ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३९

← अध्यायः ३८ ब्रह्मवैवर्तपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

नारद उवाच ।।
हरेरुत्कीर्त्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।।
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रादिकं वद ।। १ ।।
हरिणा पूजिता पूर्वं ततो ब्रह्मादिभिस्तथा।।
शक्रेण भ्रष्टराज्येन सार्द्धं सुरगणेन च।।
ध्यानेन पूजिता केन विधिना केन वा पुरा।।
केन स्तुता वा स्तोत्रेण तन्मे व्याख्यातुमर्हसि ।। ३ ।।
श्रीनारायण उवाच ।।
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।।
क्षीरोदे संस्थाप्य घटं देवषट्कमपूजयत् ।। ४ ।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।।
एतान्भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तथा ।। ५ ।।
तत्रावाह्य महालक्ष्मीं परमैश्वर्य्यरूपिणीम् ।।
पूजां चकार देवेशो ब्रह्मणा च पुरोधसा ।। ६ ।।
पुरः स्थितेषु मुनिषु ब्राह्मणेषु गुरौ तथा ।।
देवादिषु च देवेशे ज्ञानानन्दे शिवे मुने ।। ७ ।।
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।।
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ।।८।।
ध्यानं च सामवेदोक्तं यदुक्तं ब्रह्मणे पुरा ।।
ध्यानेन हरिणा तेन तन्निबोध वदामि ते।।९।।
सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ।।
शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ।। 2.39.१० ।।
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।।
प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ।। ११ ।।
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।।
ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ।। १२ ।।
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।।
ध्यानेनानेन तां ध्यात्वा चोपहारैस्सुसंयुतः ।। १३ ।।
सम्पूज्य ब्रह्मवाक्येन चोपहाराणि षोडश ।।
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ।।१४।।
प्रशंस्यानि प्रहृष्टानि दुर्लभानि वराणि च।।
अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा ।।
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।। १९ ।।
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।।
पापेध्मवह्निरूपं च गृह्यतां कमलालये ।। १६ ।।
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ।।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ।। १७ ।।
सुगन्धियुक्ततैलं च सुगन्धामलकीजलम् ।।
देहसौन्दर्य्यबीजं च गृह्यतां श्रीहरिप्रिये ।। १८ ।।
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ।।
कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ।। १९ ।।
मलयाचलसंभूतं वृक्षसारं मनोहरम् ।।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ।। 2.39.२० ।।
जगच्चक्षुस्स्वरूपं च ध्वान्तप्रध्वंसकारणम् ।।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ।। २१ ।।
नानोपहाररूपं च नानारससमन्वितम् ।।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ।। २२ ।।
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।।
तुष्टिदं पुष्टिदं चान्नं मधुरं प्रतिगृह्यताम् ।। २३ ।।
शाल्यक्षतसुपक्वं च शर्करागव्यसंयुतम् ।।
सुस्वादु रम्यं पद्मे च परमान्नं प्रगृह्यताम् ।। २४ ।।
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।।
मया निवेदितं लक्ष्मि स्वस्तिकं प्रतिगृह्यताम् ।। २५ ।।
नानाविधानि रम्याणि पक्वानि च फलानि तु ।।
स्वादुरस्यानि कमले गृह्यन्तां फलदानि च ।। २६ ।।
सुरभिस्तनसम्भूतं सुस्वादु सुमनोहरम् ।।
मर्त्यामृतं च गव्यं वै गृह्यतामच्युतप्रिये ।। २७ ।।
सुस्वादुरससंयुक्तमिक्षुवृक्षरसोद्भवम् ।।
अग्निपक्वमपक्वं वा गुडं वै देवि गृह्यताम् ।। २८ ।।
यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ।।
सुपक्वगुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।। २९ ।।
सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ।।
मया निवेदितं देवि पिष्टकं प्रतिगृह्यताम् ।। 2.39.३० ।।
पार्थिवं वृक्षभेदं च विविधैर्द्रव्यकारकम् ।।
सुस्वादु रससंयुक्तमैक्षवं प्रतिगृह्यताम्।।३१।।
शीतवायुप्रदं चैव दाहे च सुखदं परम् ।।
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम्।।३२।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ।। ३३ ।।
सुवासितं शीतलं च पिपासानाशकारणम् ।।
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ।। ३४ ।।
देहसौन्दर्य्यबीजं च सदा शोभाविवर्द्धनम् ।।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ।। ३५ ।।
रत्नस्वर्णविकारं च देहसौख्यविवर्द्धनम् ।।
शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ।। ।। ३६ ।।
नानाकुसुमसन्दर्भं बहुशोभाप्रदं परम् ।।
सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ।। ३७ ।।
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ।।
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ।।३८।।
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा।।
गृहाण कृष्णकान्ते त्वं रम्यमाचमनीयकम् ।। ३९ ।।
रत्नसारैस्संग्रथितं पुष्पचन्दनसंयुतम् ।।
रत्नभूषणभूषाढ्यं सुतल्पं प्रतिगृह्यताम् ।। 2.39.४० ।।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामस्ति दुर्लभम् ।।
देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ।। ४१ ।।
द्रव्याण्येतानि दत्त्वा वै मूलेन देवपुंगव ।।
मूलं जजाप भक्त्या च दशलक्षं विधानतः ।।४२।।
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ।।
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वदा ।। ४३ ।।
लक्ष्मीर्माया कामवाणी ततः कमलवासिनी ।।
