ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०५६

← अध्यायः ५५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ५६
[[लेखकः :|]]
अध्यायः ५७ →

अथ षद्पञ्चाशत्तमोऽध्यायः
नारद उवाच
किमपूर्वं श्रुतं ब्रह्मन्रहस्यं परमाद्भुतम् ।
अनन्तचरितं धन्यमनन्तस्याच्युतस्य च ।। १ ।।

कथं कृष्णो महाविष्णोर्दर्पभङ्ग चकार सः ।
अन्येषां वा कथमहो तद्भवान्वक्तुमर्हति ।। २ ।।

स्वतः श्रीकृष्णचरितमतीव मधुरं श्रुतौ ।
अतीव मधुरं रम्यं काव्यं कविमुखात्ततः ।। ३ ।।

नारायण उवाच
महाविष्णोरहंकारो बभूव सहसेति च ।
सर्वं मल्लोमकूपेषु विश्वान्येवाऽहमीश्वरः ।। ४ ।।

संहारभैरवी भुत्वा तं स जग्रास लीलया ।
स्यिते मुर्धावशेषे च प्रसादं तं चकार सः ।। ५ ।।

सर्वात्मना ध्यायमानः स्तुतो भीतं कृपानिधिः ।
तच्छरीरं सुसंपन्नं पुनरेव चकार सः ।। ६ ।।

ब्रह्मणः सहसा ब्रह्मन्निति दर्पो बभुव ह ।
अहं त्रिजगतां धाता कर्ताऽहमीश्वरः स्वयम् ।। ७ ।।

मत्परः पूजितो नास्ति मत्परश्च जितेन्द्रियः ।
इत्येवं मनसा कृत्वा बहुदर्पो बभूव ह ।। ८ ।।

तं ब्रहाणां समूहं च दर्शयामास तत्क्षणम् ।
गोलोके स्वसमीपे च वसन्तं पुरतो विभोः ।।
चतुर्वक्त्रं पञ्चवक्त्रं षड्वक्त्रं च ततोऽधिकम् ।। ९ ।।

शतवक्त्रं च प्रत्येकं ब्रह्माण्डौघं च लीलया ।
त्यक्तुकामं स्वदेहं च व्रीडया नतकंधरम् ।। १० ।।

पुनः प्रसादं कृपया तं चकार कृपानिधिः ।
कालेन मोहिनीद्वारा तमपूज्यं चकार सः ।। ११ ।।

स्वकन्यां दर्शयित्वा तं सकामं च चकार ह ।
पुनस्तद्दर्पभङ्गं च शिवद्वारा चकार सः ।। १२ ।।

तत्याज लज्जया देहं पुनर्देहं दधार सः ।
पुनश्चकार तं पूज्यं ब्रह्माणं ब्रह्मणः प्रभुः ।। १३ ।।

ज्ञानं ददौ महाज्ञानी ज्ञानानन्दः सनातनः ।
विष्णोर्बभूव गर्वश्च जगत्पाताऽहमीश्वरः ।। १४ ।।

तमात्मविस्मृतं कृष्णश्चकार रामजन्मनि ।
अहं विश्वं बिभर्मीति शेषो दर्पी बभूव ह ।। १५ ।।

तद्दर्पं गरुडद्वारा चूर्णीभूतं चकार सः ।
एकदा पूजितो नागैर्गरुडः कृष्णवाहनः ।। १६ ।।

न पूजितश्च शेषेण स्वदर्पेण पुरा मुने ।
गरुडेन जितं कोधात्तमनन्तं मनस्विनम् ।। १७ ।।

चकार मोक्षणं तस्य श्रीकृष्णश्च कृपानिधिः ।
स्वयं शिवः स्वदर्पाच्च विवाहं न चकार सः ।। १८ ।।

तं कृत्वा मायया मोहं कारयामास स्त्रीयुतम् ।
पुनर्जहार तत्पत्नीं दक्षकन्यां महासतीम् ।। १९ ।।

वर्ष शुशोच तद्देहं क्रोडे कृत्वा च शंकरः ।
नानास्थानं च बभ्राम रुदञ्छोकान्मुहुर्मुहुः ।। २० ।।

