प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६०
[[लेखकः :|]]
अध्यायः ६१ →

अथ षष्टितमोऽध्यायः
नारायण उवाच
शाचोस्तोत्रं समाकर्ण्य परितुष्टो बृहस्पतिः ।
उवाच मधुरं शान्तः कान्तामिन्द्रस्य नारद ।। १ ।।

बृहस्पतिरुवाच
त्यज वत्से भयं सर्व भयं किं ते मयि स्थिते ।
यथा कचस्य पत्नी मे तथा त्वमपि शोभने ।। २ ।।

यथा पुत्रश्तथा शिष्यो न भेदः पुत्रशिष्ययोः ।
तर्पणे पितृदाने च पालने परितोषणो ।। ३ ।।

यथाऽग्निदाता पुत्रश्च तथा शिष्यश्च निश्चितम् ।
इतीदं कण्वशाखायामुवाच कमलोद्भवः ।। ४ ।।

पिता माता गुरुर्भार्या शिशुश्चानाथबान्धवाः ।
एते पुंसां नित्यपोष्या इत्याह कमलोद्भवः ।। ५ ।।

यश्चैतांश्च न पुष्णाति भस्मान्तं तस्य सूतकम् ।
दैवे पित्र्ये न कर्मार्हः मोऽपीत्याह महेश्वरः ।। ६ ।।

कुरुते नरबुर्द्धि च मातरं पितरं गुरुम् ।
अयशस्तस्य सर्वत्र विध्न एव पदे पदे ।। ७ ।।

संपन्मत्तो यः करोति स्वगुरोश्च पराभवम् ।
अचिनात्सर्वनाशाश्च भवेत्तस्य सुनिश्चितम् ।। ८ ।।

मां च दृष्टवा सभामध्ये नोत्तसथौ पाकशासनः ।
तत्फलं भुज्यते साक्षात्सद्यः पश्य च सांप्रतम् ।। ९ ।।

अहं करोमि मोक्षं च तव रक्षां सुनिश्चितम् ।
शासितुं रक्षितुं शक्तः स एव सुरुच्यते ।। १० ।।

न पश्यति सतीत्वं च हृच्छुद्धायाश्च योषितः ।
यन्मानसे विकल्पश्च तस्य धर्मश्च नश्यति ।। ११ ।।

भविष्यति प्रभावस्ते दुर्गायाश्च समः सति ।
लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा समम् ।। १२ ।।

सौभाग्यं राधिकातुल्यं तत्समं प्रेमभर्तरि ।
तत्तुल्यं गौरवं मान्यं प्रीतिः प्राधान्यमीश्वरे ।। १३ ।।

रोहिण्याश्च समापेक्षा पूज्या च भारतीसमा ।
शुद्धा निरुपमा शश्वत्सावित्रीसदृशी सदा ।। १४ ।।

एतस्मिन्नन्तरे तत्र आगतो नहृषाच्चरः ।
उवाच वचनं भीतो वाक्पतेर्गोंचरे ततः ।। १५ ।।

दूत उवाच
उत्तिष्ठ देवि शीघ्रं त्वं गच्छस्व नहुषं प्रति ।
क्रीडां कर्तु च रहसि रम्ये नन्दनकानने ।। १६ ।।

दूतस्य वचनं श्रुतवा तमुवाच बृहस्पतिः ।
कम्पितावयवः कोपाद्रक्तपङ्कजलोचनः ।। १७ ।।

गुरुरुवाच
नहुषं वद गत्वा त्वं शचीं चे द्भोक्तुमिच्छसि ।
अपूर्व यानमारुह्य निशायामागमिष्यसि ।। १८ ।।

सप्तर्षीणां च स्कन्धे च दत्वा स्वशिविकां शुभाम् ।
तामारुह्य सुवेषश्च गमनं कर्तुमर्हसि ।। १९ ।।

