ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/विषयानुक्रमणिका

अथ ब्रह्मखण्डम् ।। १ ।।
१ ग्रन्थादौ मङ्गलाचरणम्, नैमिषारण्ये शौनकादीन्प्रति सौतेरागमनम्, तत्र कुशलप्र-
श्नानन्तरं सौतिं प्रति शौनकमहर्षेः श्रीकृष्णभक्तीहापरसौख्यप्रदतन्महापुराणतत्त्वजि
ज्ञासया प्रश्नः । सौतिना शौनकं प्रति ब्रह्मवैवर्तमहापुराणप्रशंसा तत्पुराणस्थचतुष्ख-
ण्डगतमुख्यविषयवर्णनम् ।। अध्यायेऽत्र संहत्य श्लोकसंख्याः ।। ६४ ।।
२ सौतिना गुरुवन्दनपूर्वक सर्वोपरिस्थगोलोकवर्णनम्--ततः शतकोटियोजनाधःप्रदेशे
वैकुण्ठलोकः । तदधः शिवलोकः । प्रलये वैकुण्ठशिवलोकयोः गोलोके लयः ।।
गोलोकस्य तूत्पत्तिलयाभावः ।। गोलोकस्थतेजोमण्डलस्यैव सर्वजगत्कारणश्रीकृष्ण-
रूपत्ववर्णनम् ।। २७ ।। श्लो०
३ श्रीकृष्णपरमात्मनः जगत्सिसृक्षायां स्वाङ्गदक्षिणपार्श्वतः स्रष्टृणां त्रयोदशानां पञ्च
तन्मात्राणां महाभूतादीनां नारायणस्य चोत्पत्तिः । नारायणकृतश्रीकृष्णस्तोत्रम् ।
श्रीकृष्णाङ्गवामपार्श्वाच्छङ्करोत्पत्तिः । शंकरकृतश्रीकृष्णस्तोत्रम् । नाभिप्रदेशाद्ब्रह्मो
त्पत्तिस्तत्कृतश्रीकृष्णस्तोत्रम, तद्वक्षसो धर्मोत्पत्तिः तत्कृतश्रीकृप्णस्तोत्रम्। सर-
स्वतीमहालक्ष्मीदुर्गोत्पत्तिः । तत्कृतश्रीकृष्णस्तोत्रवर्णनम् ।। ८७ ।। श्लो०
४ श्रीकृष्णनासाग्रतः सावित्र्युत्पत्तिः । तत्कृतकृष्णस्तुतिः । श्रीकृष्णमनसो मन्मथोत्पत्तिः तद्वामाङ्गाद्रत्युत्पत्तिः । रतिदर्शनेन ब्रह्मणो रेतःपतनम् । तस्माद्रेतसो वरुणोत्पत्तिः । अग्निस्वाहावरुणानीनां क्रमेणोत्पत्तिः । श्रीकृष्णरेतःस्खलनान्महाविष्णोरुत्पत्तिः । श्रीकृष्णकर्णमलान्मधुकैटभोत्पत्तिः । श्रीकृष्णकृतमधुकैटभवधवर्ण-
नम् ।। २९ ।। श्लो०
५ गोलोकगोगोपीनां नित्यानित्यत्वव्यवस्था ।। शंभुनारायणयोः कल्पत्रयवर्ण
नम् । ब्रह्मणः कालनिर्णयः । मार्कण्डेयस्थितिकालनिर्णयः । श्रीकृष्णकृतगोगोप-
बलीवर्दोत्पत्तिः । प्रकृतेः सकाशाद्राधोत्पत्तिः । राधागण्डप्रदेशात्कोटिसंख्याकगो-
पीनामुत्पत्तिवर्णनम् ।। ७६ ।। श्लो०
६ श्रीकृष्णेन नारायणादिभ्यो महालक्ष्म्यादीनां दानम् । महेश्वराय दुर्गायां सम-
पेयितत्यायां शंकरेण तत्स्वीकारप्रत्याख्यानम् । श्रीकृष्णेन शंकराय सर्वपूज्यत्वा-
