ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५३

← अध्यायः ५२ ब्रह्मवैवर्तपुराणम्
अध्यायः ५३
वेदव्यासः
अध्यायः ५४ →

श्रीपार्वत्युवाच ।।
गतेषु मुनिसंघेषु श्रुत्वा कर्मफलं नृणाम् ।।
किं चकार नृपश्रेष्ठो ब्रह्मशापेन विह्वलः ।। १ ।।
अतिथिर्ब्राह्मणो वाऽपि किं चकार तदा प्रभो ।।
जगाम नृपगेहं वा न वा तद्वक्तुमर्हसि ।। २ ।।
महेश्वर उवाच ।।
गतेषु मुनिसंघेषु निन्दाग्रस्तो नराधिपः ।।
प्रेरितश्च वसिष्ठेन धर्मिष्ठेन पुरोधसा ।।।। ३ ।।
पपात दण्डवद्भूमौ पादयोर्ब्राह्मणस्य च ।।
त्यक्त्वा मन्युं द्विजश्रेष्ठो ददौ तस्मै शुभाशिषम् ।। ४ ।।
सस्मितं ब्राह्मणं दृष्ट्वा त्यक्तमन्युं कृपामयम् ।।
उवाच नृपतिश्रेष्ठः साश्रुनेत्रः कृताञ्जलिः ।। ५ ।।
राजोवाच ।।
कुत्र वंशे भवाञ्जातः किं नाम भवतः प्रभो ।।
किंनामा वाऽपि तद्ब्रूहि क्व वासः कथमागतः ।।६।।
विप्ररूपी स्वयं विष्णुर्गूढः कपटमानुषः ।।
साक्षात्स मूर्तिमानग्निः प्रज्वलन्ब्रह्मतेजसा ।। ७ ।।
को वा गुरुस्ते भगवन्निष्टदेवश्च भारते ।।
तव वेषः कथमयं ज्ञानपूर्णस्य साम्प्रतम् ।।८।।
गृहाण राज्यं निखिलमैश्वर्य्यं कोशमेव च ।।
स्वभृत्यं कुरु मे पुत्रं मां च दासीं स्त्रियं मुने ।। ९ ।।
सप्तसागरसंयुक्तां सप्तद्वीपां वसुन्धराम् ।।
अष्टादशोपद्वीपाढ्यां सशैलवनशोभिताम् ।। 2.53.१० ।।
मया भृत्येन शाधि त्वं राजेन्द्रो भव भारते ।।
रत्नेन्द्रसारखचिते तिष्ठ सिंहासने वरे ।।।। ११ ।।
नृपस्य वचनं श्रुत्वा जहास मुनिपुङ्गवः ।।
उवाच परमं तत्त्वमज्ञातं सर्वदुर्लभम् ।। १२ ।।
अतिथिरुवाच ।।
मरीचिर्ब्रह्मणः पुत्रस्तत्पुत्रः कश्यपः स्वयम् ।।
कश्यपस्य सुताः सर्वे प्राप्ता देवत्वमीप्सितम्।।१३।।
तेषु त्वष्टा महाज्ञानी चकार परमं तपः ।।
दिव्यं वर्षसहस्रं च पुष्करे दुष्करं तपः।।१४।।
सिषेवे ब्राह्मणार्थं च देवदेवं हरिं परम्।।
नारायणाद्वरं प्राप विप्रं तेजस्विनं सुतम् ।। १५।।
ततो बभूव तेजस्वी विश्वरूपस्तपोधनः।।
पुरोधसं चकारेन्द्रो वाक्पतौ तं क्रुधा गते।।१६।।
मातामहेभ्यो दैत्येभ्यो दत्तवन्तं घृताहुतिम् ।।
चिच्छेद तं शुनासीरो ब्राह्मणं मातुराज्ञया।।१७।।
विश्वरूपस्य तनयो विरूपो मत्पिता नृप ।।
अहं च सुतपा नाम विरागी कश्यपो द्विजः ।। । १८।।
महादेवो मम गुरुर्विद्याज्ञानमनुप्रदः ।।
अभीष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ।। १९ ।।
तच्चिन्तयामि पादाब्जं न मे वाञ्छा ऽस्ति सम्पदि ।।
सालोक्यसार्ष्टिसारूप्यसामीप्यं राधिकापतेः ।।2.53.२०।।
तेन दत्तं न गृह्णामि विना तत्सेवनं शुभम् ।।
ब्रह्मत्वममरत्वं वा मन्येऽहं जलबिम्बवत् ।। २१ ।।
भक्तिव्यवहितं मिथ्याभ्रममेव तु नश्वरम् ।।
इन्द्रत्वं वा मनुत्वं वा सौरत्वं वा नराधिप।।२२।।
न मन्ये जलरेखेति नृपत्वं केन गण्यते ।।
श्रुत्वा सुयज्ञयज्ञे ते मुनीनां गमनं नृप ।। २३ ।।
लालसां विष्णुभक्तिं ते संप्रापयितुमागतः ।।
केवलानुगृहीतस्त्वं नहि शप्तो मयाऽधुना।।२४।।
समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे ।।
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।। २९ ।।
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात् ।।
राजन्निर्गम्यतां गेहाद्देहि राज्यं सुताय च ।। २६ ।।
पुत्रे न्यस्य प्रियां साध्वीं गच्छ वत्स वनं द्रुतम् ।।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं मिथ्यैव भूमिप ।। २७ ।।
श्रीकृष्णं भज राधेशं परमात्मा नमीश्वरम् ।।
ध्यानसाध्यं दुराराध्यं ब्रह्मविष्णुशिवादिभिः ।। २८ ।।
आविर्भूतैस्तिरोभूतैः प्राकृतैः प्रकृतेः परम् ।।
ब्रह्मा स्रष्टा हरिः पाता हरः संहारकारकः ।। २९ ।।
दिक्पालाश्च दिगीशाश्च भ्रमन्त्येवास्य मायया ।।
यदाज्ञया वाति वायुः सूर्य्यो दिनपतिः सदा।। ।। 2.53.३० ।।
निशापतिः शशी शश्वत्सस्यसुस्निग्धताकरः ।।
कालेन मृत्युः सर्वेषां सर्वविश्वेषु वै भवेत् ।। ३१ ।।
काले वर्षति शक्रश्च दहत्यग्निश्च कालतः।।
भीतवद्विश्वशास्ता च प्रजासंयमनो यमः।।३२।।
कालः संहरते काले काले सृजति पाति च।।
स्वदेशे वै समुद्रश्च स्वदेशे वै वसुन्धरा।।३३।।
स्वदेशे पर्वताश्चैव स्वाः पातालाः स्वदेशतः।।
स्वर्लोकाः सप्त राजेन्द्र सप्तद्वीपा वसुन्धरा।।३४।।
शैलसागरसंयुक्ताः पातालाः सप्त चैव हि ।।
ब्रह्माण्डमेभिर्लोकैश्च डिम्बाकारं जलप्लुतम् ।।३५।।
सन्त्येव प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ।।
सुरा नराश्च नागाश्च गन्धर्वा राक्षसादयः ।।३६।।
आपातालाद्ब्रह्मलोकपर्य्यन्तं डिम्बरूपकम् ।।
इदमेव तु विध्यण्डमुत्तमं कृत्रिमं नृप ।। ३७ ।।
नाभिपद्मे विराड्विष्णोः क्षुद्रस्य जलशायिनः ।।
स्थितं यथा पद्मबीजं कर्णिकायां च पङ्कजे ।।३८।।
एवं सोऽपि शयानस्स्याज्जलतल्पे सुविप्लुते ।।
ध्यायत्येव महायोगी प्राकृतः प्रकृतेः परम् ।। ३९ ।।
कालभीतश्च कालेशं कृष्णमात्मानमीश्वरम् ।। ।
महाविष्णोर्लोमकूपसाधारः सोऽस्ति विस्तृते ।।
कूपेषु लोम्नां प्रत्येकमेवं विश्वानि सन्ति वै ।। 2.53.४० ।।
महाविष्णोर्गात्रलोम्नां ब्रह्माण्डानां च भूमिप ।।
संख्यां कर्त्तुं न शक्नोति कृष्णोऽप्यन्यस्य का कथा ।।४१।।
महाविष्णुः प्राकृतिकः सोऽपि डिम्बोद्भवः सदा।।
भवेत्कृष्णेच्छया डिम्बः प्रकृतेर्गर्भसम्भवः ।। ४२ ।।
सर्वाधारो महान्विष्णुः कालभीतः स शङ्कितः ।।
कालेशं ध्यायति स्वैरं कृष्णमात्मानमीश्वरम् ।। ४३ ।।
एवं च सर्वविश्वस्था ब्रह्मविष्णुशिवादयः ।।
महान्विराट् क्षुद्रविराट् सर्वे प्राकृतिकाः सदा ।।४४।। ।
सा सर्वबीजरूपा च मूलप्रकृतिरीश्वरी ।।
काले लीना च कालेशे कृष्णे तं ध्यायति स्म सा ।।४५।।
एवं सर्वे कालभीताः प्रकृतिः प्राकृतास्तथा ।।
आविर्भूतास्तिरोभूताः कालेन परमात्मनि ।।४६।।
इत्येवं कथितं सर्वं महाज्ञानं सुदुर्लभम् ।।
शिवेन गुरुणा दत्तं किं भूयः श्रोतुमिच्छसि ।।४७।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञं प्रत्यतिथ्युपदेशो नाम त्रिपञ्चाशत्तमोऽध्यायः ।।५३।।