प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०९
[[लेखकः :|]]
अध्यायः ११० →

अथ नवाधिकशततमोऽध्यायः
नारायण उवाच
एतस्मिन्नन्तरे राज्ञी रुक्मिणीजननी शभा ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिता मुदा ।। १ ।।

आगत्य मङ्गलं कृत्वा तत्र निर्मञ्छनादिकम् ।
दंपती वेशयामास रत्ननिर्माणमन्दिरम् ।। २ ।।

नानाचित्रविचित्राढ्यं हीरहारेण भूषितम् ।
मुक्तामाणिक्यरत्नेन मुदीप्तं दर्पणेन च ।। ३ ।।

ददर्श कृष्णस्तत्रैव दुर्गां दुर्गतिनाशिनीम् ।
सरस्वतीं च सावित्रीं रतिं च रोहिणीं सतीम् ।। ४ ।।

देवपत्नीं राजपत्नीं मुनिपत्नीं पतिव्रताम् ।
रत्नमिहानस्थां च रत्नभूषणभूषिताम् ।। ५ ।।

उत्तस्थुराराद्दृष्ट्वा च श्रीकृष्णं जगतीपतिम् ।
रत्नसिहासने रम्ये वारयामास तां मुदा ।। ६ ।।

स्तुतिं चक्रुश्च देवाश्च मुनिपत्न्यश्च माधवम् ।
पुटाञ्जलियुतास्तत्र त्रमेण च पृधक्पृथक् ।। ७ ।।

भोजयामास राज्ञी च वरेण सह कन्यकाम् ।
सकर्पूरं सताम्बूलं प्रददौ वासितं जलम् ।। ८ ।।

दुर्गा कृष्णाय प्रददौ तत्र मङ्गलपत्रिकाम् ।
सर्वासामाज्ञया देवी पठेति तमुवाच सा ।। ९ ।।

पपाठ पत्रिकां कृष्णो देवीसंसदि सस्मितः ।
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका सती ।। १० ।।

तुलसी पृथिवी गङ्गाऽरुन्धति यमुनाऽदितिः ।
शतरूपा च सीता च देवहूतिश्च मेनका ।। ११ ।।

दैव्यश्चैताश्च दंपत्योः कुर्वन्तु परम् ।
पपाठ चेति कृष्णश्च शुश्रुवुर्जहसुश्च ताः ।। १२ ।।

पार्वत्युवाचरुक्मिणीं रुक्मिणीकान्त त्वां पश्यन्तीं च सस्मिताम् ।
पश्य प्रौढां रुपवतीं सुन्दरीं नवयौवनाम् ।। १३ ।।

शच्युवाच
तव योग्या च युवती रत्नभूषणभूषिता ।
त्वां प्रार्थयन्ती सुचिरमवमन्यान्यमीश्वरम् ।। १४ ।।

सावित्र्युवाच
यथा वरस्तथा कन्या विधिना योजिता पुरा ।
विदग्धाया विदग्धेन सर्वत्र संगमः शुभः ।। १५ ।।

रत्युवाच
ईश्वरेण परीहासं का वा कर्तुं क्षमा भुवि ।
ध्यानासाध्यो दुराराध्यश्चावमन्यान्यमीश्वरम् ।। १६ ।।

गायत्र्युवाच
यथा वरस्तथा कन्या च क्षुब्धे भैष्मके गृहे ।। १७ ।।

रोहिण्युवाच
सत्यं ब्रूहि जगन्नाथ कामिनीनां च संसदि ।
कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी ।। १८ ।।

सरस्वत्युवाच
राधायां यादृशी प्रीती रुक्मिण्यां नैव तादृशी ।
सा सङ्गिनी पूर्वकाले सर्वक्रीडासु वर्धिनी ।। १९ ।।

प्राणाधिष्ठातुदेवी सा पञ्चप्राणाधिका सती ।
रुक्मिणी कमला साक्षात्संपदामधिदेवता ।। २० ।।

सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ।
बुद्धेरप्यधिदेवी च दुर्गा नारायणी परा ।। २१ ।।

देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका ।
विद्याधिदेवताऽहं च ततोऽन्याश्च कलाकलाः ।। २२ ।।

न ब्रह्मणि शिवे शेषे गणेशे च दिनेश्वरे ।
न भक्तेषु च पद्मायां न शिवायां च मय्यपि ।। २३ ।।

प्रसादो यादृशस्तस्यामन्येषु च न तादृशः ।
त्रैलोक्ये पृथिवी धन्या सुपुण्यं भारतं यतः ।। २४ ।।

तत्र वृन्दावनं धन्यं राधापादाब्जचिह्नितम् ।
सर्वासामपि देवीनां राधा पुण्यवती सती ।। २५ ।।

राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् ।
अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः ।। २६ ।।