दिवरप्रदानपूर्वकं तन्माहात्म्यवर्णनम् सिंहवाहिनीदेवीसमाश्वासनपूर्वकं मंत्रदानम् ।
ब्रह्मणे सृष्टिकरणायाज्ञाया दानम् ।। ७२ ।। श्लो०
७ ब्रह्मदेवकृत पृथिव्यादिविश्वसृष्टिवर्णनम् ।। २० ।। श्लो०
८ ब्रह्मणा सावित्र्यां वीर्याधानतो वेदशास्त्रादिसृष्टिवर्णनम्, ब्रह्मणः पृष्ठदेशादिभ्योऽ-
धर्माद्युत्पत्तिः । स्वसुतेभ्यः सृष्टिकरणे आज्ञादानम् । ब्रह्मणो नारदाय शापदानम् ।
नारदेन च ब्रह्मणे शापदानम् ।। ६८ ।। श्लो०
९ ब्रह्माज्ञया नारदातिरिक्तसर्वमहर्षिकृतसृष्टिः । तत्र कश्यपादिसंबंधवर्णनम् । मंगलग्रहोत्पत्तिविषये इतिहासवर्णनम् । चंद्रपत्नीनां चरित्रे रोहिणसगतं चंद्रं प्रति दक्षेण यक्ष्मरोगित्वापादकशापदानम् । चन्द्रस्य शिवाश्रयम्।चंद्रपत्नीभिः स्वपतिलिप्सया पितृसमीपे पतिमाहात्म्य वर्णनम्। दक्षेण शिवाच्चन्द्रस्य याचनम् । शिवेन तत्प्रत्याख्यानम् । कृष्णेन दक्षाय चंद्रस्य दानम् ।। ९९ ।। श्लो०
१० भृग्वादिभ्यश्च्यवनाद्युत्पत्तिः । कुबेरजन्मकथनम् । क्षत्रियादिजात्युत्पत्तिः । शिल्पकारोत्पत्तिः । शिल्पकाराणां पाततत्वादिवेषेण अयाज्यत्वे इतिहासवर्णनम् ।
घृताचीनामाप्सरोभिः सह विश्वकर्मणः समागमे उभयोः संवादः घृताच्या नीति
धर्मवर्णनम् । परस्परशापवर्णनम् । भूलोके विश्वकर्मणा ब्राह्मणजन्म । घृताच्या
गोपिकायाः गंगातीरे रमणं ततः मलये रमणम् ।ततो नवपुत्रोत्पत्तिः तेषां कार्यनि
र्णयः । संकरजातिवर्णनम् । वैद्यजातिनिर्णयेऽश्विनीकुमारोत्पत्तिवर्णनम् । सर्वजा
तिषु योनिसंबंधवर्णनम् ।। १७० ।। श्लो०
११ सुतपोब्राह्मणस्याश्विनीकुमाराभ्यां शापः । सूर्यकृतब्राह्मणस्तुतिः। सुतपसाश्विनी
कुमारयोर्नैरुज्यकरणम् । ब्राह्मणमाहात्म्यम् ।। ४५।। श्लोक
१२ गंधर्वराजस्य पुत्रप्राप्तिनिमित्तं पुष्करक्षेत्रे शंकरोद्दशेन तपश्चर्या । तत्तपस्तुष्टेन
शंकरेण वरप्रदानम् । गंधर्वराजभार्याया नारदजननम् ।। ४९।। श्लोक
१३ नारदस्य पूर्वजन्मनि उपबर्हणेतिनामकथनम् । उपबर्हणस्य दुष्करतपश्चरणेन गंधर्वकन्यानां परिणयनम् । रंभादर्शनेन उपबर्हणस्य वीर्यस्खलने तस्मै शूद्रत्वप्रापक
शापः । उपबर्हणस्य स्वदेहपरित्यागः । तन्निमित्तं मालावतीनामज्येष्ठपत्न्याः वि