वाक्पतेर्वचनं श्रुत्वा गत्वोवाच नृपं तदा ।
दूतस्य वचनं श्रुत्वा प्रहस्योवाच किंकरम् ।। २० ।।

गच्छ गच्छ त्वरन् गच्छ सप्तर्षीञ्छीघ्रमानय ।
उपायं च करिष्यामि तैः सार्धं साप्रतं चर ।। २१ ।।

नृपस्य वचनं श्रुत्वा गत्वा दूतस्तदन्तिसम् ।
उवाच सर्वांस्तत्रैव यथोक्तं नहुषेण च ।। २२ ।।

दूतस्य वचनं श्रुत्वा ययुः सप्तर्षयो मुदा ।
राजा दृष्ट्वा च तान्सर्वान्ननामोवाच सादरम् ।। २३ ।।

नहुष उवाच
यूयं च ब्रह्मणः पुत्रा ज्वलन्तो ब्रह्मतेजसा ।
ब्रह्मणः मदृशाः सर्वे सततं भक्तवत्सलाः ।। २४ ।।

नारायणपराः शश्वच्छुद्धसत्तवस्वरूपिणः ।
मोहमात्सर्यहीनाश्च दर्पाहंकारवर्जिताः ।। २५ ।।

नारायणसमाः सर्वे तेजसा यशसा सदा ।
गुणेन कृपया प्रेम्णा वरदानेन निश्चितम् ।। २६ ।।

इत्युक्तवा प्रणतो राजा तुष्टाव च रुरोद च ।
दृष्टवा ते कातरं भूपमूचुः परहितैषिणः ।। २७ ।।

ऋषय ऊचुः
वरं पृणीष्व हे वत्स यत्ते मनसि वाञ्छितम् ।
सर्वं दातुं वयं शक्ता नासार्ध्य नश्च किंचन ।। २८ ।।

इन्द्रत्वं वा मनुत्वं वा चिरायुर्वा ततः परम् ।
सप्तद्धीपेश्वरत्वं चाप्यतीव सुचिरं सुखम् ।। २९ ।।

अथापि सर्वसिद्धित्वं सर्वैश्वर्य सुदुर्लभम् ।
मुक्तिं वा हरिभक्तिं वा तपसा या सुदुर्लभा ।। ३० ।।

किमीप्सितं ते हे वत्स ब्रूहि नः सांप्रतं मुदा ।
सर्व तुम्यं प्रदायैव यास्यामस्तपसे मुदा ।। ३१ ।।

युगलक्षसमं यच्च क्षणं कृष्णार्चनं विना ।
तद्दिनं दुर्दिनं यत्तद्ध्यानसेवनवर्जितम् ।। ३२ ।।

विना तत्सेवनं यो हि विषयान्यं च वाञ्छति ।
विषमत्ति प्रणाशाय विहायामृतमीप्सितम् ।। ३३ ।।

ब्रह्मा शिवश्च धर्मश्च विष्णुश्चापि महान्विराट् ।
गणेशश्च दिनेशश्च शषेश्च सनकादयः ।। ३४ ।।

एते यच्चरणम्भोजं ध्यायन्तेऽहर्निशं मुदा ।
जन्ममृत्युजराव्याधिहरं तन्निरता वयम् ।। ३५ ।।

तेषां च वचनं श्रृत्वा तानुवाच नृपेश्वरः ।
स लज्जितो नम्रवक्त्र मायामोहितमानसः ।। ३६ ।।

नहष उवाच
सर्व दातुं समर्थाश्च यूयं च भक्तवत्सलाः ।
अधुना देहि (दत्त) मे तूर्णं शचीदानमभीप्सितम् ।। ३७ ।।

सप्तर्षिवाहनं कान्तं शचीच्छति महासती ।
एतदेव मम वरं निष्पन्नं कुरुताचिनम् ।। ३८ ।।

नहुषस्य वचः श्रुत्वा मुनयश्च परस्परम् ।
मत्युच्चैर्जहसुः सर्वे कौतुकेन च नारद ।। ३९ ।।

