प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १३३
[[लेखकः :|]]

अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः
शौनक उवाच
अध्य मे सफलं जन्म चीवितं च सुजीवितम् ।
यत्फलं ब्रह्मवैवर्ते निर्विघ्नं मोक्षकारणम् ।। १ ।।

अभयं देहि हे वत्स हे तात मह्यमेव च ।
तदा निवेदनं किंचिदस्तीति च करोम्यहम् ।। २ ।।

सूत उवाच
त्यज भीतिं महाभाग प्रश्नं कुरु यदिच्छसि ।
सर्वं ते कथयिष्यामि यद्यद्गोप्यं मनोहरम् ।। ३ ।।

शौनक उवाच
अधुना श्रोतुमिच्छामि पुराणानां च लक्षणम् ।
संख्यानमपि तेषां च फलमस्यैव पुत्रक ।। ४ ।।

सूत उवाच
विस्तराणि पुराणानि चेतिहासश्च शौनक ।
संहितां पञ्चरात्राणि कथयामि यथागतम् ।। ५ ।।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं विप्र पुराणं पञ्चलक्षणम् ।। ६ ।।

एतदुपपुराणानां लक्षणं च विदुर्बुधाः ।
महतां च पुराणानां लक्षणं कथयामि ते ।। ७ ।।

सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषां च पालनम् ।
कर्मणां वासना वार्तामनूनां चाक्रमेण च ।। ८ ।।

वर्णनं प्रलयानां च मौक्षस्य च निरूपणम् ।
उत्कीर्तनं हरेरेव वेदानां च पृथक्पृथक् ।। ९ ।।

दशाधिकं लक्षणं च महतां परिकीर्तितम् ।
संख्यानं च पुराणानां निबोध कथयामि ते ।। १० ।।

परं ब्रह्मपुराणं च सहस्राणां दशैव तु ।
पञ्चोनषष्टिसाहस्रं पाद्ममेव प्रकीर्तितम् ।। ११ ।।

त्रयोविंशतिसाहस्रं वैष्णवं च विदुर्बुधाः ।
चतुर्विंशतिसाहस्रं शैवं चैव निरूपितम् ।। १२ ।।

ग्रन्थोऽष्टादशसाहस्रं श्रीमद्भागवतं विदुः ।
पञ्चविंशतिसाहस्रं नारदीयं प्रकीर्तितम् ।। १३ ।।

मार्कण्डं नवसाहस्रं पुराणं पण्डिता विदुः ।
चतुःशताधिकं पञ्चदशसाहस्रमेव च ।। १४ ।।

परमग्निपुराणं च रुचिरं परिसीर्तितम् ।
चतुर्दशसहस्राणि परं पञ्चशताधिकम् ।। १५ ।।

पुराणप्रवरं चैव भविष्यं परिकीर्तितम् ।
अष्टादशसहस्रं च ब्रह्मवैवर्तमीप्सितम् ।। १६ ।।

सर्वेषां च पुराणानां सारमेव विदुर्बुधाः ।
एकादशसहस्रं तु परं लिङ्गपुराणकम् ।। १७ ।।

चतुर्विंशतिसाहस्रं वाराहं परिकीर्तितम् ।
एकाशीतिसहस्रं च परमेव शताधिकम् ।। १८ ।।

वरं स्कन्दपुराणं च सद्भिरेवं निरूपितम् ।
वामनं दशसाहस्रं कौर्म सप्तदशैव तु ।। १९ ।।

मात्स्यं चतुर्दश प्रोक्तं पुराणं पण्डितैस्तथा ।
ऊनविशतिसाहस्रं गारुडं परिकीर्तितम् ।। २० ।।

परं द्वादशसाहस्रं ब्रह्माढं परिकीर्तितम् ।
एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम् ।। २१ ।।

अष्टादशपुराणानामेवमेव विदुर्बुधाः ।
एवं चोपपुराणानामष्टादश प्रकीर्तिता ।। २२ ।।

इतिहासो भारतं च वान्मीकं काव्यमेव च ।
पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्वकम् ।। २३ ।।

वसिष्ठं नारदीयं च कापिलं गौतमीयकम् ।
परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम् ।। २४ ।।

पञ्चकं सहितानां च कृष्णभक्तिसमन्वितम् ।
ब्रह्मणाश्च शिवस्यापि प्रह्लादस्य तथैव च ।। २५ ।।

गौतमस्य कुमारस्य संहिताः परिकीर्तिताः ।
इति ते कथितं सर्व क्रमेण च पृथक्पृथक् ।। २६ ।।

अस्त्येवं विपुलं शास्त्रं ममापि च यथागमम् ।
उवाचेदं पुराणं च गोलोके रासमण्डले ।। २७ ।।