लापः । शापोद्यतमालावतीभयाद्ब्रह्मादिसर्वदेवानां तत्रागमनम् ।। ९१ ।। श्लो०
१४ मालावतीसमीपे श्रीविष्णोरागमनम्।स्वपतिमरणे कारणपृच्छायां ब्राह्मणेन सर्व
देवानां पृथक्पृथक फलप्राप्तिवर्णनम् । विष्णुप्रशंसा ।। ६६ ।। श्लो
१५ ब्राह्मणस्य स्वयं सर्वज्ञताप्रशस्तिः । मालावत्या प्रत्यक्षतोदर्शन धर्मादीनाम्। धर्मादीन् प्रति निजकांतनिधनकारणपृच्छा । मालावतीकालपुरुषसंवादः।।५६।।श्लो०
१६ मालावत्याः व्याध्युत्पत्तेः हेतुज्ञानाय प्रश्नः । ब्राह्मणेन व्याधिकारणवर्णनम् ।
तत्र आयुर्वेदविद्याप्रवृत्तिजरानाशकोपचारकथनम् । वातपित्तश्लेष्महारकोपाय
कथनम् ।। ८८ ।।
१७ ब्राह्मणरूपधारिविष्णो ब्रह्मशिवादिभिः सह संवादे विष्णुप्रशंसा
१८ ब्रह्मादीनां पुनः मालावतीसमीपं प्रागमनम्।गंधर्वजीवनम्।।तदा मालावतीकृत
महापुरुषस्तोत्रम् । कृष्णेन गन्धर्वजीवदानम् ।। ४९, ।। श्लो०
१९ विष्णुकवचम् । बाणेश्वरकचम् ।। ७९ ।। श्लोक
२० उपबर्हणस्य ब्रह्मशापाद्वृषलीगर्भे जन्मवृत्तांतवर्णनम् ।। ६७ ।। श्लोक
२१ कलावतीवृत्तांतः वृषलीपुत्रस्य नारदेतिनामकरणम् । वीर्यप्रदनारदजन्मवृत्तांत
वर्णनम् । श्रीकृष्णध्यानस्तोत्रकवचवर्णनम् । नारदस्य शापविमोचनम् ।। ५७ ।।
श्लो०
२२ ब्रह्मणः कंठान्नारदोत्पत्तिप्रसंगेन प्राचेतसादिमुनीनां ब्रह्मांगविशेषादुत्पत्तिवर्णनम् ब्रह्मपुत्रनाम्नोव्युत्पत्तिवर्णनम् ।। ३१ । ।। श्लो०
२३ ब्रह्मणः नारदं प्रति पुनः सृष्टिकरणे आज्ञा । नारदेन दारपरिग्रहनिंदाप्रसंगेन
स्त्रीस्वभाववर्णनम् ।। ४५ ।। श्लो०
२४ ब्रह्मणो नारदं प्रति गार्हस्थ्यधर्मस्य वैदिकत्ववर्णनम्।।नारदस्य श्रीकृष्णमंत्रग्रहणाय ब्रह्मणि प्रार्थना । ब्रह्माज्ञया तदर्थं नारदस्य शिवलोकं प्रति गमनम् ।।४९।
२५ तत्र नारदस्य शिवदर्शनम् ।। १८ ।। श्लो०
२६ ब्राह्मणवैष्णवविधवानामाह्निकम् ।। १०३ ।। श्लो०
२७ भक्ष्याभक्ष्यकर्तव्याकर्तव्यकथनम् ।। ४६ ।। श्लो०
२८ ब्रह्मस्वरूपवर्णनं शिवाज्ञया नारदस्य बदरिकाश्रमं प्रति गमनम् ।।७३।। श्लो०
२९. श्रीकृष्णमाहात्म्यवर्णनम् । प्रकृतिमाहात्म्यवर्णनम् ।।१६ ।। श्लो०
३० भगवत्स्तुति ।। २१ ।। श्लो०
इति ब्रह्मखण्डम् ।। १।।