प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४० ब्रह्मवैवर्तपुराणम्
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →

नारायण उवाच ।।
शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।।
पितॄणां वै तृप्तिकरं श्राद्धानां फलवर्द्धनम् ।। १ ।।
सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः ।।
चतुरो वै मूर्त्तिमतस्त्रींश्च तेजस्स्वरूपिणः ।। २ ।।
सप्त दृष्ट्वा पितृगणान्सिद्धिरूपान्मनोहरान् ।।
आहारं ससृजे तेषां श्राद्धतर्पणपूर्वकम्।। ३ ।।
स्नानं तर्पणपर्य्यन्तं श्राद्धान्तं देवपूजनम् ।।
आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम् ।। ४ ।।
नित्यं न कुर्य्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् ।।
बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ।। ५ ।।
हरिसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् ।।
भस्मान्तं सूतकं तस्य न कर्मार्हः स नारद ।। ६ ।।
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे ।।
न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ।। ७ ।।
सर्वे प्रजग्मुः क्षुधिता विषण्णा ब्रह्मणः सभाम् ।।
सर्वे निवेदनं चक्रुस्तमेव जगतां विधिम् ।। ।। ८ ।।
ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम् ।।
रूपयौवनसम्पन्नां शरच्चन्द्रसमप्रभाम् ।। ९ ।।
विद्यावतीं गुणवतीमपि रूपवतीं सतीम् ।।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।। 2.41.१० ।।
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् ।।
स्वधाभिधानां सुदतीं लक्ष्मीं लक्षणसंयुताम् ।। ११ ।।
शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् ।।
पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ।। ।। १२ ।।
पितृभ्यस्तां ददौ कन्यां तुष्टेभ्यस्तुष्टिरूपिणीम् ।।
ब्राह्मणानां चोपदेशं चक्रे वै गोपनीयकम् ।। १३ ।।
स्वधान्तं मन्त्रमुच्चार्य्य पितृभ्यो देहि चेति च ।।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ।। १४ ।।
स्वाहा शस्ता देवदाने पितृदाने स्वधा वरा ।।
सर्वत्र दक्षिणा शस्ता हतो यज्ञस्त्वदक्षिणः ।। १५ ।।
पितरो देवता विप्रा मुनयो मानवास्तथा ।।
पूजां चक्रुः स्वधां शान्तां तुष्टाव परमादरम् ।। १६ ।।
देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः ।।
विप्रादयश्च पितरः स्वधादेवीवरेण च ।। १७ ।।
इत्येवं कथितं सर्वं स्वधोपाख्यानमुत्तमम् ।।
सर्वेषां वै तुष्टिकरं किं भूयः श्रोतुमिच्छसि ।। १८ ।।
नारद उवाच ।।
स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने ।।
श्रोतुमिच्छामि यत्नेन वद वेदविदां वर ।। १९ ।।
नारायण उवाच ।।
तद्ध्यानं स्तवनं ब्रह्मन्वेदोक्तं सर्वसम्मतम् ।।
सर्वं जानासि वक्ष्ये वै ज्ञातुमिच्छसि वृद्धये ।। 2.41.२० ।।
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।।
स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् ।। २१ ।।
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्य्यादहंमतिः ।।
न भवेत्फलभाक् सत्यं श्राद्धतर्पणयोस्तथा ।। २२ ।।
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् ।।
पूज्यां पितॄणां देवानां श्राद्धानां फलदां भजे ।। २३ ।।
इति ध्यात्वा घटे रम्ये शालग्रामेऽथवा शुभे ।।
दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ।। २४ ।।
आं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामनुम् ।।
समुच्चार्य्य च संपूज्य स्तुत्वा तां प्रणमेद्द्विजः ।। २५ ।।
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद ।।
सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा।।२६।।
ब्रह्मोवाच ।।
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः।।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ।। २७ ।।
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।।
श्राद्धस्य फलमाप्नोति कालतर्पणयोस्तथा ।। २८ ।।
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।।
लभेच्छ्राद्धशतानां च पुण्यमेव न संशयः ।। २९ ।।
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।।
प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम् ।।2.41.३०।।
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ।। ३१ ।।
बहिर्मन्मनसो गच्छ पितॄणां तुष्टिहेतवे ।।
संप्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ।। ।। ३२ ।।
नित्या नित्यस्वरूपाऽसि गुणरूपाऽसि सुव्रते ।।
आविर्भावस्तिरोभावः सृष्टौ च प्रलये तव।। ३३ ।।
ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा ।।
निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम् ।। ३४ ।।
पुराऽऽसीस्त्वं स्वधा गोपी गोलोके राधिका सखी ।।
धृता स्वोरसि कृष्णेन यतस्तेन स्वधा स्मृता ।। ३५ ।।
ध्वस्ता त्वं राधिकाशापाद्गोलोकाद्विश्वमागता ।।
कृष्णाश्लिष्टा तया दृष्टा पुरा वृन्दावने वने ।। ३६ ।।
कृष्णालिंगनपुण्येन भूता मे मानसी सुता ।।
अतृप्तसुरते तेन चतुर्णां स्वामिनां प्रिया ।। ।। ३७ ।।
स्वाहा सा सुन्दरी गोपी पुराऽऽसीद्राधिकासखी ।।
रतौ स्वयं कृष्णमाह तेन स्वाहा प्रकीर्त्तिता ।। ३८ ।।
कृष्णेन सार्द्धं सुचिरं वसन्ते रासमण्डले ।।
प्रयत्ता सुरते श्लिष्टा दृष्टा सा राधया पुरा ।।३९।।
तस्याः शापेन सा ध्वस्ता गोलोकाद्विश्वमागता ।।
कृष्णालिङ्गनपुण्येन समभूद्वह्निकामिनी ।। 2.41.४० ।।
पवित्ररूपा परमा देवाद्यैर्वन्दिता नृभिः ।।
यन्नामोच्चारणेनैव नरो मुच्येत पातकात् ।। ४१ ।।
या सुशीलाभिधा गोपी पुराऽऽसीद्राधिकासखी ।।
उवास दक्षिणे क्रोडे कृष्णस्य च महात्मनः ।। ४२ ।।
प्रध्वस्ता सा च तच्छापाद्गोलोकाद्विश्वमागता ।।
कृष्णालिङ्गनपुण्येन सा बभूव च दक्षिणा ।। ४३ ।।
सा प्रेयसी रतौ दक्षा प्रशस्ता सर्वकर्मसु ।।
उवास दक्षिणे भर्तुर्दक्षिणा तेन कीर्त्तिता ।। ४४ ।।
गोप्या बभूवुस्तिस्रो वै स्वधा स्वाहा च दक्षिणा ।।
कर्मिणां कर्मपूर्णार्थं पुरा चैवेश्वरेच्छया ।। ४९ ।।
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि ।।
तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह ।। ४६ ।।
तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ।।
तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ।। ४७ ।।
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।।
स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत् ।। ४८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे स्वधोपाख्याने स्वधोत्पत्तितत्पूजादिकथनं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।
इति स्वधोपाख्यानं समाप्तम्।।