जन्मान्तरे पुनः प्राप्य तां सतीं पार्वतीं मुदा ।
विसस्मार च स्वज्ञानं दक्षशप्तः पुनः शिवः ।। २१ ।।

पुनश्चाऽऽङ्गीरसद्वारा स्मारयामास सत्वरम् ।
एकदा सरथः शम्भुः प्रेरितस्त्रिपुरे पुरा ।। २२ ।।

हत्वा दैत्यं शिवद्वारा त्रिपुरारिं चकार तम् ।
सर्वं वरं च सर्वस्मै दातुं शंभुः कृपानिधिः ।। २३ ।।

स्वयं कल्पतरुर्भूत्वा प्रतिज्ञां च चकार सः ।
वृकासुरोऽनुष्ठानं च कृत्वा वव्रे वरं विभुम् ।। २४ ।।

दास्यामि हस्तं यन्मूर्घ्नि भस्मसाद्भवतु क्षणात् ।
जगाद जगतां नाथ ईप्सितं ते भविष्यति ।। २५ ।।

इति लब्ध्वा वरं रुद्राद्गच्छन्तं शंकरं विभुम् ।
हस्तं दातुं च तं मूर्ध्नि प्राधावत्सत्वरं पुरा ।। २६ ।।

अतीव भीतः शंभुश्च जगाम शरणं हरिम् ।
भगवांश्च शिवस्यार्थे दैत्यं भस्मीचकार सः ।। २७ ।।

शिवं युद्धं च कुर्वन्तं बाणयुद्धे पुरा विभुः ।
लीलया जृम्भणास्त्रेण जडीभूतं चकार सः ।। २८ ।।

समागतं दक्षयज्ञे शंभुं दम्भेन लीलया ।
वारयामास भगवान्हस्तं दत्त्वा च तद्गले ।। २९ ।।

केदारकन्यकाद्वारा शप्तो धर्मोऽतिदैवतः ।
बभूवातिकृशो भीतः कुह्वामेव यथा शशी ।। ३० ।।

तदा तस्याश्च शापान्ते सत्ये पूर्णो बभुव ह ।
त्रिपाद्बभूव त्रेतायां द्वापरं च द्विपादिति ।। ३१ ।।

एकपाच्च कलौ सोऽपि कलेरन्ते पुनः क्षयः ।
षोडशांशोऽतिक्लिष्टश्च सस्मार चनणं विभोः ।। ३२ ।।

तदा सत्ययुगारम्भे परिपूर्णोऽभवत्पुनः ।
पुनर्युगानुरोधेन क्रमेण च पुनः क्षयः ।। ३३ ।।

यमो माण्डवशापेन शूद्रयोनिमवाप ह ।
तदा पुनः शताब्दान्ते पुनः शुद्धो बभूव ह ।। ३४ ।।

साम्बो विमातृशापेन गलत्कुष्ठी बभूव सः ।
तदा सूर्यव्रतं कृत्वा पुनः शुद्धो बभूव सः ।। ३५ ।।

चन्द्रो दर्पमदेनैव जहार च गुरोः प्रियाम् ।
बभूव दर्पभङ्गोऽस्य यक्ष्मग्रस्तो बभूव सः ।। ३६ ।।

सूर्यो दर्पात्तेजसश्च हन्तुं शंकरकिंकरम् ।
सुमालीत्यभिधं दैत्यं जगामाऽऽशु गिरिं प्रति ।। ३७ ।।

अहर्निशं दीप्तिकरं कुर्वन्तं विषयं रवेः ।
सूर्येण भीतो दैत्यश्च शंकरं शरणं ययौ ।। ३८ ।।

सूर्यं दृष्ट्वा शंकरश्च जग्राह शूलमेव च ।
भीतो दुद्राव सूर्यश्च दृष्ट्वा तं शूलिनं मुने ।। ३९ ।।

जघान काश्यां शूलेन शूलीकाशीश्वरो रविम् ।
मूर्च्छां संप्राप्य शूलेन दर्पंभङ्गो बभूव ह ।। ४० ।।

सान्द्रान्धकारः सहसा जग्राह पृथिवीतलम् ।
आशुतोषो महादेवो जीवयामास तत्क्षणम् ।। ४१ ।।

