेण क्लेशवश्यत्वात्क्लेशपरतन्त्रत्वातेते सत्त्वा आत्मानमपि प्रियं वल्लभं घ्नन्ति पीडयन्ति, तदा एषां परकायेषु परशरीरेषु अपकारविरतिः कथं स्यात्?
इत्थं च कृपापात्रमेवैते, न द्वेषस्थानमित्याह-
क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने ।
न केवलं दया नास्ति क्रोध उत्पद्यते कथम् ॥ ब्च_६.३८ ॥
पिशाचैरिव ग्रस्तेषु एषु अपकारकारिषु उक्तनयेन प्रवृत्तेषु आत्मघातने परापकारद्वारेण वा न केवलं न तावत्कृपा नास्ति, औदासीन्यमपि साधूनां तत्रायुक्तम् । द्वेष उत्पद्यते कथं कृपास्थानेष्विति विपर्ययो महान् ॥
एवमपि स्वचित्तं निवारयेदित्याह-
यदि स्वभावो बालानां परोपद्रवकारिता ।
तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके ॥ ब्च_६.३९ ॥
तथा हि विकल्पद्वयमत्र । बालानां पृथग्जनानां यदि एतादृश एव स्वभावः परोपद्रवकारिता नाम, तदा न खलु स्वभावाः पर्यनुयोगमर्हन्ति- किमिति परापकारं कुर्वन्ति ते? इति परिभाव्य तेषु द्वेषो न युक्तो मे । तद्यथा अग्नौ दहनस्वभावे दाहकरणात् । अन्यथा तदभावे तत्स्वभावताहानिप्रसङ्गात् ॥
द्वितीयं विकल्पमधिकृत्याह-
अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः ।
तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे ॥ ब्च_६.४० ॥
अथ दोषोऽयमागन्तुः अन्य एव न तत्स्वभावभूतः । सत्त्वाः पुनः प्रकृतिप्रभास्वरचित्तसंतानतया पेशला अकुटिलस्वभावाः । दोषा हि दुष्टस्वभावाः, न तत्स्वभावाः सत्त्वाः । तथापि अयुक्तस्तेषु सत्त्वेषु पेशलस्वभावेषु कोपः । कस्मिन्निव? कटुधूमो यथा इव अम्बरे । न हि कटुता नाम निर्मलस्याकाशस्य स्वभावः, अपि तु धूमस्य । अतश्च तद्दोषेण धूम एव दोषो युज्यते, नाकाशे प्रकृतिपरिशुद्धे । तस्माद्दोषेष्वेव कोपो युज्यते न सत्त्वेषु ।
(ब्च्प्९२) अपि च । यदेव हि प्रधानं दुःखकारणम्, तत्र युक्तो भवेत्कोपो नाप्रधाने इत्याह-
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते ।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम् ॥ ब्च_६.४१ ॥
काये हि दण्डप्रहारादभावितचित्तस्य दुःखं समुत्पद्यते । ततो दण्ड एव मुख्यं दुःखकारणमिति तत्रैव कोपो युक्तः । अथ परप्रेरितस्य दण्डस्य को दोषः? तेन प्रेरक एव द्वेष्यो भवति । एवं तर्हि द्वेषेण सोऽपि दण्डप्रेरकः प्रेरित इति द्वेषे द्वेषो मम युक्तो न प्रेरके ॥
अपि च । नादत्तं किंचिदुपभुज्यते सुखं वा दुःखं वा । इति विचिन्त्य परापकारेऽपि न तत्र चित्तं प्रदूषयेदित्याह-
मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता ।
तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः ॥ ब्च_६.४२ ॥
पूर्वं जन्मान्तरे मयापि सत्त्वानामेवंविधैव पीडा कृता यस्मात्, ऋणपरिशोधनन्यायेन उचितमेव ममैतत्परापकारकारिणः । तत्कर्मफलपरिपाकादिति भावः ॥
यद्यस्य कारणं तस्मादेतदुत्पद्यते नान्यस्मादिति परामृश्य परापकारं मर्षयेदित्युपदशर्यन्नाह-
तच्छस्रं मम कायश्च द्वयं दुःखस्य कारणम् ।
तेन शस्रं मया कायो गृहीतः कुत्र कुप्यते ॥ ब्च_६.४३ ॥
अविकलकारणसामग्री हि सर्वकार्यस्य कारणमिति प्रमाणपरिनिश्चितम् । सा चात्र तथाविधा विद्यते । तथाहि तस्यापकारिणः शस्त्रं खङ्गादि मम कायश्च, एतद्द्वयं सामग्रीरूपं दुःखस्य कारणम् । इति समर्थकारणसद्भावेऽपि कार्यं कथं नोत्पद्येत? अन्यथा तत्तस्य कारणमेव न स्यात् । ततोऽन्यदपि, ततुत्पादयोगः? [=तत्सामग्रीतोऽन्यदपि कारणं स्यात्, ततः..........] तस्माद्यादि कारणोपनायके कुप्यते, तदा स्वात्मन्यपि कोपो युक्तः । यतः स्वयमपि दुःखकारणं वहत्युपनयति च भवान् । आत्मन्यकोपे परत्रापि न युक्त इति भावः ॥
प्रकारान्तरेणोक्तमेवार्थं स्पष्टयन्नाह-
गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः ।
तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते ॥ ब्च_६.४४ ॥
शरीराकृतिरयं पक्वगण्डो मया गृहीतः । सर्वदुःखहेतुत्वात्सर्वोपमर्दसहः । आकोटनताडनादिभिरप्यभेद्यत्वात् । दुःखपरिहाराय सुखप्राप्तये च या तृष्णा अभिलाषः, तदन्धेन पिहितप्रज्ञालोचनेन तस्यां व्यथायां सत्यां कुत्र कुप्यते? न हि गण्डस्य कुड्यादिसंपर्कजे दुःखे क्वचिद्विवेकतः कोपो युक्तः ॥
(ब्च्प्९३) अपि च । यः कार्येणानर्थी, तेन तत्कारणमेव परिहर्तव्यं भवेत् । अहं तु विपर्यस्तमतिरिति विमर्शमुपदर्शयन्नाह-
दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः ।
स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते ॥ ब्च_६.४५ ॥
दुःखं दण्डाद्यभिघातजं नेच्छामि । तस्य पुनः कारणं शरीरं प्रत्यपकारिणं चेच्छामि । बालिश इति बालधर्मो विपर्यासः । तस्मात्कारणात्स्वकाये यद्दुःखं तत्स्वापराधागतमेव । इति कस्मादन्यत्र तत्सहकारिमात्रे कुप्यते?
आत्मवधाय स्वयं संस्कृतशस्त्रस्यैव अन्यत्र मम कोपो न युक्त इत्याह-
असिपत्रवनं यद्वद्यथा नारकपक्षिणः ।
मत्कर्मजनिता एव तथेदं कुत्र कुप्यते ॥ ब्च_६.४६ ॥
असिपत्रवनं नरकसमुद्भवम् । असय एव पत्राण्यस्येति कृत्वा । असिग्रहणं प्राधान्यात् । अन्यदपि शस्त्रं नारकदुःखहेतुर्यन्त्रं च । वने तस्मिन्निवासिनो गृध्रोलूकवायसादयः पक्षिणो यथा मत्कर्मजनिता एव दुःखहेतवो भवन्ति । नान्यदत्र दुःखकारणमस्ति । तथा इदमपि परशस्त्रादिकं दुःखहेतुर्मत्कर्मजनितमेव, इति कुत्र कुप्यते?
