प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३३ ब्रह्मवैवर्तपुराणम्
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

सावित्र्युवाच ।।
हरिभक्तिं देहि मह्यं सारभूतां सुदुर्लभाम् ।।
त्वत्तः सर्वं श्रुतं देव नावशिष्टोऽधुना मम ।। १ ।।
किंचित्कथय मे धर्मं श्रीकृष्णगुणकीर्त्तगम् ।।
पुंसां लक्षोद्धारबीजं नरकार्णवतारकम् ।। २ ।।
कारणं मुक्तिकार्याणां सर्वाशुभनिवारणम् ।।
दारणं कर्मवृक्षाणां कृत पापौघहारकम् ।। ३ ।।
मुक्तयः कतिधा सन्ति किं वा तासां च लक्षणम् ।।
हरिभक्तेर्मूर्तिभेदं निषेकस्यापि लक्षणम् ।। ४ ।।
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।।
किं तज्ज्ञानं सारभूतं वद वेदविदां वर ।। ५ ।।
सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः ।।
अज्ञाने ज्ञानदानस्य कलां नार्हन्ति षोडशीम् ।। ६ ।।
पितुः शतगुणा माता गौरवेणातिरिच्यते ।।
मातुः शतगुणैः पूज्यो ज्ञानदाता गुरुः प्रभो ।। ७ ।।
यम उवाच ।।
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।।
अधुना हरिभक्तिस्ते वत्से भवतु मद्वरात् ।। ८ ।।
श्रोतुमिच्छसि कल्याणि श्रीकृष्णगुणकीर्त्तनम् ।।
वक्तॄणां प्रश्नकर्तॄणां श्रोतॄणां कुलतारकम् ।। ९ ।।
शेषो वक्त्रसहस्रेण नहि यद्वक्तु मीश्वरः ।।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ।। 2.34.१० ।।
धाता चतुर्णां वेदानां विधाता जगतामपि ।।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ।। ११ ।।
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ।। १२ ।।
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।।
कलामात्रं यद्गणानां न विदन्ति बुधाश्च ये ।। १३ ।।
सरस्वती च यत्नेन नालं यद्गुणवर्णने ।।
सनत्कुमारो धर्मश्च सनकश्च सनातनः ।।१४।।
सनन्दः कपिलः सूर्य्यो ये चान्ये ब्रह्मणः सुताः ।।
विचक्षणा न यद्वक्तुं के वाऽन्ये जडबुद्धयः।।१९।।
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।।
के वाऽन्ये च वयं के वा भगवद्गुणवर्णने।।१६।।
ध्यायन्ति यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ।। १७ ।।
कश्चित्किंचिद्विजानाति तद्गुणोत्कीर्त्तनं महत् ।।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मसुतादयः ।। १८ ।।
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव च ।।१९।।
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना।।
अतीव निर्जने रम्ये गोलोके रासमण्डले।।2.34.२०।।
तत्रैव कथितं किंचिद्यद्गुणोत्कीर्त्तनं पुनः ।।
धर्माय कथयायास शिवलोके शिवः स्वयम् ।। २१ ।।
धर्मस्तत्कथयामास पुष्करे भास्कराय च ।।
पिता मम यमाराध्य गां प्राप तपसा सति ।। २२ ।।
पूर्वं स्वविषयं चाहं न गृह्णामि प्रयत्नतः ।।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ।। २३ ।।
तदा मां कथयामास पिता तद्गुणकीर्त्तनम् ।।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ।। २४ ।।
तद्गुणं स न जानाति तदन्यस्य च का कथा ।।
यथाऽऽकाशं न जानाति स्वान्तमेव वरानने ।। २५ ।।
सर्वान्तरात्मा भगवान्सर्वकारणकारणम्।।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्सर्वरूपधृक् ।। २६ ।।
नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।।
निरंकुशश्च निश्शृङ्गो निर्गुणश्च निराश्रयः ।। २७ ।।
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।।
प्रकृतिस्तद्विकारा च प्राकृतास्तद्विकारजाः ।। २८ ।।
स्वयं पुमांश्च प्रकृतिः स्वयं च प्रकृतेः परः ।।
रूपं विधत्तेऽरूपश्च भक्तानुग्रहहेतवे ।। २९ ।।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ।।
नवीननीरदश्यामं किशोरं गोपवेषकम् ।। 2.34.३० ।।
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।।
शरन्मध्याह्नपद्मानां शोभामोषकलोचनम् ।। ३१ ।।
शरत्पार्वणकोटीन्दुशोभासंशोभिताननम् ।।
अमूल्यरत्नखचितरत्नाभरणभूषितम् ।। ३२ ।।
सस्मितं शोभितं शश्वदमूल्याऽऽपीतवाससा ।।
परं ब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ।। ३३ ।।
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ।।