श्रीकृष्णो भगवान्साक्षाद्ब्रह्माणं च स्वभक्तकम् ।
ब्रह्मा धर्म च धर्मिष्ठं धर्मो नारायणं मुनिम् ।। २८ ।।

नारायणो नारदं च नारदो मां च भक्तकम् ।
अहं त्वां च मुनिश्रेष्ठ वरिष्ठं कथयामि तत् ।। २९ ।।

सुदर्लभं पुराणं च ब्रह्मवैवर्तमीप्सितम् ।
यद्वृणोत्येव विश्वौघं जीविनां परमात्मकम् ।। ३० ।।

तद्ब्रह्म साक्षिरूपं च कर्मणामेव कर्मिणाम् ।
तद्ब्रह्म विवृतं यत्र तद्विभूतिमनुत्तमाम् ।। ३१ ।।

तेनेदं ब्रह्मवैवर्तमित्येवं च बिदुर्बुधाः ।
पुण्यप्रदं पुराणं च मङ्गलं मङ्गलप्रदम् ।। ३२ ।।

सुगोप्यं च रहस्यं च यत्र रम्यं नवं नवम् ।
हरिभक्तिप्रदं चैव दुर्लभं हरिदास्यदम् ।। ३३ ।।

सुखदं ब्रह्मदं सारं शोकसंतापनाशनम् ।
सरितां च यथा गङ्गा सद्यो मुक्तिप्रदा शुभा ।। ३४ ।।

तिर्थातां पुष्करं शुद्धं यथा काशी पुरीषु च ।
सर्वेषु भारतं वर्षं सद्यो मुक्तिप्रदं शुभम् ।। ३५ ।।

यथा सुमेरुः शैलेषु पारिजातं च पुष्पतः ।
पत्रेषु तुलसीपत्रं व्रतेष्वेकादशीव्रतम् ।। ३६ ।।

वृक्षेषु कल्पवृक्षश्च श्रीकृष्णश्च सुरेषु च ।
ज्ञानीन्द्रेषु महादेवो योगीन्द्रेषु गणेश्वरः ।। ३७ ।।

सिद्धेन्द्रेष्वेव कपिलः सूर्यस्तेजस्विनां यथा ।
सनत्कुमारो भगवान्वैष्णवेषु यथाऽग्रणीः ।। ३८ ।।

भूपेषु च यथा रामो लक्ष्मणश्च धनुष्मताम् ।
देवीषु च यथा दुर्गा महापुण्यवती सती ।। ३९ ।।

प्राणाधिका यथा राधा कृष्णस्य प्रेयसीषु च ।
ईश्वरीषु यथा लक्ष्मीः पण्डितेषु सरस्वती ।। ४० ।।

तथा सर्वपुराणेषु ब्रह्मवैवर्तमेव च ।
नातो दिशिष्टं सुखदं मधुरं च सुपुण्यदम् ।। ४१ ।।

संदेहभञ्जनं चैव पुराणं परिकीर्तितम् ।
इह लोके च सुखदं सुप्रदं सर्वसंपदाम् ।। ४२ ।।

शुभदं पुण्यदं चैव विघ्ननिघ्नकरं परम् ।
हरिदास्यप्रदं चैव परलोके प्रहर्षदम् ।। ४३ ।।

यज्ञानामपि तीर्थानां व्रतानां तपसां तथा ।
भुवः प्रदक्षिणस्यापि फलं नास्य समानकम् ।। ४४ ।।

चतुर्णामपि वेदानां पाठादपि वरं फलम् ।
श्रृणोतीदं पुराणं च संयतश्चेह पुत्रक ।। ४५ ।।

गुणवन्तं च विद्वांसं वैष्णवं पुत्रमालभेत् ।
श्रृणोति दुर्भगा चेत्तु सौभाग्यं स्वामिनो लभेत् ।। ४६ ।।

मृतवत्सा काकवन्ध्या महावन्ध्या च पापिनी ।
पुराणश्रवणाल्लेभे पुत्रं च चिरचीविनम् ।। ४७ ।।

अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।। ४८ ।।

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ।। ४९ ।।

अरण्ये ब्रान्तरे भीतो दावाग्नो मुच्यते ध्रुवम् ।
अघं कुष्ठं च दारिद्र्यं रोगं शोकं च दारुणम् ।। ५० ।।

पुण्यवान्श्रवणादेव नैव जानात्यपुण्यवान् ।
श्लोकार्ध श्लोकपादं वा यः शृणोति सुसंयतः ।। ५१ ।।

गोलक्षदानपुण्यं च लभते नात्र संशयः ।
युतुःखडं पुराणं च शुद्धकाले जितेन्द्रियः ।। ५२ ।।