इत्थमपि विपर्यास एवायमित्युपदर्शयितुमाह-
मत्कर्मचोदिता एव जाता मय्यपकारिणः ।
येन यास्यन्ति नरकान्मयैवामी हता ननु ॥ ब्च_६.४७ ॥
येन मदीयेन कर्मणा चोदिताः प्रेरिता एव मयि पूर्वकृतापकारे अपकारिणो जाताः सन्तो नरकान् यास्यन्ति, तेन मयैवामी अपकारिणो हता ननु । स्वचित्तं संबोधयति- न अमीभिरहं हतः । अयमभिप्रायः- यदि नाकरिष्यमहमीदृशं कर्म, तदा एतेऽपि नापकारिणोऽभविष्यन्निति मत्कृतेनैव कर्मणा अपकारिणो भवन्ति ॥
उपकारिष्वेव मोहादपकारिबुद्धिर्ममेति कारिकाद्वयेन दर्शयन्नाह-
एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु ।
मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् ॥ ब्च_६.४८ ॥
अहमेवापकार्येषां ममैते चोपकारिणः ।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥ ब्च_६.४९ ॥
एतानपकारिण आश्रित्य निमित्तीकृत्य मम पापं पूर्वजन्मकृतपरापकारजनितं क्षीयते तद्दुःखानुभवनविपाकेन क्षयं याति । क्षमतः क्षान्तिमालम्बमानस्य । बहु अनेकपर्यायेण कृतम् । मामाश्रित्य मत्कर्मचोदिताः एवमप्यपकारं कृत्वा पुनरेते नरकान् तीव्रवेदनान् दुःसहदुःखानुभवान् यान्ति । अत उक्तक्रमेण अहमेव अपकारी एषामित्यादि सुबोधम् ॥
(ब्च्प्९४) ननु यद्यपकारी भवान्, तर्हि भवत एव नरकगमनमुचितम्, न त्वेषामित्याह-
भवेन्ममाशयगुणो न यामि नरकान् यदि ।
एषामत्र किमायातं यद्यात्मा रक्षितो मया ॥ ब्च_६.५० ॥
या प्रत्यपकारनिवृत्तिनिष्ठा एतन्ममाशयमाहात्म्यं नरकगतिनिवृत्तिहेतुः । नरकान्न यामि तदात्माशयमाहात्म्यबलेन । न तु पुनरेषां दुराशयतया नरकेषु ममापतनमिति भावः । एतदेवाह- एषामित्यादिना । अयमत्र समुदायार्थः- यद्यहमपकारी सन्नपि केनचिदुपायकौशलेन नरकान्न यामि, तदैषामु[म?]पकारिणां किमायातम्, किमपक्षीयते? का क्षतिरित्यर्थः । मया तावदेकेन रक्षिता न भवन्तामन्ये, रक्षित आत्मा च भवेत् । न चैतावता किंचिदेषां न्यूनाधिकं गुणदोषेषु स्यात् ॥
ननु यदि नाम एवम्, तथापि भवतोऽपि न युक्तमात्मरक्षणमुपकारिकृतज्ञतया इत्याशङ्कयाह-
अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः ।
हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः ॥ ब्च_६.५१ ॥
यदि दण्डादिघातं कुर्वत्सु प्रत्यपकारी भवेयम्, तथापि एते रक्षिता न भवन्ति । न कश्चिदेषां प्रतीकारो नरकगमनादिषु कृतः स्यात् । प्रत्युत ताडितेनापि मया न प्रतिताडितव्यम् । तथा सर्वसत्त्वेषु न मैत्रचित्तं मया निश्चि[क्षेप्त?]तव्यम् । अन्तशो न दग्धस्थूणायामपि प्रतिघचित्तमुत्पादयितव्यम् । इत्यादेर्बोधिसत्त्वचर्याया मम हानिरेव स्यात् । तस्मादेतर्हि प्रतीकारोपायाभावात्तपस्विनो वराका रक्शितुमशक्यत्वान्नष्टा दुर्गतिपतिता एव । इत्युपेक्ष्यन्ते तावदिदानीम् । पश्चात्तदुपायमधिगम्य तत्करिष्यामि यथैषां दुःखमणुमात्रकमपि न स्यात् ॥
तदेवं परापकारमर्षणक्षान्तिं प्रतिपाद्य अधुना धर्मनिध्यानक्षान्तिमुपदर्शयितुमाह-
मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित् ।
शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते ॥ ब्च_६.५२ ॥
द्विविधं दुःखमविचारतो बाधकमुपजायते कायिकं मानसिकं चेति । तत्र मनसि न कश्चिद्दण्डादिकं दातुं शक्तः, अमूर्तत्वान्मनसः । इति तदुद्भवं दुःखं परमार्थतो न संभवति । कल्पनाकृतं तु दौर्मनस्यादिकं विद्यते । एतदेव दर्शयति शरीरेत्यादिना । ममेदं शरीरमिति विकल्पाभ्यासवासनावशात्कायदुःखेन चित्तं विहन्यते ॥
तत्रापि प्रतिनियतमेव दुःखकारणमित्याह-
न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः ।
कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि ॥ ब्च_६.५३ ॥
(ब्च्प्९५) न्यक्कारादिगणः समूहः कायस्य दुःखहेतुर्न भवति । न हि कायस्यायं कंचिदुपघातं करोतीति येन, तेन चेतः कस्माद्धेतोः प्रकुप्यसि?
अथापि स्यात्- यदि नाम न्यक्कारादयः कायस्य बाधका न भवन्ति, तथापि तच्छ्रुत्वा मयि लोकानामप्रसन्नं चित्तमुत्पद्यते, इति मया नेष्यते इत्याशङ्कयाह-
मय्यप्रसादो योऽन्येषां स मां किं भक्षयिष्यति ।
इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः ॥ ब्च_६.५४ ॥
भवतु नाम एवम्, तथापि विचारणीयमेव । मयि न्यक्कारादिश्रवणाद्योऽयमप्रसादो जनानाम्, स किं मां भक्षयिष्यति इहलोके परलोक वा, येनासौ लोकाप्रसादो ममाप्रियः, इति विचार्य न कर्तव्योऽत्राभिनिवेशः ॥
अस्ति वा अत्राभिनिवेशकारणं लाभविघातो नामेत्याह-
लाभान्तरायकारित्वाद्यद्यसौ मेऽनभीप्सितः ।
नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् ॥ ब्च_६.५५ ॥
तथाहि न्यक्कारादिश्रवणादप्रसादो लोकानाम्, तस्माच्च लाभोपनामनवैमुख्यम् । ततोऽसौ न्यक्कारादिगणो ममानिष्ट इति चेत्, तदयुक्तम् । नङ्क्ष्यति विनश्वरधर्मतया अपगमिष्यति । इहैव प्रतिनियतैरेव दिनैर्मम लाभः । न तु परलोकानुबन्धी भविष्यति । तन्निमित्तं न्यक्कारादिकर्तृषु क्रुध्यतो यत्पापं तदेव परं स्थास्यति परलोकानुबन्धि भविष्यति । ध्रुवमिति अपरिमुक्ते तत्फले तस्याविनाशात् ॥
इदमपि चात्रालोचनीयम्-
वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम् ।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे ॥ ब्च_६.५६ ॥
इदमेव वरं श्रेष्ठं यल्लाभाभावादस्मिन्नेवाहनि मे मरणमस्तु, न तु पुनः परापकारद्वारेण लाभप्रतिलम्भान्मिथ्याजीवितं चिरं दीर्घकालम् । कुतः? यस्माद्वहुतरकालमपि जीवित्वा मरणान्तं हि जीवितमित्यवश्यंभाविनो मृत्योर्दुःखं तदेव मम । यत्पश्चाद्वर्षशतात्यये भविष्यति, तदेवेदानीं मम म्रियमाणस्य इति चिरजीवितेष्वविशेषः ॥
इतोऽप्यविशेष एवेति श्लोकद्वयेन दर्शयन्नाह-
स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते ।
मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते ॥ ब्च_६.५७ ॥
ननु (नूनं?) निवर्तते सौख्यं द्वयोरपि विबुद्धयोः ।
सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः ॥ ब्च_६.५८ ॥
(ब्च्प्९६) यथा कश्चित्स्वप्नोपलब्धं वर्षशतं सुखमुपभुज्य विबुध्यते, अन्यः पुनः क्षणमात्रम् । स तावन्मात्रेण सुखिनमात्मानं मन्यते । अनयोर्द्वयोरपि स्वप्नोपलब्धोपभुक्तसुखयोः प्रतिविबुद्धयोः सतोः तदुपलब्धं विनष्टं सुखं न निवर्तते, जाग्रदवस्थायां नानुवर्तते, स्मरणमात्रावशेषत्वात् । सैवोपमा स्वप्नोपलब्धसुखयोरिव पुरुषयोर्मृत्युकाले मरणसमये चिरजीविनोऽल्पजीविनश्च । ननु निवर्तते सौख्यमिति स्वार्थेऽप्यण् । इत्यलं मिथ्याजीवितेन ॥
अस्मादपि लाभालाभयोर्न कश्चिद्विशेष इत्युपदर्शयन्नाह-
लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि ।
रिक्तहस्तश्च नग्रश्च यास्यामि मुषितो यथा ॥ ब्च_६.५९ ॥
प्रचुरतरलाभान् लब्ध्वापि समासाद्य, चिरकालमुपभुज्य सुखान्यपि, पुनर्मृत्युमधिगम्य रिक्तहस्तश्च तुच्छहस्तः । न तस्माल्लाभादीषदपि पाथेयं गृहीतम् । नापि सुखात्किंचित्परिशिष्टमवस्थितम् । कटिसूत्रकमात्रमपि न परिशेषितमिति नग्नश्च चौरैः परिमुषित इव अस्माल्लोकात्परं लोकं यास्यामि ॥
स्यादेतत्- अस्त्येव विशेषो लाभस्य चीवरादीनामनुपघातादायुःसंस्काराणामुपस्तम्भाच्चिरतरकालं जीवितं स्यात् । ततश्च पूर्वकृतपापस्य विदूषणासमुदाचारादिना परिक्षयं शिक्षासंवरपरिरक्षणेन बोधिचित्तसेवनादिना च कुशलपक्षस्य च वृद्धिं कुर्याम् । यदुक्तम्-
यावच्चिरं जीवति धर्मचारी तावत्प्रसूते कुशलप्रवाहम् ॥
इति ॥
अतो लाभान्तरायकारिणि युक्त एव प्रद्वेष इत्याशङ्कयन्नाह-
पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् ।
लाभादुक्तक्रमेण जीवन् ध्रियमाणः पापक्षयं च पुण्यं च करोमीत्यादि मन्यसे । ननु एतदितः समधिकं दोषमपश्यता अभिधीयत इत्याह-
पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु ॥ ब्च_६.६० ॥
लाभार्थं लाभनिमित्तं तदन्तरायकारिणि द्वेषं कुर्वतः सुकृतक्षय एवोपजायते । यदुक्तम्- सर्वमेतत्सुचरितम् [६.१] इत्यादिना । अयं तु विशेषः- अक्षान्तिसमुद्भवस्य पापस्य राशिरभिवर्धते ॥
अथापि स्यात्- यथाकथंचित्तावच्चिरकालं लाभाज्जीवितं स्यात् । तावतैव नः प्रयोजनमित्याह-
यदर्थमेव जीवामि तदेव यदि नश्यति ।
किं तेन जीवितेनापि केवलाशुभकारिणा ॥ ब्च_६.६१ ॥
(ब्च्प्९७) न खलु बोधिसत्त्वस्य इतरसत्त्ववज्जीवितं निष्प्रयोजनमेवाभिलषितम्, किं तर्हि संभाराभिसंवर्धनार्थं पापक्षयार्थं च । तद्यदि सुकृतक्षयनिमित्तमेव तत्स्यात्, तदा किं तेन तादृशेन जीवितेनापि केवलाशुभकर्मकरणशीलेन? निन्दितमेव तदिति भावः ॥
स्यादेतत्- न लाभान्तरायकारितया ममावर्णवादिनि प्रतिघचित्तमुत्पद्यते, किं तु गुणप्रच्छादनादिकर्मणा, दुःखहेतुत्वादित्याह-
अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् ।
परायशस्करेऽप्येवं कोपस्ते किं न जायते ॥ ब्च_६.६२ ॥
अयशोभिधायिनि योऽयं भवतो विद्वेषः, सोऽवर्णवादी दोषाविष्करणाद्गुणप्रच्छादनाच्च त्वां नाशयति । इति मत्वा चेद्यदि तन्निमित्तकः । अथवा । सत्त्वान् लोकान्नाशयति । अवर्णवादेन मयि निग्राहयति । स्वयमप्रसन्नचित्तस्तेषामपि चित्तमप्रसादयतीत्यर्थः । इति अवर्णवादिनि द्वेषश्चेत्, उच्यते । तदा योऽपि परेषामन्यसत्त्वानामयशः प्रकाशयति, तत्रापि कोपस्ते किं न जायते? सोऽपि च अवर्णवादी सत्त्वान्नाशयति । तदस्मिन्नपि युक्तरूप एव कोपः ॥
अत्रोत्तरमाशङ्कयन्नाह-
परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा ।
परेषु अन्येषु सत्त्वेषु आयत्त आश्रितोऽप्रसादोऽस्य । अन्यसत्त्वान् विषयीकृत्य समुत्पन्न इति । तस्य भावस्तत्त्वं तस्मात् । पराश्रिताप्रसादत्त्वादप्रसादिषु अप्रसन्नचित्तेषु अवर्णवादिषु तव क्षमा क्षान्तिरूत्पद्यते । आत्मचित्तमेव पृच्छति । अत्राह-
क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि ॥ ब्च_६.६३ ॥
यदि यः परायत्ताप्रसादः तत्र क्षमा भवतो भवति, तदा स्वस्मिन्नवर्णवादिनि किं न क्षमा? किंरूपे? क्लेशोत्पादनपरायत्ते क्लेशानामुत्पादपरतन्त्रे । परायत्ताप्रसादत्वं क्षमाहेतुः तुल्यमुभयत्रापि इत्यर्थः ॥
प्रतिमाद्युपघातकारिषु श्रद्धावशादपि प्रतिघचित्तं नोत्पादयितव्यमित्याह-
प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च ।
न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा ॥ ब्च_६.६४ ॥
नाशका विकोपयितारः । आक्रोशका दोषबुद्धया वैरूप्याभिधायिनः । तेषु न युक्तो मम द्वेषः । कुतः? यस्माद्बुद्धादीनां बोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानां वितथाभिनिवेशप्रसूतात्मग्राहनिवृत्तेरभिष्वङ्गाभावान्न व्यथा चित्तपीडालक्षणं दौर्मनस्यं नास्ति । इति भावः । अतः प्रतिमाविनाशकेषु द्वेषचित्तं नोत्पादयितव्यम् । तथा विरुद्धधर्मकारिषु करुणैव तु युज्यते तेषु साधूनाम् । अन्यथा तत्र विशेषाभावात्पापमेव केवलमुपजायते । यदि पुनर्धर्मतो निवारयितुं शक्यते, तदा न दोषः ॥
(ब्च्प्९८) यदपि च धर्मकामतया गुरुमातापित्राद्युपघातकारिषु द्वेषचित्तमुत्पद्यते, तदपि विनिवार्यमेवेत्याह-
गुरुसालोहितादीनां प्रियाणां चापकारिषु ।
पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् ॥ ब्च_६.६५ ॥
गुरवो धर्ममार्गोपदेष्टारोऽकुशलपक्षनिवर्तयितारः । सालोहिताः सोदराः । अन्येऽपि ज्ञातिसगोत्रबान्धवादयः । तेषामपकारिषु । तथा प्रियाणां प्रेमस्थानानां चापकारिषु कोपं निवारयेदिति संबन्धः । कथम्? पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा । यदुक्तम्- ये केचिदपराधाश्च इत्यादिना । अतः सर्वेऽप्यमी पूर्वकर्मोपजनितमेव फलमुपभुञ्जते । नात्र कश्चित्प्रतीकारहेतुरस्ति । तदनेन यथा अपरसमये देवगुरुद्विजातिमातापितृप्रभृतीनामर्थे पापं कुर्वतोऽपि न दोष इति मतम्, न तथा इहाभिमतमित्युक्तं भवति ॥
किं च । इदमपि वस्तुतत्त्वं मनसि कुर्वता न सत्त्वेषु चित्तं दूषयितव्यमित्याह-
चेतनाचेतनकृता देहिनां नियता व्यथा ।
सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः ॥ ब्च_६.६६ ॥
समस्तकार्यस्य अन्वयव्यतिरेकाभ्यां जनकत्वेनावधारितं सामग्रीलक्षणं कारणम् । सा च सामग्री वस्तुधर्मतया काचित्क्वचित्समर्थस्वभावा । तत्र चेतनेन कृता हस्तपादादिप्रहारेण । अचेतनेन दण्डशस्त्ररोगादिना । तत्रापि चेतनावद्वयापारोऽस्त्येव । साक्षात्पारंपर्यकृतस्तु विशेषः । स्वयमेव यदृच्छया वा लोष्टकुड्याद्यभिघातजनिता वा देहिनां शरीरिणां नियता व्यथा नियमेन समुत्पद्यते । नान्यदितो व्यथाकारणमस्ति । सा चैवं द्विविधकारणसामग्रीप्रसूतापि चेतने सविज्ञानके काये दृष्टा प्रमाणपरिनिश्चिता । अतस्तदेव तदुत्पत्तिस्थानं नान्यत् । अचेतने । वेदनायोगात् । ततो यद्यस्योत्पत्तिस्थानं तत्तत्रैव भवति नान्यत्र, यथा पङ्के पङ्कजं न स्थले । अतः अस्मान्यायात्क्षमस्व सहस्व एनामनन्तरकथितोभयरूपां व्यथाम् ॥
तदानीमुभयोरपि साधारणदूषणतया क्वचिदपि कोपो न युक्त इति कथयितुमाह-
मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः ।
ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम् ॥ ब्च_६.६७ ॥
आत्मात्मीयग्राहाभिनिवेशविपर्यासादेके केचिदपराध्यन्ति दण्डादिना । समाक्रोशादि वा वदन्तः सदोषमात्मानं कुर्वन्ति । अन्ये पुनस्तदपराधेन कुप्यन्ति । विमोहिता मोहादेव स्वकृतकर्मफलसंबन्धमननुसरन्तोऽविद्यावरणात्, प्रतिताडनाक्रोशादिकमारभन्ते । इत्थं ब्रूमः- कमेषु क्लेशराक्षसावेशवशीकृतेषु निर्दोषम्, कं वा ब्रूमोऽपराधिनम्? उभयेषामपि साधारणदोषत्वात् ॥
(ब्च्प्९९) इदमपि च आत्मगतमेव चिन्तयता प्रतिघचित्तं निवर्तयितव्यमित्याह-
कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः ।
सर्वे कर्मपरायत्ताः कोऽहमत्रान्यथाकृतौ ॥ ब्च_६.६८ ॥
कस्मात्कारणात्किमित्येवमेतत्फलं हेतुकर्म कृतम् । येनेति लोकोक्तिरेषा यदित्यस्यार्थे । यदेवम् । यदि वा येन कर्मसामर्थ्येन हेतुना । आक्रोशबन्धनताडनादिभिः बाध्यसे पीड्यसे परैरन्यैः । ननु यदि नाम एवम्, तथापि प्रतीकारो युक्त इत्याह- सर्व इत्यादि । सर्वे दुःखहेतवः कर्मप्रत्ययोपजनितप्रवृत्तयः इति कोऽहमत्र अन्यथाकृतौ तत्फलनिवर्तनाय? न कश्चित् । फलदानोन्मुखस्य कर्मणः केनचिन्निवर्तयितुमशक्यत्वात् ॥
इदं पुनरत्र युक्तरूपमित्याह-
एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् ।
येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥ ब्च_६.६९ ॥
एते सत्त्वाः कर्मक्लेशपरायत्ताः परस्परमसमञ्जसकर्मकारिणो निवर्तयितुमशक्या इति । एवं बुद्ध्वा ज्ञात्वा पुनः पुण्येषु कुशलेषु कर्मसु तथा यत्नं करोम्यहम्, तेन प्रकारेण वीर्यं समारभे, येन तथाविधं सामर्थ्यं प्रतिलभ्य सन्मार्गे प्रवर्तिताः सन्तः सर्वे मैत्रचित्ता हितसुखविधानतत्पराः परस्परमन्योन्यं भविष्यन्ति ॥
द्रोहचित्तं विनिवर्त्य प्रियवस्तूपघातकारिणि लौकिकोदाहरणेन द्वेषं निवर्तयेदिति श्लोकद्वयमुपदर्शयन्नाह-
दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम् ।
तृणादौ यत्र सज्येत तदाकृष्यापनीयते ॥ ब्च_६.७० ॥
एवं चित्तं यदासङ्गादह्यते द्वेषवह्निना ।
तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया ॥ ब्च_६.७१ ॥
एकस्मिन् गृहेऽग्निना दह्यमाने यथा तस्माद्गृहादन्यद्गृहं गृहान्तरं गत्वा । अग्निर्यत्र तृणकाष्ठादौ सज्जते लगति, तदन्तर्गतमन्यदपि वस्तु मा धाक्षीदिति शङ्कया तदाकृष्यापनीयते, पृथक्कृत्वा निर्धार्यते, इति दृष्टक्रमं प्रकृतेऽपि योजयन्नाह । एवमुक्तोदाहरणन्यायेन चित्तं मनो यस्य वस्तुन आसङ्गादासक्तो दह्यते परितप्यते द्वेषवह्निना प्रतिघानलेन तदासङ्गस्थानं वस्तु तत्क्षणं न कालान्तरपलिम्बेन परित्याज्यं तत्राभिनिवेशः परिहर्तव्यः । किं कारणम्? पुण्यस्यात्मा शरीरम् । पुण्यस्कन्ध इति यावत् । तस्य उक्तक्रमेण उद्दाहः परिक्षयो मा भूत् । अन्यथा गृहान्तर्गतपदार्थवत्प्रद्वेषवह्निः तमपि दहेत् ॥
अपि च । लाभ एवायं लब्धः, यन्मनुष्यदुःखैर्नरकफलं कर्म विपच्यते इति प्रतिपादयन्नाह-
मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम् ।
मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम् ॥ ब्च_६.७२ ॥
(ब्च्प्१००) यो हि मारणमर्हति, स यदि हस्तमात्रं छित्त्वा मुच्यते, तदा न काचित्क्षतिरस्य । प्रत्युत लब्धलाभमात्मानं मन्यते अत्यल्पमिदं मरणदुःखात्करच्छेदनदुःखमिति । तथा योऽपि मनुष्यदुःखं ताडनबन्धनतिरस्कारादिकृतमनुभूय नरकदुःखाद्विमुक्तो भवति, तस्यापि न किंचिदपचीयते । न किंचिदिदं दुःखं नरकदुःखात्, सुखमेव तत् । ततो यदि विचक्षणः स्यात्, तदा सौमनस्यमेवात्र युक्तमस्य ॥
अथापि स्यात्- न मया स्वल्पमात्रेऽपि दुःखे क्षमा कर्तुं शक्यत इति, अत्राह-
यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते ।
तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते ॥ ब्च_६.७३ ॥
खटचपेटलोष्टादिप्रहारकृतमीषन्मात्रमपि दुःखमिदानीं सोढुं मर्षितुं न पार्यते न शक्यते । तदत्र भवन्तं पृच्छामः- यदि एवमेव, तदयं नारकदुःखसंवर्तनीयः क्रोधः कोपः कस्मात्कारणान्न वार्यते? अयमेव हि अतितरां नरकेषु दुःखदायक इति दुःखभीरूणामेव क्रोधं निवर्तयितुं युक्तं स्यात् ॥
किं च । यद्यपि सोढुं न शक्यते, तथापि तद्धेतुककर्मसंभवादनिच्छतोऽपि दुःखमापतिष्यति भवतः । न च किंचित्फलमुत्पत्स्यते । मर्षणात्पुनस्तस्य महार्थलाभो भविष्यतीति वृत्तद्वयेन शिक्षयितुमाह-
कोपार्थमेवमेवाहं नरकेषु सहस्रशः ।
कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया ॥ ब्च_६.७४ ॥
न चेदं तादृशं दुःखं महार्थं च करिष्यति ।
जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते ॥ ब्च_६.७५ ॥
कोपनिमित्तमेव । एवमेव निष्फलमेव । नरकेषु संजीवादिषु । सहस्रशः अनेकवारम् । अहं कारितः छेदनभेदनपाटनादिकारणाभिः पीडितः । एवं दुःखमनुभवतापि मया न च नैव आत्मार्थः दृष्टादृष्टफलसाधनः कृतो निष्पादितः । परस्य अन्यस्य वा अर्थः सुखविधानलक्षणः । इति निष्प्रयोजनमेव नारकदुःखसहस्रशः परिभवो जातः । तदद्यापि न तथैव ममासहिष्णुता युक्तेत्याह- इदं दुःखं नैव तादृशं यादृशं नरकसमुद्भवम् । अथ च महार्थं सर्वसत्त्वहितसुखविधानभूतं बुद्धत्वं साधयिष्यति । अतो जगतो दुःखहरे त्रिजगत्पर्यापन्नसर्वसत्त्वदुःखप्रशमनकरे दुःखे प्रीतिरेवात्र युज्यते नारुचिरिति भावः ॥
परगुणश्रवणेर्ष्यामलप्रक्षालनायाह-
यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम् ।
मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि ॥ ब्च_६.७६ ॥
गुणाधिकं स्तुत्वा यदि प्रीतिसुखं कैश्चित्प्राप्तम्, तदा हे मनः त्वमपि तद्गुणसंवर्णनेन किमिति हर्षसुखं नानुभवसि? किमकाण्डमेव तदीर्ष्यानलज्वालायामात्मसंतानमिन्धनीकरोषि?
(ब्च्प्१०१) ननु सर्वसुखमासङ्गात्मतया निषिद्धमेव सेवितुम् । ततः अहं सर्वसुखवैमुख्यादिदमपि नोपाददे । वक्ष्यति हि-
यत्र यत्र रतिं याति मनः सुखविमोहितम् ।
तस्मात्सहस्रगुणितं दुःखं भूत्वोपतिष्ठते ॥
इति ।
[बोधि. ८.१८]
आह-
इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् ।
न वारितं च गुणिभिः परावर्जनमुत्तमम् ॥ ब्च_६.७७ ॥
न हि सर्वं हृष्टिसुखमपाकृतम्, अपि तु यत्सावद्यमकुशलहेतुः । इदं च परगुणाश्रयं हृष्टिसुखं निरवद्यं तव, न च अकुशलहेतुः । अतः सुखोदयं सुखस्योदयोऽस्मादिति कृत्वा । अत एव न वारितं च गुणिभिर्भगवच्छासनविधिज्ञैः । अयमपरोऽस्य गुणः, यत्परावर्जनमुत्तमं परगुणेषु प्रीत्या । गुणेषु एवमयं मत्सरीति मन्यमाना अन्येऽपि सत्त्वा आवर्जिता भवन्ति, अतो युक्तमेवात्र प्रीतिसुखमुपादातुम् ॥
स्यादेतत्- न परगुणेषु अक्षमा काचिन्मम । किं तर्हि तावत्तस्यैव सुखमेतदिति मया सोढुमशक्यमिति । अत्राह-
तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् ।
भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत् ॥ ब्च_६.७८ ॥
तस्यैव स्तुतिकर्तुः सुखमिति एवमनेनाभिप्रायेण भवतो यदि इदं परगुणस्तुतिप्रतिसमुद्भवं सुखं न प्रियम्, तदा अतिसंकटे पतितोऽसि । कथम्? भृतिदानादिविरतेः । यदपि च भवतः स्वात्मसुखनिमित्तं स्वभृत्यादिषु भृतिदानं कर्ममूल्यदानम्, तथा उपकारकारिणि प्रत्युपकारकरणम् । इत्यादेर्विरतेर्वैमुख्यात्, तदपि न कर्तव्यमेव स्यात्परसुखविद्वेषिणा । यतस्तेनापि तस्य सुखमेव संपत्स्यते । ततो दृष्टमैहिकं फलम्, अदृष्टं पारलौकिकम् । उभयमपि हतं भवेत्परसुखसंपदमर्षिणा ॥
किं च । मिथ्योत्तरमेवेदं भवत इति प्रतिपादयन्नाह-
स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि ।
कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि ॥ ब्च_६.७९ ॥
यदि कश्चिद्भवतो गुणमुदीरयति, तदा तस्य परस्यानिष्टमपि सौख्यमिच्छसि । अथ परगुणाननुवर्णयति, तदा पुनरीर्ष्याशल्यवितुद्यमानमानसः । स्वसौख्यमपि नेच्छसि । आस्तां तावत्परसौख्यमित्यपिशब्दः । तस्मात्परसुखसंपदीर्ष्यैव भवतः, न स्तावकसुखासहिष्णुता ॥
यदुक्तम्-
तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् ।
इति ।
[बोधि. ६.७८]
(ब्च्प्१०२) तत्र विशेषेण दूषणमाह-
बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया ।
स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि ॥ ब्च_६.८० ॥
इदमतिगर्हितमेव विशेषेण समुत्पादितबोधिचित्तस्य, यत्परसुखसंपदसहिष्णुता नाम । यतः सर्वसत्त्वाः त्रिअधातुकान्तश्चराः समस्तसुखसंपत्तिसंतर्पिता बुद्धत्वमधिगम्य मया कर्तव्याः इति मनसिकारेण बोधिचित्तमुत्पाद्यते । तदुत्पाद्य कस्मात्सत्त्वेषु कुप्यते? अद्य इदानीम् । किंभूतेषु प्रसादस्थानेषु? स्वचित्तमभिप्रसाद्य स्वयमात्मनैव प्राप्तसुखेषु । इति अकरणीयमेव तत्परसुखवैमुख्यचित्तं बोधिसत्त्वस्येति भावः ॥
यः पुनरुत्पादितबोधिचित्तोऽपि परस्य लाभसत्कारसंपत्तिमभिसमीक्ष्य तदीर्ष्याकषायितहृदयः तेनैव शोकेन दह्यते, तस्य परिभाषणार्थमाह-
त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि ।
सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे ॥ ब्च_६.८१ ॥
अथवा स्यादेतत्- न खलु मया तत्सुखमेव न मृष्यते, किं तर्हि तदुद्भावितान्यगुणश्रवणाभिप्रसन्नमानसैः तेषामुपनामितं लाभसत्कारमित्यत्राह- त्रैलोक्येत्यादि । त्रयो लोकाएव कामरूपारूप्यधातुलक्षणाः लोकप्रसिद्धया वा स्वर्गादिस्वभावाः त्रैलोक्यम्, तत्समुदायो वा । तस्य पूजामर्हतीति पूज्यमभ्यर्चनीयम् । अनेन सर्वातिशायित्वं प्रतिपादितम् । तथाभूतं बुद्धत्वं सत्त्वानां किल वाञ्छसि । किलेत्यनेन विपर्ययं दृष्ट्वा अरुचिं प्रकाशयति । सत्कार मित्युपलक्षणम् । लाभमपि । शेषं सुबोधम् ॥