तुष्टाव शंकरं सूर्यो लज्जितोऽपि भयेन च ।
कृत्वा तमाशिषं तुष्टो ययौ गेहं कृपानिधिः ।। ४२ ।।

विभुर्गरुत्मतो दर्पं बभञ्ज लीलया पुरा ।
निःश्वासैः प्रेरितस्यापि शिवस्य वृषभस्य च ।। ४३ ।।

आगच्छन्तं च वैकुण्ठं पृष्ठे कृत्वा शिवं पुरा ।
द्रष्टुं समागतं भक्त्या देवं नारायणं परम् ।। ४४ ।।

वह्निर्दपीं भृगोः शापात्सर्वभक्षो बभूव ह ।
गुरोः स्वभार्याहिरणाद्दर्पश्चूर्णो बभूव ह ।। ४५ ।।

दुर्वाससो दर्पभङ्गो बभूव ह्यम्बरीषतः ।
सुदर्शनेन चक्रेण विष्णोर्दुर्विषहेण च ।। ४६ ।।

जयस्य विजयस्यापि दर्पभङ्गं चकार सः ।
वैकुण्ठात्पतितस्यापि ब्रह्मशापच्छलेन च ।। ४७ ।।

नृसिंहेण हतः सोऽपि हिरण्यकशिपुर्यथा ।
सूकरेण हिरण्याक्षो लीलया च रसातले ।। ४८ ।।

रावणः कुम्भकर्णश्च निहतौ रामबाणतः ।
जन्मान्तरे च लङ्कायां ब्रह्मणा प्रार्थितस्य च ।। ४९ ।।

शिशुपालो हि निहतः कृष्णबाणेन लीलया ।
दन्तवक्रश्च सहसा परिपूर्णेऽत्र जन्मनि ।। ५० ।।

सुराणां दर्पभङ्गं च दैत्यद्वारा चकार ह ।
असुराणां सुरद्वारा विरोधेन परस्परम् ।। ५१ ।।

विधिद्वारा दर्पभङ्गं भवतश्च चकार सः ।
भवानासीन्नारदश्च पुरा पुत्रः प्रजापतेः ।। ५२ ।।

गन्धर्वश्च पितुः शापाच्छूद्रीपुत्रस्ततः क्रमात् ।
ततः पुनर्नारदश्च प्रसादादधुना विभोः ।। ५३ ।।

मम साध्यं विश्वमिति कामदर्पो बभूव ह ।
तं प्रमतं हरद्वारा भस्मसाच्च चकार सः ।। ५४ ।।

पुनः कृत्वा प्रसादं तं जीवयामास लीलया ।
ऐकान्तिकं च तद्भक्तं स च नास्त्रं करोति हि ।। ५५ ।।

चकार दर्पभङ्गं च दर्पिणो लक्ष्मणस्य च ।
रणे शंकरशूलेन रावणप्रेरितेन च ।। ५६ ।।

पुनस्तं जीवयामास रामस्य स्तवनेन च ।
स्वयं विस्मृतविष्णोश्च ब्रह्मशापेन नारद ।। ५७ ।।

चकार दर्पभङ्गं च कार्तवीर्यार्जुनस्य च ।
जामदग्न्यस्य शस्त्रेणामोघेन पर्शुना पुरा ।। ५८ ।।

विप्रपुत्रस्य मरणे हरणे कृष्णयोषिताम् ।
कर्णेन सार्धं समरे पार्थदर्पं बभञ्ज सः ।। ५९ ।।

बाणस्य चोषाहरणे चिच्छेद च भुजान्विभुः ।
भृगोश्च दक्षयज्ञे च दर्पभङ्गं चकार सः ।। ६० ।।

पर्शुरामस्य रामस्य विवाहो पथि गच्छतः ।
बभञ्ज दर्पं समरे रामद्वारा पुरा विभुः ।। ६१ ।।

सुमेरोः शृङ्गभृङ्गं च वायुद्वारा चकार सः ।
समुद्राणां दर्पभङ्गं चकारागस्त्यभक्षणात् ।। ६२ ।।

