प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ब्रह्मवैवर्तपुराणम्
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः ।।

श्रीमद्वेङ्कटेशाय नमः ।।

श्रीगुरुभ्यो नमः ।।

अथ ब्रह्मवैवर्त्ते महापुराणे तृतीयं गणपतिखण्डं प्रारभ्यते ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
नारद उवाच ।।
श्रुतं प्रकृति खण्डं तदमृतार्णवमुत्तमम् ।।
सर्वोत्कृष्टमभीष्टं च मूढानां ज्ञानवर्दनम् ।। २ ।।
अधुना श्रीगणेशस्य खण्डं श्रोतुमिहागतः ।।
तज्जन्म चरितं नॄणां सर्वमङ्गलमङ्गलम् ।। ३ ।।
कथं जज्ञे सुरश्रेष्ठः पार्वत्या उदरे शुभे ।।
देवी केन प्रकारेण चालभत्तादृशं सुतम्।। ।। ४ ।।
स चांशः कस्य देवस्य कथं जन्म ललाभ सः ।।
अयोनिसम्भवः किं वा किं वाऽसौ योनिसम्भवः ।। ५ ।।
किं वा तद्ब्रह्मतेजो वा किं तस्य च पराक्रमः ।।
का तपस्या च कि ज्ञानं किं वा तन्निर्म्मलं यशः ।। ६ ।।
कथं तस्य पुरःपूजा विश्वेषु निखिलेषु च ।।
स्थिते नारायणे शम्भौ जगदीशे च धातरि ।। ७ ।।
पुराणेषु निगूढं च तज्जन्म परिकीर्त्तितम् ।।
कथं वा गजवक्त्रोऽयमेकदन्तो महोदरः ।।८।।
एतत्सर्वं समाचक्ष्व श्रोतुं कौतूहलं मम ।।
सुविस्तीर्णं महाभाग तदतीव मनोहरम् ।।९।।
श्रीनारायण उवाच ।।
शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् ।।
पापसन्तापहरणं सर्वविघ्नविनाशनम् ।। १० ।।
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् ।।
सुखदं मोक्षबीजं च पापमूलनिकृन्तनम् ।। ११ ।।
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा ।।
देवी संहृत्य दैत्यौघान्दक्षकन्या बभूव ह ।। १२ ।।
सा च नाम्ना सती देवी स्वामिनो निन्दया पुरा ।।
देहं संत्यज्य योगेन जाता शैलप्रियोदरे ।। १३ ।।
शङ्कराय ददौ तां च पार्वतीं पर्वतो मुदा ।।
तां गृहीत्वा महादेवो जगाम विजनं वनम् ।।१४।।
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।।
स रेमे नर्मदातीरे पुष्पोद्याने तया सह ।।१५।।
सहस्रवर्षपर्य्यन्तं दैवमानेन नारद ।।
तयोर्बभूव शृंगारो विपरीतादिको महान् ।। ।। १६ ।।
दुर्गांगस्पर्शमात्रेण मदनान्मूर्च्छितः शिवः ।।
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ।। १७ ।।
हंसकारण्डवाकीर्णे पुंस्कोकिलरुताकुले ।।
नानापुष्पविकासाढ्ये भ्रमरध्वनिगुञ्जिते ।। १८ ।।
सुगन्धिकुसुमाश्लेषिवायुना सुरभीकृते ।।
अतीव सुखदे तत्र सर्वजन्तुविवर्जिते ।। १९ ।।
दृष्ट्वा तयोस्तच्छृङ्गारं चिन्तां प्रापुः सुराः पराम् ।।
ब्रह्माणं च पुरस्कृत्य ययुर्नारायणान्तिकम् ।। ।। २० ।।
तं नत्वा कथयामास ब्रह्मा वृत्तान्तमीप्सितम् ।।