लाभमभिसंधायाह-
पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः ।
कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि ॥ ब्च_६.८२ ॥
त्वया पोषणीयं प्रियपुत्रकादिकं त्वदीयं यः पुष्णाति, स तुभ्यमेव ददाति । तवैव तेनोपचयः कृतो भवेत् । अतः त्वत्कुटुम्बजीविनं त्वदीयं कुटुम्बं जीवयति यः, तं तथाविधं पुरुषं लब्ध्वा प्राप्य प्रहृष्यसि न? काक्वा पृच्छति- प्रकुप्यसि, न प्रहृष्यसे चेत्यर्थः । तथा प्रकृतेऽपि येन सर्वसत्त्वा आत्मीयत्वेन गृहीताः, तस्य तत्सुखैः सुखमेवोचितमिति ॥
स्यादेतत्- बुद्धत्वमेव त्वया तेषां प्रतिज्ञातम्, न तु पुनरन्यसुखमित्याशङ्कयाह-
स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति ।
ननु एतदपि न सम्यक् । यस्मात्-
जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा ॥
[बोधि. ३.३३]
(ब्च्प्१०३) इति प्रतिज्ञातम् । भवतु नाम एवम्, तथापि यः समुत्पादितबोधिचित्तः तेषां सत्त्वानां बोधिं बुद्धत्वमिच्छति, स किमन्यलौकिकलोकोत्तरमर्थजातं नेच्छति? अथ नैवमिष्यते, तदा बोधिचित्तमपि हीयते इत्याह-
बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति ॥ ब्च_६.८३ ॥
बोधिचित्तं कुतस्तस्य? मिथ्यैव बोधिचित्तप्रतिज्ञस्य । कस्य? योऽन्यसंपदि कुप्यति । इतरविभूतौ लाभसत्कारप्रसूतायाम्, इति मर्मचोदना बोधिसत्त्वस्य कुशलकर्मनिवृत्तिहेतुः ॥
अपि च । अपरस्य लाभसत्कारसंपदभावेऽपि न भवतस्तद्भावसंभवः । तत्किमकारणमेव तद्विद्वेषिणा आत्मघाताय यत्नः क्रियते इति प्रतिपादयन्नाह-
यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे ।
सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम् ॥ ब्च_६.८४ ॥
यदि नाम तेन तव अक्षमाविषयेण सत्त्वेन तद्दीयमानं वस्तु न लब्धम्, तथापि स्थितं दानपतेर्गृहे । भवतस्तु किं तस्माज्जातम्? सर्वथापि तेन लब्धेन गृहावस्थितेन वा न तद्वस्तु तवास्ति । इति दत्तादत्तेन ते किम्? न किंचित्प्रयोजनं भवतः । अतस्तत्र उपेक्षैव युक्ता विदुषः ॥
किं च । इदमपि तावत्परिभाव्यतामित्युपदर्शयन्नाह-
किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ ।
लभमानो न गृह्णातु वद केन न कुप्यसि ॥ ब्च_६.८५ ॥
योऽसौ अतिप्रसन्नैर्दायकदानपतिओभिर्लाभसत्कारैः पूज्यते, स किं वारयतु पुण्यानि पूर्वजन्मकृतानि विपाकोन्मुखानि, यद्वशात्तस्य लाभसत्काराः । उत प्रसन्नान् दायकदानपतीन् वारयतु, अथ स्वगुणान् वारयतु, यानाश्रित्य एषां प्रसादो जातः । मा प्रसादमप्येषां जनयिष्यथेति । अथवा । लभमानोऽपि तेभ्यो न स्वीकरोतु । ब्रूहि केन प्रकारेण अत्र न भवतोऽपरितोषः स्यात् । तत्र पुण्यादीनां वारयितुमशक्यत्वात्लभ्यमानाग्रहणेऽपि सर्वथापि न तत्तेऽस्तीत्यादिना बाधकस्योक्तत्वादिति न किंचित्परितोषकारणमस्ति ॥
अथापि स्यात्- परस्यैव लाभसत्कारसंपत्तिरस्ति, न मम । अथ मम नास्ति, तदा परस्यापि मा भूत्, इत्येतन्ममासंतुष्टिनिबन्धनमित्याशङ्कयाह-
न केवलं त्वमात्मानं कृतपापं न शोचसि ।
कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि ॥ ब्च_६.८६ ॥
सुबोधम् । "यत्किंचिद्दुःखं तत्सर्वं पापसमुद्भूतम् । अभिलाषविघातोऽपि दुःखम् । यदपि पर्येषमाणो न लभते, तदपि दुःखम्" इति वचनात् ॥ यद्वक्ष्यति-
अभिलाषविघाताश्च जायन्ते पापकारिणाम् ।
इति ।
[बोधि . ७.४१]
(ब्च्प्१०४) यत्किंचित्सुखं तत्सर्वं पुण्यप्रसूतम् । इति सुखाभिलाषिणा शुभे कर्मणि उद्योगः करणीयः । यद्वक्ष्यति-
पुण्यकारिसुखेच्छा तु............ इत्यादि ।
[बोधि. ७.४२-४३]
इति कथं कृतपुण्यैः सह स्पर्धा युज्यते? सुकृतक्रियायामेव तत्सुखाभिलाषिणां स्पर्धा युक्तेत्यर्थः ॥
अपि च । इदमपि प्रष्टव्योऽसि-
जातं चेदप्रियं शत्रोस्त्वत्तुष्टया किं पुनर्भवेत् ।
तव शत्रोर्द्वेषविषयस्य त्वदभिलाषमात्रेण अप्रियमनिष्टं जातमुत्पन्नं चेद्यदि, एतावता भवतः किं पुनर्भवेत्? भवतु तावत्तस्यानिष्टम्, अन्यस्य तु भवतु, मा वा । मम किंचिदेव तावन्मात्रेण प्रयोजनमिति पराभिप्रायमाशङ्कयाह-
त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति ॥ ब्च_६.८७ ॥
तवाशंसनमिच्छा । अभिलाष इति यावत् । तावन्मात्रेण न चाहेतुः, न विद्यते हेतुरस्य, इत्यहेतुरर्थो भविष्यति ॥
अप्रियस्य भवतु नाम एवमित्यभ्युपगम्योच्यते-
अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव ।
यदि नाम तवेच्छया सिद्धं निष्पन्नमप्रियं शत्रोः, तथापि तस्य दुःखे समुत्पन्ने किं सुखं तव? न किंचित् । निष्प्रयोजनमिदमभिप्रेतमिति यावत् । ननु इदमेव प्रयोजनं यत्तद्दुःखे मम संतुष्टिरित्यत आह-
अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः ॥ ब्च_६.८८ ॥
एवमपि परदुःखपरितोषे यदि अर्थः प्रयोजनं भवेत्, तदा अतः परः अनर्थः को नु? नुरित्यतिशये । अयमेवानर्थो महानित्यर्थः ॥
कथं पुनरयमनर्थ इत्याह-
एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् ।
यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु ॥ ब्च_६.८९ ॥
यस्मादेतदिदमेवंविधं परानर्थचित्तं बडिशं घोरं महाभयंकरम् । किंभूतम्? क्लेशबाडिशिकार्पितम् । क्लेशा एव बडिशेन चरन्तीति बाडिशिकाः तैरर्पितमादत्तम् । यतः क्लेशबाडिशिकात् । बाडिशिकादिव मत्स्यम् । नरकपाला यमपुरुषाः त्वां क्रीत्वा पक्ष्यन्ति पक्ष्यन्ते । क्वचिन्नीत्वेति पाठः । कुम्भिषु नरकविशेषेषु । तस्मादत्राभिलाषं मा कार्षीरिति भावः ॥
(ब्च्प्१०५) यदपि स्तुत्यादिविघाते दुःखमुत्पद्यते, तदपि अविवेचयत एवेत्युपदेशयन्नाह-
स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे ।
न बलार्थं न चारोग्ये न च कायसुखाय मे ॥ ब्च_६.९० ॥
एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः ।
पञ्चप्रकार एवार्थः पुरुषार्थत्वेनाभिमतो विदुषाम् । तद्यथा- पुण्यम्, आयुर्वृद्धिः, बलवृद्धिः, आरोग्यलाभः, कायसुखं चेति । न चैतेषु क्वचिदुपयुज्यन्ते स्तुत्यादयः । इयानेव हि स्वार्थो भवतो भवेत्प्रज्ञावतः स्वार्थवेदिनः । अन्यस्य पुनरन्यथापि भवेत्, इति आत्मनि परामृशति । जानन्तु यद्यपि स्वार्थम्, तथापि स्वार्थवेदिनः अनुपायत्वात्पृथगुपदर्शितः । धीमत इत्यनेन तदसङ्गतया तदपि कथितम् ॥
ननु मानसमपि सुखमस्ति, तेन अवधारणमयुक्तमित्यत्राह-
मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता ॥ ब्च_६.९१ ॥
मानसं सुखं सौमनस्यम् । तदिच्छता मद्यं द्यूतं गणिका पारदारिकं सेवनीयं स्यात् । यत्पुनः सद्धर्मश्रवणात्सौमनस्यम्, तत्पुण्यग्रहणेन संगृहीतमित्यदोषः । तस्मात्सौमनस्य हेतुर्भवतोऽपि स्तुत्यादयो बालजनानन्दकारिणोऽनुपादेया एव ॥
इत्थमपि बालजनोल्लापकारिणः स्तुत्यादय इत्याह-
यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि ।
केचिन्मोहपुरुषाः तादृशगुणात्स्वयमतिसुदूरे वर्तमाना अपि शक्रादिगुणैः स्तूयमाना बन्दिजनैरन्यैश्च प्रोत्फुल्लनयनवदना यशोर्थिनो हस्त्यश्वादिधनं तृणवत्तेभ्यः प्रयच्छन्ति । तथा तैरेव गुणैः संभावितात्मनामपि शक्रवत्शत्रुविजयसमुद्भूतं यशो मम जगति विपुलतां गमिष्यति, इत्यभिनिवेशाद्दुःसहसंग्रामारोहणान्मारयन्ति ।
न चात्र परमार्थतः किंचित्प्रयोजनम्, अन्यत्र मिथ्याविकल्पादिति प्रतिपादयन्नाह-
किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् ॥ ब्च_६.९२ ॥
स्तुत्याद्यभिधायकानि अक्षराणि वर्णाः किं भक्ष्याणि चर्वितव्यानि? यशोर्थं मृते सति कस्य च तत्सुखं यशःश्रवणसमुत्थम्?