ध्यायन्ते दूर्तः सर्वा राधा वक्षःस्थलस्थिता ।
तस्माद्राधां नमस्कृत्य तुलनां मन्यते किल ।। २७ ।।

सरस्वतीवचः श्रुत्वा सावित्री पार्वती सती ।
अन्याश्च योषितः सर्वाः साध्वित्यूचुश्च संसदि ।। २८ ।।

लोपामुद्राऽनसूया चाप्यहल्याऽरुन्धती तथा ।
सर्वास्ता मुनिपत्न्यश्च रभसं चक्रुरीश्वरम् ।। २९ ।।

अथ देवांश्च भूपांश्च मुनीद्रांश्चापि भीष्मकः ।
पूजयामास विधिना भोजयामास सादरम् ।। ३० ।।

खाद्यतां लोका दीयतां दीयतामिति ।
शब्दो बभूव नगरे वाद्यसंगीतमङ्गलैः ।। ३१ ।।

अथ प्रभाते ब्रह्मेशसेषास्त्रिदशास्तथा ।
यानमारोहणं भूपाश्चक्रिरे च त्वरान्विताः ।। ३२ ।।

राजा महोग्रसेनश्च वसुदेवस्त्वरान्वितः ।
कारयामास यात्रां च श्रीकृष्णं रुक्मिणीं सतीम् ।। ३३ ।।

सुभद्रा रुक्मिणीमाता कन्यां कृत्वा स्ववक्षसि ।
रुरोदोच्चैस्तत्सखीभिर्बान्धवैरित्युवाच सा ।। ३४ ।।

सुभद्रोवाच
क्व यासि मां परित्यज्य वत्से मातरमीश्वरीम् ।
कथं जीवामि त्वां त्यक्त्वा कथं त्वं वाऽपि जीवसि ।। ३५ ।।

महालक्ष्मीर्मम गृहात्कन्यारूपा च मायया ।
वसुदेवालयं यासि वासुदेवप्रिया सतीः ।। ३६ ।।

इत्युक्त्वा कन्यकां शोकात्सिषेव नेत्रजैर्जलैः ।
भीष्मकः साश्रुनेत्रश्च कन्यां कृष्णे समर्प्य च ।। ३७ ।।

तं च कृत्वा परीहारं रुरोदोच्चैरतीव सः ।
रुरोद रुक्मिणी देवी श्रीकृष्णश्चापि मायया ।। ३८ ।।

रथमारोपयामास वसुदेवः सुतं वधूम् ।
एतस्मिन्नन्तरे राजा जामात्रे यौतुकं ददौ ।। ३९ ।।

गचेन्द्राणां सहस्रं च षङ्गुणं च तुरंगमम् ।
दासीनां च सहस्रं च किंकराणां शतं शतम् ।। ४० ।।

रत्नानां च सहस्रं चैवामुल्यरत्नभूषणम् ।
स्वर्णानां परिशुद्धानां पञ्चलक्षं च सादरम ।। ४१ ।।

तोयभोजनपात्राणि कुतानि विश्वकर्मणा ।
सौवर्णानि च रम्याणि सुरभीः प्रददौ मुदा ।। ४२ ।।

दुग्धवतीनां धेनुनां सवत्सानां सहस्रकम् ।
अमूल्यानि च रम्याणि वह्निशुद्धांशुकानि च ।। ४३ ।।

वसुदेवश्चोग्रसेनो देवैश्च मुनीभिः सह ।
प्रहृष्टवदनः शीघ्रं द्वारकाभिसुखं ययौ ।। ४४ ।।

प्रविश्य स्वपुरीं रम्या कारयामास मङ्गलम् ।
वाद्यं च वादयामास सुन्दरं सुमनोहरम् ।। ४५ ।।

देवकी रोहिणी रम्या यशोदा नन्दगेहिनी ।
अदितिश्च दितिश्चैव तथा च वरकामिनी ।। ४६ ।।

श्रीकृष्णं रुक्मिणीं रम्यां विलोक्य च पुनः पुनः ।
गृहं प्रवेशयामास कारयामास मङ्गलम् ।। ४७ ।।

चतुर्विधं भोजयित्वा देवांश्च मुनिपुंगवान् ।
नृपांश्च बान्धवांश्चैव परीहारं चकार च ।। ४८ ।।

भट्टेभ्यो ब्राह्मणेभ्योऽपि ददौ रत्नादिकं मुदा ।
तांश्चपि भोजयामास परितुष्टांश्च सस्मितान् ।। ४९ ।।

एवं भुक्त्वा धनं लब्ध्वा ययुः सर्वे गृहं मुदा ।
मङ्गलं कारयामास वसुदेवस्य वल्लभा ।। ५० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo रुक्मिण्यु-
द्वाहो नाम नवाधिकशततमोऽध्यायः ।। १०९ ।।