संतस्थुर्देवताः सर्वाश्चित्रपुत्तलिका यथा ।। २१ ।।
ब्रह्मोवाच ।।
सहस्रवर्षपर्य्यन्तं देवमानेन शङ्करः ।।
रतौ रतश्च निश्चेष्टो न योगी विरराम ह ।। २२ ।।
मैथुनस्य विरामे च दम्पत्योर्जगदीश्वर ।।
किम्भूतं भविताऽपत्यं तथ्यं कथितुमर्हसि ।। २३ ।।
श्रीभगवानुवाच ।।
चिन्ता नास्ति जगद्धातः सर्व भद्रं भविष्यति।।
मयि ये शरणापन्नास्तेषां दुखं कुतो विधे ।। २४ ।।
येनोपायेन तद्वीर्यं भूमौ पतति निश्चितम् ।।
तत्कुरुष्व प्रयत्नेन सार्द्धं देवगणेन च ।।२५।।
यदा च शम्भोर्वीर्य्यं तत्पार्वत्या उदरे पतेत् ।।
ततोऽपत्यं च भविता सुरासुरविमर्दकम् ।।२६।।
ततः शक्रादयः सर्वे सुरा नारायणाज्ञया ।।
प्रययुर्नर्म्मदातीरं ययौ ब्रह्मा निजालयम् ।। २७ ।।
तत्रैव पर्वतद्रोणीबहिर्देशे सुराः पराः ।।
विषण्णवदनाः सर्वे बभूवुर्भयकातराः ।। २८ ।।
शक्रो राजा कुबेरं च कुबेरो वरुणं तथा ।।
समीरणं च वरुणो यमं चैव समीरणः ।। २९ ।।
हुताशनं यमश्चैव भास्करं च हुताशनः ।।
चन्द्रं तथा भास्करश्च त्वीशानं चन्द्र एव च ।। ३० ।।
एवं देवाः प्रेरयन्ति देवांश्च रतिभञ्जने ।।
हरशृंगार भंगं च कुर्वित्युक्त्वा परस्परम् ।। ३१ ।।
द्वारि स्थितो वक्रशिराः शक्रः प्राह महेश्वरम् ।। ३२ ।।
इन्द्र उवाच ।।
किं करोषि महादेव योगीश्वर नमोऽस्तु ते ।।
जगदीश जगद्बीज भक्तानां भयभञ्जन ।। ३३ ।।
हरिर्जगामेत्युक्त्वा तमाजगाम च भास्करः ।।
उवाच भीतो द्वारस्थो भयार्त्तो वक्रचक्षुषा ।।३४।।
श्रीसूर्य्य उवाच ।।
किं करोषि महादेव जगतां परिपालक ।।
सुरश्रेष्ठ महाभाग पार्वतीश नमोऽस्तु ते ।। ३५ ।।
इत्येवमुक्त्वा श्रीसूर्य्यः स जगाम भयात्ततः ।।
आजगाम तथा चन्द्र अवोचद्वक्रकन्धरः ।। ३६ ।।
चन्द्र उवाच ।।
किं करोषि त्रिलोकेश त्रिलोचन नमोऽस्तु ते ।।
आत्माराम स्वयंपूर्ण पुण्यश्रवणकीर्त्तन ।। ३७ ।।
इत्येवमुक्त्वा भीतश्च विरराम निशापतिः ।।
समीरणोऽपि द्वारस्थस्संवीक्ष्योवाच सादरम् ४। ३८ ।।
पवन उवाच ।।
किं करोषि जगन्नाथ जगद्बन्धो नमो ऽस्तु ते ।।
धर्मार्थकाममोक्षाणां बीजरूप सनातन ।।३९।।
इत्येवं स्तवनं श्रुत्वा योगज्ञानविशारदः ।।
त्यक्तुकामो न तत्याज शृङ्गारं पार्वती भयात् ।। ४० ।।
दृष्ट्वा सुरान्भयार्त्तश्च पुनः स्तोतुं समुद्यतान्।।
विजहौ सुखसम्भोगं कण्ठलग्नां च पार्वतीम् ।। ४१ ।।
उत्तिष्ठतो महेशस्य त्रासलज्जायुतस्य च ।।
भूमौ पपात तद्वीर्य्यं ततः स्कन्दो बभूव ह ।। ४२ ।।
पश्चात्तां कथयिष्यामि कथामतिमनोहराम् ।।
स्कन्दजन्मप्रसङ्गे च साम्प्रतं वाञ्छितं शृणु ।। ४३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे प्रथमोऽध्यायः ।। १ ।।