तस्माद्बालक्रीडासमानमेतदित्युपदर्शयन्नाह-
यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः ।
यथा कश्चिद्बालो धूलिमयगृहेण परमपरितोषेण परिक्रीडमानः केनचित्तस्मिन् भग्ने महद्दुःखेन परिगृहीतः परमार्तिपीडित इव मद्गृहं भग्नमिति करुणस्वरं क्रन्दति, सैवोपमा अत्रापि इत्याह-
तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे ॥ ब्च_६.९३ ॥
तथैव स्तुतियशोहानौ विघाते स्वचित्तं दुःखमाविशत्प्रतिभासते विचारयतो मम । अत्रापि न वस्तुसता केनचिद्विप्रलम्भ इति परामर्ष्टव्यम् ॥
(ब्च्प्१०६) पुनरन्यथा विचारेण बालधर्म एवायमिति चतुर्भिः श्लोकैः परामृशयन्नाह-
शब्दस्तावदचित्तत्वात्स मां स्तौतीत्यसंभवः ।
शब्दो वर्णात्मको बाह्यार्थतया अचित्तः अचेतनः । तस्य भावः तस्मात् । स शब्दो मां स्तौति मदीयं वर्णमुदीरयति । असंभवः न संभवत्येतत् । तत्कथं सौमनस्यं जायते इत्याह-
परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् ॥ ब्च_६.९४ ॥
अन्यः पुरुषश्चेतनात्मकः । किलेति निरर्थकमेतदपीत्यरुचिप्रतिपादकम् । मयि प्रीतः अभिप्रसन्नः इत्येतदभिसंधानं प्रीतिकारणम् ।
तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम् ।
[बोधि. ६.९७]
इति संबन्धः ॥
असंबन्धमेव कल्पयन्नाह-
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया ।
तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः ॥ ब्च_६.९५ ॥
यस्मादन्यस्मिन्मयि वा प्रीत्या परसंतानवर्तिन्या किमायातं मम? न किंचित् । कुतः? तस्यैव ततो य एव प्रीतः स्तुतिकर्ता, तत्प्रीतिसुखं नान्यस्य । अतो भागो नाल्पोऽपि ईषदपि मम ततः परसंतानवर्तिनः प्रीतिसुखात् ॥
स्यादेतत्- परसुखेनैव सुखित्वं बोधिसत्त्वानाम् । तत्किमिति ततो भागो नास्तीति? अत्राह-
तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत् ।
कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् ॥ ब्च_६.९६ ॥
यदि परसुखेन सुखित्वम् । तदा तस्मिन्नन्यत्र प्रसादेन सुखितेऽपि ममास्तु तत्सुखित्वम् । किमात्मन्यभिप्रसादेन प्रीते परस्मिन् प्रीतिः? न त्वन्यस्मिन् प्रसादेन सुखितेषु मम सुखम् ॥
तस्माद्वचनमात्रमेवैतत्, न परमार्थ इति दर्शयितुमाह-
तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते ।
तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम् ॥ ब्च_६.९७ ॥
तदन्यनिमित्ताभावातहं स्तुत इत्येवं विकल्पनात्प्रीतिरात्मब्नि जायते, न पुनः परसुखेन सुखित्वात् । तत्रापि न केवलमन्यप्रसादेन सुखिते सति । आत्मन्यपि एवमुक्तक्रमेण असंबन्धादप्रत्यासत्तेः कारणात्केवलं बालविलसितमेतत् ॥
(ब्च्प्१०७) अपि च । स्तुत्यादयो मम अपचयमेव दधतीत्युपदर्शयन्नाह-
स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी ।
गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते ॥ ब्च_६.९८ ॥
अमी स्तुत्यादयः मम क्षेमं कल्याणम् । अथ क्षेमं कुशलपक्षपरिपालनम् । तथा संवेगं संसारदुःखनिर्वेदनम् । नाशयन्ति घ्नन्ति । न तावन्मात्रमेव, किं तु गुणवत्सु च मात्सर्यम् । आत्मनि गुणाधिकमानेन परगुणप्रच्छादनात् । तद्गुणासहनतया वा संपदि लाभसत्कारादिस्वभावायां कोपं च अमर्षं कुर्वते तेष्वेव । अहमेव गुणाधिकः, ममैव सर्वा संपत्तिरुचिता नान्येषामिति मत्वा ॥
यत एते दोषाः स्तुत्यादिषु संभविनः,
तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः ।
अपायपातरक्षार्थं प्रवृत्ता ननु ते मम ॥ ब्च_६.९९ ॥
तस्मात्कारणात् । स्तुत्यादिघाताय विरोधाय ये सत्त्वा मम प्रत्युपस्थिता उद्यताः । अपायपातो नरकादिपतनम् । ततो रक्षार्थं त्राणार्थं रक्षणनिमित्तं प्रवृत्ता उद्युक्ता ननु ते मम । अतः कल्याणमित्राणि ते, नापकारिण इति ॥
लाभादिविरोधिनि सर्वथा प्रतिघचित्तमयुक्तं मम इत्युपदर्शयितुमाह-
मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ।
ये मोचयन्ति मां बन्धाद्वेषस्तेषु कथं मम ॥ ब्च_६.१०० ॥
विमुक्तिकामस्य लाभसत्कारौ बन्धनमिव, सङ्गस्थानत्वात्, अयुक्तं नोचितं मुमुक्षोर्बन्धनम् । कल्याणमित्रकृत्यकारिणः शत्रुत्वेनाभिमता विमोचयन्ति वियोजयन्ति मां बन्धात्संसारदुःखलक्षणात्लाभादिस्वभावाद्वा । द्वेषस्तेषु परमोपकारिषु प्रीतिस्थानेषु कथं मम? न युक्त इत्यभिप्रायः ॥
कथं न युक्तमित्याह-
दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः ।
बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम ॥ ब्च_६.१०१ ॥
लाभसत्काराभिष्वङ्गप्रसङ्गात्संसारदुःखैर्विमोक्तुकामस्य ये सत्पुरुषविशेषाः कपाटत्वमपद्वारत्वमागताः । कुतः? बुद्धानामधिष्ठानतोऽनुभावादिव । द्वेषस्तेषु कथं मम?
कुशलापघातकारिण्यपि द्वेषं निवारयन्नाह-
पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते ।
क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् ॥ ब्च_६.१०२ ॥
(ब्च्प्१०८) कुशलविघातः कृतोऽनेन इत्येवं मनसि निधाय अत्र पुण्यविघातकारिणि द्वेषो न युज्यते । कस्मात्? यतः क्षान्त्या तितिक्षया समं तुल्यं तपः सुकृतं नास्ति सर्वशुभकर्महेतुत्वात् । "न च क्षान्तिसमं तपः" (बोधि. ६.२) इति वचनात् । ननु तदेवेदमयत्नत एव उपस्थितमुपनतम् । पुण्यविघ्नकारिच्छलेन पुण्यहेतुसंनिधेः ॥
तत्र प्रद्वेषे तु आत्मनैव पुण्यविघातः कृतो भवेदित्याह-
अथाहमात्मदोषेण न करोमि क्षमामिह ।
मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥ ब्च_६.१०३ ॥
अथ यदि आत्मन एव दोषेण असहिष्णुतात्मकेन न करोमि क्षमां क्षान्तिमिह विघ्नकारिणि, तदा मयैव न पुनरन्येन अत्र पुण्ये कृतो विघ्नः । कुतः? पुण्यहेतौ पुण्यविघातकारित्वेनाभिमते उपस्थिते संनिहितीभूते । अत्रेत्यस्मिन् पुण्यहेताविति वा संभाव्यते ॥
यदि पुण्यविघातकारी, कथमसौ पुण्यहेतुः? यावत्स एव विघ्न इत्याह-
यो हि येन विना नास्ति यस्मिंश्च सति विद्यते ।
स एव कारणं तस्य स कथं विघ्न उच्यते ॥ ब्च_६.१०४ ॥
यो भावः कार्याभिमतः येन कारणाभिमतेन विना नास्ति, तद्वयतिरेके न भवति, स एव यद्भावेन भवति, नान्यः कारणं जनकः तस्य कार्याभिमतस्य, तदन्वयव्यतिरेकानुविधानात् । एवं प्रकृतेऽपि स जनक एव कथं तस्य जन्यस्य विघ्न उच्यते विघातहेतुरभिधीयते? तथाविधेऽपि तथा व्यवहारं कुर्वतो नास्ति विप्रतिपत्तिः ॥
उक्तमेवार्थं दृष्टान्तोपदर्शनेन व्यक्तं कुर्वन्नाह-
न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना ।
न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते ॥ ब्च_६.१०५ ॥
न यस्मात्कस्यचिद्दानपतेर्दित्साकाले एव संप्राप्तेनार्थिना याचनकेन दानविघ्नः कृतः इत्युच्यते, यतः स कारणमेव दानस्य । तथा कस्यचित्प्रव्रजितुकामस्य प्रव्राजकसमवधानं प्रव्रज्या संवरादिग्रहणस्वभावा, न च तस्या विघ्न उच्यते, अपि तु कारणमेव स तस्याः । तमन्तरेण तस्या असंभवात् । एवं प्रकृतेऽपि द्रष्टव्यम् ।
अपि च । क्षान्तिहेतुरतिदुर्लभ इति तत्समागमे प्रीतिरेव युज्यते इत्युपदर्शयन्नाह-
सुलभा याचका लोके दुर्लभास्त्वपकारिणः ।
अतिप्रचुरप्राप्तिका याचनका लोके सर्वत्र सर्वेषां दीयमानग्रहणावैमुख्यात्, न तु पुनरपकारिणः । अतस्ते दुर्लभाः शतसहस्रेषु, यदि कथंचित्कश्चित्स्याद्वा न वेति । कुतः पुनरेतदेवमित्याह-
यतो मेऽनपराधस्य न कश्चिदपराध्यति ॥ ब्च_६.१०६ ॥
(ब्च्प्१०९) यस्मादनपराधस्य निवृत्तपरापकारस्य मम निर्निमित्तं न कश्चिदेकोऽपि अपराध्यति, नापकरोति । कर्मणि षष्ठी ॥
एवमतिदुर्लभतया परमोपकारित्वाच्च अभिनन्दनीय एव अपकारीत्याह-
अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः ।
बोधिचर्यासहायत्वात्स्पृहणीयो रिपुर्मम ॥ ब्च_६.१०७ ॥
यस्मात्कथंचित्प्राप्यन्ते अपकारिणः, तस्माद्गृहे प्रादुर्भूतो निधिरिव श्रममन्तरेणैवाधिगतो रिपुरभिलषणीय एव मया स्यात्, बोधिचर्यायां बुद्धत्वसंभारोपार्जने सहकारित्वाच्च ॥
एवंविधे परमपुरुषार्थे साहाय्यं भजमानस्य प्रत्युपकारकरणमेव कृतज्ञतया मम युक्तमित्युपदर्शयन्नाह-
मया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् ।
एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः ॥ ब्च_६.१०८ ॥
यस्मादसौ तत्र साहाय्यं कुर्वन् कारणमेव न विघ्नः तस्मान्मया क्षमामभ्यस्तता, अनेन चापकारं कुर्वता, इति द्वाभ्यामेवोपार्जितम् । एतदिति यस्य साधनाय साहाय्यं भजते । क्षमाफलं धर्माधिगमलक्षणमेतस्मै धर्मसहायाय प्रथममग्रतो दातव्यं मया इति प्रणिधातव्यम् । यथा मैत्रीबलेन बोधिसत्त्वेन प्रणिहितं पञ्चकानुद्दिश्य । तत्र कारणमाह- यस्मादेतत्पूर्वा, एष एव पूर्वं कारणं यस्याः सा तथोक्ता । न हि अपकारिणमन्तरेण अन्यत्क्षान्तिकारणमस्ति ॥
युक्तमेवैतद्यदि तेनैवाभिप्रायेण असौ प्रवर्तते, केवलमपकाराशय एवायमित्याशङ्कयन्नाह-
क्षमासिद्धयाशयो नास्य तेन पूज्यो न चेदरिः ।
सिद्धिहेतुरचित्तोऽपि सद्धर्मः पूज्यते कथम् ॥ ब्च_६.१०९ ॥
क्षमा अस्य बोधिसत्त्वस्य निष्पद्यताम्, इत्याशयो नास्य अपकारोद्यतस्य । तेन कारणेन कुशलहेतुरपि यदि शत्रुः पूजनीयो न भवति, एवं तर्हि कुशलनिष्पत्तिहेतुः निरभिप्रायोऽपि सद्धर्मः प्रवचनलक्षणः कथं पूज्यते? सोऽपि तदाशयशून्यत्वात्पूजनीयो न स्यात्, इति भावः ॥
अथ सद्धर्मस्य निरभिप्रायतया अपकाराशयोऽपि नास्ति, अस्य पुनस्तद्विपर्ययो दृश्यते, इत्याह-
अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते ।
अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते ॥ ब्च_६.११० ॥
अपकारः आशयः अस्य शत्रोः, इत्येवमभिसंधाय शत्रुर्यदि न पूज्यते दानमानैर्न सत्क्रियते । अन्यथेति अपकारिणि द्वेषचित्तमनिवारयतः कथं मम क्षान्तिः? तदपकारमसहमानस्य (ब्च्प्११०) प्रत्यपकारं वा कुर्वतो नैव युक्तेत्यर्थः । अन्यत्रपि कथं क्षान्तिः? भिषजीव हितोद्यते, सुवैद्यवधितसुखविधायके यत्र प्रेमगौरवमेव सदा, द्वेषनिबन्धनस्य गन्धोऽपि न विद्यते ॥
द्वेषचित्तनिवएर्तनाच्च क्षान्तिरुच्यते । तस्मादपकारिण्येव प्रतिघचित्तं निवर्तयतः क्षान्तिरिति । एतदेव दर्शयन्नाह-
तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा ।
स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया ॥ ब्च_६.१११ ॥
यतो भिषजीव हितोद्यते क्षान्तिर्न युक्ता, अतः अस्माद्धेतोः तस्य दुष्टाशयमेव प्रतीत्य निमित्तीकृत्य समुपजायते क्षमा । न पुनः कस्यचिच्छुभाशयम् । अतः अस्मात्स एव यस्याशयं प्रतीत्योत्पद्यते क्षमा क्षमाहेतुः, न तु पुनर्यो वैद्यवददुष्टाशयः । इति पूज्यः क्षमासिद्ध्याशयरहितोऽपि सद्धर्मवदसौ मया । एतदुक्तं भवति- किं ममानेन आशयविचारेण प्रयोजनम्? अभिमतसाध्यसिद्धौ चेदुपयुज्यते, तावतैव ममोपादेयः स्यात् । विगुणाशयफलं तु तस्यैव, यस्यासौ विगुणाशयः । मम तु शुभोदयहेतुरेवायम्, इति कथमिव पूजनीयो न भवेदिति । तस्मात्संभारोपयोगिनि हेतौ किं स्वरूपनिरूपणेन?
एतदेव संभारहेतुत्वमस्य आगमतः प्रसाधयन्नाह-
सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् ।
एतानाराध्य बहवः संपत्पारं यतो गताः ॥ ब्च_६.११२ ॥
संभारप्रसूतिप्रवृत्तिहेतुत्वात्सत्त्वाः क्षेत्रम् । बुद्धा भगवन्तस्तथैव क्षेत्रम् । इति एवम् । अतो बुद्धत्वकारणहेतुत्वातनेकप्रकारं भगवता वर्णितम् । कुतः? यतो यस्मादेतान् सत्त्वान् जिनांश्च आराध्य आनुकूल्यानुष्ठानेन बहवो बुद्धत्वमधिगम्य सर्वलौकिकलोकोत्तरसर्वसंपत्तिपर्यन्तं प्राप्ताः ॥
स्यादेतत्- यदि नाम सत्त्वा अपि सर्वसंपत्तिहेतवः, तथापि तथागतैः सह साधारणता न युक्तेति । अत्राह-
सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे ।
जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥ ब्च_६.११३ ॥
उभयेभ्योऽपि बुद्धधर्माणां बलवैशारद्यादीनामागमे प्रतिलम्भे तुल्ये अविशिष्टे । उभयमपि तत्प्रति हेतुत्वमविशिष्टमिति भावः । अतः साधारणेऽपि हेतुभावे जिनेषु गौरवं यद्वत्, तद्वन्न सत्त्वेषु । इत्येवं कःक्रमः परिपाटिः प्रेक्षावताम्? नैव युक्तेत्यर्थः ॥
ननु च सत्त्वानां रागादिमलैर्हीनाशयत्वात्कारणत्वेऽपि कथं भगवत्समानता युज्यते इत्याशङ्कयाह-
आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः ।
समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः ॥ ब्च_६.११४ ॥
(ब्च्प्१११) यद्यपि भगवतामपरिमितपुण्यज्ञानोपजनितमनुत्तरमिह माहात्म्यम्, तथापि उपयुक्तोपयोगित्वेन हेतुभावस्य तुल्यत्वात्समं माहात्म्यमुच्यते । तेन हेतुना ते सत्त्वाः समाः जिनैस्तुल्या उच्यन्ते इति नात्र विशेषः क्रियते ॥
यत्र पुनः प्रतिनियतात्मगतो विशेषः, तमुपदर्शयितुमाह-
मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् ।
बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् ॥ ब्च_६.११५ ॥
सत्त्वेषु मैत्रचित्तविहारी पुनर्यत्पूज्यते जनैः, तत्तस्यैव मैत्र्याशयस्य प्रत्यात्मगतं माहात्म्यं नान्यस्य । तथा तथागतमाहात्म्यमालम्ब्य स्वचित्तं प्रसादयतो यत्पुण्यमुत्पद्यते, तद्भगवत एव माहात्म्यमसाधारणम्, अन्यस्य तथाविधगुणाभावात् ॥
इत्यसाधारणं गुणमभिधाय प्रकृतमुपदर्शयन्नाह-
बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः ।
न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः ॥ ब्च_६.११६ ॥
इदमत्र बीजं समतोपादाने इत्यर्थः । परमार्थतस्तु न बुद्धैर्भगवद्भिः समाः केचित्सत्त्वाः सन्ति । यदि भवेयुस्तथाविधाः, तदा तेऽपि बुद्धा एव स्युः । किंभूतैः? गुणार्णवैः । गुणानामर्णवा गुणरत्नाकराः, अगाधापारत्वात्, तैः । पुनरपि तेषामपरमेव विशेषणमाह- अनन्तांशैः । अनन्तः अपर्यन्तः अंशः, एकदेशोऽपि येषां गुणार्णवानाम्, ते तथा, तैः ॥
उक्तमेवार्थं व्यक्तीकुर्वन्नाह-
गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित् ।
दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥ ब्च_६.११७ ॥
गुणेषु प्रधानानामेकराशयो ये भगवन्तः, तेषां गुणः अणुरपि परमाणुमात्रोऽपि । गुणकणिकापीति यावत् । यदि क्वचित्सत्त्वविशेषे दृश्यते प्रतीयते, तस्य तद्गुणाधारस्य पूजानिमित्तं त्रैलोक्यमपि न क्षमम् । त्रैलोक्यजातानि रत्नादीनि न प्रतिरूपाणीति यावत् ॥
यद्येवम्, कथं तर्हि सत्त्वाराधनमुक्तमित्याह-
बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्वेषु विद्यते ।
एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् ॥ ब्च_६.११८ ॥
व्याख्यातमेतत्पूर्वम् ॥
इतोऽपि सत्त्वाराधनमुचितमित्याह-
किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम् ।
सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् ॥ ब्च_६.११९ ॥
(ब्च्प्११२) निश्छद्मबन्धूनामकृत्रिमसुहृदां बुद्धानां बोधिसत्त्वानां च । अपर्यन्तोपकारिणां निष्कृतिः तत्कृतापकारस्य निष्क्रयणं परिशोधनमिति यावत् । किमपरं भवेत्सत्त्वाराधनमन्तरेण । एतदेव परं निष्क्रयणमित्यर्थः ॥
प्रभुचित्तानुकूलवर्तिन एव भृत्यस्य वाञ्छितं सिध्यतीत्यवगम्य सत्त्वाराधनमेवोपादेयमिति प्रतिपादयन्नाह-
भिन्दन्ति देहं प्रविशन्त्यवीचिं येषां कृते तत्र कृते कृतं स्यात् ।
महापकारिष्वपि तेन सर्वं कल्याणमेवाचरणीयमेषु ॥ ब्च_६.१२० ॥
करचरणशिरोनयनस्वमांसानि छित्त्वा छित्त्वा प्रदत्तानि येषां हितसुखविधानाय, तथा अवीचीमपि परदुःखदुःखिनो येषां कृते प्रविशन्ति तत्समुद्धरणाय । प्रकृतत्वाद्बुद्धा बोधिसत्त्वाः । तत्र तेषु सत्त्वेषु कृते कृतं स्यात् । अन्यथा तु कृतमपि न कृतं भवेत् । कृतशब्दोऽयमिह प्रकृताधिकारात्साधुकरणे वर्तते । येनैवम्, तेन परमापकारिष्वपि न चित्तं दूषयितव्यम् । किं तु सर्वमनेकप्रकारं कायवाङ्मनोभिर्वा कल्याणमेव हितसुखमेव विधातव्यमेतेषु ॥
उक्तमेव प्रसाधयन्नाह-
स्वयं मम स्वामिन एव तावद्यदर्थमात्मन्यपि निर्व्यपेइक्षाः ।
अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥ ब्च_६.१२१ ॥
मम स्वामिन एव बुद्धादयः स्वयमेव आत्मनैव । तावदिति परामर्शे । यदर्थं येषां निमित्तम् । आत्मन्यपि स्वकायजीवितेऽपि । उक्तक्रमेण निरपेक्षा निरभिष्वङ्गाः तृणवत्परित्यजन्ति, तदहं पुनः तेषां भृत्यः तेषु सत्त्वेषु प्रभुपुत्रेष्वत्यन्तप्रियेषु कथं करोमि मानम्, किमिति जानन्नेव तान् प्रतिकूलयामि? न तु दासभावम्, न पुनर्दासीभूयाराधयामि?