स्वाहान्तो वैदिको मन्त्रराजोऽयं द्वादशाक्षरः ।। ४४ ।।
श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा ।।
कुबेरोऽनेन मन्त्रेण सर्वैश्वर्यमवाप्तवान् ।।
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।। ४९ ।।
मंगलोऽनेन मन्त्रेण सप्तद्वीपवतीपतिः।।
प्रियव्रतोत्तानपादौ केदारो नृप एव च।।४६।।
एते च सिद्धा राजेन्द्रा मन्त्रेणानेन नारद।।
सिद्धे मन्त्रे महालक्ष्मीर्ददौ शक्राय दर्शनम् ।। ४७ ।।
रत्नेन्द्रव्यूहखचितविमानस्था वरप्रदा ।।
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।। ४८ ।।
श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ।।
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकारिका ।। ४९ ।।
बिभ्रती रत्नमालां च कोटि चन्द्रसमप्रभा ।।
दृष्ट्वा जगत्प्रसूं शान्तां तां तुष्टाव पुरन्दरः ।। 2.39.५० ।।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ।।
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयतः ।।
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ।। ५१ ।।
इन्द्र उवाच ।।
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ।।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ।। ५२ ।।
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ।। ५३ ।।
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।।
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ।। ५४ ।।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।।
कृष्णवक्षस्थितायै च कृष्णेशायै नमो नमः ।। ५५ ।।
कृष्णशोभास्वरू पायै रत्नाढ्यायै नमो नमः ।।
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।। ५६ ।।
सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ।।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ।। ५७ ।।
वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ।। ५८ ।।
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।।
सुरभिस्सा गवां माता दक्षिणा यज्ञकामिनी ।। ५९ ।।
अदितिर्देवमाता त्वं कमला कमलालये ।।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ।। 2.39.६० ।।
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा।।६१।।
क्रोधहिंसावर्जिता च वरदा च शुभानना।।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा।।६२।।
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ।। ६३ ।।
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी।।
यया विना न संभाष्यो बान्धवैर्बान्धवः सदा।।६४।।
त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः।।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी।।६५।।
स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा।।
तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ।।६६।।
त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः ।।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ।। ६७ ।।
सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके ।।
वैरिग्रहस्तद्विषयं देहि मह्यं सनातनि ।। ६८ ।।
वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः ।।
सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये ।।६९।।
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।।
कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ।।2.39.७०।।
कामं देहि मतिं देहि भोगान्देहि हरिप्रिये ।।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।।७१।।
सर्वाधिकारमेवं वै प्रभावं च प्रतापकम् ।।
जयं पराक्रमं युद्धे परमैश्वर्य्यमेव च।।७२।।
इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह ।।
ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ।।७३।।
ब्रह्मा च शंकरश्चैव शेषो धर्मश्च केशवः।।
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः।।७४।।
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्।।
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।। ७५ ।।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ।।
देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ।।७६।।
ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ।।
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।।७७।।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।।
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ।। ७८ ।।
सिद्धस्तोत्रं यदि पठेत्सोऽपि कल्पतरुर्नरः ।।
पञ्चलक्ष जपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।। ७९ ।।
सिद्धिःस्तोत्रं यदि पठेन्मासमेकं च संयतः ।।
महासुखी च राजेन्द्रो भविष्यति न संशयः ।। 2.39.८० ।।
नारद उवाच ।।
पुष्पं दुर्वाससा दत्तमस्ति वै यस्य मस्तके ।।
तस्य सर्वा पुरःपूजेत्युक्तं पूर्वं त्वया प्रभो ।। ८१।।
तदेव स्थापितं पुष्पं गजेन्द्रस्यैव मस्तके ।।
यतो जन्म गणेशस्य स च मत्तो वनं गतः ।। ८२ ।।
मूर्ध्नि च्छिन्ने गणपतेः शनेर्दृष्ट्या पुरा मुने ।।
तत्स्कन्धे योजयामास हस्तिमस्तं हरिः स्वयम् ।।८३।।
अधुनोक्तं देवषट्कं संपूज्य च पुरन्दरः ।।
पूजयामास लक्ष्मीं च क्षीरोदे च सुरैः सह ।। ८४ ।।
अहो पुराणवक्तॄणां दुर्बोधं वचनं नृणाम् ।।
सुव्यक्तमस्य सिद्धान्तं वद वेदविदां वर ।। ८५ ।।
श्रीनारायण उवाच ।।
यदा शशाप शक्रं च दुर्वासा मुनिपुंगवः ।।
तदा नास्त्येव तज्जन्म पूजाकाले बभूव सः ।।८६।।
सुचिरं दुःखिता देवा बभ्रमुर्ब्रह्मशापतः।।
पश्चात्प्रापुश्च तां लक्ष्मीं वरेण च हरेर्मुने।।८७।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्मीपूजाविधानं नामैकोनचत्वारिंशत्तमोऽध्यायः ।।३९।।
श्रीलक्ष्म्युपाख्यानं समाप्तम् ।।