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिः समन्ततः ।। ३४ ।।
रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम्।।
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ।। ३५ ।।
कौस्तुभेन मणीन्द्रेण सुन्दरं वक्षसोज्ज्वलम् ।।
कुङ्कुमागरुकस्तूरीचन्दनार्चितविग्रहम् ।। ३६ ।।
चारुचम्पकमालाब्जमालतीमाल्यमण्डितम् ।।
चारुचम्पकशोभाढ्यचूडावक्त्रिमराजितम् ।। ३७ ।।
ध्यायन्ति चैवम्भूतं वै भक्ता भक्तिपरिप्लुताः।।
यद्भयाज्जगतां धाता विधत्ते सृष्टिमेव च ।। ३८ ।।
करोति लेखनं कर्मानुरूपं सर्वदेहिनाम् ।।
तपसां फलदाता च कर्मणां च यदाज्ञया ।। ३९ ।।
विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् ।।
कालाग्निरुद्रः संहर्त्ता सर्वविश्वेषु यद्भयात् ।। 2.34.४० ।।
शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ।।
यज्ज्ञानदानात्सिद्धेशो योगीशः सर्ववित्स्वयम् ।।४१ ।।
परमानन्द युक्तश्च भक्तिवैराग्यसंयुतः ।।
यत्प्रसादाद्वाति वातः प्रवरः शीघ्रगामिनाम् ।। ४२ ।।
तपनश्च प्रतपति यद्भयात्सन्ततं सति ।।
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।। ४३ ।।
यदाज्ञया दहेद्वह्निर्जलमेव सुशीतलम् ।।
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ।। ४४ ।।
भ्रमन्ति राशिचक्राणि ग्रहा वै यद्भयेन च ।।
भयात्फलन्ति वृक्षाश्च पुष्पन्त्यपि च यद्भयात् ।। ४५ ।।
भयात्फलानि पक्वानि निष्फलास्तरवो भयात् ।।
यदाज्ञया स्थलस्थाश्च न जीवन्ति जलेषु च ।। ४६ ।।
तथा स्थले जलस्थाश्च न जीवन्ति यदाज्ञया ।।
अहं नियमकर्त्ता च धर्माधर्मं च यद्भयात् ।। ४७ ।।
कालश्च कलयेत्सर्वं भ्रमत्येव यदाज्ञया ।।
अकाले हरेत्कालो मृत्युर्वै यद्भयेन च ।। ४८ ।।
ज्वलदग्नौ पतन्तं च गभीरे च जलार्णवे ।।
वृक्षाग्रात्तीक्ष्णखड्गे च सर्पादीनां मुखेषु च।।४९।।
नानाशस्त्रास्त्रविद्धं च रणेषु विषमेषु च ।।
पुष्पचन्दनतल्पे च बन्धुवर्गैश्च रक्षितम् ।। 2.34.५० ।।
शयानं तन्त्रमन्त्रैश्च काले कालो हरेद्भयात् ।।
धत्ते वायुस्तोयराशिं तोयं कूर्मं यदाज्ञया ।। ५१ ।।
कूर्मोऽनन्तं स च क्षोणीं समुद्रान्सप्तपर्वतान् ।।
सर्वांश्चैव क्षमारूपो नानारूपं बिभर्त्ति सः ।। ५२ ।।
यतः सर्वाणि भूतानि लीयन्तेऽन्ते च तत्र वै ।।
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।।५३।। ।
अष्टाविंशच्छक्रपाते ब्रह्मणस्स्यादहर्निशम् ।।
षष्ट्याधिके पञ्चशते सहस्रे पञ्चविंशतौ ।। ५४ ।।
युगे नराणां शक्रायुरेवं संख्याविदो विदुः ।।
एवं त्रिंशद्दिनैर्मासो द्वाभ्यां ताभ्यामृतुः स्मृतः ।। ५५ ।।
ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः ।।
ब्रह्मणश्च निपाते वै चक्षुरुन्मीलनं हरेः ।। ५६ ।।
चक्षुर्निमीलने तस्य लयं प्राकृतिकं विदुः ।।
प्रलये प्राकृताः सर्वे देवाद्याश्च चराचराः ।। ५७ ।।
लीना धातरि धाता च श्रीकृष्णे नाभिपङ्कजे ।।
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।। ५८ ।।
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ।।
रुद्राद्या भैरवाद्याश्च यावन्तश्च शिवानुगाः ।। ५९ ।।
शिवाधारे शिवे लीना ज्ञानानन्दे सनातने ।।
ज्ञानाधिदेवः कृष्णस्य महादेवस्य चात्मनः ।। 2.34.६० ।।
तस्य ज्ञाने विलीनश्च बभूवाथ क्षणं हरेः ।।
दुर्गायां विष्णुमायायां विलीनाः सर्व शक्तयः ।। ६१ ।।
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।।
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ।। ६२ ।।
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः ।।
पद्मांशभूता पद्मायां सा राधायां च सुव्रते ।।६३।।
गोप्यश्चापि च तस्यां च सर्वा वै देवयोषितः।।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु सा स्थिता ।।६४।।
सावित्री च सरस्वत्यां वेदशास्त्राणि यानि च ।।
स्थिता वाणी च जिह्वायां तस्यैव परमात्मनः ।। ६५ ।।
गोलोकस्थस्य गोपाश्च विलीनास्तस्य लोमसु ।।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनः ।। ६६ ।।
जठराग्नौ विलीनश्च जलं तद्रसनाग्रतः।।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ।। ६७ ।।
सारात्सारतरा भक्तिरसपीयूषपायिनः ।।