अकाले सृष्टिहरणे तत्पुत्रमरणे पुरा ।
कोपयुक्तस्य वायोश्च दर्पभङ्गं चकार सः ।। ६३ ।।

उषाहरणयात्रायां द्वारकागमने हरेः ।
बाणस्य च गवां हेतोवंरुणं च शशाप सः ।। ६४ ।।

कलहे गङ्गया वाण्या नारायणाग्रतः ।
सरस्वतीं च तत्याज तस्या दर्पं बभञ्ज सः ।। ६५ ।।

दर्पयुक्तां च दुर्गां च त्यक्त्वा शंभुर्हिमालये ।
कामं च भस्मसात्कृत्वा तपसे च ययौ विभुः ।। ६६ ।।

लज्जामवाप सा देवी तस्या दर्पं बभञ्ज सः ।
सा ययौ तपसे विष्णोः प्राप्तिहेतोः शिवस्य च ।। ६७ ।।

भारते सुचिरं तप्त्वा देवी वीष्णोर्वरेण च ।
चकार स्वामिनं शंभुं भगवन्तं सनातनम् ।। ६८ ।।

महासौभाग्ययुक्ता सा बभूव शंकरप्रिया ।
विश्वेषु सर्वदेवीषु पूज्या वन्द्या स्तुता सुरैः ।। ६९ ।।

दर्पयुक्ता महालक्ष्मीर्बभूव सा महामुने ।
पराभूता पुरा देवी जयेन विजयेन च ।। ७० ।।

प्रविशन्तीं विभोर्द्वारं दत्तवा भक्ताय वाञ्छितम् ।
निवारिता सा द्वाराच्च तेन दौवारिकेण वै ।। ७१ ।।

यदात्मनस्तिरस्कारं साभिमाना महासती ।
स्मृत्वा हरेः पादपद्मं देहं त्यक्तुं समुद्यता ।। ७२ ।।

तदा ब्रह्मा महेशश्च विष्णुर्धर्मश्च भास्करः ।
चन्द्रश्च कामदेवश्च वैश्वानरो धनेश्वरः ।। ७३ ।।

ऋषयो मुनयश्चैव मनवो विघ्ननाशकाः ।
महेन्द्रो वरुणश्चैव जगत्प्राणो हुताशनः ।। ७४ ।।

समाययूरुदन्तस्ते पद्मायाः पुरतः पुरा ।
तुष्टुवुश्च महालक्ष्मीं मूलप्रकृतिमीश्वरीम् ।। ७५ ।।


देवा ऊचुः
क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे ।
शुद्धसत्त्वस्वरुपे च कोपादिपरिवर्जिते ।। ७६ ।।

उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
त्वया विना जगत्सर्व मृततुल्यं च निष्फलम् ।। ७७ ।।

सर्वसंपत्स्वरुपा त्वं सर्वेषां सर्वरूपिणी ।
रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ।। ७८ ।।

कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका ।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ।। ७९ ।।

वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती ।
गङ्गा च तुलसी त्वं च वृन्दा वृन्दावने वने ।। ८० ।।

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ।
रासे रासेश्वरी त्वं च वृन्दा वृन्दावने वने ।। ८१ ।।

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ।
विरजा चम्पकवने शतशृङ्गे च सुन्दरी ।। ८२ ।।

पद्मावती पद्मवने मालती मालतीवने ।
कृन्ददन्ती कुन्दवने सुशीला केतकीवने ।। ८३ ।।

कदम्बमाला त्वं देवी कदम्बकाननेऽपि च ।
राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ।। ८४ ।।

इत्युक्तवा देवताः सर्वे मुनयो मनवस्तथा ।
रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ।। ८५ ।।

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम् ।। ८६ ।।

अभार्योलभते भार्यां विनीतां च सुतां सतीम् ।
सुशीलां सुनदरीं रम्यामतिसुप्रियवादिनीम् ।। ८७ ।।

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् ।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ।। ८८ ।।

परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम् ।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ।। ८९ ।।

हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् ।
कीर्तिंहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम् ।। ९० ।।

सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम् ।
हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ।। ९१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवद्गुणवर्णने
लक्ष्मीस्तोत्रकथनं नाम षट्पञ्चाशत्तमोऽध्यायाः ।। ५६ ।।