ब्रह्मसूत्रम्/चतुर्थः अध्यायः/चतुर्थः पादः

← तृतीयः पादः ब्रह्मसूत्रम्
चतुर्थाध्याये चतुर्थः पादः
वेदव्यासः

सम्पद्याविर्भावाधिकरणम्

सम्पाद्यताम्

संपद्याविर्भावः स्वेन शब्दात् । ( ब्रसू-४,४.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

केवलेनैव आत्मना आविर्भवति न धर्मान्तरेणेति कुतः स्वेन रूपेणाभिनिष्पद्यते इति स्वशब्दात् अन्यथा हि स्वशब्देन विशेषणमनवक्लृप्तं स्यात्। ननु आत्मीयाभिप्रायः स्वशब्दो भविष्यति न तस्यावचनीयत्वात् येनैव हि केनचिद्रूपेणाभिनिष्पद्यते तस्यैव आत्मीयत्वोपपत्तेः स्वेनेति विशेषणमनर्थकं स्यात् आत्मवचनतायां तु अर्थवत् केवलेनैव आत्मरूपेणाभिनिष्पद्यते न आगन्तुकेनापररूपेणापीति।।

कः पुनर्विशेषः पूर्वावस्थासु इह च स्वरूपानपायसाम्ये सतीत्यत आह

मुक्तः प्रतिज्ञानात् । ( ब्रसू-४,४.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

योऽत्र अभिनिष्पद्यत इत्युक्तः स सर्वबन्धविनिर्मुक्तः शुद्धेनैव आत्मना अवतिष्ठते पूर्वत्र तुअन्धो भवत्यपि रोदितीव विनाशमेवापीतो भवतिइति च अवस्थात्रयकलुषितेन आत्मना इत्ययं विशेषः। कथं पुनरवगम्यतेमुक्तोऽयमिदानीं भवतीति प्रतिज्ञानादित्याह। तथा हि एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति अवस्थात्रयदोषविहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति च उपन्यस्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः इति च उपसंहरति तथा आख्यायिकोपक्रमेऽपि य आत्मापहतपाप्मा इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम्। फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा न अपूर्वोपजनापेक्षा। यदपि अभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वम् तदपि न अपूर्वावस्थापेक्षम् यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति तद्वत्। तस्माददोषः।।

आत्मा प्रकरणात् । ( ब्रसू-४,४.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

कथं पुनर्मुक्त इत्युच्यते यावता परं ज्योतिरुपसंपद्य इति कार्यगोचरमेव एनं श्रावयति ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् न च अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति विकारस्य आर्तत्वप्रसिद्धेरिति नैष दोषः यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते प्रकरणात् य आत्मापहतपाप्मा विजरो विमृत्युः इति प्रकृते परस्मिन्नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् ज्योतिःशब्दस्तु आत्मन्यपि दृश्यते तद्देवा ज्योतिषां ज्योतिः इति। प्रपञ्चितं च एतत् ज्योतिर्दर्शनात् इत्यत्र।।

अविभागेन दृष्टत्वाधिकरणम्

सम्पाद्यताम्

अविभागेन दृष्टत्वात् । ( ब्रसू-४,४.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते यः स किं परस्मादात्मनः पृथगेव भवति उत अविभागेनैवावतिष्ठत इति वीक्षायाम् स तत्र पर्येति इत्यधिकरणाधिकर्तव्यनिर्देशात् ज्योतिरुपसंपद्य इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते कुतः दृष्टत्वात् तथा हि तत्त्वमसि अहं ब्रह्मास्मि यत्र नान्यत्पश्यति न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति यथादर्शनमेव च फलं युक्तम् तत्क्रतुन्यायात् यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च। भेदनिर्देशस्तु अभेदेऽप्युपचर्यते स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि इति आत्मरतिरात्मक्रीडः इति च एवमादिदर्शनात्।।

ब्राह्माधिकरणम्

सम्पाद्यताम्

ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः । ( ब्रसू-४,४.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्थितमेतत् स्वेन रूपेण इत्यत्र आत्ममात्ररूपेणाभिनिष्पद्यते न आगन्तुकेनापररूपेणेति। अधुना तु तद्विशेषबुभुत्सायामभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादिसत्यसंकल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेणाभिनिष्पद्यत इति जैमिनिराचार्यो मन्यते कुतः उपन्यासादिभ्यस्तथात्वावगमात् तथा हि य आत्मापहतपाप्मा इत्यादिना सत्यकामः सत्यसंकल्पः इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयति तथा स तत्र पर्येति जक्षत्क्रीडन्रममाणः इति ऐश्वर्यरूपमावेदयति तस्य सर्वेषु लोकेषु कामचारो भवति इति च सर्वज्ञः सर्वेश्वरः इत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति।।

चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः । ( ब्रसू-४,४.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते तथापि शब्दविकल्पजा एव एते पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता तथा च श्रुतिः एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इत्येवंजातीयका अनुगृहीता भविष्यति सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते सत्याः कामा अस्येति तथापि उपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्वसंभवः अनेकाकारत्वप्रतिषेधात् प्रतिषिद्धं हि ब्रह्मणोऽनेकाकारत्वम् न स्थानतोऽपि परस्योभयलिङ्गम् इत्यत्र। अत एव च जक्षणादिसंकीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत्। न हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनिमित्तानि शक्यन्ते वर्णयितुम् द्वितीयविषयत्वात्तेषाम्। तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते।।

एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः । ( ब्रसू-४,४.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ्ैऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते।।

सङ्कल्पाधिकरणम्

सम्पाद्यताम्

संकल्पाद् एव तच्छ्रुतेः । ( ब्रसू-४,४.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

हार्दविद्यायां श्रूयते स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादि। तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तरसहित इति। तत्र सत्यपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तरापेक्षता युक्ता यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसंपत्तिर्भवति एवं मुक्तस्यापि स्यात् एवं दृष्टविपरीतं न कल्पितं भविष्यति संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य योक्ष्यते न च संकल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति। एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानमिति कुतः तच्छ्रुतेः संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत निमित्तान्तरमपि तु यदि संकल्पानुविधाय्येव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरमिष्यते प्राक्संपत्तेः वन्ध्यसंकल्पत्वप्रसङ्गात् न च श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते संकल्पबलादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः प्राकृतसंकल्पविलक्षणत्वान्मुक्तसंकल्पस्य।।

अत एव चानन्याधिपतिः । ( ब्रसू-४,४.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत एव च अवन्ध्यसंकल्पत्वात् अनन्याधिपतिर्विद्वान्भवति नास्यान्योऽधिपतिर्भवतीत्यर्थः। न हि प्राकृतोऽपि संकल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ संकल्पयति। श्रुतिश्चैतद्दर्शयति अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति इति।।

अभावाधिकरणम्

सम्पाद्यताम्

अभावं बादरिर् आह ह्य् एवम् । ( ब्रसू-४,४.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यतः श्रुतेः मनस्तावत्संकल्पसाधनं सिद्धम्। शरीरेन्द्रियाणि पुनः प्राप्तैश्वर्यस्य विदुषः सन्ति न वा सन्ति इति समीक्ष्यते। तत्र बादरिस्तावदाचार्यः शरीरस्येन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते कस्मात् एवं हि आह आम्नायः मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके इति यदि मनसा शरीरेन्द्रियैश्च विहरेत मनसेति विशेषणं न स्यात् तस्मादभावः शरीरेन्द्रियाणां मोक्षे।।

भावं जैमिनिर् विकल्पामननात् । ( ब्रसू-४,४.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

जैमिनिस्त्वाचार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते यतः स एकधा भवति त्रिधा भवति इत्यादिना अनेकधाभावविकल्पमामनन्ति। न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात्। यद्यपि निर्गुणायां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्यास्तुतये संकीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इति।।

उच्यते

द्वादशाहवद् उभयविधं बादरायणोऽतः । ( ब्रसू-४,४.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

बादरायणः पुनराचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा तु अशरीरतां तदा अशरीर इति सत्यसंकल्पत्वात् संकल्पवैचित्र्याच्च। द्वादशाहवत् यथा द्वादशाहः सत्रम् अहीनश्च भवति उभयलिङ्गश्रुतिदर्शनात्एवमिदमपीति।।

तन्वभावे सन्ध्यवद् उपपत्तेः । ( ब्रसू-४,४.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा यथा संध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति एवं मोक्षेऽपि स्युः एवं हि एतदुपपद्यते।।

भावे जाग्रद्वत् । ( ब्रसू-४,४.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

भावे पुनः तनोः यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति एवं मुक्तस्याप्युपपद्यते।।

प्रदीपाधिकरणम्

सम्पाद्यताम्

प्रदीपवदावेशस् तथा हि दर्शयति । ( ब्रसू-४,४.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

भावं जैमिनिर्विकल्पामननात् इत्यत्र सशरीरत्वं मुक्तस्योक्तम् तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते किं वा सात्मकान्यस्मदादिशरीरवत् इति भवति वीक्षा। तत्र च आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इत्येवं प्राप्ते प्रतिपद्यते प्रदीपवदावेश इति यथा प्रदीप एकः अनेकप्रदीपभावमापद्यते विकारशक्तियोगात् एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति कुतः तथा हि दर्शयति शास्त्रमेकस्यानेकभावम् स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा इत्यादि नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते नापि जीवान्तरावेशे न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति। यत्तु आत्ममनसोर्भेदानुपपत्तेः अनेकशरीरयोगासंभव इति नैष दोषः एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति सृष्टेषु च तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया।।

कथं पुनः मुक्तस्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते यावता तत्केन कं विजानीयात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् सलिल एको द्रष्टाद्वैतो भवति इति च एवंजातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति

स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि । ( ब्रसू-४,४.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