संकल्पतो यः शृणोति भक्त्या दत्त्वा च दक्षिणाम् ।
यद्बाल्ये यच्चकौमारे वार्धके यच्च यौवने ।। ५३ ।।

कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।
रत्ननिर्माणयानेन धृत्वा श्रीकृष्णरूपकम् ।। ५४ ।।

नित्यं गत्वा च गोलोकं कृष्णदास्यं लभेद्भूवम् ।
असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम् ।। ५५ ।।

समीपे पार्षदो भूत्वा सेवां च कुरुते चिरम् ।
श्रुत्वा च ब्रह्मखण्डं च सुस्नातः संयतः शुचिः ।। ५६ ।।

पायसं पिष्टकं चैव फलं ताम्बूलमेव च ।
भोजयित्वा वाचकं च तस्मै दद्यात्सुवर्णकम् ।। ५७ ।।

चन्दनं शुक्लमाल्यं च सूक्ष्मवस्त्रं मनोहरम् ।
निवेद्य वासुदेवं च वाचकाय प्रदीयते ।। ५८ ।।

श्रुत्वा च प्रकृतेः खण्डं सुश्राव्यं च सुधोपमम् ।
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च ।।
काञ्चनम् ।। ५९ ।।

सवत्सां सुरभिं रम्यां दद्याद्वै भक्तिपूर्वकम् ।
श्रुत्वा गणपतेः खण्डं विघ्ननाशाय संयतः ।। ६० ।।

स्वर्णयज्ञोपवीतं च श्वेताश्वच्छत्रमाल्यकम् ।
प्रदीयते वायकाय स्वस्तिकं तिललड्डुकम् ।। ६१ ।।

परिपक्वफलान्येव कालदेशोद्भवानि च ।
श्रीकृष्णजन्मखण्डं च श्रुत्वा भक्तश्च भक्तितः ।। ६२ ।।

वाचकाय प्रदद्याच्च परं रत्नाङ्गुलीयकम् ।
सूक्ष्मवस्त्रं च माल्यं च स्वर्णकुण्डलमुत्तमम् ।। ६३ ।।

माल्यं च वरदोलां च सुपक्वं क्षीरमेव च ।
सर्वस्वं दक्षिणां दद्यात्स्तवनं कुरुते ध्रुवम् ।। ६४ ।।

शतकं ब्राह्मणानां च भोजयेत्परमादरात् ।
ब्रह्मणं वैष्णवं शास्त्रनिष्णातं पण्डितं वरम् ।। ६५ ।।

कुरुते वाचकं शुद्धमन्यथा निष्फलं भवेत् ।
श्रीकृष्ण विमुखाद्दुष्टान्नोपदिष्टाच्च ब्राह्मणात् ।। ६६ ।।

श्रीकृष्णभक्तियुक्तं च पुराणं यः शृणोति च ।
भक्तिं पुण्यं न लभते हन्ति पुण्यं पुराकृतम् ।। ६७ ।।

श्रीकृष्णभक्तियुक्ताच्च पुराणं यः शृणोति च ।
भक्तिं पुण्यं च लभते यात्यन्ते श्रोहरेः पदम् ।। ६८ ।।

एतत्ते कथितं सर्व यच्छ्रु तं गुरुवक्त्रतः ।
बिदायं देहि विप्रेन्द्र यामि नारायणाश्रमम् ।। ६९ ।।

दृष्ट्वा विप्रसमूहं च नमस्कर्तुं समागतः ।
कथितं ब्रह्मवैवर्तं भवतामाज्ञया परम् ।। ७० ।।

नमोऽस्तु ब्राह्मणेभ्यश्च कृष्णाय परमात्मने ।
शिवाय ब्रह्मणे नित्यं गणेशाय नमो नमः ।। ७१ ।।

कायेन मनसा वाचा परं भक्त्या दिवानिशम् ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ।। ७२ ।।

नमो देव्यै सरस्वत्यै पुराणगुरवे नमः ।
सर्वविघ्नविनाशिन्यै दुर्गादेव्यै नमो नमः ।। ७३ ।।

युष्माकं पादद्मानि दृष्ट्वा पुण्यानि शौनक ।
अद्य सिद्धाश्रमं यामि यत्र देवो गणेश्वरः ।। ७४ ।।

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारदनारयणसंवादे
सूतशौनकसंवादे त्रयस्त्रिंदशधिकशततमोऽध्यायः ।। १३३ ।।

समाप्तोऽयं श्रीमद्ब्रह्मवैवर्तपुराणस्थश्रीकृष्णजन्मखण्डस्योत्तरार्धः ।
समाप्तमिदं श्रीमद्ब्रह्मवैपर्तपुराणस्य चतुर्थं श्रीकृष्णजन्मखण्डं
श्रीमद्व्यासमुनिप्रणीतं ब्रह्मवैवर्तपुराणं च