राजानं मोहितं मत्वा वेष्टितं विष्णुमायया ।
चक्रुः प्रतिज्ञां तं वोढुं कृपया दीनवत्सलाः ।। ४० ।।

चक्रुः स्कनधे तच्छिविकां मुक्तामाणिक्यभूषिताम् ।
राजा ययौ सुवेषश्च रत्नभूषणभूषितः ।। ४१ ।।

दृष्ट्वा चातिविलम्बं च भर्त्सयामास तान्नृपः ।
क्रुधा शाशाप दुर्वासाश्चाग्रगामी च वर्त्मनि ।। ४२ ।।

महानजगनरो भूत्वा पत वै मूढमानस ।
दर्शनाद्धर्मपुत्रस्य तव मोक्षो भविष्यति ।। ४३ ।।

रत्नयानेन वैकुण्ठं गत्वा वैकुण्ठसेवनम् ।
करिष्यसि महाराज न कर्म निष्फलं भवेत् ।। ४४ ।।

इत्युक्त्वा प्रययुः सर्वे प्रहस्य मुनिसत्तमाः ।
राजा पपात तच्छापात्सर्पों भूत्वा महामुने ।। ४५ ।।

शची चगाम त्तच्छ्रृत्वा गुरुं नत्वाऽमरावतीम् ।
ययौ बृहस्पतिः शीघ्रं यत्रेन्द्रः पद्मतन्तुषु ।। ४६ ।।

गत्वा सनोवराम्याशमाजुहाव सुरेश्वरम् ।
अतिप्रसन्नवदनः कृपया च कृपानिधिः ।। ४७ ।।

बृहस्पतिरुवाच
अयिवत्सत्वमागाच्छ भयं किं ते मयि स्थिते ।
त्यज भीतिमिहागच्छ गुरुस्तेहं बृहस्पतिः ।। ४८ ।।

स्वगुरोश्च स्वरं श्रुत्वा महेन्द्रो हृष्टमानसः ।
रूपं विहाय सूक्ष्मं च स्वरूपेण समाययौ ।। ४९ ।।

पपात दण्डवन्मूर्ध्ना भक्त्या चरणयोर्गुरोः ।
तं रुदन्तं महाभीतं मुदोरसि चकार सः ।। ५० ।।

कारयित्वा सोमयागं प्रगयश्चित्ताथंमेव च ।
रत्नसिंहासने रम्ये वासयामास तं गुरुः ।। ५१ ।।

प्रददौ परमैश्वर्य पूर्वस्माच्च चतुर्गुणम् ।
आगत्य सर्वदेवाश्च चकुः सेवां मुदाऽन्विता ।। ५३ ।।

इत्येवं कथितं वत्स महेन्द्रदर्पभञ्जनम् ।
शचीसतीत्वरक्षा च किं भूयः श्रोतुमिच्छसि ।। ५४ ।।

नारद उवाच
सोमयागविधानं च ब्रूहि मां मुनिसत्तम ।
कथं तं कारयामास गुरुश्च किं फलं परम् ।। ५५ ।।

नारायण उवाच
ब्रह्महत्याप्रशमनं सोमयागफलं मुने ।
वर्ष सोमलतापानं यजमानः करोति च ।। ५६ ।।

वर्षमेकं फलं भुङक्ते वर्षमेकं जलं मुदा ।
त्रैवार्षिकं व्रतमिदं सर्वपापप्रणाशनम् ।। ५७ ।।

यस्य त्रैवाषिकं धान्यं निहितं भूतवृद्धये ।
अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ।। ५८ ।।

महाराजश्च देपो वा यागं कर्तुमलं मुने ।
न सर्वमाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः ।। ५९ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo शक्रदर्पभङ्गप्रकरणे
शक्रमोक्षकथनं नाम षष्टितमोऽध्यायः ।। ६० ।।