भावं जैमिनिर्विकल्पामननात् इत्यत्र सशरीरत्वं मुक्तस्योक्तम् तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते किं वा सात्मकान्यस्मदादिशरीरवत् इति भवति वीक्षा। तत्र च आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इत्येवं प्राप्ते प्रतिपद्यते प्रदीपवदावेश इति यथा प्रदीप एकः अनेकप्रदीपभावमापद्यते विकारशक्तियोगात् एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति कुतः तथा हि दर्शयति शास्त्रमेकस्यानेकभावम् स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा इत्यादि नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते नापि जीवान्तरावेशे न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति। यत्तु आत्ममनसोर्भेदानुपपत्तेः अनेकशरीरयोगासंभव इति नैष दोषः एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति सृष्टेषु च तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया।।

कथं पुनः मुक्तस्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते यावता तत्केन कं विजानीयात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् सलिल एको द्रष्टाद्वैतो भवति इति च एवंजातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति

जगद्व्यापाराधिकरणम्

सम्पाद्यताम्

जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च । ( ब्रसू-४,४.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहमैश्वर्यं भवति आहोस्वित्सावग्रहमिति संशयः। किं तावत्प्राप्तम् निरङ्कुशमेव एषामैश्वर्यं भवितुमर्हति आप्नोति स्वाराज्यम् सर्वेऽस्मै देवा बलिमावहन्ति तेषां सर्वेषु लोकेषु कामचारो भवति इत्यादिश्रुतिभ्य इति। एवं प्राप्ते पठति जगद्व्यापारवर्जमिति जगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यत् अणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य कुतः तस्य तत्र प्रकृतत्वात् असंनिहितत्वाच्चेतरेषाम् पर एव हि ईश्वरो जगद्व्यपारेऽधिकृतः तमेव प्रकृत्य उत्पत्त्याद्युपदेशात् नित्यशब्दनिबन्धनत्वाच्च तदन्वेषणविजिज्ञासनपूर्वकं तु इतरेषामणिमाद्यैश्वर्यं श्रूयते तेनासंनिहितास्ते जगद्व्यापारे। समनस्कत्वादेव च एतेषामनैकमत्ये कस्यचित्स्थित्यभिप्रायः कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात् अथ कस्यचित् संकल्पमनु अन्यस्य संकल्प इत्यविरोधः समर्थ्येत ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते।।

प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः । ( ब्रसू-४,४.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अथ यदुक्तम् आप्नोति स्वाराज्यम् इत्यादिप्रत्यक्षोपदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति तत्परिहर्तव्यम् अत्रोच्यते नायं दोषः आधिकारिकमण्डलस्थोक्तेः। आधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववस्थितः पर ईश्वरः तदायत्तैव इयं स्वाराज्यप्राप्तिरुच्यते यत्कारणम् अनन्तरम् आप्नोति मनसस्पतिम् इत्याह यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोतीत्येतदुक्तं भवति तदनुसारेणैव च अनन्तरम् वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः च भवति इत्याह। एवमन्यत्रापि यथासंभवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्यं योजयितव्यम्।।

विकारावर्ति च तथा हि स्थितिम् आह । ( ब्रसू-४,४.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपम् न केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् तथा हि अस्य द्विरूपां स्थितिमाह आम्नायः तावानस्य महिमा ततो ज्याया््च पुरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इत्येवमादिः। न च तत् निर्विकाररूपम् इतरालम्बनाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम्। अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम्।।

दर्शयतश् चैवं प्रत्यक्षानुमाने । ( ब्रसू-४,४.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिषः श्रुतिस्मृती न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः इति न तद्भासयते सूर्यो न शशाङ्को न पावकः इति च। तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसिद्धमित्यभिप्रायः।।

भोगमात्रसाम्यलिङ्गाच् च । ( ब्रसू-४,४.२१ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यम् यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेनेश्वरेण समानमिति श्रूयते तमाहापो वै खलु मीयन्ते लोकोऽसौ इति स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति इत्यादिभेदव्यपदेशलिङ्गेभ्यः।।

ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततश्च एषामावृत्तिः प्रसज्येत इत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति


अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् । ( ब्रसू-४,४.२२ । )

भाष्यम्

शाङ्करभाष्यम्॥

नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नैरं मदीयं सरः यस्मिन्नश्वत्थः सोमसवनः यस्मिन्नपराजिता पूर्ब्रह्मणः यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते कुतः तयोर्ध्वमायन्नमृतत्वमेति तेषां न पुनरावृत्तिः एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते ब्रह्मलोकमभिसंपद्यन्ते न च पुनरावर्तते इत्यादिशब्देभ्यः। अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् कार्यात्यये तदध्यक्षेण सहातः परम् इत्यत्र सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिः तदाश्रयणेनैव हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति। अनावृत्तिः शब्दादनावृत्तिः शब्दात् इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यास्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः।। ।।इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं संपूर्णम्।।