ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ६७

← अध्यायः ६६ ब्रह्मवैवर्तपुराणम्
अध्यायः ६७
वेदव्यासः

नारद उवाच।।
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ।।
ब्रह्माण्डमोहनं नाम प्रकृतेः कवचं वद ।। १ ।।
नारायण उवाच ।।
शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् ।।
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ।। २ ।।
ब्रह्मणा कथितं सर्वं धर्मार्थं जाह्नवीतटे ।।
धर्मेण दत्तं मह्यं च कृपया पुष्करे प्रभुः ।। ३ ।।
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ।।
मुमोच धाता यद्धृत्वा मधुकैटभयोर्भयम् ।।
जघान रक्तबीजं तं यत्कृत्वा भद्रकालिका ।। ४ ।।
यद्धृत्वा तु महेन्द्रश्च संप्राप कमलालयाम् ।।
यद्धृत्वा च महाकालश्चिरजीवी च धार्मिकः ।। ।। ५ ।।
यद्धृत्वा च महाज्ञानी नन्दी सानन्दपूर्वकम् ।।
यद्धृत्वा च महायोद्धा रामः शत्रुभयङ्करः ।। ६ ।।
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ।।
ॐ दुर्गेति चतुर्थ्यन्तं स्वाहान्तो मे शिरोऽवतु ।। ७ ।।
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ।।
विचारो नास्ति वेदेषु ग्रहणे च मनोर्मुने ।।८।।
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ।।
मम वक्त्रं सदा पातु चों दुर्गायै नमोऽन्ततः।। ।। ९ ।।
ॐ दुर्गे रक्षयति च कण्ठं पातु सदा मम ।।
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ।। 2.67.१० ।।
ॐ ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ।।
ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति सन्ततम् ।। ११ ।।
ॐ श्रीं ह्रीं क्लीं पातु सर्वाङ्गं स्वप्ने जागरणे तथा ।।
प्राचं मां प्रकृतिः पातु पातु वह्नौ च चण्डिका ।। १२ ।।
दक्षिणे भद्रकाली च नैर्ऋत्यां च महेश्वरी ।।
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला।।१३।।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ।।
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका।।१४।।
इति ते कथितं वत्स कवचं च सुदुर्लभम् ।।
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।। १५ ।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ।।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ।। १६ ।।
भ्रमणे सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ।।
यत्फलं लभते लोकस्तदेतद्धारणान्मुने ।। १७ ।।
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ।।
लोके च सिद्धकवचं नास्त्रं विध्यति संकटे ।। १८ ।।
न तस्य मृत्युर्भवति जले वह्नौ विशेद्ध्रुवम् ।।
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धेश्वरः स्वयम् ।। १९ ।।
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ।।
कथितं प्रकृतेः खण्डं सुधाखण्डात्परं मुने ।। 2.67.२० ।।
या चैव मूलप्रकृतिर्यस्याः पुत्रो गणेश्वरः ।।
कृत्वा कृष्णव्रतं सा च लेभे गणपतिं सुतम् ।। २१ ।।
स्वांशेन कृष्णो भगवान्बभूव च गणेश्वरः ।।
श्रुत्वा च प्रकृतेः खण्डं सुश्राव्यं च सुधोपमम् ।। २२ ।।
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च काञ्चनम् ।।
सवत्सां सुरभिं रम्यां दद्याद्वै भक्तिपूर्वकम् ।। २३ ।।
वासोऽलंकाररत्नैश्च तोषयेद्वाचकं मुने ।।
पुष्पालंकारवसनैरुपहारगणैस्तथा ।। २४ ।।
पुस्तकं पूजयेदेवं भक्तिश्रद्धासमन्वितः ।।
एवं कृत्वा यः शृणोति तस्य विष्णुः प्रसीदति ।। २५ ।।
वर्द्धते पुत्रपौत्रादिर्यशस्वी तत्प्रसादतः ।।
लक्ष्मीर्वसति तद्गेहे ह्यन्ते गोलोकमाप्नुयात् ।।
लभेत्कृष्णस्य दास्यं स भक्तिं कृष्णे सुनिश्चलाम् ।। २६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने ब्रह्माण्डमोहनकवचं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।। ।।


।। श्रीकृष्णार्पणमस्तु ।। ।। ।। ।। ।।

।। समाप्तश्चायं श्रीब्रह्मवैवर्त्ते महापुराण प्रकृतिखण्डो द्वितीयः ।।