इतोऽपि च सत्त्वापकारं परित्यज्य तदाराधनमेव कर्तव्यमित्याह-
येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् ।
तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेऽपकृतं मुनीनाम् ॥ ब्च_६.१२२ ॥
येषां सत्त्वानां प्रियपुत्राणामिव पितरो मुनीन्द्रा बुद्धा भगवन्तः सुखे कायमनोजन्मनि मुदं हर्षं यान्ति, येषां च दुःखे मन्युं प्रविशन्ति अपरितोषमासादयन्ति । एतच्च (ब्च्प्११३) अनभिमतत्वाद्भगवतामित्थमभिधीयते, न तु वाणी (सी?) चन्दनकल्याणा(ल्पव?)त्(?) तच्छ्रावकाणामपि प्रतिघानुनयासंभवः(?) । अन्यत्सुबोधम् ॥
कथं पुनस्तत्रापकारे मुनीनामपकृतं स्यादित्यत्राह-
आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम् ।
सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायोऽस्ति दयामयानाम् ॥ ब्च_६.१२३ ॥
समन्तात्सर्वावयवानभिव्याप्य वह्निना प्रज्वलितशरीरस्य यथा पञ्चकामगुणैर्न सौमनस्यम्, कायिकमपि सुखं नास्ति, तस्य प्रज्वलितत्वादेव दुःखेनाक्रान्तत्वात्, तद्वत्तथैव सत्त्वानां व्यथायां दुःखवेदनायां न प्रीतेः सौमनस्यस्य उपायो हेतुरस्ति कृपात्मकानां भगवताम् ॥
तस्मादपरिज्ञानेन क्लेशग्रहावेशवशेन वा सत्त्वापकारकर्मणा यदकुशलमुपचितम्, तदपि इदानीमुपसंहारद्वारेण वान्तीकुर्वन्नाह-
तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् ।
तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥ ब्च_६.१२४ ॥
यस्मादेवं सत्त्वापकारे मुनीनामपकृतं स्यात्, तस्मात्पापमद्य इदानीं प्रतिदेशयामि, संवेगबहुलस्तेषामेव महाकृपाणामग्रतः प्रकाशयामि । पुनरेवं संप्रजानन्न करिष्यामि, इति आयत्यां संवरमापद्ये । यदि प्रतिरूपमाचरितं तत्र मे क्षान्तिं कुर्वन्तु अनुकम्पामुपादाय ॥
क्षमयित्वा सांप्रतमाराधनायेत्यादिना तदेकपरायणतामात्मनो दर्शयति-
आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः ॥ ब्च_६.१२५ ॥
तथागतानामभिप्रेतसंपादनाय लोके लोकविषये सर्वात्मना कायेन वाचा मनसा वा दासीभावं स्वीकरोमि । तेऽपि मे प्रसादं कुर्वन्तो मस्तके पादं निदधतु । तेषां पादं प्रमुदितचित्तः शिरसा धारयामि । अनेन मयि पुर्वापराधमपास्य जगतां पतिर्भगवान् संतुष्टमानसो भवतु ॥
(ब्च्प्११४) भगवत्सु च गौरवकारिभिः सत्त्वेष्वनादरो न कर्तव्य इति प्रसाधयन्नाह-
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति ।
दृश्यन्त एते ननु सत्त्वरूपास्त एव नाथाः किमनादरोऽत्र ॥ ब्च_६.१२६ ॥
सर्वत्रगधर्मधातुप्रतिवेधात्सर्वसत्त्वसमतापादनपरात्मपरिवर्तनादिना वा आत्मीकृतं स्वीकृतं सर्वमिदं जगत्, न कियदेव । तैर्बुद्धैर्भगवद्भिः करुणामयचित्तसंतानैः । सुनिश्चितमेवैतत् । अन्यथा बुद्धत्वायोगात् । तस्मात्सत्त्वरूपेण बुद्धा भगवन्त एवैते सत्त्वा दृश्यन्ते । तेन किमनादरोऽत्र मूढचेतसाम्? नैव युक्त इति भावः ॥
अनेकार्थत्वादपि सत्त्वाराधनस्य तत्रैव यतितव्यमित्याह-
तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव ।
लोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव ॥ ब्च_६.१२७ ॥
स्वार्थस्य बुद्धत्वसंभारलक्षणस्यैव । लोकस्य दुःखापहं तद्धेतुत्वात् । एतदेवेति । सर्वत्र सत्त्वाराधनमिति योज्यम् ॥
आगामिभयदर्शनादपि च परापकारवैमुख्यमेव अभ्यसनीयमित्युदाहरणेनोपदर्शयन्नाह-
यथैको राजपुरुषः प्रमथ्नाति महाजनम् ।
विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः ॥ ब्च_६.१२८ ॥
यस्य राज्ञो देशनिवासिनं तस्यासौ राजपुरुषः । महाजनं नगरनिगमग्रामकर्वटादिवास्तव्यम् । प्रमथ्नाति विमर्दयति । स च आगामिराजदण्डभयदर्शितया महाजनो वचनमात्रेणापि यावद्विकारमुपगन्तुमसमर्थः । तेन ताडितोऽपि संकुचितवृत्तिरेवास्ति ॥
कस्मात्?
यस्मान्नैव स एकाकी तस्य राजबलं बलम् ।
नैव स राजपुरुषोऽसहाय एव द्रष्टव्यः । कथं पुनरयमसहायो न भवतीत्याह- तस्येति । राज्ञो बलमेव तस्य बलम्, तत्पक्षग्रहणात् ।
तथा न दुर्बलं कंचिदपराद्धं विमानयेत् ॥ ब्च_६.१२९ ॥
तस्मात्कृशशक्तिमपि कृतापराधं नापकुर्यात् । सोऽपि न यस्मादेकाकी ॥
यस्मान्नरकपालाश्च कृपावन्तश्च तद्वलम् ।
तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥ ब्च_६.१३० ॥
(ब्च्प्११५) तस्मादाराधयेत्सत्त्वान् । कुतः? यस्मान्नरकपालाश्च तदपकारमिव प्रत्यपकारिणोऽन्वाचरन्तः (?) कृपावन्तश्च जिनादयः तत्पक्षपातिनो बलम् । कथमिवाराधयेत्? अधृष्यं राजानं सर्वानुवृत्तिकरणानुजीविनो यथा, तथा ॥
किं च । लोकप्रसिद्धित इदमेवमिहोक्तम्, न तु पुनः सत्त्वाप्रसक्तिफलस्य राजापराधफलेन समानता समस्तीत्याह-
कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा ।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥ ब्च_६.१३१ ॥
किमिति काक्वा पृच्छति । किं तद्दुःखजातमुत्पादयितुं नृपतिः समर्थो भवेत्? नैवेति भावः । किंभूतम्? येन दुःखजातेन नारकी वेदना अनुभूयते ॥
तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत् ।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ॥ ब्च_६.१३२ ॥
आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् ।
इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि ॥ ब्च_६.१३३ ॥
प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् ।
चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥ ब्च_६.१३४ ॥
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां क्षान्तिपारमिता नाम षष्ठः परिच्छेदः ॥