विराट् क्षुद्रश्च महति लीनः कृष्णे महान्विराट् ।। ६८ ।।
यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।।
यस्य चक्षु निमेषेण महांश्च प्रलयो भवेत् ।।६९।।
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः ।।
यावन्निमेषे सृष्टिस्स्यात्तावदुन्मीलने व्ययः ।।2.34.७०।।
ब्रह्मणश्च शताब्देन सृष्टिस्तत्र लयः पुनः।।
ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते ।।७१।।
यथा भूरजसां चैव संख्यानं च निशामय ।।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ।। ७२ ।।
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।।
तद्गुणोत्कीर्त्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।। ७३ ।।
यथा श्रुतं तातवक्त्रात्तथोक्तं च यथागमम् ।।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ।। ७४ ।।
तत्प्रधाना हरेर्भक्तिर्मुक्तेरपि गरीयसी।।
सालोक्यदा हरेरेका चान्या सारूप्यदा परा ।।७५।।
सामीप्यदा च निर्वाणदात्री चैवमिति स्मृतिः।।
भक्तास्ता नहि वाञ्छन्ति विना तत्सेवनादिकम् ।। ७३ ।।
सिद्धत्वममरत्वं च ब्रह्मत्वं चावहेलया ।।
जन्ममृत्युजराव्याधिभयशोकादिखण्डनम्।।७७।।
धारणं दिव्यरूपस्य विदुर्निर्वाणमोक्षदम् ।।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्द्धिनी।।७८।।
भक्तिमुक्त्योरयं भेदो निषेके लक्षणं शृणु ।।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ।। ७९ ।।
तत्खण्डनं च शुभदं परं श्रीकृष्णसेवनम् ।।
तत्त्वज्ञानमिदं साध्वि सारं वै लोकवेदयोः ।। 2.34.८० ।।
विघ्नघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।।
इत्युक्त्वा सूर्य्यपुत्रश्च जीवयित्वा च तत्पतिम् ।। ८१।।
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।।
दृष्ट्वा यमं च गच्छन्तं सावित्री तं प्रणम्य च ।। ८२ ।।
रुरोद चरणे धृत्वा सद्विच्छेदोऽतिदुःखदः ।।
सावित्रीरोदनं दृष्ट्वा यमस्सोऽयं कृपानिधिः ।। ८३ ।।
तामित्युवाच सन्तुष्टस्त्वरोदीच्चापि नारद ।। ८४ ।।
यम उवाच ।।
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।।
अन्ते यास्यसि गोलोके श्रीकृष्णभवनं शुभे ।। ८५ ।।
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ।।
द्द्विसप्तवर्षपर्य्यन्तं नारीणां मोक्षकारणम् ।। ८६ ।।
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्।।
शुक्लाष्टम्यां भाद्रपदे महालक्ष्म्या व्रतं शुभम् ।। ८७ ।।
द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव च ।।
करोति परया भक्त्या सा याति च हरेः पदम् ।। ८८ ।।
प्रतिमङ्गलवारे च देवीं मङ्गलचण्डिकाम् ।।
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिकाम् ।।८९।।
तथा चाषाढसंक्रान्त्यां मनसा सर्वसिद्धिदाम् ।।
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकां प्रियाम् ।। 2.34.९० ।।
उपोष्य शुक्लाष्टम्यां च प्रतिमासे वरप्रदाम् ।।
विष्णुमायां भगवतीं दुर्गां दुर्गार्तिनाशिनीम् ।। ९१ ।।
प्रकृतिं जगदम्बां च पतिपुत्रवतीं सतीम् ।।
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।। ९२ ।।
या नारी पूजयेद्भक्त्या धनसन्तानहेतवे ।।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ।। ९३ ।।
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम्।।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम्।।९४।।
सावित्री सत्यवन्तं च वृत्तान्तं च यथाक्रमम्।।
अन्यांश्च कथयामास बान्धवांश्चैव नारद ।। ९५ ।।
सावित्रीजनकः पुत्रान्स प्रापद्वै क्रमेण च ।।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान्वरेण च ।। ९६ ।।
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।।
जगाम स्वामिना सार्द्धं गोलोकं सा पतिव्रता ।। ९७ ।।
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।।
सावित्री चापि वेदानां सावित्री तेन कीर्त्तिता ।। ९८ ।।
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ।। ९९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्र्या यमोपदेशसमाप्तिर्नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।

इति सावित्र्युपाख्यानम् ।।